________________ सप्तमः सर्गः 133 आंखों के देखने से भी / अभिप्राय यह कि उसका एक-एक अंग देखने से समूचे काम का प्रादुर्भाव हो जाता है। यहाँ उत्प्रेक्षा है, जो 'किम्' शब्द द्वारा वाच्य हो रही है। 'त्यङ्ग' 'सङ्ग' में पदान्तगत अन्त्यानुप्रास और अन्यत्र वृत्त्यनुप्रास है। जम्बालजालात्किमर्षि जम्बूनद्या न हारिद्रनिभप्रभेयम् / अप्यङ्गयुग्मस्य न सङ्गचिह्नमुन्नीयते दन्तुरता यदत्र // 13 // ___ अन्वयः-हारिद्र-निभ-प्रभा इयम् जम्बूनद्याः जम्बाल-जालात् न अकर्षि किम् ? यत् अत्र अङ्गयुग्मस्य सङ्ग-चिह्नम्, दन्तुरता अपि न उन्नीयते / टीका-हरिद्रया काञ्चन्या ( 'निशाख्या काञ्चनी पीता हरिद्रा' इत्यमरः) रक्तं वसनम् हारिद्रम् तद्वत् इति तन्निभा ( उपमान तत्पु० ) प्रभा कान्तिः यस्याः तथाभूता ( ब० ब्रो० ) इयम् एषा दमयन्ती जम्बूनद्याः सुमेरुपर्वतसमीपात् वहन्त्याः स्वर्णनद्याः जम्बालस्य कर्दमस्य मृत्तिकाया इति यावत् ('निषद्वरस्तु जम्बालः पङ्कोऽस्त्री शाद-कर्दमौ' इत्यमरः ) जालात् समूहात् ( जालं समूह मानायः' इत्यमरः ) न अकर्षि आकृष्टा किम् ? अकर्षि एवेति काकुः / यत् यतः अत्र अस्याम् दमयन्त्याम् अङ्गयोः अवयवयोः युग्मस्य यस्य (10 तत्पु०) सङ्गस्य सन्धानस्य चिह्नम् लक्षणं दन्तुरता उन्नतावनतत्वम् अपि न उन्नीयते नानुमीयते; अस्याः हस्तपादादीनां सन्धि-स्थानानि सुसंघटितानि सन्तीति भावः // 13 // व्याकरण-हारिद्र हरिद्रा + अण् / प्रभा प्र + /भा + अङ् ( भावे ) + टाप् / अकर्षि/कृष् + लुङ् ( कर्मवाच्य ) / युग्म/युज् + मक् कुत्वम् / दन्तुरता उन्नताः दन्ताः सन्त्यस्येति दन्त + उरच = दन्तुरः तस्य भाव इति दन्तुर + तल् + टाप / उन्नीयते उत् + /नी + लट् ( कर्मवाच्य ) / अनुवाद-हल्दी-रंगे वस्त्र की-सी कान्ति वाली यह ( दमयन्ती ) जम्बू नदी की मिट्टी के ढेर में से नहीं खींच निकाली गई है क्या ? कारण यह है कि ( दमयन्ती ) में दो अंगों के सन्धान-जोड़ का चिह्न और ऊँचा-नीचापन नहीं मालूम हो रहा है // 13 // टिप्पणी-दमयन्ती की शारीरिक कान्ति हल्दी-की-सी पीली थी जिससे ऐसा लगता था मानो जम्बू नदी की मिट्टी के बीच में से किसी ने इसे निकाला