________________ 384 नैषधीयचरिते इत्यर्थः वाक् वाणी वितता विस्तारिता। देवानां दूतोऽस्मि, ते चामुकामुकसंदेशान् ददती'त्यादिषु अप्रस्तुत-विषयेषु ते वाग् विस्तरः नामादिषु च मुखादक्षरमपि न निःसरति इति तव वचनस्य प्रतारणस्य महती चातुरी चातुर्यम् अहो / आश्चर्यम् // 15 // व्याकरण-आभरणम् आभ्रियते अङ्गमनेनेति आ +/भृ + ल्युट् +क ( करणे ) / संशयः सम् + Vशी + अच् / मौनम् मुनेः भाव इति मुनि + अण् / चातुरी चतुरस्य भाव इति चतुर + ष्यन् + ङीष् , य लोप / अनुवाद-"आप चन्द्रवंश के आभूषण हैं-यह सुनने पर भी विशेष बात का संशय नहीं मिट रहा है। किन्हीं ( बातों) पर तुमने चुप्पी साध रखी है और किन्हीं पर वाग्विस्तार कर रखा है। तुम्हारी ( इस ) ठगी की बड़ी भारी चतुराई पर आश्चर्य है" // 15 // टिप्पणो-विद्याधर यहाँ हेत्वलंकार मान रहे हैं, जो हम नहीं समझते हमारे विचार से यदि वंश (कुल) पर वंशत्व ( वेणुत्व ) का आरोप कर दें तो श्लिष्ट रूपक बन सकता है / बाँस में आभरण-रूप मोती हुआ करता ही है-यह हम पीछे बता आये हैं / 'शेष' 'संश' में (षसयोरभेदात् ) तथा 'कियत्सु' "कियत्सु' में छेक, अन्यत्र वृत्त्यनुप्रास है // 15 // मयापि देयं प्रतिवाचिकं न ते स्वनाम मत्कणंसुधामकुर्वते / परेण पुंसा हि ममापि संकथा कुलाबलाचारसहासनासहा // 16 // अन्वयः-स्व-नाम मत्कर्ण-सुधाम् अकुर्वते ते मया अपि प्रतिवाचिकम् न देयम्, हि परेण पुंसा मम अपि संकथा कुला "सहा ( अस्ति ) / ___टीका-स्वस्य आत्मनः नाम अभिधेयम् (10 तत्पु० ) मम कर्णयोः श्रोत्रयोः सुघाम् अमृतम् ( उभयत्र 10 तत्पु०) अकुर्वते नानुतिष्टते ते तुभ्यम् मया अपि प्रतिवाचिकम् प्रतिसंदेशः न देयम् दातव्यम् यावत् त्वम् स्वनाम न श्रावयसि, तावन्नाहं प्रतिसंदेशं ददामीत्यर्थः, हि यतः परेण अन्येन पुंसा पुरुषेण नामतः शीलतश्चापरिचितेन जनेनेति यावत् मम अपि संकथा सम्भाषणम् कुलस्य अबलानाम् कुलस्त्रीणाम् आचारेण रीत्या ( उभयत्र 10 तत्पु० ) सह आसनम् एकत्रावस्थितिः (तृ• तत्पु० ) तस्य असहा न सहा अक्षमा विरुद्ध त्यर्थः। अयं भावः मम त्वया संभाषणम् कुलमीणाम् आचारश्चेति द्वयम्