________________ सप्तमः सर्गः 163 अन्वयः-अस्याः मुखेन्दौ एषः अधरः सुधाभू-बिम्बस्य प्रतिबिम्बः युक्तः, अथवा तस्य श्री: द्रुमभाजि देशे, अस्य तु सा विद्रुमे संभाव्यमाना ( अस्ति ) / टीका-अस्याः दमयन्त्याः मुखम् वदनम् एव इन्दुः चन्द्रः तस्मिन् ( कर्मधा० ) वर्तमान इति शेषः एष पुरो दृश्यमानः अधरः अधरोष्ठः सुधा अमृतम् तस्य भूः भूमिः स्थानमिति यावत् ( 10 तत्पु० ) तस्मिन् बिम्बस्य बिम्बफलस्य अमृतभूम्यां समुत्पन्नस्य बिम्बफलस्येति यावत् प्रतिबिम्बः प्रतिच्छायासदृशः इत्यर्थः युक्तः उचितः अर्थात् तदेव बिम्बफलम् अपरेण साम्यमाप्तुमर्हति यत्खलु अमृतभूमौ न तु वनभूमौ समुत्पन्नं भवेत् यतोऽधरः मुखेन्दौ समुत्पन्न इन्दुश्चामृतभूमिरस्त्येव / वनभूमावुलन्नं बिम्बफलं कामं लोहित्येन किमपि साम्यं वहेन्नाम, किन्तु अमृतभम्यामनुत्पन्नत्वात् तत्, अधरात् सुतरां निकृष्टमेवेति भावः अथवा विकल्पे, वैषम्यस्य कारणान्तरमस्तीत्यर्थः तस्य बिम्बस्य श्रीः शोभा द्रुमान् वृक्षान् भजतीति तथोक्ते ( उपपद तत्पु० ) देशे स्थाने अस्तीति शेषः तु किन्तु अस्य अधरस्य विद्रमे विगताः द्रुमाः यस्मात् तथाभते (प्रादि ब० बी० ) द्रमरहिते देशे अथ च प्रवाले संभाव्यमाना अस्ति संभाव्यते इत्यर्थः / बिम्बफलं द्र मबहुले वनादि-प्रदेशे जायते तल्लतायाः वृक्षाश्रयत्वात् अधरस्तु वृक्षरहिते नगरे तिष्ठतीति तयोः कथं नाम सादृश्यं भवेदिति भावः // 38 // व्याकरण--श्रीः श्रयतीति श्री + क्विप् (निपातित) / द्रुमः द्रु : ( शाखा ) अस्यास्तीति द्रु + मः ( मतुबर्थ ) / भाजि भज् + क्विप् / संभाव्यमाना सम् + /भू + णिच् + शानच ( कर्मवाच्य ) / अनुवाद-इस ( दमयन्ती) के मुख-रूपी चन्द्र में (स्थित ) इस अधर का उचित प्रतिरूप अमृत-भूमि में उत्पन्न बिम्ब फल ही है अथवा उस ( बिम्बफल ) की शोभा द्रम-भरे प्रदेश में है, किन्तु इस ( अधर ) की शोभा द्रमरहित प्रदेश में ही संभव है // 38 // __ टिप्पणी-कवि-जगत् में साधारण स्त्रियों के अधर की तुलना बिम्ब फल से की जाती है, लेकिन चांद से चमकते हुए चेहरे पर दमयन्ती के अधर की बराबरी में बिम्बफल भला कैसे टिक सकता है ? चाँद के पास होने से वह दर्शकों के नेत्रो को अमृत छका रहा है। क्या विम्ब भी कभी ऐसा कर सकता है ? बराबरी के लिए पहले उसे अमृत-भू पर जन्म लेना पड़ेगा। दूसरे बिम्ब की