________________ 226 नैषधीयचरिते व्यतिरेक है / सुदर्शन शब्द में श्लेष है। 'जगज्जिगी' में छेक, 'दर्शनेन' दर्शनेन' में श्लेष और पागम्तगत अन्त्यानुप्रास, अन्यत्र वृत्त्यनुप्रास है। रोमावलीदण्ड नितम्बचक्रे गुणं च लावण्यजलं च बाला। तारुण्यमूर्तः कुचकुम्भकर्तुबिभर्ति शङ्के सहकारिचक्रम् // 90 // अन्वयः-बाला तारुण्यमूर्तेः कुचकुम्भकर्तुः रोमा.."चक्रे, गुणञ्च, लावण्यजलञ्च सहकारि-चक्रम् बिभर्ति ( इत्यहं ) शङ्के। टोका-बाला दमयन्ती तारुण्यम् यौवनम् मूर्तिः स्वरूपं ( कर्मधा० ) यस्य तथाभूतस्य (ब० वी० ) तारुण्यरूपस्येत्यर्थः (तारुण्य-कुलालस्येति यावत् ) कुचौ स्तनौ एवं कुम्भो कलशो ( कर्मधा० ) तयोः कर्तुः उत्पादकस्य (10 तत्पु० ) कुचकुम्भकारस्येति यावत् रोम्णां लोम्नाम् आवलीम् पंक्तिम् (प. तत्पु०) एव दण्डम् चक्रभ्रामकयष्टिम् (कर्मधा०) च नितम्बम् कटिपश्चाद्भागम् एव चक्रम् ( कर्मधा० ) चेति 0 चक्रे ( द्वन्द्व ) गुणम् शीलादिकम् एव गुणम् सूत्रम् लावण्यं सौन्दर्यम् एव जलम् पानीयम् ( कर्मघा० ) सहकारिणाम् सहकारिकारणानाम् चक्रम् समूहम् (10 तत्पु० ) बिति धत्ते इत्यहं शङ्क मन्ये / कुंभकारः कुंभनिर्माणाय दण्डं चक्र सूत्रं जलं चापेक्षते यानि कुम्भस्य कारणानि भवन्ति / दमयन्ती तारुण्य-कुंभकाराय कुचकुंभनिर्माणार्थं रोमावली दण्डरूपेण, नितम्बं चक्ररूपेण, गुणं सूत्ररूपेण सौन्दर्यश्च जलरूपेण ददाति / तारुण्ये एतानि सर्वाणि प्रादुभंवन्तीति भावः // 90 // व्याकरण-लावण्यम् लवण + ष्यन् / तारुण्यम् तरुण + ष्यन् / मूर्तिः मूर्छ + क्तिन् / सहकारि सह करोतीति सह + /कृ + णिच् / ___ अनुवाद-युवति ( दमयन्ती ) तारुण्यरूपी कुचकुंभ-निर्माता (कुम्हार ) के लिए रोमावली के रूप में दण्ड, नितम्ब के रूप में चाक, गुण ( सौजन्यादि) के रूप में गुण ( डोर ) और लावण्य के रूप में जल-यह सहकारी कारणों का समूह रख रही है-ऐसा मुझे लग रहा है // 90 // टिप्पणी-यहाँ नितम्बों के प्रकरण में रोमावली आदि प्रासंगिक ही समझिए / यहाँ यौवन को कम्हार बनाया गया है, जिसे कुचरूप कुम्भ बनाने हेतु चाक, दण्ड, सूत और जल चाहिए / यही कुम्भ की कारण-सामग्री है, जिसे दमयन्ती रखे हुए है ही। यहाँ कुच पर कुम्भत्वारोप, रोमावली पर दण्डत्वा