________________ भष्टमः सर्गः 281 ( त्वम् ) आश्विनेयः न ( असि ), हि सः अद्वितीयः न ( अस्ति ), अथवा अन्यः चिह्नः किम् ? तव इयम् श्रीः एव ताभ्याम् अधिकः विशेषः ( अस्ति ) / ____टीफा-त्वम् मन्मथः कामदेवः न असि, हि यतः सः अस्ति मर्तिः शरीरं यस्य तथाभूतः (ब० वी० ) न अस्तिमूर्तिः इत्य० ( नञ् तत्पु० ) अशरीरी अस्ति, त्वम् आश्विनेयः अश्विन्या। अप्सरोविशेषस्य अपत्यं पुमान्, अश्विनीकुमार इति यावत् न असि, हि यतः स न द्वितीयो यस्य तथाभूतः ( नञ् ब० बी० ) एकाकी च, सदैव सद्वितीय इति यावत् अस्ति, अथवा अन्यैः इतरै: चिह्न : अभि. ज्ञानैः, किम् न किमपीति काकु!, तव इयम् एषा श्रीः सौन्दर्यच्छटा एव ताभ्याम् मन्मथाश्विनेयाभ्यां सकाशात् तदपेक्षयेत्यर्थः अधिक: विशेष: भेदकोऽसाधारणधर्म: अस्ति / त्वं मन्मथात् अश्विनीकुमाराभ्यामपि च अधिकसुन्दरोऽसीति भावः / / 29 / / व्याकरण-मन्मथ: मथ्नातीति /मथ + अच ( कर्तरि ) मनसः मथ इति ( पृषोदरादित्वात् साधुः ) / भस्तिमूतिः ‘अस्तिक्षीरादिवचनम्' से ब० वी० / आश्विनेयः अश्विनी + ढक ( अपत्यार्थे ) / द्वितीयः द्वयोः पूरणः इति द्वि+ तीय / अनुवाद-"तुम कामदेव नहीं हो, क्योंकि वह अनङ्ग-शरीररहित है, तुम अश्विनीकुमार ( भी) नहीं हो, क्योंकि वह अकेला नहीं होता, अथवा अधिक चिह्नों से क्या ? तुममें यह सौन्दर्यच्छटा ही उन ( अश्विनीकुमारों ) से तुम्हारा बड़ा भारी भेदक धर्म है" / / 29 / / टिप्पणी- यहां आगन्तुक पर दमयन्ती को मन्मथ और अश्विनीकुमार का संशय हो रहा है, साथ ही बीच-बीच में निश्चय भी हो रहा है कि यह मन्मथ भी नहीं है, और अश्विनीकुमार भी नहीं है, इसलिए यह निश्चय-गर्भ सन्देहालंकार है / ‘स हि' ‘स हि' में छेक, अन्यत्र वृत्त्यनुप्रास है। आलोकतृप्तोकृतलोक ! यस्त्वामसूत पीयूषमयूखमेनम् / कः स्पधितुं धावति साधु सार्धमुदन्वता नन्वयमन्ववायः // 30 // अन्वयः-हे आलो..'लोक ! यः अन्ववायः एवम् त्वाम् पीयूषमयूखम् असूत, ( अतएव ) उदन्वता सार्धम् साधु स्पर्धितुम् धावति, ननु अयम् कः ? टीका-आलोकेन दर्शनेन अथ च उद्योतेन प्रकाशेनेति यावत् ( 'आलोको दर्शनोद्योतो' इत्यमरः ) अतृप्त: तृप्तः सम्पद्यमानः कृत इति तृप्तीकृतः तृप्ति नीतः