________________ नैषधीयचरिते पुनः न पृच्छयते अनुयुज्यते सकलजगद्-द्रष्ट देवतानां मनः स्वयं जानात्येवाहं नलातिरिक्तं कमपि पुरुषं स्वप्नेऽपि नापश्यमिति भावः // 32 // व्याकरण-आशयः आशेते इति आ + /शी + अच् ( कर्तरि ) / स्वप्नः स्वप् + नक् / साक्षिणी साक्षात् द्रष्ट्रीति साक्षिन् + डीप ( 'साक्षाद् द्रष्टरि संज्ञायाम्' 5 / 2 / 91 ) सह + अक्ष + इ + डीप / - अनुवाद--अथवा मेरे मनोभाव (विचार ) ने स्वप्नावस्था की आज्ञा तक से भी नल को छोड़ यदि अन्य (पुरुष ) का स्पर्श नहीं किया है तो इस सम्बन्ध में देवता लोग सर्व ( जगत् ) साक्षी अपनी बुद्धि को ही फिर क्यों नहीं पूछ लेते ?" // 32 // टिप्पणी-देवता लोग सर्वज्ञ होते हैं। वे स्वयं जान ही रहे हैं कि दमयन्ती ने अपना मन नल को अर्पित कर रखा है फिर न जाने वे क्यों प्रणयनिवेदन कर रहे हैं विद्याधर हेत्वलंकार कह रहे हैं / 'बुद्धिविबुधै' में छेक, अन्यत्र वृत्त्यनुप्रास है // 32 // अपि स्वमस्वप्नमसूषुपन्नमी परस्य दाराननवैतुमेव माम् / स्वयं दुरध्वार्णवनाविकाः कथं स्पृशन्तु विज्ञाय हृदापि तादृशीम् // 33 // अन्वयः-अमी माम् परस्य दारान् अनवैतुम् एव अस्वप्नम् अपि स्वम् असूषपन् / स्वयम् दुरध्वार्णव-नाविकाः ( सन्तः ) तादृशीम् विज्ञाय हृदा अपि कथम् स्पृशन्तु ? टीका-अमी एते इन्द्रादयो देवाः माम् परस्य अन्यस्य नलस्येत्यर्थः दारान् स्त्रियम् अनवैतुम् अज्ञातुम् एव न स्वप्नः स्वापः यस्य तथाभूतम् ( नन् ब० वी० ) अपि स्वम् आत्मानम् असूषुपन् अनिद्रापयन् निद्रितमकुर्वन्नित्यर्थः निनिद्रम् अपि आत्मानम् सनिद्रमकुर्वन्निति यावत् / ( अन्यथा ) स्वयम् आत्मनैव दुष्ट: अध्वा दुरध्वः ( प्रादि स०) कुमार्गः परदाराभिलाषादिकं पापमित्यर्थः एव अर्णवः सागरः ( कर्मधा० ) तस्य नाविकाः कर्णधारास्सन्तः तादृशीम् नलाय समर्पितमनस्काम् परस्त्रीम् माम् विज्ञाय ज्ञात्वा हृदा मनसा अपि कथम केन प्रकारेण स्पृशन्तु स्पृशेयुः परस्त्रियम् मां वरीतुं कथं मनसापि विचारं कुर्वन्त्विति भावः परान् पापेभ्यो निवारयितारो देवाः स्वयं पापमाचरितुमिच्छन्त्विति महदनुचितमिति निष्कर्षः / / 33 //