________________ 292 नैषधीयचरिते चाहा, अतः उसकी आँखों को गलहत्थी दे दी। फलतः आँखों के पास आज भी वह गलहत्थी खाई जैसी रेखा के रूप में दिखाई दे रही है। यह उत्प्रेक्षा है, जिसका वाचक 'किम्' शब्द है / विद्याधर 'प्रणालीच्छलात्' पाठ देकर सापह्नवोप्रेक्षा कह रहे हैं / शब्दालंकार वृत्त्यनुप्रास है। कृत्वा दृशौ-चाण्डू पण्डित, विद्याधर और जिनराज श्लोक के पूर्वार्ध का पाठ "विधाय चित्रे तव धीर नेत्र कि कृष्णसारस्य दृशोर्मुगस्य' इस प्रकार परिवर्तन कर रहे हैं जिससे श्लोक सरल बन गया। इस श्लोक की तुलना पीछे सर्ग 7 श्लोक 22 से कीजिये। मुग्धः स मोहात्सुभगान्न देहाद्ददद्भवद्भ्ररचनाय चापम् / भ्रूभङ्गजेयस्तव यन्मनोभूरनेन रूपेण यदातदाभूत् / / 39 // __ अन्वयः-यत् (यो ) मनोभूः भवद्भूरचनाय ( ब्रह्मणे ) चापम् ददत् यदा तदा अनेन रूपेण तव भ्रूभङ्गजेयः ( अभूत् ) तस्मात् स मोहात् मुग्धः न सुभगात् देहात् (मुग्धः ) / टीका-यत् यस्मात् यः मनोभूः कामः भवतः तव भ्रुवोः रचनाय निर्माणाय (उभयत्र ष० तत्पु० ) ब्रह्मणे निजं चापम् धनुः ददत् प्रयच्छन् यदा-तवा यस्मिन् कस्मिन्नपि समये सर्वदैवेति यावत् अनेन प्रत्यक्षदृश्येन तव रूपेण सौन्दर्येण कारणेन तव भ्रवोः भङ्गेन सङ्कोचेन भ्रकुटय ति यावत् (10 तत्पु० ) जेयः जेतव्यः अभूदिति शेषः तस्मात् स मनोभूः मोहात् मौात् अविविच्यकारित्वादिति यावत् मुग्धः न तु सुभ गात् सुन्दरात् देहात् कारणात् / 'मुगः सुन्दर-मूढयोः' इति विश्वप्रामाण्यात मुग्धः शब्दः सुन्दरस्य मूढस्य च वाचकोऽस्ति कामः सुभग-देहकारणात् मुग्धः = सुन्दरः इति नास्त्यर्थः, अपि तु मोहात् = मौढ्यात् कारणात् मुग्धः = मूढः उच्यते यतः स स्वचापं नलभूनिर्माणाय ब्रह्मणे दत्तवान् स्वयं च पश्चात् तद्भूभङ्गेणैव नलस्य जेतव्योऽभवदिति भावः // 39 // व्याकरण- मनोभूः मनसः भवतीति मनस् + /भू + क्विप् ( कर्तरि ) / ददत्/दा + शतृ प्र० / जेयः जि + यत् / मोहात्। मुह + घञ् ( भावे ) / मुग्धः मुह + क्त ( कर्तरि ) / अनुवाद-"क्योंकि कामदेव आपके भौंहों की रचना हेतु ( ब्रह्मा को) अपना धनुष देता हुआ जब कभी तुम्हारे इस ( प्रत्यक्ष ) सौन्दर्य के कारण तुम्हारे भ्रूभङ्ग मात्र से ( तुम्हारे द्वारा ) जीत लिये जाने योग्य बना हुआ बैठा