________________ नैषधीयचरिते मूनि शिरसि विधाय कृत्वा विशेषाः विशिष्टा वाचः वाण्यः ताभिः ( कर्मधा० ) अपराध्यामि अपराधं करोमि ! विशेष-रूपेण अग्रे 'अदेवदेहमिन्द्रं वृणे। इत्याद्यात्मकानि प्रोच्यमानानि बालोचितवचनानिप्रोच्य इन्द्रस्यापराधिनी भवामीति भावः // 92 // व्याकरण- तदीयाम् तस्येयमिति तत् + छ, छ को ईय / आज्ञाम् आ + ज्ञा + अङ् ( भावे + टाप् / पारुष्यम् परुषस्य भाव इति परुष + ष्यन् / प्रह्वा प्र + Vत + वन + टाप् / वाग्भिः वक्तीति वच क्विप, दीर्घ सम्प्रसारणाभाव / अनुवाद-~-भला किसकी जिह्वा उन ( इन्द्र) की आज्ञा के प्रति 'ना' (करने ) की रूक्षता अपनाती है ? किन्तु (मैं) बालिका विनम्र हो (आज्ञारूपी) उस माला को सिरसे लगा कर विशेष बात ( कहने ) से ( उनका ) अपराध करने जा रही हूँ॥ 92 // टिप्पणी- दमयन्ती आगे अपनी व्यक्तिगत-विशेष बात कहेगी कि मैं इन्द्र का ही वरण करूंगी, किन्तु वह इन्द्र विशेष इन्द्र अर्थात् नरेन्द्र होगा, देवेन्द्र नहीं। बाला शब्द से वह यह ध्वनित कर रही है कि बाला अज्ञान हुआ करती है, अतः आज्ञा पालन न भी करूं तो उसे अपराध नहीं माना जाना चाहिए। कारण बताने से यहाँ भी काव्यलिङ्ग है। शब्दालंकार वृत्त्यनुप्रास है। तपःफलत्वेन हरेः कृपेयमिमं तपस्येव जनं नियुङ्क्ते / भवत्युपायं प्रति हि प्रवृत्तावुपेयमाधुर्यमधैर्यजि // 93 // अन्वयः- इयम् हरेः कृपा तपःफलत्वेन इमम् जनम् तपसि एव नियुक्त हि उपेयमाधुर्यम् उपायम् प्रति प्रवृती अधैर्य-सजि ( भवति ) / टीका-इयम् एषा हरेः इन्द्रस्य कृपा अनुग्रहः तपसः तपस्यायाः फलत्वेन परिणामत्वेन इमम् एतम् जनम् व्यक्तिम् मामित्यर्थः तपसि एव नियुक्त प्रवर्त इन्द्रस्य कापि कृपा संजाता, तस्मात् तस्यैवाधिकृपार्थं मया इतोऽप्यधिकं तपः कर्तव्यम्, हि यतः उपेयस्य साध्यस्य फलस्येति यावत् माधुर्यम् स्वादुत्वम् श्रेष्ठत्वमित्यर्थः (10 तत्पु० ) उपायम् साधनं प्रति प्रवृत्ती अनुवर्तन आत्मनो नियोजने इतियावत् अधैर्यम् धैर्याभावं सृजति करोतीति तथोक्तम् ( उपपद तत्पु०) भवति / केनापि साधनेन यदि मधुरं फलं लम्यते तहि मनुष्यः अधीरीभूय पुनरपि तदेव साधनम् अधिकमधुरफलप्राप्त्यर्थमनुवर्तते इति सार्वभौममानवमनोविज्ञानमिति भावः // 93 //