________________ नैषधीयचरिते __टीका-स्वभावतः निसर्गतः लोला चञ्चला (10 तत्पु० ) तस्याः दमयन्त्याः दृष्टि: दृक् अस्य नलस्य एकम् अपधनम् अङ्गम् ('अङ्गं प्रतीकोऽवयवोऽ. पचनः इत्यमरः ) हित्वा त्यक्त्वा अङ्गान्तरस्य अन्याङ्गस्य भुक्ति: भोगः, अनुभव: अवलोकनमिति यावत् (10 तत्पु० ) तस्याः सीमाम् मर्यादाम् विषयत्वमिति यावत् (10 तत्पु० ) विशन्ती गच्छन्ती अन्यद् अङ्गम् पश्यन्तीत्यर्थः उभयोः पूर्वदृष्टापरदृष्टयोः अङ्गयोः यः लाभः प्राप्तिः तस्य लोभात् उत्कटाभिलाषात् गतम् गमनम् आगतम् आगमनं च चकार कृतवती। एकमङ्गं दृष्ट्वा ततोऽपरम् अङ्गं पश्यन्ती दमयन्ती द्वयोः समानरूपेण रमणीयत्वात् उभयस्मिन् पर्यायेण दृष्टि पातयति स्मेति भावः // 11 // व्याकरण-दृष्टि: दृश्यतेऽनयेति /दृश् + तिन् ( करणे ) / अपघनम् अपहन्यतेऽनेनेति अप + हन् + क्यप् ( करणे ) 'अपघनोऽङ्गम्' ( 3 / 3 / 81 ) से निपातित 'अङ्गं शरीरावयवः स चेह न सर्वः किन्तु, पाणिः पादश्चेत्याहुः' इति भट्टोजी / अङ्गान्तरम् इसके लिए पिछला श्लोक देखिये / भुक्तिः / भुज + तिन् ( भावे ) सीमाम् यास्काचार्य के अनुसार 'विषीव्यति देशो' इति वि + /सिव + मनिन् उपसगंलोप (निपातनात् साधुः ) / गतम् /गम् + क्त ( भावे ) / अनुवाद .. उस ( दमयन्ती ) की स्वभावतः चञ्चल दृष्टि इस ( नल ) के एक अंग को छोड़कर दूसरे अंग के अनुभव की सीमा में जाती हुई दोनों को प्राप्त करने के लोभ में देर तक दोनों ओर आवागमन करती रहती थी // 11 // टिप्पणी-दमयन्ती नल का एक अंग देखकर जब दूसरे अंग को देखती तो दोनों को इतना अधिक बराबर सुन्दर पाती कि बारबार कभी पहले अंग को फिर दूसरे को देखती जाती थी। किसी को भी फिर-फिर देखे बिना नहीं रह सकती थी। 'लाभ' 'लोभा' और 'गत' 'गर' में छेक, अन्यत्र वृत्त्यनुप्रास है / निरीक्षितं चाङ्गमवीक्षितं च दृशा पिबन्ती रभसेन तस्य / समानमानन्दमियं दधाना विवेद भेदं न विदर्भसुभ्रूः // 12 // अन्वयः--इयम् विदर्भसुभ्रूः तस्य निरीक्षितम् अवीक्षितम् च अङ्गम् दृशा रभसेन पिबन्ती ( सती ) समानम् आनन्दम् दधाना भेदम् न विवेद / टोका- इयम् एषा विदर्भाणाम् एतदाख्यदेशविशेषस्य सुभ्रः सुन्दरी दमयन्तीत्यर्थः (10 तत्पु० ) तस्य नलस्य निरीक्षितम् नितराम् ईक्षितम् पूर्णतया