________________ 258 नंषधीयचरिते कस्त्वं कुतो वेति न जातु शेकुस्तं प्रष्टुमप्यप्रतिभातिभारात् / उत्तस्थुरभ्युत्थितिवाञ्छयेव निजासनान्नैकरसाः कृशाङ्गयः // 7 // अन्वयः-कृशाङ्गयः अप्रतिभातिभारात् तम् ‘कः त्वम् ?' कुतः वा (आयातः)?' इति तम् प्रष्टुम् अपि जातु न शेकुः, नैकरसाः ( सत्यः ) अभ्युस्थिति-वाञ्छया इव निजासनात् उत्तस्थुः। टोका-कृशं तनु अङ्गम् गात्रम् ( कर्मधा० ) यासां तथाभूताः (ब० वी० ) बालाः न प्रतिभा प्रतिपत्तिः इत्यप्रतिभा ( न तत्पु०) तस्या अतिभारात (10 तत्पु० ) अतिशयितः भारः वैपुल्यम् तस्मान् (प्रादि स० ) भृशकर्तव्याकर्तव्य-विमूढत्वादित्यर्थः तम् नाकः किन्नामधेयः त्वम् असि ?' कुतः कस्मात् स्थानात् वा आगतोऽसि ?' इति एवम् प्रष्टुम् अनुयोक्तम् अपि जातु कदाचित् न शेकुः न प्रबभूवः, न एकः रस: भावः यासां तभाभूता। ( ब० वा० ) लज्जाभयादिनानामनोभावाक्रान्ताः सत्यः अभ्युत्थितिः अभ्युत्थानम् आसनात् उत्थाय स्वागतकरणमिति यावत् तस्याः वाञ्छया इच्छया इव निजात् आसनात् स्थानात् ( कर्मधा० ) उत्तस्थुः उदतिष्ठन् / विविधभावाकुलाः ताः नलस्वागतं चिकीषितुमिव निजासनेभ्यः समुत्तस्थुरिति भावः // 7 // __व्याकरण-प्रतिभा प्रति + भा + अ + टाप् / कुतः किम् + तसिल, किम् को कु आदेश / शेकुः शक् + लिट् ब० व० / अभ्यस्थितिः अभि + उत् स्था + निन् ( भावे), स को त / वाञ्छा वाञ्छ + अङ् + टाप् / __ अनुवाद-कृशाङ्गी बालायें अत्यधिक किंकर्तव्यविमूढ़ होने के कारण उन ( नल ) को यह तक भी न पूछ सकी कि 'तुम कौन हो अथवा कहाँ से आये हो ?' अनेक मनोभावों से युक्त हो ( स्वागत करने हेतु ) अभ्युत्थान की इच्छा से-जैसे अपने 2 स्थानों से उठ खड़ी हो गईं // 7 // टिप्पणी-कामदेव-जैसा अतिसुन्दर युवा सहसा सामने खड़ा देख सभी नवयुवतियाँ अकबका गईं। उन्हें आगन्तुक का नाम-धाम पूछने तक की भी होश न रही। देखते ही विविध शृङ्गारिक भाव हृदय में उद्वेलित होने लगे, तो विवश हो उसके स्वागत हेतु-जैसे अपने 2 स्थानों से खड़ी हो गई। उत्प्रेक्षा है। शब्दालंकार वृत्त्यनुप्रास है। स्वाच्छन्द्यमानन्दपरम्पराणां भैमी तमालोक्य किमप्यवाप। महारयं निर्झरिणीव वारामासाद्य धाराधरकेलिकालम् // 8 //