________________ 220 नैषधीयचरिते अन्वयः-मदृष्टितृष्णा रोमावलीरज्जुम्, उरोज-कुम्भी गम्भीरम् नाभिकूपम् च आसाद्य विरमेत् यदि एषाम् सिचयेन एषां गुप्तिः न स्यात् / / टीका-मम दृष्टेः दर्शनस्य तृष्णा इच्छा अथ च पिपासा (10 तत्पु० ) ( तृष्णे स्पृहापिपासे द्वे' इत्यमरः ) रोम्णाम् लोम्नाम् आवली पङ्क्तिः (10 तत्पु० ) एव रज्जुः दोरकम् ( कर्मधा० ) ताम्, उरोजो कुचौ एव कुम्भी घटी ( कर्मधा० ), गम्मीरम् गभीरम् नाभिम् एव कूपम् अन्धुम् ( कर्मधा० ) च आसाद्य प्राप्य विरमेत् शाम्येत् यदि एषाम् रोमावल्ल्यादीनाम् सिचयेन वस्त्रेण ( 'वस्त्रं तु सिचयः पटः' इति हलायुधः ) एषा दृश्यमाना गुप्तिः गोपनम् वस्त्रद्वारा आच्छादनमिति यावत् अथ च असीनाम् भटै: हस्तधृतखङ्गानाम् चयेन समूहेन गुप्ति: रक्षणम् न स्यात् भवेत्, यदि उपर्युक्तानि शरीराङ्गानि अनावृतानि स्युः तहि तद्दर्शनविषयकेच्छा मे निवर्तेत, नग्नाङ्गदर्शने विरागोदयात् / तेषां वस्त्रावृतत्वेनैव तृष्णा वर्धते इति भावः / अत्रापरोप्ययमर्थः यथा-रोमावलीतुल्यां रज्जुम्, उरोजतुल्यौ घटी तथा नाभितुल्यं गभीरकूपम् प्राप्तस्य मनुष्यस्य तृष्णा = पिपासा शाम्येत् यदि हस्तधृतखङ्गः राजपुरुषः कूपस्य रक्षा न कृता स्यात् / नृपमात्रभोग्यस्य कूपस्य रक्षाथ राजपुरुषाः स्थाप्यन्ते इति भावः // 84 // व्याकरण-रज्जुः यास्काचार्य के अनुसार सृज्यते बन्धनमनेनेति सृज् + उः सर्जुः वर्णव्यत्ययेन रज्जुः (पृषोदरादित्वात् साधुः ) / उरोजः उरसि जायते इति उरस + / जन् + ड / कूपः यास्कानुसार कुत्सितम् पानम् अत्र ( रस्सीलोटे के बिना जहाँ जलपान कठिन होता है ) (पृषोदरादित्वात्साधुः) / तृष्णा Vतृष् + न + टाप् कित् च / विरमेत् वि उपसर्ग लगने से /रम् परस्मै० हो जाता है / गुप्तिः /गुप् + क्तिन् ( भावे ) / अनुवाद-खेद है कि मेरी दर्शन-वाञ्छा रोमावली-रूपी डोर, उरोज-रूपी घटों तथा नाभि-रूपी गहरे कुएं को प्राप्त करके शान्त हो जाती यदि इन (अंगों) का वस्त्र से यह आच्छादन न हो तो जैसे कि डोर, घड़े सहित कुएँ पर पहुंचकर मनुष्य की प्यास बुझ जाय यदि सिपाहियों के बहुत सारे खङ्गों द्वारा कुआँ रक्षित न होने पावे // 84 // टिप्पणी-यद्यपि वर्णन रोमावली का है, तथापि उसके संबद्ध होने के कारण कवि प्रसंगवश उरोज और नाभि को भी बीच में ले आया है। इनके