________________ नैषधीयचरिते __ अनुवाद-"यह विचार कर मेरे द्वारा उपेक्षित (कुल-नाम के प्रश्न ) पर तुम्हारी भी आग्रह करने की इच्छा शोभा नहीं देती, क्योंकि इस समय दिक्पालों को प्रतिसंदेश कहने का प्रयत्ल (ही) समुचित है" // 11 // टिप्पणी कुल और नाम जानने के अपने व्यर्थ हठ को छोड़कर इन्द्र आदि को तुम्हारी ओर से जो प्रत्युत्तर मैंने देना है, इसे कहने का कष्ट कीजिए। विद्याधर के अनुसार 'अत्र काव्यलिङ्गमलङ्कारः'। 'प्रति' 'प्रति' 'प्रति' में यमक, अन्यत्र वृत्त्यनुप्रास है // 11 // तथापि निबंध्नति ! तेऽथवा स्पृहामिहानुरुन्धे मितया न कि गिरा। हिमांशुवंशस्य करीरमेव मां निशम्य किं नासि फलेग्रहिग्रहा // 12 // ____ अन्वयः-तथापि हे निबंध्नति ! ( अहम् ) अथवा इह ते स्पृहाम् मितया गिरा किं न अनुरुन्धे ? ( त्वम् ) हिमांशु-वंशस्य करीरम् एव मां निशम्य फलेअहि-गृहा किम् न असि ? टीका-- तथापि कुलस्य न कथनस्य कारणे प्रतिपादिते अपि हे निबंधनति ! निर्बन्धम् आग्रहमिति यावत् कुर्वाणे! दमयन्ति ! इह कुल-प्रश्ने ते तव स्पृहाम् इच्छाम् मितया परिमितया गिरा वाचा न अनुरुन्धे न अनुवर्ते किम् अपितु अनुरुन्धे एवेति काकुः, कुलजिज्ञासा-विषये तवाग्रहम् पूरयाम्येवेति भावः ( त्वम् ) हिमाः शीताः अंशवः किरणाः (कर्मधा०) यस्य तथाभूतस्य (ब०वी०) चन्द्रस्येत्यर्थः वंशस्य कुलस्य एव वंशस्य वेणोः करीरम् अङ्करम् ('वंशाङ्करे करीरोऽस्त्री' इत्यमरः ) एव माम् निशम्य श्रुत्वा फलेग्रहिः सफलं ('स्यादबन्ध्यः फलेग्रहिः' इत्यमरः ) ग्रहः आग्रहः ( कर्मधा० ) यस्याः तथाभूता ( ब० वी० ) त्वम् किम् न असि अपितु अस्येवेति काकुः, यदि त्वं नाग्रहं त्यजसि तर्हि अहमेवाकथनाग्रह त्यक्त्वा अहं चन्द्रवंशाङ्करोऽस्मीति कथयन् तवाग्रहं सफलयानीति भावः // 12 // व्याकरण-निर्बध्नति ! निर् +/बन्ध् + शतृ + डीप् ( सम्बोधन ), स्पृहा / स्पृह + अच् + टाप् / मां निशम्य माम् शब्द को 'मत्कथनम्' में लाक्षणिक समझना चाहिए अन्यथा नल श्रवणविषय नहीं हो सकता है, क्योंकि शब्द ही श्रवण-विषय हुआ करता है द्रव्य नहीं। फलेनहि फलं गृह्णातीति फल + /ग्रह + इन्, एदन्तत्वं निपातनात् ( ‘फलेग्नहिरात्मम्भरिश्च' 3 / 2 / 26 ) / अहः /ग्रह + अच् /