Page #1
--------------------------------------------------------------------------
________________ ॐ अहम् / श्रीनलायनस्य विषयानुक्रमणिका। IFIL RI13IAIIANSIA II बाबle विषयाः पत्राङ्काः 1 मङ्गलाचरणम् / ... ... 2 नलवर्णनम् / ... ... ... ... 3 नलस्य गुणवर्णनम् / ... 4 नलस्य विलासः। ... ... 5 तापसानां कुशलार्थ नलस्य प्रश्नाः मुनीनां चा गमात् नलस्य परितोषः / ... ... 6 कच्छ-महाकच्छयोःऋषभदेषस्य आराधना। ... 7 नल-क्रौञ्चकर्णयोर्युद्धम् / ... ... 8 नल-क्रौञ्चकर्णयोर्युद्धम् , कौञ्चराक्षसंश्यश्च / / 9 नल-पथिकयोर्वार्तालापः। ... ... ... orrm 0509 v विषयाः पत्राङ्काः 10 दण्डकप्रतिबोधाय स्कन्दकाचार्यस्यागमनं, शिष्याणां यन्त्रपीलनं, शापश्च / ... ... 11 पथिकेन कृतं नलस्याग्रे कस्याश्चिद् भूपाल बालिकाया वर्णनम् / ... ... ... 12 पान्थकथितैर्वृत्तान्तैः स्मरविह्वलो नलः / ... 13 नवरात्रोत्सवाय मेरुगिरिं गता शारदा / ... 14 नल प्रति हंसस्यागमनम्। ... ... .../ 15 नलसमीपे धनपालिकया मृणाललतिकया कृतं / वनवर्णनम् / ... .... ..... .. 16 वनवर्णनम्, हंसयूथस्य आगमनम्;, मलेन DMIFILAIIIIIIIIANIIIIIre.
Page #2
--------------------------------------------------------------------------
________________ श्रीनलायनस्य। | विषयानुक्रमणि का 4 HILIATIGATIAll Vaa श्रीतो हंसश्च / ... ... . . प्रेषिता दूताः।:... ... ..... ... याविषये नलस्य विभ्रमम, हंसपल्यास | 29 दमयन्त्याः स्वयम्वरे नलनृपस्य प्रयाणम् .... बनार्थ कृता प्रार्थना व्योम्नि जाता दिव्यभारती च / 16 30 दमयन्त्याः स्वयम्वरकाले हिमाद्रौ नारदपुर॥ प्रति नलस्य कथनम् , मुक्तो राजहंसः न्दरयोर्वार्तालापः / ... ... ... कृतं विदर्भनृपस्य वर्णनम् / ... ... 17 31 दमयन्त्याः स्वयम्वरकाले इन्द्रादीनां पृथ्वीनृपेन अपत्यार्थमाराधिताचक्रेश्वरीतस्या / . पीठगमनम् / ... ... ... मिनं वरप्रदानं च दमनकमुनेश्चागमः / ... नकमुनर्गमनम् , दमयन्त्याश्व जन्म / 32 पृथ्वीपीठागतानां इन्द्रादीनां मन्त्रबलेन नलेन 20 ... पन्त्याः स्तम्भिता सेना / ... क्रीडनम्, नल-राजहंसयोर्विवादश्च / ... डिनं प्रति राजहंसस्य गमनम् / 33 दमयन्त्याः स्वयम्वरकाले इन्द्रादीनां नलडिनपुरे आगतो हंसः दमयन्त्यने नलवर्णनं च / 22 समीपे आगमनम् / ... ... विषये दमयन्त्या विभ्रमम् , नलस्य परि 34 दमयन्त्याः स्वयम्बरकाले इन्द्रादीनां नलाय थे प्रार्थितो हंसश्च / ... ... .... 23 दमयन्तीदौत्यर्थ आज्ञा / ... पन्तीसमीपे कृतं पक्षीराजेन नलनृपस्य वर्णनम् / 24-27 35 दीत्याय नारदमुनेः प्रेरणा / स्य निलसमीपे गमनम् / ... ... ... 28 / 36 दौत्याय विचारमग्नो नलः / 28 ... -दमयन्त्योविरहाग्निः / 37 नल-भीमयोः समागमः / ... .... डनाधीशेन दमयन्त्याः स्वयम्बरार्थ | 38 दिक्पालकार्यार्थिनः नलस्य कुण्डिनपुरप्रवेशः। ... 41 |AI
Page #3
--------------------------------------------------------------------------
________________ FII TING II A TEIN A 39 नलस्य व्याकुलता 53 स्वयम्बरार्थमागता देवा राजानश्च / .... 40 दमयन्त्या देवदूते विभ्रमः / ... ...43-44 54 गोत्रसङ्कीर्तनाथ देवाः शारदां प्रेरयन्ति / ... 41 दमयन्त्याः समीपे देवदृतेन प्रकाशिता लोक 55 स्वयम्बरमण्डपे आगता दमयन्ती / पालानां भावाः / ... ... .. ... 56 शारदा दमयन्त्याः परिचयं कारयति / 42 दमयन्त्याः पृष्ट देवदूतस्य नाम / ... ... 57 विवाहारम्भः / ..... 43 देवदूतेन नलेन उत्साहिता दमयन्ती। ... 58 लग्नमहोत्सवे मधुपर्कादि ग्रहणम् / ... 44 देवदतस्य वचसा खिन्ना दमयन्ती तया च 59 नलस्य लग्नान्तरं स्वदेशगमनं भीमभूपतेश्च प्रतिपादितोत्तरः / ... ... ... ... दमयन्त्या उपदेशः / 45 दमयन्त्या अभ्यर्थना / ... 60 चावार्कमतवर्तिनां केषांश्चित् मनुजानां शक४६ नल एव मे प्रिय इति दमयन्त्या निश्चयः / ... 50 प्रेरितस्य नैगमेषिणः उपदेशः / ... ... 47 त्रिदशकार्यार्थिनो नलस्य दमयन्त्या निश्चये विवादः 51 6. स्वयम्बरार्थ गच्छतः कलेदेवानां मीलनं 28 दमयन्या विलापः ... ... ... वासवस्य व्यावननाय प्रेरणा / ... ... 49 दमयन्त्या विलापसमये आश्वासनाय बाल 62 दमयन्तीमपहरणार्थ कलिर्देवान् प्रेरयति चन्द्रः पक्षी आगतः / ... .... .... 53 देवाश्च तं तीरस्कुर्वन्ति / ... ... ... 50 भीमभूपतिना स्वयम्वरार्थ प्रेषिताः सचिवाः / 54 63 दिवौकसां कलये उपदेशः कलेश्च प्रतिज्ञा / 51 मजलस्तुतिभिः नलस्य प्रबोधकारका तालिकाः / 55 64 सैन्येन सह कलेरागमनम् / .... 52 स्वयम्वरारम्भः / ... ... ... .... 56 | 65 नलराज्ये कले: स्थिरता / ... ... II DIET A TEII
Page #4
--------------------------------------------------------------------------
________________ भीनलायनस्य विषयानुक्रमणिका। // B IIIIIIII-IIIFI FIFIFIKE 66 नलस्य उत्कर्षः कलिं ज्वालयति / ... ... 76 67 छिद्रं लब्ध्वा कलेरङ्गप्रवेशः नलस्य द्यूतक्रीडा च / 68 यूतार्थ दमयन्त्याः शोचः / ... .... ... 78 69 चूतदोषाणि ... ... ... ... 79 70 वाग्द्यूतस्य दोषाणि ... ... ... 80 71 कलेः छिद्रप्रवेशात् प्रतिशाभ्रष्टो नलः / ... 72 दमयन्त्याः कुबरस्य द्यूतावरोधनार्थमुपदेशः।... 82 73 दमयन्त्यै केशिन्याः सान्त्वनम् / ... ... 74 दमयन्ती स्वसंततिं पितृगहे प्रेषयति / ... 84-85 . 75 दमयन्ती कोशादीन् रिक्तीकरोति कूबरेण च राज्यादिकं प्राप्तम् ! ... ... ... 76 नलेन सह गन्तुं कूबरं दमयन्ती प्रार्थयति / ... 77 कर्माधीनमेव सर्वम् / ... ... ... 78 दमयन्त्या सह राज्यपरित्यक्तो नलः गंगातटे / 79 विपरीते कर्मणि सर्वं विपरीतमेव / ... ... 80 श्वशुरगृहनिवासाय दमयन्त्याः प्रेरणा। ... 81 दमयन्त्यास्त्यागे नलस्य निश्चयः। :..' 82 पतिविरहे जातशङ्का दमयन्ती। ... 83 भीमजात्यागे विवदमानो नलः / ... 84 दमयन्तीत्यागः। ... ... ... 85 शोकग्रस्तो नलः। ... ... ... 86 कर्कोटकसर्पण कुजीकृतो नलः / ... 87 विकृतसर्परूपं त्यक्त्वा प्रकटीभूतो मनुजः। ... 88 मनजरूपेण पितृव्येन प्रकटीकृतं कुब्जरूपकारणम् 89 नलस्य गजताडनम् / ... ... 90 गजे नलस्य विजयः / ... ... 91 नलत्यागानन्तरं दमयन्त्या दशा / ... 92 दमयन्त्या विरहदशा / ... ... 93 नलंबिरहानन्तरं दमयन्त्या बिलापः। ...... 94 अजगरेण प्रस्ता दमयन्ती। ... 95 अजगरोदरात् किरातेन निष्काशिता दमय म्ती कामेच्छु: किरातश्च / ... ... II - HIII A TRIISTEle IAEII // 8 //
Page #5
--------------------------------------------------------------------------
________________ बाजा II III AIIIIIIIIIIIIIla 96 दमयन्ती किरातमुपदिशति | 107 भीमदूताभ्यां शोधिता दमयन्ती / .... 97 किरातस्य बलात्कारः वासवेन च भस्माव 108 कुण्डिनपुरं गता दमयन्ती निवेदितं च तया शेषीकृतो किरातः / ... ... 110 सर्ववृत्तान्तम् / ... ... ... 145 98 वणिक्सार्थेन सह गच्छन्ती दमयन्ती, वन 109 नलशोधने आश्वासनम् / ... ... 146-147 सिन्धुरैश्च भिन्नः सार्थः / ... ...... 110 नलशोधने तिलकमअर्या उदाहरणम् / 148-150 99 चारणश्रमणान् दमयन्तीपूर्वपरिचयं कारयति / 112-113 111 नलशोधनम् / ... ... 151 100 चारणश्रमणैराश्वासिता दमयन्ती / ... 112 नलशोधने दूतसमागमः / ... ... 152 101 दमयन्त्या आश्वासनाय चारणश्रमणैः कथितं 113 दूतयोरुपालम्भः / ... ... 153 शाकुन्तलाख्यानकम् / ... ... ... 115-123 114 शोकेन व्याकुलो नलः / ... ... 154 102 दमयन्त्या आश्वासनाय भास्करशिष्येण __कथिता कलावत्याः 155 कथा / . ... 124-136 115 अयमेव नल इति दूतयोः प्रतीतिः / 103 मुनेर्वचनाद् दमयन्त्या कृता शान्तिप्रभोरा 116 कुण्डिनपुरे दूतयोः प्रत्यागमनं नलवृत्तान्तराधना / ... ... ... 137 कथनं च / ... ... 156 104 दमयन्त्यग्रे चारणश्रमणेण कथितं निजमुख 117 कुब्जरूपस्य नलस्य संदेशान् ज्ञात्वा विलवैवर्ण्यकारणम् / ... ... .. .... 138-139 पन्ती दमयन्ती / ... .... .... ... 105 कुण्डिनं प्रति गच्छन्ती दमयन्ती। .:.: 140-142 | 118 नलप्राप्त्यर्थ भीमभूपतिना आराधित: स्वय१०६ भीमभूपतिना श्रुतो नलवैदोर्वियोगः। . 143 / म्वरविधिः / .... ... . .... II III FIFI स्वय- II II || . 158
Page #6
--------------------------------------------------------------------------
________________ श्रीनलायनस्य II SIEI 175 विषयानुक्रमणिका। // c // 163 119 दूतमुखात् भीमजायाः स्वयम्वरं ज्ञात्वा | 131 पुनरपि द्यूतक्रीडनम् / ... . 174 चलितः कुब्जः / ... .... ...159-160 132 निजां राजधानी प्राप्तो नलः। .... ' 120 कुब्जरूपात् नलदेहात् निर्गतः कलिः / ... 161 133 पुष्कराय राज्याई ददाति नलः। ... 176 121 कुण्डिनपुरमागतो नलः / 162 134 कल्याणिकमहोत्सवे गतो नलः।। 177 122 कुब्जरूपधारिणे नले विभ्रमः / 135 श्रुतसागरेण दत्ता धर्मदेशना। 178 123 नलपरीक्षा / 164 136 धर्मदेशनान्तरे नलस्य पूर्वभवकथनम्। ... 179-82 120 कुब्जदमयन्त्योर्विवादः / ... 165-167 137 नलस्य भवान्तरप्रेक्षणम्। ... 125 निजरूपं प्राप्तो नलः / ... 168 | 138 नलस्य वैराग्यभावना / 126 नलदमयन्त्योर्विवादः। ... 169 | 139 इन्द्रसेनस्य राज्याभिषेकः। . 127 सभामध्ये नलस्य आगमनम् / 170 | 140 नलस्य दीक्षा, श्रुतशीलादीनां वनवासश्च / ... 128 नलस्य गङ्गातटगमनम्। .... 171 | 141 साध्वीशिरोमणिदमयन्त्याः कालधर्मः / ... 129 पुष्करं प्रति दूतस्य गमनम् / ... 172 142 प्रशस्तिः / 130 क्षेत्रपालदर्शनम् / ... 173 ISI III-III III-IIIIIIIIK II A HISFILAIII C //
Page #7
--------------------------------------------------------------------------
________________ II II III-IIIIIII RISHI [451 नलप्रशंसा यत् पुण्यं जाहवीस्नानाद् यत् पुण्यं गुरुपूजनात् / यत् पुण्य प्राणिनां त्राणात् तत् पुण्यं नलकीर्तनात् // 20 // प्र० स्कं० 1 स०। नलकीर्तने नलनामग्रहणे च फलम् .. यथा श्रेयस्करं दानं यथा पापहरं तपः / यथा शौचकरं शीलं तथैव नलकीर्तनम् // 22 // प्र० स्कं० 1 स० / एकतः शकुनाः सर्वे सुप्रशान्ताः फलप्रदाः / कार्यकाले नलस्यैकं नामग्रहणमन्यतः // 23 // प्र० स्कं० 1 स०।। भरतश्चार्जुनश्चैव वैण्यश्च पृथिवीपतिः / नलश्च नैषधो राजा यात्रायां सिद्धये स्मृताः // 24 // प्र० स्कं० 1 स० / निर्मलं धीरललितं विशालं विश्वविश्रुतम् / पुण्यश्लोकस्य राजर्षेः कीर्तनं कलिनाशनम् // 26 // प्र० स्कं० 1 स० / अन्यस्मिन् ग्रन्थे च नलादीनां स्तुतौ फलप्रदर्शनम् कर्कोटकस्य नागस्य, दमयन्त्या नलस्य च / ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम् // 1 // ___ ग्रन्थेऽस्मिन् शब्दानुप्रासः, अन्ये चालङ्काराःकलाकेलिकल्लोलिनीलब्धपारः कुले वीरसेनस्य धर्मावतारः। जयश्रीवधूकण्ठश्रृङ्गारहारः सदा नैषध ! त्वं सदाचारसारः ॥६॥स्कं० 3 स०१। कलुषः कुटिलः कुण्ठः कितवः क्रोधनः कुधीः कृतघ्नः कृपणः क्रूरः कठोरः कोऽपि नाभवत् / / 41 // प्र० स्कं० 1. स० / अपारिजातस्य सपारिजातं निरञ्जनस्यापि घनाङ्गनौघम् / तथापि राजन् ! न तवापि हर्ष वनं विधत्तामवनप्रियस्य // 11 // स्कं०१ स०७। SEII III + IIIIIIIIIIIIIIle
Page #8
--------------------------------------------------------------------------
________________ श्रीनला प्रस्तावना / बनस्य // 2 // DISISTIANITII-IIIIITale जितपुष्कर सकलरुद्धपुष्करं निनदन्नुदारमनुदारमुत्सुकः / इह शीतलं समवगाय पुष्करं प्रतिपुष्कर क्षिपति पुष्करं करी // 25 // प्र० स्कं०.७ स० लोलानिलेनाननुनूननुन्ना नानालिलीलोल्लललं लुलाना / नूनेन नूनं नलिनाननेन नलेन लीचा ललने ! ललालम् // 49 // प्र० स्कं० 14 स०॥ .. पट्टबन्धः सहसारिकृतत्रासः सत्रात स्वं कलारसः / सरलाशयताभासः सभातारोरुसाहसः // 48 // स्कं० 1 स०२। एवं स्थाने स्थाने शब्दानुप्रासैः, यमकैः, श्लेषादिभिश्चालङ्कारैः परिपूर्णं चेदम् / ग्रन्थकर्तुः परिचयः प्रत्येकस्कन्धान्ते ग्रन्थक; स्वप्रशस्तिः स्वयमेव प्रदत्ता / तत्र च 'माणिक्यसूरिः' इति स्वनाम लिखितम् / परमनेन कविरत्नेनायं ग्रन्थः कदा निर्मित इति समीचीनरीत्या निर्णयं कर्तुमस्माकं समीपे यद्यपि पुष्कलं साधनं न विद्यते तथापि यानि कानिचिद विश्वसनीयानि साधनानि उपलभ्यन्ते तान्येवात्रं प्रकटीक्रियन्ते स्व. आचार्यबुद्धिसागरसूरिणा प्रणीते 'जैनप्रतिमालेखसङ्ग्रह-' नाम्नि ग्रन्थे प्रथमे भागे षड्विंशतितमे पत्रे सप्तत्रिंशदधिकशतसंख्यके लेखे लिखितम्__“सं. 1327 फा. शु. ८....पलीवालज्ञातीय....कुमरसिंघभार्या कुमरदेविसुत सामंतभार्या सिंगारदेवि पित्रोः पुण्यार्थ....विक्रमसिंह ठ० लूणा ठ० सांगाकेन श्रीमहावीरबिम्बं का० प्र० वडगच्छे कूबडे....श्रीपडोचंद्रसूरिशिष्य-श्रीमाणिक्यसूरिभिः // " द्वितीयं प्रमाणमुपर्युक्तस्य पुस्तकस्य षट्सप्तत्यधिकशततमे पृष्ठे एकाशीत्यधिकनवशतसङ्ख्याके लेखे लिखितम्-. .. IAFII IIFI AISle
Page #9
--------------------------------------------------------------------------
________________ नाजा III-IIIII-III Ille "सं.१३७५ वर्षे माघ शुदि 5 शनौ श्रीओसवालज्ञा०श्रे०....भा. पालू श्रेयसे पु० सिंहेन श्रीपार्श्वनाथबिम्बं प्र० श्रीमाणिक्यसूरिभिः।" अनेन कविनाऽन्येऽपि बहवो ग्रन्था रचितास्तेष्वेको जामनगरनिवासिना श्राद्धरत्नेन हंसराजात्मजेन पण्डितवर्येण हीरालालेन स्वीयमुद्रणालये मुद्रापितस्तस्य नाम खलु यशोधरचरित्रम् / तदवलोकनेनैतद् निर्णीयते यद् अयं ग्रन्थकारः कलिकाल-सर्वज्ञ-विद्वच्छिरोड वतंस-आचार्यश्रीमद्हेमचन्द्राचार्यानन्तरमभवत् / यशोधरचरित्रस्याऽऽदौ मङ्गलार्थमेतच्छन्दः 'करामलकवद्विश्वं कलयन् केवलश्रिया / अचिन्त्यमाहास्यनिधिः सुविधिबोधयेऽस्तु वः॥' इदं नलायनं यशोधरचरित्रनिर्माणकालात् पश्चाद् निर्मितमिति तेनैव कविरत्नेन नलायनस्य प्रत्येकस्कन्धान्तर्वर्त्तिन्या प्रशस्तौ प्रतिपादितम् 'एतत् किमप्यनवमं नवमङ्गलाकं, श्रीमदयशोधरचरित्रकृता कृतं यत् / तस्यार्यकर्णनलिनस्य नलायनस्य स्कन्धो जगाम रसवीचिमयस्तृतीयः // ' . नलायन-यशोधरचरित्रयोरेककर्तृत्वम् / अस्मिन् विषये प्रमाणरूपा इमे श्लोकाः सन्ति" अराजकमहो विश्वं ही भो निःशरणं जगत् / दुर्बलो बलिभिः कस्माद् हन्यते बालिशैः पशुः // " नलायने नवमे स्कन्धे द्वितीये सर्गे श्लोकः 8 / ___ यशोधरचरित्रे च द्वितीयसँगें श्लोकः 33 / IASHI III-IIIIIIIK
Page #10
--------------------------------------------------------------------------
________________ प्रस्तावना। श्रीनलायनस्य // 3 // BIGI IIII-IIII-IIIIFTS " अन्तःपुरं पुरं वापि किं राज्ञां श्वापदैः क्ष(कृ)तम् / विनाऽपराधं तत्तेषां वधमाधाय का गतिः // " . नलायने नवमे स्कन्धे सर्गे द्वितीये श्लोकः 6 / यशोधरचरित्रे च द्वितीयसर्गे श्लोकः 34 / 'नान्दोलिताः कपिकुलैरपि वृक्षशाखाः, दुःखेन वेणुभिरपि क्वणितं निरस्तम् / मुद्रा मुखे विघटिता न विहंगमाना-मङ्गीकृतं न च तृणं हरिणाङ्गनाभिः // ' नलायने पञ्चमे स्कन्धे प्रथम सर्गे श्लोकः 29 / यशोधरचरित्रे च त्रयोदशे सर्गे श्लोकः 78 / उपर्युक्ताः समश्लोकाः यादृशाः प्रमाणरूपा अस्माभिः प्राप्तास्तादृशा एव प्रदर्शिताः / अनेन कविवर्येण अन्येऽपि बहवो अन्था जा निर्मितास्तेषां यानि नामान्यस्माभिः प्राप्तानि तानि चैतानि 1-2 मुनि-मनोहरौ। ३-यशोधरचरित्रम् / ४-अनुभवसारविधिः / ५-पञ्चनाटकम् / ६-नलायनम् / ___ उपरितनेषु प्रन्थेषु अस्माभिर्यशोधरचरित्रं नलायनं चोभौ ग्रन्थावुपलब्धौ मुद्रितौ च / अन्ये ग्रन्थाः कुत्रापि सन्ति न वा एतद्विषये किमपि वक्तुं न शक्यते। किश्च-एतानि नामानि अनेनैव प्रन्थकारेण अस्य नलायनस्य प्रत्येकस्कन्धस्यान्तिमे भागे उल्लिखितानि / IASII AIFIIIIIIIIIIES
Page #11
--------------------------------------------------------------------------
________________ प्रशस्तिः अस्य नलायनस्य दश स्कन्धाः सन्ति, तेषां प्रत्येकस्कन्धानां समाप्तौ अनेनैव ग्रन्थका स्वप्रशस्तिदर्शिता / यथा एतत् किमप्यनवमं नवमङ्गलाई माणिक्यदेवमुनिना कृतिना• कृतं यत् / तस्यार्यकर्णनलिनस्य नलायनस्य स्कन्धोऽयमुत्तमतमः प्रथमः समाप्तः // प्रथमः स्कन्धः, पञ्चदशः सर्गः, श्लोकः 24, पृष्ठम् 30 / एतत् किमप्यनवमं नवमङ्गलाई, यद् निर्ममे मुनि-मनोहरयोर्विधाता / तस्यार्यकर्णनलिनस्य नलायनस्य, स्कन्धो जगाम रमणीयरुचिर्द्वितीयः॥ द्वितीयः स्कन्धः, षोडशः सर्गः, श्लोकः 25, पृष्ठम् 54 / एतत् किमप्यनवमं नवमङ्गलाकं, श्रीमद्यशोधरचरित्रकृता कृतं यत् / / तस्यार्यकर्णनलिनस्य नलायनस्य, स्कन्धो जगाम रसवीचिमयस्तृतीयः // तृतीयः स्कन्धः, नवमः सर्गः, श्लोकः 40, पृष्ठम् 69 / एतत् किमप्यनवमं नवमङ्गलाकं, माणिक्यदेवमुनिना कृतिना कृतं यत् / तस्यार्यकर्णनलिनस्य नलायनस्य, स्कन्धो जगाम चतुराभिमतश्चतुर्थः / / चतुर्थः स्कन्धः, त्रयोदशः सर्गः, श्लोकः 36, पृष्ठम् 101 / RISIAHIII बाबाजाISISEK
Page #12
--------------------------------------------------------------------------
________________ बीनलाबनस्य प्रस्तावना II IIIATI SHI-TEII IIIII एतत् किमप्यनवमं नवमकलाकं, चक्रे तदत्र वटगच्छनभोमृगाङ्कः / तस्यार्यकर्णनलिनस्य नलायनस्य, स्कन्धः प्रपञ्चचतुरोऽजनि पञ्चमोऽयम् // पञ्चमः स्कन्धः, एकविंशतितमः सर्गः, श्लोकः 82, पृष्ठम् 143 / एतत् किमप्यनवमं नवमङ्गलाकं, यद् निर्ममे कितवचक्रशिरोऽवतंसः (1) / तस्यार्यकर्णनलिनस्य नलायनस्य, स्कन्धो जगाम गुहमस्तकसलय एषः // षष्ठः स्कन्धः, सप्तमः सर्गः, श्लोकः 54, पृष्ठम् 158 / एतत् किमप्यनवमं नवमङ्गलाकं, यद् निर्ममेऽनुभवसारविधेविधिज्ञः (!) / तस्यार्यकर्णनलिनस्य नलायनस्य, स्कन्धः समाप्त इह सप्तमसङ्ख्ययाऽयम् // सप्तमः स्कन्धः, षष्ठः सर्गः, श्लोकः 53, पृष्ठम् 170 / एतत् किमप्यनवमं नवमङ्गलावं, यत् कौतुकैकरसिकः सुकविश्चकार / तस्यार्यकर्णनलिनस्य नलायनस्य, स्कन्धो महारसमयोऽभवदष्टमोऽयम् // . अष्टमः स्कन्धः, चतुर्थः सर्गः, श्लोकः 42, पृष्ठम् 177 / एतत् किमप्यनवमं नवमङ्गलाकं, यत् पश्चनाटककविर्विततान नव्यम् / . IASI AII IIIIIIIFile // 4
Page #13
--------------------------------------------------------------------------
________________ HIDISHISHIRIDIHIsle तस्यार्यकर्णनलिनस्य नलायनस्य, स्कन्धो जगाम नवमो रमणीय एषः // नवमः स्कन्धः, चतुर्थः सर्गः, श्लोकः 36, पृष्ठम् 183 / एतत् किमप्यनवमं नवमङ्गलाकं, साहित्यसारविदुषा कविना कृतं यत् / तस्यार्यकर्णनलिनस्य नलायनस्य, स्कन्धो जगाम दशमः शमसंभृतोऽयम् / / दशमः स्कन्धः, चतुर्थः सर्गः, श्लोकः 23, पृष्ठम् 188 / प्रतीनां लेखनसमयः याः प्रतयोऽस्माकं समीपे विद्यन्ते तासामवलोकनेन ज्ञायते यद् उग्रसेनपुरीया विजयधर्मलक्ष्मीज्ञानमन्दिरतः प्रतिः प्राप्ता या, तस्यां 'वैक्रमीये १४९३वर्षे मार्गशीर्ष शुक्ल पूर्णिमायां तिथौ चंद्रवासरे तालध्वजे दुर्गे पं० गुणकीर्तिगणिपार्श्वस्थितेन पं० कृपासागरगणिना लिखिता श्रावकाणां श्रेयार्था' इति लिखितम् / द्वितीया प्रतिः भावनगरस्थपं०गंभीरविजयभाण्डागारीया, सा च वैक्रमीये 1475 वर्षे भाद्रपदमासे श्रीडूंगरपुरे लिखिता लिम्बाकेन / तृतीया प्रतिः मुम्बापुरीस्थरॉयलएशियाटिकसोसायटीसंस्थाया उपलब्धा / तत्र चायमुल्लेखः___श्रीजीवराजशिवराजकोविदाभ्यामसौ प्रतिर्मुमुचे / चित्कोशे पुण्यार्थ पंडितनीकर्षिशिष्याभ्याम् // 1 // चतुर्थी प्रतिस्तु वटपदग्रामस्थओरियन्टलसोसाइटीनाम्न्या संस्थया प्रकाशिते जेसलमेरुभंडारसूचीपत्रे सूचितासु चतसृष्वन्यतमा तदनु ISISHI-IIIIIII-III FIle
Page #14
--------------------------------------------------------------------------
________________ प्रस्तावना। श्रीनलायनस्य II IIIII-III सारेण तत्रस्था भाण्डागारा दृष्टाः किन्तु तत्र तिस्रः प्रतयो नोपलब्धाः, केवलमेक्लेव विद्यते, सूचीपत्रका च तस्य अन्धकारस्य सेतुनाटक- | कर्तृत्वं प्रतिपादितं न तु पञ्चनाटककर्तृत्वम् , उपलब्धासु पूर्वासु तिसूषु प्रतिषु पञ्चनाटकंकर्तृत्वं लिखितं, जेसलमेरुंभंडारसूचीपत्रे सेतुनाटककर्तृत्वं लिखितमिति संदेहे जातेऽस्माभिः जेसलमेरुस्थतपागच्छभण्डारस्था प्रतिः सम्यगवलोकिता किन्तु तत्र नाटकशब्दागे.... इति त्रुटिचिह्नं दत्तं परं न किश्चिदपि लिखितमतः सम्यग्निणेतुं न शक्यते / अस्यां प्रतौ " 1659 वर्षे तपागच्छाधिराजभट्टारकश्री 19 श्रीआनन्दविमलसूरीश्वरशिष्यपण्डितश्रीवानरगणिशिष्य पं. आनन्दविजयगणिभिर्नलायनं काव्यं जेसलमेरुभाण्डागारे मुक्तम्" इति लिखितम् / एवं प्रथमे द्वे प्रती पञ्चदशशताब्दीये, तृतीयायास्तु समयो नोपलभ्यते, चतुर्थ्यास्तु सप्तदशशताब्दीयो लेखनसमयो ज्ञायते ग्रन्थकारस्य विद्यमानता चतुर्दश्यां शताब्द्यामासीदिति च निर्णीयते। . नलायने विशेषः नानाविधैः चित्ताकर्षकरसवच्छन्दोभी रसोर्मियुक्तालकारैरनुप्रासादिभिर्ग्रन्थकर्तुः खलु स्वग्रन्थरचने प्रौढत्वं श्रोतृणां चित्ताऽऽहादकत्वं, पिपठिषूणां चोचाऽऽदर्शशिक्षाप्रदत्वं चाभिव्यज्यते / एतच पूर्वोद्धृतैः श्लोकैः परीक्ष्यते ! - कीदृशस्य नायकस्य चरित्रं वर्णनीयमिति जिज्ञासायाम् नायकाश्चतुर्विधाः साहित्ये वर्ण्यन्तेधीरोदात्ताः, धीरोद्धताः, धीरललिताः, धीरप्रशान्ताश्च / तत्र धीरोदात्तः खलु अविकत्थनः, धैर्यवान् , अतीव गम्भीरः, महासत्त्वो हषशोकयोः समस्वभावः, विनयच्छन्नगर्वः, दृढव्रतः, प्राणविनाशेऽप्यङ्गीकृतपालकः, एभिर्गुणैरस्य चरितनायकस्य धीरोदात्तत्वं ज्ञायते। HIRISHI ING // 5 //
Page #15
--------------------------------------------------------------------------
________________ II AIIALFILAMHI AIIASIK कतिपयानि नलविषये चरित्राणि अतिविख्यातस्य पुण्यजन्मनः श्रीमतो नैषधस्य नलभूपतेः प्राचीनतरैरर्वाचीनैर्बहुभिर्गीर्वाणवाण्युपासकैर्भारतीयैः कृतज्ञैः संस्कृतप्राकृतादिभाषासु काव्य-कथा-चम्पू-नाटकादिभिभिन्नभिन्नसंक्षिप्त-विस्तृतरीत्या विरचितानि चरितान्युपलभ्यन्ते / सतीशिरोवतंसाया भीमपुत्र्या दमयन्त्याः पातिव्रत्येन पवित्रीकृतानि सुचरितानि, दोषयुक्तानि द्यूतादिव्यसनानि च जिनोपासकैरितरैश्च कैकैः कोविदः कं के निवन्ध विधाय प्रदर्शितानीति जिज्ञासया गवेषणायां प्रथम जैनविदुषां नलविषये संस्कृतप्राकृतकृतयः प्रदयन्ते१-गायकवाडओरियन्टलसीरीज़संस्थया प्रकाशितं नलविलासनाटकं कलिकालसर्वज्ञ-आचार्यशिरोमणिश्रीमद्हेमचन्द्राऽऽचार्यशिष्यवर्यपण्डितप्रवररामचन्द्रसूरिविरचितम् / / २-भावनगरस्थया जैनधर्मप्रसारकसभया प्रकाशितं त्रिषष्टिशलाकापुरुषचरित्रान्तर्गतम् अष्टमे पर्वणि तृतीयसमें नलचरितं महाराजकुमारपालभूपालप्रतिबोद्धृ-कलिकालंसर्वज्ञ-हेमचन्द्राऽऽचार्यनिर्मितम् / ३-भावनगरस्थयशोविजयजैनग्रन्थमालातः प्रकाशितं प्रस्तुतं नलायनं महाकाव्यम् ( कुबेरपुराण-शुकपुराणापरनामकम् ) महाकविमाणिक्यदेवसूरिनिर्मितम् / * .. ४-नलचरितम्-भावनगरस्थया आत्मानन्दसभया प्रकाशितं प्राकृतगद्यं धर्मसेनगणिविरचितवसुदेवहिण्डीमध्यमखण्डान्तर्गतम् / ५-नलोपाख्यानम्-देवप्रभसूरिविरचिंतपाण्डवचरितान्तर्गतं यशोविजयग्रन्थमालायां प्रकाशितम् / ..
Page #16
--------------------------------------------------------------------------
________________ श्रीनला प्रस्तावना। यनस्य . IFII IIIIII VIIIIIIIIII ६-नलचरितम्-देवविजयगणिरचितपाण्डवचरितान्तर्गतम् , एतच्च अम्बालान्तर्गताऽऽत्मानन्दसभया प्रकाशितम् / ७-नलचरितम्-गुणविजयगणिविरक्ति-गद्यनेमिनाथचरितान्तर्गतम् / इदं च पण्डितवर्येण अमरचन्द्राऽऽत्मजेन अमृतलालेन (ए. एम्. एण्ड कम्पनीतः ) प्रकाशितम् / / ८-दवदंतीचरितम्-सोमप्रभाचार्यविरचितकुमारपालप्रतिबोधान्तर्गतं गायकवाडओरियन्टलसीरीजसंस्थया प्रकाशितम् / दवदंतीचरियं-पत्तनभाण्डागारीयप्राकृतसूचीपत्रे सूचितम् / / दमयन्तीप्रबन्धः ( गद्यरूपः ) जैनग्रन्थावल्यां सूचितः। दमयन्तीप्रबन्धः (पद्यरूपः ) जैनग्रन्थावल्यां सूचितः / दवदन्तीकथा-सोमतिलकसूरिविरचितशीलोपदेशमालावृत्त्यन्तर्गता जामनगरनिवासिना श्रावकपण्डितहंसराजाऽs मज-हीरालालेन जैनभास्करोदयमुद्रणालयात् प्रकटिता। - दवदन्तीकथा-जिनसागरसूरिविरचितायां कर्पूरप्रकरटीकायाम् / सा च भावनगरस्थया जैनधर्मप्रसारकसभया प्रकाशिता। दमयन्तीकथा-शुभशीलगणिविरचितभरतेश्वर-बाहुबलिवृत्त्यन्तर्गता राजनगर(अहम्मदावाद)स्थया जैनविद्या - शालया गूर्जरभाषानुवादरूपा प्रकाशिता। उपरितनेभ्यो ग्रन्थेभ्योऽन्यत्रापि हरिवंशपुराणे, पाण्डवपुराणे, नेमिनाथपुराणे, त्रिषष्टिलक्षणपुराणे, नलोपाख्याने, नैषधीयचरिते, - नल-दमयन्तीकथा-चम्प्वां, नलोदयकाव्ये, नलाभ्युदये, नलचरितनाटके, नलानन्दनाटके, नलवर्णनकाव्ये, नलभूमिपालरूपके, नल
Page #17
--------------------------------------------------------------------------
________________ विक्रमनाटके, नलचरितकाव्ये, सहृदयानन्दे, राघवनैषधीये, नल यादव-पाण्डव-राघवीये, नलस्तोत्रे, दमयन्तीपरिणयकाव्ये, भैमीपरिणयनाटके, पुण्यश्लोकोदयनाटके, नल-दमयन्तीये जैननैषधीयचरिते, कथाकोषे, कथावल्यां, नेमिनाथचरिते, बसुदेव-कनकवत्यादिकथान्तर्गतस्वतन्त्रकथाचरितरूपे च नल-दमयन्त्याख्यानम् उपलभ्यते / प्राय एते सर्वे ग्रन्था मुद्रिताः सन्ति / III IIIATELATHI AISI IITElle DIGIAIAI ISISille प्राय इतरजैनग्रन्थेऽस्माभिर्नलचरितविषये यो भेदोऽवलोकितः सोऽपि प्रकटीक्रियतेऽत्र / देवविजयगणिविरचिते त्रिषष्टिशलाकापुरुषचरित्रान्तर्गते पाण्डवचरित्रान्तर्गते नलायने- नलविलासे- नलचरिते नलोपाख्यानेवीरसेनः - निषधः निषधः निषेध-वीरसेनौ. नलजनकस्य नाम
Page #18
--------------------------------------------------------------------------
________________ प्रस्तावना। श्रीनलायनस्य कूबरः / कोशल-निषधौ दमयन्ती-दवदन्यौ स्वयम्बरमहोत्स। // नलभ्रातुर्नामनलस्य देश:नलभाया नाम( नल-दमयन्त्योर(नुरागकारणम् 7 // पुष्कर-कूबरौ युवराज-कूबरौ कूबरः कोशल-निषधौ निषधः निषधः दमयन्ती .. " दमयन्ती दवयन्ती . कलहंससंशकः (किश्चिदपि न वर्णित किन्तु हंसपक्षी . (नलवयस्यः स्वयंवर एव . इन्द्रसेनः, इन्द्रसेनाच ( उपेक्षितम् ) इन्द्रसेनः, इन्द्रसेना च कलि . कलचूरिपतिः - (न वर्णितम् ) . . चेदिपतिः चित्रसेनः नलसन्ततिः IIIIIIIIIIIFIEI II दमयन्त्याः कामुकः- दमयन्त्याः मातुरभिधा- पुष्पदन्ती पुष्फवती ( (पुष्फवदी) - पुष्पदन्ती प्रियगुमञ्जरी // 7 //
Page #19
--------------------------------------------------------------------------
________________ कठिनस्थले तिसृणां प्रतीनामाधारेण यथाशक्ति सावधानतया संशोधिते, प्रस्तावना-विषयसूचीप्रभृतिभिर्यथौचित्यमुद्दीपितेऽप्यस्मिन् अन्थे मतिप्रागल्भ्यात् अनवधानतया दृष्टिदोषेण वा यत्र कुत्रचन जाताः स्थिता वा याः स्खलनास्ताः सज्जनाः सम्मार्जयिष्यन्तीत्याशासते. व्यवस्थापकाः श्रीयशोविजयजैनग्रन्थमालायाः IIIIIIIFISIS 19516 III-IIEISIFISIFISSIFIFle
Page #20
--------------------------------------------------------------------------
________________ श्रीनलायनमुद्रणे * आभारप्रदर्शनम् . आभारप्रदर्शनम् / // 8 // जाता HIV II नाना-IIIEIK वटगच्छनभोमणेः श्रीमतः माणिक्यसूरेविरचितस्य संपूर्णस्यास्य ग्रन्थस्य परमात्मनोऽनुग्रहेण मुद्रापणे श्रेष्ठिवर्यश्रीयुतवाडीलाल दौलतराम, गांधी वाडीलाल चतुर्भुज, भावनगरस्थ हीराचन्द देवीचन्द वर्धाजी, राजमलजी, लखमाजी तलाजी, हिन्दूजी हकमाजी, हकमाजी मोतीजी, अन्दाजी सवाजी, श्रीमती लीलावती देवी, गिरधरलाल त्रीकमलालप्रभृतिभिः श्रावकरलैर्निजद्रव्यसहायता दत्ता, अतस्तेषामुपकृतिः स्वीक्रियते / एतन्मुद्रणसमये तिसृणां पूर्वोक्तसंस्थानां व्यवस्थापकैयः सज्जनशिरोवतंसैर्यानि यान्यादर्शपुस्तकानि दत्तानि तेषामप्युपकारः स्वीक्रियतेवीरसंवत् 2465 धर्मसं. 16 व्यवस्थापकैः ज्येष्ठवदि 7 सोमवार श्रीयशोविजयजैनग्रन्थमालायाः भावनगर ( काठियावाड़) MIIIIIIIIIIIIII
Page #21
--------------------------------------------------------------------------
________________ | 4. I AIIA ISI APSI ASIA ISING // ॐ अहम् // शास्त्रविशारद-जैनाचार्यश्रीविजयधर्मसूरिगुरुवरेभ्यो नमः / श्रीमाणिक्यदेवसूरिप्रणीतं . . नलायनम्। (कुबेरपुराणेत्यपरनामकम् ) DIFIIIFII-IIIEIII HIT जयति जयति देवः केवलज्ञानमूर्तिमदमदनविजेता शाश्वतो वीतरागः / जयति कुमुदशुभ्रा भारती भूरिभावा जयति कविकुलानां कोमलो वाक्प्रपश्चः॥१॥ दुरितदलनसजः सज्जनोद्धारधीरो धनवितरणवीरो धर्मविश्रामशाखी / जयति जगति नित्यं निश्चलो निष्कलङ्कः सकलकलुषहारी लोकपालः कुबेरः॥२॥ सुलिग्धैर्नवदुग्धमुग्धमधुरैः शुभैर्यशोभिर्जगद् यश्चक्रे कलिकालकल्मषमषीविक्षेपिभिर्निर्मलम् / स श्रीमानलकापतेर्भगवतः पूर्वावतारः कृती नित्यं मङ्गलमातनोतु भवतां राजा नलो नैषधः // 3 // SITES
Page #22
--------------------------------------------------------------------------
________________ प्रथमम्कन्धे कु नलमा वर्णनम् // II II IIFIFI a. IIIIIIIIIII AIII II म तस्यैवेदं भुवनविदितं चारु चित्रं चरित्रं भैमी भर्तुर्ललितमखिलं निस्तुषं नैषधस्य / . आचन्द्रार्क कलिमलहरं श्रृयंतां सावधानः सा सान्निध्यं मुंजतु जननी सर्वदा मारदा वः // 4 // अत्रैव भरतक्षेत्रे भरबान्वयभूषणः / अभृत कालेऽवसर्पिण्यां निषधेषु नलो नृपः समग्रगुणसम्पूर्णः सर्वावयवसुन्दरः / निःशेषपुरुषार्थज्ञो निखिलागमपारगः धनुर्धरगुणोत्तंसो राजर्पिकुलदीपकः / पृथिवीतलशृङ्गारो दुर्जनौपदवानलः पयोधिर्गुणरत्नानां पर्जन्यः सूक्तिविग्रुषाम् / पवनः शत्रुवृक्षाणां पतङ्गः शस्त्ररोचिपाम् // 8 // मनोभूरिव सौभाग्ये मघवानिव शासने / मृगेन्द्र इव सोमत्वे मार्तण्ड इव तेजसि सुमेरुरिव शैलानां चिन्तामणिरिवाश्मनाम् / कल्पद्रुरिव वृक्षाणां प्रधानः पृथिवीभुजाम् // 10 // इयत्यपि गते काले ग्रामाकरपुरादिषु / अद्यापि कीर्तनैयस्य भूषितं भाति भूतलम् // 11 // सूर्यपाका रसवती नलाख्यं च दुरोदरम् / स चाश्वहृदयो मनो यस्याद्यापि हि विश्रुतः // 12 // अद्यापि यत्कृतं द्यूतं दीव्यन्ति दिवि देवताः / व्योमचर्मण्यसङ्कीर्ण कीर्णतारावराटके // 13 / / अद्यापि यस्य शिक्षन्ते तुरङ्गमगतिभ्रमान् / नद्यश्चोत्तालवातूलैर्वात्यावर्तेश्च वायवः // 14 // 'यदिग्विजययात्रासु सैन्यसम्भारभारितः / अद्यापि वर्तते गात्रैः कूर्मः सङ्कोचवामनः // 15 // वहत्यद्यापि यत्रयात्राभरविनम्रितः / नागराजो वपुर्दण्डं कुण्डलाकारविभ्रमम् राजा वपुदण्ड कुण्डलाकारावभ्रमम् // 16 // II II I
Page #23
--------------------------------------------------------------------------
________________ अद्यापि यत्प्रयाणेषु तुरङ्गखुरखण्डितम् / सुधांशौ दृश्यते लीनं लाञ्छनच्छद्मना रजः // 17 / / नूनं नलसमो राजा न भूतो न भविष्यति / कोऽपि तत्तद्गुणो नान्यः श्रूयते कथमन्यथा? // 18 // श्रीशान्तिखि दुःस्वमं महाविषमिवेन्द्रजित् / हरत्यहरहः पापं नलः स्मरणमात्रतः // 19 // यत्पुण्यं जाह्नवीस्नानाद् यत्पुण्यं गुरुपूजनात् / यत्पुण्यं प्राणिनां त्राणात्तत्पुण्यं नलकीर्तनात् // 20 // निदाघे चन्दनं हृद्यं हृद्या वर्षासु मालती / पिकध्वनिर्मधौ हृद्यः सदा हृद्यं नलायनम् // 21 // यथा श्रेयस्करं दानं यथा पापहरं तपः / यथा शौचकर शीलं तथैव नलकीर्तनम् // 22 // एकतः शकुनाः सर्वे सुप्रशान्ताः फलप्रदाः / कार्यकाले नलस्यैकं नामग्रहणमन्यतः // 23 / / भरतश्चार्जुनश्चैव वैण्यश्च पृथिवीपतिः / नलश्च नैषधो राजा यात्रायां सिद्धये स्मृताः // 24 / / अभीमं भीमसंयुक्तममरालं मरालवत् / न कस्य विस्मयं दत्ते वाच्यमानं नलायनम् // 25 // निर्मलं श्रीरललितं निशालं विश्वनिशुतम् / गुणगशोकग राजर्षेः कीर्न कलिनाशनम् / / 26 !! मध्ये धर्मस्य शान्तेश्च चतुर्थे च तथारके / वीरसेनसुतो राजा नलो राज्यमपालयत् // 27 // वहन विहितविश्वासं चयः षोडशवार्षिकम् / वपुषा वृषभस्कन्धः म प्रजानां प्रियोऽभवत् // 28 // रूपनिर्जितनासत्ये सत्यवादिनि राजनि / तस्मिन् मनोरथातीतं प्रजाः सौख्यं प्रपेदिरे // 29 // खास्थ्येन च समृद्ध्या च सौरांज्येन शिवेन च / आर्यावर्तः परां कोटिं देशी देशेषु लब्धवान् // 30 // II II FIFIEFIFIE IF IN
Page #24
--------------------------------------------------------------------------
________________ || नलस्य II II प्रथमस्कन्धे सर्गः 1 // 2 // वर्णनम् / . II-III III AII वापीकूपप्रपाराममठप्रासादसाधकैः। जनानां जग्मुरारम्भैर्धाथैरेव वासराः / / 31 // नानामाङ्गल्यनिर्वृत्तनान्दीनिर्घोषनिर्भराः / निरन्तरोत्सवा ग्रामा रेजुर्विपुलसम्पदः // 32 // अतीत्य विषभृल्लोकमतिक्रम्य सुरालयम् / धर्मार्थकामसंपन्ना रेजे राजन्वती मही // 33 // काले कृषीवलापेक्षं ववृषुरि वारिदाः / स्वचक्रपरचक्रोत्थं भयं स्वमेऽपि नाभवत् // 34 // अस्त वसुधा क्षेत्रैःसस्य रत्नानि खानिभिः। आकरैः सारभाण्डानि काननैः करिपोतकान् // 35 // आसन् सप्रत्यया देवाः सप्रभावास्तपस्विनः। सविद्याः पाठकाः प्रायः सधना गृहमेधिनः / / 36 // धेनवः क्षीरवर्षिण्यः शाखिनश्च सदाफलाः / अक्षीणसलिला नद्यो जीवत्पुत्राश्च योषितः // 37 / / आरामाद् व्याकुलो नान्यो नाश्वत्थः पिष्पलात्परः / न कश्चिदितरश्वासीत् सरोगः सरसीरुहात् // 38 // आसीद्धन्धस्तडागानां वाद्यानां तलताडनम् / छेदस्तु कनकस्यैव दण्डश्छत्रस्य केवलम् // 39 // कौटिल्य केशपाशेषु काठिन्यं कुचमण्डले / चञ्चलत्वं च नेत्रेषु स्त्रीणामेव व्यवस्थितम् // 40 // कलुषः कुटिलः कुण्ठः कितवः क्रोधनः कुधीः। कृतघ्नः कृपणः क्रूरः कठोरः कोऽपि नाभवत् // 41 // वासरेभ्यो नमस्तेभ्यः सार्वभौमः स येष्वभूत् / धन्यास्तेऽपि निपीतं यैर्जनस्तद्वचनामृतम् // 42 // 'स कथं वर्ण्यते राजा यद्गुणग्रहणोद्यमे / प्रीतिगद्गदकण्ठानां स्खलन्ति विदुषां गिरः // 43 // तस्यैव हि विराजन्ते नलस्य गुणवर्णनाः / स्वर्गभोगोपभोगानां भोक्ता भूमिस्थितोऽपि यः // 44 // I AIII 2 // || A I
Page #25
--------------------------------------------------------------------------
________________ IIIIIIIIIII FHIBI येनात्मरूपसम्पच्या सुपर्वाणोऽपि निर्जिताः / पार्थिवेषु बभूवैकः स पृथ्व्यां केवलं नलः // 45 // अथवा यः सहस्राक्षः शतमन्युः शतक्रतुः / वज्रपाणिः सुनासीरो मघवा मेघवाहनः // 46 // यः कल्पवृक्षलक्षाणि कामधेनुशतानि च / चिन्तामणिसहस्राणि प्रसादेन प्रयच्छति // 47 // सोऽपि यस्य प्रियाप्रेमपरमानं जिघत्सतः / अचिन्तितातिथीभावप्रतिपत्तिं प्रपन्नवान् 48 // (त्रिभिर्विशेषकम्) सर्वस्वं ददताऽपि येन समरे दत्तं न पृष्ठं द्विषां कोलीनाद् विभयांबभूव भुवने धीरेषु धुर्योऽपि यः। यः प्राज्ञोऽपि परापवादविषये मूर्खेषु मुख्योऽभवत् येनोचैः शिरसापि कीर्तिसमये चक्रे विनम्र शिरः // 49 // गङ्गौरिव चन्द्रभानुभिरिव क्षीराब्धिपूरैरिव पालेयरिख कैरवैरिव बृहन्मुक्ताकलापैरिव / प्रेकद्भिविभवेन यस्य परितः स्फीतैर्यशोभिर्जगत पूतं द्योतितमाततं शिशिरितं संवासितं भूषितम् // 50 // यस्मादमोघमहसः कनकोत्करेषु प्राप्तेषु मार्गणगणैर्गणनातिगेषु / उद्भूतभूरितरकालमहाभरेण ब्रीडानतानन इवाजनि कल्पवृक्षः // 51 // अधर्मा प्रस्वेदस्तुहिनरहितः कम्पमहिमा विना दीक्षां मौनं निरुपधिविधिःस्तम्भविभवः / अखेदो गात्राणामनिशमवसादश्च सुतरामरीणां स्त्रीणां च प्रभवति यमालोक्य बलिनम् // 52 // अरिनिकरकरङ्कप्रौढपर्यङ्कपीठे मदकलकरिकर्णप्रेरितेनेव येन / निरवधिनिरवद्यं निर्भयं निर्विकल्पं रणभुवि विजयश्री:रवीरेण भुक्ता // 53 // SIAHI 44 III III
Page #26
--------------------------------------------------------------------------
________________ प्रथमस्कन्धे कु सर्गः 2 आदितः कथनमेव मज्जातं हेतिशब्दमथ के कृतन्तः / श्रद्दधानहृदि वीरवरः सन् यत्र वै वितरणे च रणे च // 54 // इति श्रीमाणिक्यदेवसूरिकृते नलायने प्रथमउत्पत्तिस्कन्धे प्रथमः सर्गः // 1 // नलस्य विलासः। RI III II A II III A MEIGATII ATHI III KI . प्रथमे उत्पत्तिस्कन्धे द्वितीयः सर्गः / स दिग्विजयमुद्दामं चक्रे शैशवशेषवान् / विदधे चाक्षयं कोशं कुशलः कोशलेश्वरः // 1 // ददौ दयितमुद्दामं दानं सततमर्थिनाम् / चकार प्रतिपूर्वाणां दानं सततमर्थिनाम् // 2 // दूरं दर्शितवान् वीरः प्रतिपत्तिं सदा सताम् / प्रतिपाद्य विपक्षाणां प्रतिपत्तिं सदासताम् // 3 // विहाय देशमादेशं बलं मुक्त्वा च कम्बलम् / चरणं च रणं मुक्त्वा भेजिरे यस्य वैरिणः // 4 // स्वतन्त्रः कृतवान् क्रीडां न्यस्ततन्त्रः स मन्त्रिषु / सौभाग्यसुन्दरः श्रीमान् राजा भोगपुरन्दरः // 5 // पुरोपवनवल्लीषु वारनारीवृतः स्वयम् / कदाचिदाचरत्युच्चैः पुष्पांवचयविभ्रमम् // 6 // इत्थं वीरविलासेन साम्राज्यं तस्य भुञ्जतः / सेवावसरवेदीव प्रावृट्कालः समाययौ // 7 // आसीद् गर्जति पर्जन्ये षड्जस्वरविराविणाम् / तूर्यत्रयमयी रम्या क्रीडा कापि कलापिनाम् // 8 // II | 3 |
Page #27
--------------------------------------------------------------------------
________________ II III AIII VIFII ARY बकुलं चक्रवचक्रे चम्पकं तोमरोपमम् / केतकं कर्णिशरवत् पुष्पास्त्रः प्रोषितस्त्रियाम् // 9 // एतस्मिन् समये राजा दिने क्वचिददर्दिने / प्रकाशकुट्टिमस्कन्धमध्यासामास नैषधः // 10 // विद्वद्भिर्वारनारीभिर्वयस्यैर्वरखेत्रिभिः / वृत्तो वैणविकैर्विष्वक वैतालिकविदूषकैः // 11 // ध्रुतशीलसमानेन महामित्रेण मन्त्रिणा / सहितः श्रुतशीलेन सालङ्कायनसूनुना // 12 // विश्वं विलोकयन् वर्षाविभूतिभरभूपितम् / ददर्श दृरतो वृद्धवान बहूनापततो मुनीन् ते कडारतरोत्तुङ्गजटामुकुटमौलयः। वहन्त इव सत्राग्निं रेजिरे भस्मभूषणाः // 14 // द्वारप्राप्ताः कृतार्धास्ते प्रत्युद्गम्य पुरोधसा / वर्णाश्रमगुरुं द्रष्टुं प्रविशन्ति स्म विस्मिताः // 15 // कर्णधारैरिव द्वाःस्थैर्वेश्मकक्षान्तराणि ते / वार्बुिद्वीपान्तराणीव दिग्मूढास्तत्र निन्यिरे // 16 // सहस्रशिखरं शुभ्रं कैलासमिव ते परम् / प्रासादमधिरोहन्तः परिश्रान्तास्तपस्विनः // 17 // मशङ्कादगातारते दूरं दुरतरदर्शिनः ! जामुनगनदात्या गाय दीलापट्टिमम् // 18 // कृपाणबाणतूणीरप्रमुखान्यायुधानि च / छत्रप्रकीर्णकादीनि नरेन्द्रककुदानि च // 19 // सिप्राचषकभृङ्गारपारीयायाणि कोटिशः। पात्राणि च पवित्राणि रत्नरौप्यमयानि च // 20 // चकोरकीरचक्राङ्गपिकपारापतादिकान् / भूषितान् भ्रमतः स्वैरं मत्तान् क्रीडापतत्त्रिणः // 21 / / ददृशुस्तत्र दिव्यादि वस्त्वेकैकं महीपतेः / आजन्मतोऽपि नामापि यस्य स्वप्नेऽपि न श्रुतम् // 22 / चतुर्भिः कलापकम्) PRII + III ISITE ISII II IIF II II II
Page #28
--------------------------------------------------------------------------
________________ प्रथमस्कन्धे सर्गः 2 ||SHIFII कर्पूरगन्धरुद्धेन नीरन्ध्रागरुधूपिना / जग्मुस्ते मध्यमार्गेण श्रीखण्डक्षोदधूलिना // 2.3 / / प्रत्यासन्नमिव स्वर्ग दूरस्थमिव भूतलम् / करस्थाविव चन्द्राकी ते तत्रारुह्य मेनिरे // 24 // विकीर्य फलपुष्पाणि निषिण्णानासनेषु तान् / दत्ताशिषः स्वयं प्रोचे वर्णाश्रममुनिर्मुनीन् // 25 // कच्चिद् वः कुशलं विष्वक् मशिष्याणां तपोधनाः!। वनेषु वसतां नित्यं कुर्वतां दुस्तपं तपः // 26 // पुण्याश्रमद्रुमाणां च कदाचिन्नोपपद्यते / वज्रानलानिलव्यालजलादिभ्यः पराभवः // 27 // स्नेहेन मुनिकन्याभिः पुत्रवत्परिवर्द्धिताः / व्याललुब्धकहिंस्रेभ्यो निर्भया भवतामगाः // 28 // आर्याः! प्रीतोऽस्मि युष्माकं स्वयमेवोपसर्पणात् / प्रादुर्भावात् पयोदानां छायया पथिको यथा // 29 // पुराणपातकध्वंसी भविष्यत्फलसूचकः / सम्भाक्यति नाभव्यं सर्वतीर्थमयोऽतिथिः // 30 // एतदेव मनुष्यत्वं संविभागो यदर्थिनाम् / स्वोदरम्भरितावर्ज किमन्यत्पशुलक्षणम् ? // 31 // विभवस्य फलं धर्मो धर्मस्य निभवः फलम् / कार्यकारणयोगोऽयमन्योऽयं वृक्षवीजवन् // 32 / / बीजं क्षेत्रे धनं पात्रे वपतां वृद्धिकासया / केवलं कृषिधमोऽयं परोपकरणं कुतः? // 33 // त्रयाणां नोपसर्पन्ति गृहाण्यतिथिदेवताः / कीनाशानामभव्यानां यद्वा हत्यापवादिनाम् / / 34 // यौवनं विधवास्त्रीणां फलं वनमहीरुहाम् / धनं कृपणलोकानां ब्रूते वन्ध्यं विधेः श्रमम् // 35 // यस्य नार्तपरित्राणं यस्य नातिथिपूजनम् / यस्य नात्मीयसामर्थ्य सत्यं स पुरुषाधमः // 36 // II AISINES तापसाना कुशलार्थ नलस्य प्रश्नाः मुनीनाश्चागमात् नलस्य परितोषः। IIHIFTII IS IAFII // 4 //
Page #29
--------------------------------------------------------------------------
________________ II THI - MEIS IS IITHIN IIIF II IEF अद्य मे पितरः प्रीता अद्य मे श्रीः स्वयम्बरा / अद्याहं कृतकृत्योऽस्मि यौष्माकीयसमागमात् // 37 // तद् ब्रूत मम के यूयं कुतो वा काननान्तरात् ? / किमर्थमयमायासः समादेशकरे मयि // 38 // इयं क्षितिरियं लक्ष्मीरिदं राज्यमिदं गृहम् / युष्मत्प्राप्तिप्रसादस्य क्रियतां केन निष्क्रयः ? // 39 // ललितोदारधीरं तद् वाक्यं श्रुत्वा विशाम्पतेः / ततो वाचंयमाः प्रीताः प्रत्यवोचन् विचक्षणाः॥४०॥ निषिधेन्द्र निषिद्धारे ! भूचन्द्र ! तप दर्शनात् / अवृत्तमपि संवृत्तं जानीहि कुशलं हि नः // 41 // सदाफलस्य तुङ्गस्य सुमनोवृन्दमालिनः / तव कल्पद्रुमस्येव दुर्लभं देव ! दर्शनम् // 42 // कलावान् विमलः सौम्यः मुवृत्तो दक्षदुःखहृत् / देव ! त्वमिन्दुरुत्पन्नो वीरसेनकुलोदधेः // 43 // कुशाग्रनिशिता बाणा बुद्धिश्च तव नैषध ! / दानशक्त्या च कीर्त्या च त्वयाऽऽशाः परिपूरिताः॥४४॥ दण्डभृद् धनदो भास्वान् प्रचेताश्च त्वमेव हि / चतुर्णा लोकपालानामेकं रूपं भवान् भुवि // 45 // पद्मभृत् पद्मवासा च पद्मिनी पद्मलोचना / महापद्मप्रदा देवी पद्मानि च सति त्वयि // 46 // पदपद्मयुगं जुष्टं समुदा येन सेव्यते / स निर्धनोऽपि लक्ष्मीनां समुदायेन सेव्यते // 47 // सहसारिकृतत्रासः सत्रात त्वं कलारसः / सरलाशयताभासः सभातारोरुसाहसः // 48 // (पट्टबन्धः ) इयं शक्तिरियं भक्तिरिय प्रज्ञा च तावकी / क्षितौ कस्य नृपस्याद्य दृश्यते श्रूयतेऽथवा ? // 49 // गृहिणां यतयस्तीर्थ यतीनां गृहमेधिनः / पुण्यश्लोकं समालोक्य त्वामद्य मुदिता वयम् // 50 // III A III A THII
Page #30
--------------------------------------------------------------------------
________________ FII समें:२ IIFILT I कच्छमहाकच्छयो: ऋषम देवस्य ला आराधना। II शृणु राजन् ! पुरा पृथ्व्यां पार्थिवौ प्रथितान्वयौ। वीरौ कच्छमहाकच्छौ मुक्तसङ्गौ मनस्विनौ // 51 // भजतः स्म महाभक्क्या भगवन्तं स्मरान्तकम् / शिवं शङ्करमव्यक्तं जटामुकुटमण्डितम् // 52 // दिगम्बरं दुराराध्यं महादेवं महेश्वरम् / आदिनाथं जगन्नाथं वृषस्कन्धं वृषध्वजम् // 53 // तयोराराधनप्रीतः पुण्डरीको गणेश्वरः / दिदेश चतुरो वेदान् श्रेष्ठं च शिवशासनम् // 54 // तौ महर्षिषु मुख्यत्वं प्रपन्नावार्यतापसौ / ययोः कुलपतिः स्वामी भगवान् वृषभध्वजः // 55 // तदन्वये वयं जाताः पृथिव्यामार्यतापसाः / शीर्णपर्णफलाहारा निषधस्कन्धवासिनः // 56 // अस्ति नो जाह्नवीतीरे तीर्थ नाम्ना तमोऽपहम् / सर्वपापहरं पुण्यं भरतेश्वरकारितम् // 57 // तत्रास्ति नलिनीगुल्मे मेघनादवितानिनि / प्रासादे स्थापितः श्रीमान् वृषाको मूलनायकः // 58 // स्निग्धश्यामजटाजूटं यं प्रणम्य जगद्गुरुम् / न नृणां जातु जायन्ते नानां नरकयातनाः // 59 // कीर्यन्ते जानुदनानि कुसुमानि मनीषिभिः / कल्याणीभक्तिभिर्देवैर्यत्कल्याणिकपर्वसु // 6 // तत्रासाकं निरातकं चिरं निवसतां सताम् / दुर्दैवप्रेरितः प्राप्तः क्रौञ्चकर्णो निशाचरः // 61 // विद्याधरैः स वैताढ्यान्निरस्तो बान्धवैरपि / कुविद्यासाधकः पापी नृचक्षा राक्षसाधमः // 62 / / महामायामयः क्रूरो दुरात्मा वश्चनाचणः। स द्रोहेण विनास्माकं दिनमेकं न तिष्ठति // 3 // अनालोकमनामोदमनध्यायमवैभवम् / संप्रत्यस्नानमध्यानममाकमभवद् वनम् // 64 // HI AIII A III 4 III II III I I II
Page #31
--------------------------------------------------------------------------
________________ FIII II A || ते ते मन्त्राश्च यत्राश्च यक्षराक्षसवारणाः / प्रतिबोधा इवाभव्ये न तत्र प्रभवन्ति नः // 65 // तस्मादस्मान् समायातान् शरणं तव पार्थिव ! त्वं रक्ष रक्षसस्तस्मात् संसारादिव संयमः नागायुतबलः क्रुद्धो मदान्धो मुद्गरायुधः / स वैरी हन्यतां वीर ! वीरसेनसुत ! त्वया // 67 // दुष्टानां निग्रहो नित्यं शिष्टानामप्यनुग्रहः / अयं परम्परायातः कुलधर्मो महीभृताम् // 68 // विद्वद्भिः सह सङ्गमाय सपदि स्वस्यात्मनः प्रीतये / चातुर्योपगमाय पुण्यपुरुपक्रीडोपलम्भाय च / अर्थानां च समर्थनाय कृतिभिस्त्वं सर्वथा दृश्यसे / नैके केचन वीरसेनतनय ! त्वदर्शने हेतवः // 69 / / द्वीपिन्योरिख जाह्नवीयमुनयोः स्थानं प्रयागः क्षितौ / लक्ष्मीशारदयोस्त्वमेकभुवनं मामण्डलाखण्डल!। तेनैवात्र मनीषितव्यतिकरं निर्दिश्य देशान्तरात् / यातायातमजसमाश्रमममी वर्णाश्रमाः कुर्वते // 70 // प्रतिदिवसमसङ्खथैर्धर्मकर्मोपलम्भैरुपचिनु शशिभांसि स्वैरमुच्चैर्यशांसि / प्रसरतु भवदीयैः कीर्तिकल्लोलजालैर्दशदिशि जलकेलिकीडितं सत्कवीनाम् // 71 // श्रुत्वा तदेतदतुलं वचनं मुनीना-मङ्गीकृतव्यतिकरः परवीरहन्ता / श्रीमन्तमुचमुचितं. चतुरं तुरङ्ग तुङ्गं तरङ्गतरलं त्वरयाऽऽरुरोह // 72 // अथ विदितविचारः शस्त्रवानश्ववारः कृतकलुषनिकारः शत्रुसंहारसारः / निपधपतिरुदारः स्फारशृङ्गारभारः कतिपयपरिवारः कौतुकी सञ्चचार .. // 73 // SET A TERIA FII A
Page #32
--------------------------------------------------------------------------
________________ प्रथमस्कन्धे सर्मः 3 इति श्रीमाणिक्यदेव सूरिकृते नलायने प्रथमे उत्पत्तिस्कन्धे द्वितीयः सर्गः // 2 // श्री नल-क्रौत्र कर्णयोयुद्धम् / II III II II प्रथमे उत्पत्तिस्कन्धे तृतीयः सर्गः / स प्राप दृष्टिविष्टब्धकुट्टिमस्पर्धिवालुकाः / स्वैरनिर्झरझात्काराः पुरीपरिसरस्थली: ददृशुर्मण्डलाकारमम्भोदमिव दतः / शुकपिच्छच्छविच्छवं तस्योपरि पुरीजनाः // 2 // स जगाम फलश्यामस्निग्धजम्बूकदम्बकम् / अकाण्डनिविडध्वान्तमचलोपान्तकाननम् // 3 // अथाग्रे चोग्रदुर्गन्धं समुभूषितमूर्द्धजम् / दंष्ट्राक्रकचदष्टौष्ठं ज्वलज्वलनलोंचनम् सोऽपि तान् वीक्ष्य सावज्ञमट्टहासैर्भयङ्करैः / त्रस्तपत्वा दिशः कुर्वन्नूचे वचनमुच्चकैः // 5 // रे रे मनुष्यपशवः ! स्थीयतां स्थीयतामिह / कालाघ्राताः समायाता यूयं मद्भुजगोचरम् // 6 // एष वः सरसाहारः तर्षणोत्फुल्लपेशलैः / सुस्निग्धमधुरैर्मीसैधिनोमि जठरानलम् // 7 // इत्युत्थाय गिरेः शृङ्ग क्षेप्तुकामं निशाचरम् / एकाकी तं प्रतीयेष पुण्यश्लोकः परन्तपः // 8 // अरे रे विकृताकार ! दुराचार ! निशाचर ! / ब्रह्मस्त्रीभ्रूणगोधातः कुलधर्मस्तव ध्रुवम् // 9 // BI FIFII IIIIIIIIII IIFEI ||
Page #33
--------------------------------------------------------------------------
________________ तथापि तव दुर्गन्धो दुःसहः सुतरामयम् / तेन त्वं कामिनां प्रीत्यै वध्यसे पातकीति च // 10 // मुश्च मुश्च यथाशक्ति प्रहारं प्रथमं मयि / पश्चाजानासि भक्ष्यानामस्त्राणां च विवेचनम् // 11 // इत्येवं धीरललितं प्रहसन्तं नलं प्रति / चिक्षेप शिखरं क्रुद्धः क्रौञ्चको निशाचरः // 12 // प्रलयाम्भोधरध्वानं धनुरास्फालयन् नलः / तं ततक्ष शरैस्तीक्ष्णैर्वाक्यैश्च रजनीचरम् // 13 // ततो वर्षन् शराजालैः शालतालैश्च राक्षसः / तीरतोमरनाराचैरर्द्धचन्द्रैश्च भूपतिः // 14 // अभूत समरसंरम्भस्तयोर्भुवनभैरवः / बभूव निविडं ध्वान्तं द्वयोरप्यखवृष्टिभिः // 15 // अपश्यन् भुवि सामन्ता दिवि देवाश्च दूरतः। चचाल साञ्चला पृथ्वी निश्चलः पवनोऽप्यभूत् // 16 // शरैरन्तर्हितं विश्वं शृङ्गैरन्तरिता दिशः / कदापि विजयी राजा कदापि रजनीचरः // 17 // धनुर्धानवियद् व्याप्तं फेत्कारैः कम्पिता दिशः / भूयोऽपि मुदितं वीरैर्भूयो भीतं तपस्विभिः॥ 18 // अस्मिन् व्यतिकरे घोरे राक्षस छलयोधनः / विप्राद्य क्षत्रियाणां स्यादवध्यमिति चिन्तयन् // 19 // मुमोच तीक्ष्णशृङ्गाग्रं निशातक्षुरसम्पुटम् / गोसहस्रमयं शस्त्रं दिव्यमायामयं नले // 20 // (युग्मम् ) नैषधस्य विनिर्धूतं वायव्यास्त्रबलेन तत् / भम्भारवमुखं भेजे भिन्नपति दिशोदिशम् // 21 // विलोलनयनाः श्यामा विशालजघनस्तनीः / ततो नक्तश्चरस्तत्र स्त्रियः शस्त्रीचकार सः // 22 // ताः परिम्लाननयनाश्छिन्नाङ्गथः श्लथकुन्तलाः / राज्ञः सम्मोहनास्त्रेण निपेतुर्भुवि मूर्छिताः॥ 23 // .
Page #34
--------------------------------------------------------------------------
________________ प्रथमस्कन्धे सर्गः३ नल क्रौञ्चकर्णयोयुद्धम् , . क्रौञ्चराक्षस वधश्च // IIIIIIII III FISHI II ततोऽपि व्यात्तवदनः स्फारफेत्कारदारुणः। व्याचकार. मुखोल्काभिराग्नेयास्त्रं निशाचरः // 24 // दारिद्यमिव दानेन दण्डेनेवाशु दुर्नयम् / निनाय जलदास्त्रेण तदपि प्रशमं नलः // 25 // ज्ञात्वा दिव्यास्त्रमाणानां तमयोग्यं निशाचरः। घूर्णयन् मुद्गरं घोरं प्रहर्नु प्रत्यधावत // 26 // आजानेयं महौजस्कं मण्डलैः परिवर्तयन् / अलातचक्रवद् धुन्वन् कोदण्डं कुण्डलीकृतम् // 27 // अर्द्धचन्दैश्च भल्लैश्च क्षुरप्रैः कर्तरीमुखः। नैषधस्ताडयामास शरैमर्मसु राक्षसम् // 28 // (युग्मम् ) क्षणं इस्वः क्षणं दीर्घः क्षणं व्योम्नि क्षणं क्षितौ / क्षणं पुरः क्षणं पृष्ठे वामदक्षिणयोः क्षणं // 29 // चिरं विचित्रचारीभिर्वश्चयन् दृष्टिगोचरम् / वपुर्विधाय वाराहं दुरात्मा द्रुतमद्रवत् // 30 // तमन्वधावदासिद्धं योजनानि त्रयोदश / सूकरं- सादिनां मुख्यः सुपर्ण इव पनगम् // 31 // गर्रागिरिसरिद्वक्षान् नहि किञ्चिदजीगणत् / सर्वमुल्लङ्घय रंहस्वी ययौं पक्षीव वाडवः // 32 // न तुरङ्गो न पर्याणं न सादी न च सायकाः / रेखेव केवलं दृष्ट्वा क्रोडं तस्यानुधावतः // 33 / / उभयोरभवद् युद्धं पुनः कम्पितपर्वतम् / स्थित्वा दिनकरेणापि वीक्ष्यमाणं क्षणे क्षणे // 34 // अथ भूमिभुजा भुजारभाजा गजकुन्तेन भुवा समं से विद्धः। सहसा विससर्ज जीवितव्यं वितताक्रन्दभयङ्करो वराहः कथञ्चन निशाचरं स विनिहत्य युद्धाङ्गणे समग्रमकुतोभयं मुनिजनं विधाय द्रुतम् / ' III AI AII बाजा III
Page #35
--------------------------------------------------------------------------
________________ I 4. ISI AISIA ISI A MEII III परिश्रमसमाकुलः समजनिष्ट देहे क्षणं बभूव सुतरां पुनर्मनसि सुस्थितः पार्थिवः // 36 // तत्रावतीर्य तुरगादुरगारिवेगाल्लक्ष्मीसखं परिजनं परिपालयन्तम् / तं भेजिरे भुजगराजभुजं तदानीं भूमीभुजं नवभुजिष्यसमाः समीराः // 37 // उत्फुल्लपल्लवितनिम्बकदम्बजम्बूजम्बीरकीरकटुकार्जुनकेतकीकाः / तस्याददुः श्रमशमं वपुषः समन्तादुत्तालवालकदलीपवना वनान्ताः // 38 // तस्मै ददुर्मुदमुदारमयूमयूरहारीतचातकचकोरकपिञ्जलानि / आसन्नकिन्नरनिरन्तरगीतगानध्यानकतानहरिणानि वनस्थलानि // 39 // इति श्रीमाणिक्यदेवसूरिकृते नलायने प्रथमे उत्पत्तिस्कन्धे तृतीयः सर्गः // 3 // 卐III II II II III - प्रथमे उत्पत्तिस्कन्धे चतुर्थः सर्गः। तत्र भिक्षाचरः कोऽपि कौपीनावरणः कृशः / विद्वान् वैदेशिकः प्राप वल्लरीनद्धमूर्द्धजः // 1 // बिभ्राणः पाणिना यष्टिं वहन् कण्ठेन मृन्मणीन् / दधानः कम्बलं स्कन्धे पात्रं च क्रमुकत्वचम् // 2 // स विलोक्य विशांपत्युर्विशेषसुभगं वपुः / चेतसा चिन्तयाञ्चक्रे विचारचतुरश्चिरम् // 3 //
Page #36
--------------------------------------------------------------------------
________________ प्रथमस्कन्धे सर्गः४ II श्री नल पथिकयोवार्तालाप . // 8 // 卐IIIIIIIIIIIIII FIFIII उदधेरिव गाम्भीयं चन्द्रस्येवातिसौम्यता / गुरोरिवाभिगम्यत्वं गुरुत्वं च गिरेरिव . // 4 // तानि तानि यथास्थानं सम्पूर्णानि स्फुटानि च / चक्रचापाकुशादीनि लक्षणानि सहस्रशः // 5 // यथेदं लक्षणाधिक्यं यथा चायं गुणोदयः। नूनं तथास्ति कोऽप्येष भर्ता स जलधेर्भुवः॥६॥ (त्रिभिर्विशेषकम्) महीनाथा महातीर्थ महौषध्यो मुनीश्वराः / अल्पभाग्यवतां पुंसां प्रायो दुर्लभदर्शनाः // 7 // भवन्ति हि शुभोदर्काः सङ्गमाः सममीदृशैः। इत्युपेत्य विनीतात्मा तस्याशीर्वादमाददे // 8 // क्षमाधार ! क्षमाधार ! महाकर ! महाकर ! / सदानन्द ! सदानन्द ! सभाजनसभाजन! // 9 // प्रोतायाः कालसूत्रेण सृष्टिश्रेणेविभिद्य यः / एको मणिरिवाभाति पातु स त्वां त्रिकालवित् ॥१०॥(युग्मम् ) तमेवंवादिनं प्रेम्णा समालोक्य ससंभ्रमम् / अवोचत् क्रौञ्चकर्णारिः कुशलप्रश्नपूर्वकम् // 11 // तीर्थयात्रिक ! भद्रं ते प्रष्टव्योऽसि कुतोऽधुना ? / कानि कानि च धर्मार्थ तीर्थानि गतवानसि // 12 // इहोपविश्यतां पार्श्वे वृत्तान्तः कोऽपि कथ्यताम् / पृथ्व्यामपूर्वदृश्वानो भवन्ति हि भवादृशाः // 13 // अपूर्व दर्शनं स्वल्पा प्रीतिः परिचयो नवः / इत्यस्मद्विषयं किश्चित् क्षोभं मनसि मा कृथाः // 14 // एकस्मिन् भूतले वासो जातिरेकैव मानुषी / इति पश्य जगत्यस्मिन् समग्रः स्वजनो जनः // 15 // इत्युक्तवन्तमन्तस्तं प्रशंसन् पार्थिवं मुदा / जगाद सादरं सोऽपि विज्ञातपुरुषान्तरः // 16 // . शृणु सर्वकलादक्ष ! दक्षिणस्यामहं दिशि / पूर्व रिपुजनाशक्यं नाशक्यं गतवान् पुरम् // 17 // II 4 IIIII AIII // 8 //
Page #37
--------------------------------------------------------------------------
________________ IIIIIII II III FIII IS तत्र चन्द्रप्रभं नाम्ना धाम्ना च जगदीश्वरम् / दृष्टवानष्टकर्मनमष्टमं परमेश्वरम् // 18 // ततोऽहं दण्डकारण्यं प्रविष्टः कष्टनिर्गमम् / दुष्टश्वापदसङ्कीर्ण गर्नागिरिगुहाकुलम् // 19 // पूर्व हि दण्डकारण्यं दण्डकस्य महीपतेः / कुम्भकारकटं नाम्ना नगरं. तद् बभूव च // 20 // दण्डकप्रतिबोधाय स्कन्दकः समुपाययौ / आचार्यः पूर्वसंबन्धी कानने नवतत्त्ववित् // 21 // तं धर्मनिरतं पश्यन् तद्भक्तिप्रवणं नृपम् / न सेहे नृपतेस्तस्य पुरोधाः पालकाभिधः // 22 // कदाचित् कायचिन्तार्थे सशिष्ये प्रस्थिते मुनौ / तदाश्रमे स मायावी भुवि शस्त्राण्यधापयत् // 23 // जगाद च नृपं गत्वा राजन् ! भयमुपस्थितम् / स्कन्दको मुनिवेषोऽयमाततायी तवागतः // 24 // शालकस्ते च राज्यार्थी भवन्तं हन्तुमिच्छति / समं महारथैः शिष्यैर्गुप्तशस्त्रोऽस्ति दृश्यताम् // 25 // तथा कृते नरेन्द्रेण दण्डकेनाविवेकिना। पालकः स्कन्दकस्यैव वधार्थं प्रहितः पुनः // 26 // सोऽपि यत्रेषु निक्षिप्य मुनीननपराधिनः। तिलवत् पीडयामास पालकः पापकर्मकृत् // 27 // तेऽपि सर्वे दिवं जग्मुः क्षमाभाजस्तपोधनाः / शिष्यस्याथ शिशोरर्थे पालकं स्कन्दकोऽवदत् // 28 // पूर्व निक्षिप मां यचे यथा ते पूर्यते रतिः / एनं नैवोत्सहे द्रष्टुं पीड्यमानं दृशोः पुरः // 29 // मर्मच्छेदं विदन् तेन स तं प्रत्युत तर्जयन् / बालकं पीडयामास पालकस्तस्य पश्यतः // 30 // ततस्तरस्विनः सूरेः स्कन्दकंस्य मनस्विनः / तस्य कोपः स कोऽप्यासीद् यस्य स्वल्पमिदं जगत् // 31 // IIIIIIIIIIIIIIIIIIISH
Page #38
--------------------------------------------------------------------------
________________ IIII प्रथमस्कन्धे कु सर्गः 4 श्री दण्डक प्रतिबोधाय IIIIIIIIIIIIF IIFITS मुखं ज्वालाकुलं विभ्रन् कुर्वन् क्ष्वेडावं मुहुः / स ददाह भृशं क्रुद्धः कुम्भकारकटं पुरम् // 32 // कृत्वापि कीटपर्यन्तं भस्मसात् सकलं पुरम् / पुनरेव शशापेदं प्रदीप्तक्रोधपावकः // 33 // यथा विराधको नाहं तथात्र वचनान्मम / आकल्पान्तमिदं मा भूत् कदाचन जनास्पदम् // 34 // तदभूदुद्वसं तस्मान्नवद्वादशयोजनम् / जनस्थानं च तस्यैव सीम्नि पञ्चवटी कृता // 35 / / इत्थं तीर्थानि कुर्वाणः पूज्यमानच दानिभिः / स्वदेशाभिमुखं भूयो वलितः फलितोद्यमः // 36 / / प्रणम्याहं महालक्ष्मी कान्त्याः प्रचलितः पथि / अधरोधिनि विश्रान्तः क्वचिन्यग्रोधमण्डले // 37 / / तदा तदभवत् किश्चिन्मम लोचनगोचरम् / आजन्मतोऽपि यत्क्वापि न च दृष्टं न च श्रुतम् // 38 / / तदाकर्णय भद्रं ते तुल्यं तुल्याय कथ्यते / इयं हि विविधाश्चर्या रत्नगर्भा च मेदिनी // 39 // तस्मिन्नवसरे तत्र प्रेरिता सुकृतमम / किरातकुब्जकव्याप्ता वृता कञ्चुकिनां शतेः // 40 // ध्रियमाणातपत्रा च वीज्यमाना च चामरैः / निषिच्यमानमार्गा च सुगन्धिकुसुमद्रवैः // 41 / / उद्भिनयौवनारम्भा स्तोकस्तम्भितशैशवा / करेणुस्कन्धमारूढा प्रौढप्रायसखीजना // 42 // कुतोऽपि क्वापि गच्छन्ती कापि भूपालबालिका / समागत्य विशश्राम मुहूर्त संपरिच्छदा / / 43 // (चतुर्भिः कलापकम्) वाक्ये वयसि विद्यासु नेत्रे वपुषि वैभवे / आरूढा परमां कोटिमद्वितीया धरातले // 44 // ग्रामीणेनेव सोत्कण्ठमतृप्तेनेव निर्भरम् / विस्मितेन मया दृष्टा सुचिरं चारुहासिनी // 45 // (.युग्मम् ) चार्यस्या गमनं, शिष्याणां यन्त्रपीलनं, शापश्च। II A MERI ISII म्. 9 //
Page #39
--------------------------------------------------------------------------
________________ ISIS HII ARI NIFICAI II एकं च लक्षणं तस्याः सकलस्त्रीजनोत्तरम् / कथ्यमानमपि प्रायो जनानां न प्रतीतये // 46 // भाले बिभर्ति सा बाला बालारुणसमप्रभम् / रूपराज्यध्वजमिव स्वभावतिलकं शुचि // 47 // मातर्विश्वम्भरे ! देवि ! रत्नगर्भासि निश्चितम् / धन्यः स एव यस्यैषा भवेद् वामाङ्गमण्डनम् / / 48 / / अदृष्टचरतद्रूपविलोकनकुतूहली / इत्यहं सन्निधौ तस्याश्चित्ते चिरमचिन्तयम् // 49 / / (युग्मम्) तदा तत्र त्वयेवाहं पृच्छयमानस्तयापि हि / पथिकः कश्चिदौदीच्यः सप्रशंसं वदन्नभूत् // 50 // श्रुतं मया च तेनापि वर्ण्यमानस्य कस्यचित् / उदीचीनस्य भूभर्तुः श्लाघाशेषमिदं यथा // 51 // त्वं सौभाग्यसुधासिन्धुः स लावण्यामृतोदधिः / युयोर्युक्तसंयोगे कृतार्थोऽस्तु विधिश्रमः // 52 // तन्न जाने स कोऽप्येवं वर्णितस्तेन वाग्मिना / पुलकस्यूतकौशेयं श्रुतः सोत्कण्ठया तया // 53 / / मुषितस्थगितापविद्धवृत्तिर्जडितस्तम्भितकीलितस्वरूपः / अप सुचनि तन गातवत्यागयि ! तवैव बटे चिरं स्थितोपरिण / / 5 / / सततं पुरतः स्थितेव तन्वी मम सा मुञ्चति मानसं न सुभ्रूः / अधुनापि सवानुरूपभृपप्रतिविम्बद्विगुणीकृतेव जाता तरिक भूयो बहुनिगदितैर्दक्षिणस्यां च तस्यां देशे चास्मिन् तव परिचयात् पूर्णकामोऽस्मि जातः। वृत्तान्तोऽयं रसिकतिलक!व्याहृतस्ते पुरस्ताद् भद्रं भूयात् तव विसृज मां यामि कामं गृहेभ्यः // 56 // . III III AHI IA II II I
Page #40
--------------------------------------------------------------------------
________________ प्रथमस्कन्धे सर्गः 4 // 10 // FII TEELATEIN GAIIA HII III AISHI इति तदीयवचांसि विचारयन्नतितरां चतुरोऽपि हि नैषधः / समजनिष्ट विशेषविशृङ्खलस्खलितमानसमानसमुच्चयः॥५७॥ देशस्तावद् भुवि स विदितः स्त्रैणरत्नैकखानिर्नानारूपा विधिविरचना तथ्यगीरेप पान्थः। एतत्सर्व तदिह घटते किन्तु कस्मादिदं मे धीरस्यापि क्षुभितमधुना मानसं तां निशम्य // 58 // तावत् तस्या न किल विदितं स्थानकं वा कुलं वा पीतं नामामृतमपि न वा दर्शन दूरतोऽस्तु / बाद बाला तदपि खलु मे बोधयन्तीव सुप्तं भूयो भूयो विशति हृदये कैरनं कौमुदीन // 59 // अन्तःशल्यं स्खलति सहसा यद्वदम्भोदशब्दात् मन्त्रावेशात् पुनरपि यथा पूर्यते पूर्वदृष्टः / तद्वत् किश्चित् परिचयमयं मोहमुन्मीलयन्ती तद्वार्ता में भवति किमियं निर्विशेषश्रुतापि // 60 // इह हि जगति चित्रं जन्मिनां कर्मयोगाः किमपि किमपि गूढं को हि जानाति तत्वम् / इति बहुविधमन्तश्चिन्तयन् वैरसेनिश्चिरतरमवतस्थे तेन सार्द्ध कथाभिः अथ कथमपि तस्मै निःस्पृहायापि दत्त्वा कनकखचितरत्नान्यङ्गतो मण्डनानि / प्रियवचनविशेषैर्गाढमावर्ण्य भव्यं सुहृदमिव नरेन्द्रः प्रेषयामास पान्थम् // 62 // तदनु पुनरुपेतैरश्ववारैः परीतः पथिककथितवा मन्त्रमन्तर्दधानः / मुनिभिरभिमतार्थप्रीणितैः स्तूयमानः स्वभवनमभिरामं प्राप भूपालचन्द्रः // 63 // इति श्रीमाणिक्यदेवसूरिकृते नलायने प्रथमे उत्पत्तिस्कन्धे चतुर्थः सर्गः॥४॥ | पथिकेन | कृतं नलस्याये कस्याश्चिद् भूपालबालिकाया वर्णनम् / // 10 //
Page #41
--------------------------------------------------------------------------
________________ प्रथमे उत्पत्तिस्कन्धे पञ्चमः सर्गः / IIIITIEFINISHI FII ISH ततः प्रभृति तस्यासीदाशीविषविषोपमैः / अपाच्यपान्थकथितैर्वृत्तान्तैविह्वलं मनः न निशीथे न मध्याहे न रजन्यां न वासरे / न प्रभाते न सन्ध्यायां न मुहूर्ते न च क्षणे // 2 // न गृहे न गृहोद्याने न विविक्ते न संसदि / न क्रीडाद्रौ न वापीषु न च्छायायां न चातपे // 3 // न प्रभूतां न च स्वल्पां नात्मतः परतोऽपि वा / श्रुतानुरागरोगाों रतिं स प्राप भूपतिः // 4 // (त्रिभिर्विशेषकम्) अज्ञातज्ञातिनाम्नापि दूरदेशस्थितेन च / अहो ! जमेन केनापि निगृहीता वयं कथम् ? // 5 // ज्ञातापि हि पराधीना पररक्ता च सा यदा / क्व नु शक्या स्वसात् कर्तुं तदा वाढं प्रियापि हि // 6 // सकलार्थद्रुमद्रोही सन्तापैकमहाफलः / स्मरनामा तनौ लनो मम कोऽयं दवानल: ? // 7 // विकारो मानसः सोऽयं पापात्मा मन्मथाभिधः / मथ्नाति निजमेवासावाश्रयास इवाश्रयम् // 8 // कम्पस्वेदादिभिस्तैस्तैर्लक्षणैरुपलक्षितः / आमः कुत्सित एवायं काम इत्यभिधीयते // 9 // का कथा क्षुद्रजन्तूनां येऽमी हरिहरादयः / तेऽपि स्त्रीवदनालोकस्तोकोच्ङ्कसितजीविनः // 10 // अयं पञ्चाननः कोऽपि मुखैः पञ्चभिरिन्द्रियैः / दत्ते पञ्चशरः पुंसां पञ्चत्वं सेवितोऽपि हि // 11 // पतङ्गभृङ्गसारङ्गमातङ्गतिमयो यंतः। एकैकाक्षमदान्मनाः पश्चमस्तस्य का गतिः // 1.2 // IIIEI FII II IIK
Page #42
--------------------------------------------------------------------------
________________ || II प्रथमस्कन्धे सर्गः 5 // 11 // श्री पान्थकश्चि तैर्वृत्तान्तः सरविह्वलो नलः। IIIEFIN EII II F.III सुस्थितं दु:स्थितीकुर्वन् शीतोष्णं परिवर्तयन् / जडत्वं प्रापयन् प्राज्ञ कामः कोऽपि नवो विधिः // 13 // स्मर ! स्मर न युक्तं ते दौजन्यं सजने जने / कोऽपि शर्करया साकं सन्धत्ते सैन्धवं सुधीः // 14 // इत्थं दहति गात्राणि यददृष्टापि सा मम / इदं प्राग्जन्मनः किश्चित् सत्यं संस्कारकारणम् // 15 // पारम्पर्य परिज्ञातुं तस्याः कमलचक्षुषः / तावत् पप्रच्छ तद्वार्ता वार्त्तान्तरतिरस्कृताम् // 16 // स तां विवेद वैदी भीमभूपालनन्दिनीम् / दमयन्तीति विख्याता नाम्नाप्यनुभवेन वा // 17 // हन्त ! किं तेन पान्थेन वर्णितस्तत्पुरः परः / हन्त ! किंदमयन्ती सा नाम्नापि हि न वेत्ति माम् // 18 // को विधिः किं विधातव्यं किमेतत् संभविष्यति / एतदेव परिच्छेत्तं जीवितव्यस्पृहा मम // 19 // स्यूतेव चित्रलिखितेव समुद्गतेव बद्धेव मध्यपतितेव नियन्त्रितेव / / कष्टं कदापि मनसो मम पङ्कजाक्षी नैवापसपति कथञ्चन सूत्रमात्रम् // 20 // एवंविधानि विविधानि विचिन्त्य चित्ते तस्थौ चिरं निविडधैर्यतनुप्रगुप्तः / केपाश्चिदेव सुहृदां भिषजां च हेतोरम्भोधिवन्नहि बभूव विभावनीयः // 21 // न च कथमपि याश्चादैन्यमङ्गीकरिष्यद् दुहितरमतिधीरः कुण्डिनेन्द्रं ययाचे / समरभुवि रिपुभ्यो निर्भयोऽपि प्रकामं स खलु निषधनाथः प्रार्थनाभङ्गभीरुः // 22 // इति श्रीमाणिक्यदेवसरिकृते नलायने प्रथमे उत्पत्तिस्कन्धे पश्चमः सर्गः // 5 // II IIISSIFIE alAEII 14
Page #43
--------------------------------------------------------------------------
________________ प्रथमे उत्पत्तिस्कन्धे षष्ठः सर्गः / HISTIAHILAHILASH NISHII III अस्मिन्नवसरे देवी देवीभिः सह शारदा / नवरात्रोत्सवक्रीडां कत्तु मेरुगिरिं ययौ // 1 // स्वर्णाचलशिरःसीम्नि ताः श्रीहीकीर्तिकान्तयः / समं देव्या सरस्वत्या समग्रा रेमिरे सुखम् // 2 // हंसहारीतमुख्यानि तासां यानानि कोटिशः / तेषु तेषु प्रदेशेषु सानन्दं स्वैरमभ्रमन् // 3 // सिद्धायतनपीठेषु देव्यः सर्वाः सविभ्रमम् / सकङ्कणरणत्कारं ननृतुः कौतुकप्रियाः // 4 // अथ तासां यियामूनां स्वस्थानं दिव्यसुभ्रुवाम् / प्रयाणावसरे देव्या नोपतस्थे सितच्छदः // 5 // बालचन्द्राभिधः पक्षी स सोमकलया समम् / मृणालनालजालेषु मरालः केलिवानभूत् // 6 // ग्राम्यधर्मरते तस्मिन् प्रमत्ते मानसौकसि / तासां कालविलम्बोऽभूत् सर्वासां शारदावशात् // 7 // अन्यवाहनशब्देन ज्ञातयात्रादिनश्चिरात् / तस्थौ स पुरतो देव्याः सुरतश्रमचूर्णितः / 8 / / ततः प्रकुपिता देवी तमुवाच सरस्वती। चक्राङ्ग! न विना शिक्षामात्मानं चेतयिष्यसि // 9 // यथा कार्येऽप्यसज्जस्त्वं तीर्थेऽपि रतलम्पटः / तदर्थे भवतो नित्यं भूमौ वासो भवत्विति // 10 // ततः परमया भक्त्या प्रणम्य प्रयतो गिरम् / ययाचे दर्शयन् दैन्यं शापस्यानुग्रहं खगः . // 11 // अन्याभिरपि देवीभिर्विज्ञप्ता तस्य कारणे / स्वयं च लजितां ब्राह्मी स्वामिनी वाक्यमब्रवीत् // 12 // . IIIIIIIIIIIIIII
Page #44
--------------------------------------------------------------------------
________________ II GE प्रथमस्कन्धे कु सर्गः 6 // | नवरात्रोत्सवाय मेरु गिरिंगता शारदा। // 12 // IAIII यदा तव कृतं किञ्चिद् देवासुरनरैरपि / संभविष्यत्यनुल्लङ्घयं तदा शापाद् विमुच्यसे // 13 // स्मृतोपनतमन्यं च हंसमारुह्य शारदा / रणद्वीणागुणक्वाणं प्रतस्थे परमेश्वरी // 14 // सोऽपि हंसः प्रियामूचे काम्ते! पश्य किमागतम् / हन्त गन्तव्यमावाभ्यां पृथिव्यां प्रभुशासनात् // 15 // अद्य दूरीभविष्यन्ति स्वर्गलोकसुखानि नौ / न मृषाभाषिणी देवी कल्पान्तेऽपि सरस्वती // 16 // सर्वस्वमपहर्तु वा हन्तुं विकेतुमेव वा / योग्यं प्रभोश्च पित्रोश्च प्रतिकर्तुं तु नात्मनः // 17 // भतमातृपितृस्वामिगुर्वाचार्योपहारिणाम् / निःशेषदोषदग्धानामपि पूजैव युज्यते // 18 // परार्थे मम सामर्थ्यमात्मार्थे तत् कथं नहि / ब्राह्मीविमानहंसोऽस्मि पश्य मे बुद्धिवैभवम् // 19 // अस्ति दक्षिणदिग्भागे भीमभूमीभुजः सुता / दमयन्तीति विख्याता नारीजनशिरोमणिः // 20 // यदा स्वयंवरस्तस्या भविष्यति मृगीदृशः / तदा तत्रागमिष्यन्ति देवासुरनरोरगाः // 21 // अनागतमिदं ज्ञात्वा स्वामिनी नः सरस्वती। साहाय्याय च कन्यायाः स्वाजन्याय च नाकिनाम् // 22 // श्रव्याणि प्रेक्षणीयानि भिन्नभाषाणि कोटिशः। तदुत्सवोपयोगीनि रूपकाणि विधाय सा // 23 // ददौ तेष्वभिनेयानि भरताय महर्षये / नारदाय च गेयानि शिक्षापूर्वकमात्मना // 24 // (युग्मम् ) स्वराजकुलवृत्तान्तमिमं प्रागपि वेढ्यहम् / कल्ये सम्पातिपुत्रस्तु सुपार्थो मिलितो मम // 25 // मलयाचलवास्तव्यः स हि पौत्रो गरुत्मतः / खगेन्द्रो दूरदर्शी च दश्रावी च सुन्दरि! // 26 // III-IIE HI III III FII IIIA ISIT A
Page #45
--------------------------------------------------------------------------
________________ जानाति जनवृत्तान्तं याम्यदिग्विषयं खगः। तेन मे कथिता भैमी नलं प्रत्यनुरागिणी // 27 // एते च तेन दक्षेण स्वयं दृष्टा महात्मना / तस्या नलानुरागिण्या वृत्तान्ताः कथिता यथा // 28 // अध्यासीना भुवनजयिनो भीमभूभ रङ्के नित्यं भैमी निजभुजबलत्रासितक्रौञ्चकर्णम् / / श्रुत्वा श्रुत्वा निषधनृपति बन्दिभिः स्तूयमानं वारं वारं सदसि कुरुते कर्णकण्डूयनानि // 29 // चिन्तां चक्रे निशि निपतिता भीमभूपालपुत्री स्वमे दृष्ट्वा सुभगतिलकं नन्दनं रूपवत्याः। मुग्धा तत्तद्विपुलपुलकस्वेदकम्पानुविद्धा कुत्रास्मीति क्षणमशरणा न प्रबुद्धवापि वेत्ति // 30 // कृत्वा किञ्चिन्मनसि निभृतं नैषधेन्द्रस्य नाम्ना जातिव्यक्तिव्यतिकरमयं रूपकं रागशुद्धथा। शुष्यत्कण्ठी तदनु सहते नागमेन प्रयोक्तुं नो वीणायां श्रमजलभरैरङ्गुलीपर्वभिर्वा // 31 // स्वमे चित्रे दिशि दिशि दिवा नक्तमन्तःस्फुरन्ती पश्यन्ती वा निषधनृपति भीमभूपालपुत्री। सद्यस्तिर्यग्वलितललितप्रान्तविभ्रान्तनेत्रं दीर्घश्वासं वहति वदनं दीनवृत्तिं प्रपन्ना // 32 // शिशिरतरतरूणां क्वापि वार्ताप्रसङ्गे कथमपि नलनाम्ना वर्ण्यमानं सखीभिः / तृणमपि खलु बाला पद्मनालायमानैः सरभसमपि धत्ते कम्पमानैः प्रतीकैः तथा च भूमण्डलचारिणीभ्यस्तमोऽपहोपासनतत्पराभ्यः / श्रुतो मया दिव्यविलासिनीभ्यस्तस्यां नलंस्यापि महानुरागः // 34 // .
Page #46
--------------------------------------------------------------------------
________________ प्रबमस्कन्धे सर्गः६ नलं प्रति हंसस्थागमनम् // पथिककथितां श्रुत्वा विद्वान् विदर्भमहीपतेरतिशयवतीं.बाला भालस्थले तिलकाहिताम् / . स खलु निषधस्वामी चामीकरप्रतिमोऽप्यभूत् विसकिसलयच्छेदच्छायः स्वकायविभृतिभिः // 35 // एवं तयोविधिनियोगनिवृत्तवृत्तौ नित्यं परस्परपरिग्रहबद्धभावौ / शक्येत कर्तुमनयोर्मनसि प्रकामं रागः सुखेन हि कषायितवाससीव // 36 // तत्पक्षिणि ! क्षणमिह स्वजनं समग्रमापृच्छय यामि नृपतिं प्रति वैरसेनिम् / संभाव्य तं तंदनु भीमसुतां करिष्ये तद्रागसागरमहोमिनिमग्नचित्ताम् सा वज्रलेपसदृशैर्वचनैर्मदीयैस्तं वीरसेनतनयं प्रति बद्धभावा / भैमी सुरासुरनरोरगसिद्धयक्षगन्धर्वकोदिभिरपि क नु विप्रतार्या ? // 38 // इत्येतदुक्त्वा दयितां पतङ्गः क्ष्मामण्डलस्याभिमुखो बभूव / श्रीमान् महापद्मयुगेन साकं विहायसा हंसकुलावतंसः // 39 // संभाव्य क्षणमिह स्वजा रागः सुखेन परिग्रहबद्धभावी वकायविभूतिभिः IतI II II-IIIFIF ITI IFE LATEI III 4 II III III TIK इति श्रीमाणिक्यदेवमरिकृते नलायने प्रथमे उत्पत्तिस्कन्धे षष्ठः सर्गः॥६॥
Page #47
--------------------------------------------------------------------------
________________ II AISHIK प्रथमे उत्पत्तिस्कन्धे सप्तमः सर्गः / IIGATII AII अथ चन्द्रमुखी मुग्धा स्फुटत्कुमुदहासिनी / समाययौ शरद्वाला विमलाम्बरधारिणी मजुखञ्जनमञ्जीराः स्वैरकीरावलिस्रजः / शुभ्राभ्रवसना भेजुर्विभ्रमं दिग्मृगीदृशः // 2 // भृशमब्जरजःपुञ्जपिञ्जरैरलिनां बजैः / कामानलस्फुलिङ्गत्वं कृतं हृदि वियोगिनाम् // 3 // इत्थं वर्षात्यये तस्मिन् विभूषयति भूतलम् / पुनर्नव इवोत्तस्थे नलस्य विरहानल: ददाह चन्दनं देहं न ददौ कौमुदी मुदम् / मृणालं व्यालतां भेजे कर्पूरः पूरतां ययौ // 5 // ज्वलति स्म जलार्दापि मालती म्लानिमाददे / बभार हारः क्षारत्वं कस्तूरी दुस्तराऽभवत् // 6 // ततः प्रचुरनातुः सुहृद्भिः सह शोभनैः / क्षणं मनोविनोदाय म पुरोपननं गयौ तत्रास्य पुरतस्तस्थौ बालिका वनपालिका / मृणाललतिका नाम्ना साम्नामेकनिकेतनम् // 8 // असूत चित्रसन्दर्भा-मालतीमुकुलस्रजम् / निधाय नृपकण्ठे सा जगाद सरसाक्षरम् // 9 // इदं तव स्वर्गवनोपमानं क्रीडावनं मन्मथतुल्यरूप ! / अत्र दुमाणां च पतत्रिणां च दक्षोऽपि जानाति जनो ने तत्वम् // 10 // DISHII II
Page #48
--------------------------------------------------------------------------
________________ प्रथमस्कन्धे सर्गः 7 // 14 // शाना जा I - HIाजानाk अपारिजातस्य सपारिजातं निरञ्जनस्यापि घनाञ्जनौघम् / तथापि राजन् ! न तवापि हर्ष वनं विधत्तामवनप्रियस्य // 11 // स्फारपुष्पमरनम्रशेखराः "स्पन्दमानमकरन्दबिन्दवः / त्वां नमन्ति नृप ! धर्मशाखिनं शाखिनः प्रमदबाष्पवर्षिणः // 12 // अयमितस्तरुणे करणे तरौ प्रतिकृति प्रतिवीक्ष्य मुहर्मुहुः / क्षिपति हस्तफलानि बलीमुखो रयविसारिणि सारिणिवारिणि // 13 // निष्कुलाः कृतवतः फलकोशं बीजमौक्तिककणैनिपतद्भिः / त्रोटिकोटिघनघट्टनसङ्खयां दाडिमी रचयतीव शुकस्य // 14 // प्रमदवनविनिद्रपारिभद्रद्रुमकुसुमस्तबकैर्विकाशवद्भिः / अपसरति जवादकालसन्ध्याभयचकितश्चिरमत्र चक्रवाकः स्वयूथकान्ताकुचमण्डलानि विलोकयन्तो बनवानरेन्द्राः / / नारङ्गमङ्गीकृतपिङ्गभा चुम्बन्ति चैते चपला हसन्तः // 16 // आकर्ण्य कर्णमधुरं मधुपाङ्गनानामत्रापि चित्रलिखिताकृतिरेष गीतम् / रोमन्थमन्थरमुखः सुखसंनिविष्टो न ग्रन्थिपर्णमपि गन्धमृगः क्षिणोति // 17 // नलसमीपे | वनपालि| कया मृणाललतिकया कृतं वनवर्णनम् // // 14 //
Page #49
--------------------------------------------------------------------------
________________ बाजा ISI ELEIG FII - II ARTICLES एतानि तानि कृतमालतमालताल-हिन्तालशालसरलार्जुनसर्जवन्ति / अभ्युल्लसद्धकुलवजुलचूतवल्लीहंसीसखव्यतिकराणि वनान्तराणि // 18 // एतेषु कोकिलकपिञ्जलचक्रवाकचक्राङ्गचातकशुकप्रमुखा वसन्ति / नित्यं निरन्तरतिरस्कृतधर्मरश्मिश्यामैकशीतलतलेषु विहङ्गसङ्घाः अत्रापि सारसशरारिचकोरकीरकोयष्टिकुक्कुमकपिजलमञ्जुलानि ! उद्दामकर्दमविमईनलोलकोलकोलाहलैकबहलानि नदीतटानि // 20 // इदमपि सुविशालं शालभञ्जीकुचाग्रच्युतजलकणपानव्यग्रपारापतौघम् / असितसिचयमेधैनित्यनृत्यन्मयूरं मुरजरचितमयं यन्त्रधारावितानं // 21 // अयमपि कपिरुद्धः शालमालापिनद्धः स्थलकमलसमृद्धः सिद्धगन्धर्वसेव्यः। स्फटिकघटितभित्तिस्तुङ्गवैडूर्यशृङ्गः सुरतनिरतलीलाकिन्नरः केलिशैलः // 22 // एतच्च षट्चरणचूर्णितपद्मवृन्दप्रेतत्परागभरनिर्भरभूरितोयम् / लीलासरः समुदिताधिकसान्ध्यरागं व्योमेव शुक्तिसमनिर्मलतारतारम् // 23 / / सलिलशालिनि शालिनि शीतले कमलजालकजालकमालिनि / इह सुसङ्गमसङ्गममीहते रिपुनिवारण ! वारणवल्लभा // 24 // AAIIIIIIIIIIla
Page #50
--------------------------------------------------------------------------
________________ प्ररमस्कन्धे सर्मः 7 // 15 // वनवर्णनम्, हंसयूथस्य - आगमनम्, नलेन विवृतो हंसश्च // MISSII - ISKII A TRIGATHI ATHI WIFII III जितपुष्करं सकलरुद्धपुष्करं निनदन्नुदारमनुदारमुत्सुकः / इह शीतलं समवगाह्य पुष्करं प्रतिपुष्करं क्षिपति पुष्करं करी // 25 // हरिचारुवक्त्र ! हरितुल्यदीधिते ! हरिभृरिसार ! हरिरम्यवैभव ! / नरपुण्डरीक ! नवपुण्डरीकवरन्ननु पुण्डरीकवनमत्र राजते // 26 // इत्थं तया निगदितानि बनान्तराणि व्यालोलचेतसि विलोकयति क्षिती। दृष्टं बभूव सहसैव तदा निरस्तनिस्तन्द्र चन्द्रशतसान्द्रमवान्तरिक्षम् // 27 // प्रभवति किमुतासावट्टहासः पुरारेः ? किमयमुत हिमाद्रेः शृङ्गसङ्घातपातः / इति विततवितर्कव्याकुलानां जनानामवनिमवनिपेतुः कोटिशो राजहंसाः // 28 // अथ सह सहचर्या सन्निधौ सञ्चरन्तं मणिवलयितकण्ठं वज्रमजीरमा जम् / कनककमलवक्त्रं यूथनार्थ खगानां नयनपथमनैपीद् बालचन्द्रं नरेन्द्रः // 29 // स स्वयं करतलेन भूभुजा कौतुकेन विधृतो विहङ्गमः।। वकुमारभत दिव्यभाषया भारतीचरणरेणुवासितः // 30 // जय जगदखिलं खिलीकरिष्यन् कुमुदमदप्रतिपन्थिभिर्यशोभिः / निषधनृप ! निषिद्धसर्वशत्रो ! निखिलनिषङ्गिनिषेविताज्ञ ! नित्यम् // 31 // .. LEII ISRI 4 III 4 I95I 3 IRI 4 IE II 8 IEEK
Page #51
--------------------------------------------------------------------------
________________ राजेन्द्र ! राजति भवद्वनराजिरेषा प्रौढालिरञ्जनसमानतमालकान्ता / यद्वा महीपतिसुता कतमापि भाति प्रौढालिरञ्जनसमानतमालकान्ता // 32 // इत्थमर्थबहलं सकोमलं व्याहरन्नविरलं विहङ्गमः / / निर्ममे नलनृपस्य निर्मलं विस्मयव्यतिकराकुलं मनः // 33 // इति श्रीमाणिक्यदेवसूरिकृते नलायने प्रथमे उत्पत्तिस्कन्धे सप्तमः सर्गः // 7 // II + IIII प्रथम उत्पत्तिस्कन्धे अष्टमः सर्गः। II STEII FIEII A KI &ITEFIT A THEII ATSEII ON III ततः स हृदये दध्यौ निषधानामधीश्वरः / अहो ! बत चिरात् किञ्चिन्नवीनमिदमीक्षते // 1 // पक्षिणो लक्षशः केमी कोऽयं तेष्वथ यूथपः / कुतथास्य मुखे से सालङ्कारा सरस्वती ? // 2 // भवन्ति हन्त ! सर्वत्र खगाः पिच्छपरिच्छदाः। किमिदं पुनरस्येदृग् रत्नाभरणवैभवम् ? // 3 // यथेयं प्रभुता काचिद् यथा चायं गुणोदयः। तथाऽयं निश्चितं कश्चिद् विहङ्गव्यञ्जनः सुरः // 4 // कामतः कर्मतो वापि शापत छद्मतोऽपि वा / भ्रमन्ति प्राणिनः प्रायो रूपान्तरतिरस्कृताः // 5 // अयं स्फुरति यद् बाहुदक्षिणः पक्षिणं भजन् / शंसन्निव समासनं मनीपितसमागमम् . // 6 // SIA ISI NIFI
Page #52
--------------------------------------------------------------------------
________________ प्रथमस्कन्धे - सर्गः 8 III A-III ATARIAHINIAle // 7 // // 8 // // 9 // // 10 // // 11 // // 12 // // 13 // यदियं महती काचित् प्रसत्तिर्मम चेतसः। तदस्य दर्शनं नूनं निष्फलं न भविष्यति इत्यन्तश्चिन्तयन्तं तं विस्मयस्मेरलोचनम् / भीतैव सहसा हंसी सौम्यं सोमकलाऽवदत् देव ! देव ! किमारब्धं दुरध्यवसितं त्वया ? / त्वं हि भूपालनार्दूल ! पुण्यश्लोकः प्रकीर्त्यसे तेनैव तव विश्वासं विधाय हृदये दृढम् / संप्राप्ताः स्म निवासाय त्वयि देशान्तराद् वयम् तत् कथं मम भतारं विस्त्रयितुमिच्छतः। तब विचाटाघातस्ग पातकं न भविष्यति हहा ! किमिदमस्माकं यतो रक्षस्ततो भयम् / भवन्ति किमु कुत्रापि चन्द्रादङ्गारवृष्टयः ? यस्य केवलमायत्तं नीरक्षीरविवेचनम् / तं विवेकिनमीदृशं न हि त्वं हन्तुमर्हसि मुश्च मुश्च महाराज ! मदीयं जीवितेश्वरम् / प्रसीद निषधाधीश ! भत्तुर्भिक्षां प्रयच्छ मे गृहाणाभरणं सर्वमस्यापि च ममापि च / रक्ष रक्ष पुनः प्राणान् देव ! प्राणेश्वरस्य मे भवामि भवतो दासी क्रियेयं भवतो बलिः / प्रणमामि च साष्टाङ्गं स्वामिन् ! मे करुणां कुरु गुरुष्वाऽऽदेशवर्तित्वं शूरत्वं च विरोधिषु / दीनेषु च दयालुत्वं महतां लक्षणत्रयम् यूथनाथं विना राजन् ! प्राणत्यागमवेहि मे / अनाथाश्च विपद्यन्ते सर्वेऽपि हि पतत्रिणः इत्थं कलविलापिन्यां तस्यां नलनृपं प्रति / बभूव सपदि श्रव्या दिव्या नभसि भारती मुक्त्वा मोहं महाराज ! राजहंसो विसृज्यताम् / अयं करोतु ते दौत्यं दमयन्तीं प्रियां प्रति HIATRI4I4IGI II | हंसविषये नलस्य |विभ्रमम् , . हंसपल्या ह हंसमोचला नार्थ कृता ज प्रार्थना व्योमे जाता // 16 // दिव्य न भारती च॥ // 18 // // 19 // // 20 // .
Page #53
--------------------------------------------------------------------------
________________ // 21 // IIIle साचमान् II IIISIAFIATIAHINICATIle आकर्ष्याकाशवाणीं तां तच तद् वचनं नलः / आश्चर्यशृङ्गमारूढः प्रत्युवाच प्रसत्तिमान् मा मैवमुच्यतां मुग्धे ! शान्तं पापं मनस्विनि! / अलमस्मात् समाशङ्कय राजहंसरतिं भज // 22 // जानीहि मां महाभागे ! राजर्षिकुलसम्भवम् / रक्षितारं सुसाधूनां शासितारं दुरात्मनाम् // 23 // अयं तव पतिर्बाले ! मरालः प्रियदर्शनः / विवेकी विनयी विद्वान् श्रीमान् सौम्यः शमी शुचिः // 24 // कल्याणकारणं मत्वा कौतुकेनेव केवलम् / मया तेनायमायुप्मान् कृतो नेत्रोत्सवः क्षणम् // 25 // इदं मम करप्राप्तमाकाशात् पतितं फलम् / अतार्कतोपपन्नानां भवतां यत् समागमः // 26 // यतोऽयुष्मत्प्रसक्तेयं मया हि व्योमभारती। मन्जता विरहाम्भोधौ लब्धा नौरिव संप्रति // 27 // इत्युक्त्वा विरते तस्मिन् भूपालकुलकेशवे / प्रत्युवाच पुनः प्रेम्णा राजहंसो हसन्निव // 28 // देव ! जानाति नेयं ते समयं मम पक्षिणी / कलयत्यन्यराजन्यसामान्यां क्रूरतां त्वयि // 29 // त्रैलोक्याभयसत्रस्य नलस्य पृथिवीपतेः / न भवन्ति परे तुल्या लुब्धका इव भूभुजः // 30 // भजतो भारती देवीं भुञ्जतो भारती भुवम् / बिभ्रतो भारती शाखां भूयास्तां भारती तव लीलालोलः कविकुलकलाकेलिकौतूहलानां मानाम्भोधिः सुभगतिलको भिन्नदारिद्यमुद्रः। एकाधारः सकलमहसामाकरः सत्यवाचामाचन्द्राके जय जय जने वीरसेनात्मज ! त्वम् // 32 / / रजयन्ति हृदयं मनीषिणामाननं मलिनयन्ति विद्विषाम् / बाजाII II
Page #54
--------------------------------------------------------------------------
________________ प्रथमस्कन्धे सर्गः 9 // 17 // वीरसेनतनय ! स्वयं पुनस्त्वद्गणाः कलभदन्तकान्तकः .. // 33 // ज्योत्स्ना स्वयं च धवला धवलीकरोति गङ्गा स्वयं च विमला विमलीकरोति / इत्थं धरावलयवज्रधर ! स्वयं सा धन्या करिष्यति च कश्चन धन्यमन्यम् ? // 34 // इति श्रीमाणिक्यदेवसूरिकृते नलायने प्रथमे उत्पत्तिस्कन्धे अष्टमः सर्गः॥८॥ III SHITA || NISHAIHIN हंसी प्रति नलस्य कथनम्, . मुक्तो | राजहंसः तेन कृतं प्रथमे उत्पत्तिस्कन्धे नवमः सर्गः / विदर्भ नृपस्य वर्णनम् // अस्ति निस्तषदाक्षिण्यदक्षिणापथमण्डनम् / विदर्भमण्डलाखण्ड कुण्डलं कुण्डिनं पुरम् // 1 // तत्र चित्रारिवारस्त्रीगीतस्फीतपराक्रमः / प्रतिपक्षचमूभीमो भीमः श्रीमान् महीपतिः // 2 // किं वर्ण्यते स पत्रिंशत् खड्गकोटिमहार्णवः? / प्रभुः सप्ततिलक्षाणां दक्षिणापथनायकः // 3 // तस्य त्रिभुवनाभोगभ्रान्तकीर्तेमहीभुजः। प्रियङ्गुमञ्जरी नाम प्रिया गौरीव धूर्जटेः // 4 // भामिनी कामिनी कान्ता मानिनी दानिनी शुभा। शुद्धा स्निग्धा विदग्धा च मुग्धा च मृगलोचना / / 5 // दाक्षिण्यपुण्यलावण्यशीललीलादिभिर्गुणैः / सधर्मचारिणी रेजे तादृशी तादृशस्य सा // 6 // तया सह मनस्विन्या तस्य वैषयिकं सुखम् / भुञानस्य महीभर्तुः कालः कश्चिद् व्यतीतवान् // 7 // . III- III // 17 //
Page #55
--------------------------------------------------------------------------
________________ IIC II BHI SIHII ATilla THII A TII अन्यदा वरदानीरवानीरस्वैरमारुताः / विजहार तया साकं स वसन्ते वनस्थली: // 8 // तयोस्तस्य विचित्राणि मृगद्वन्द्वानि पश्यतोः / दृक्पथं प्राप सापत्या काचित् कपिकुटुम्बिनी // 5 // तस्याः प्रबललीलाभिर्वाललालनकेलिभिः / उभयोरभवच्चित्तं निरपत्यतयाऽऽकुलम् पादपेनेव वन्ध्यन राज्येन किमनेन नः ? / इत्यपत्यविहीनौ तौ दुःस्थितौ हृदि तस्थतुः // 11 // तदर्थ तत्परौ नित्यं व्रतस्थौ विजितेन्द्रियौ / चिरं चक्रेश्वरी देवीमुपासामासतुः स्वयम् // 12 // शीर्णपर्णफलाहारौ कुशश्रस्तरशायिनौ / कृतत्रिपवणौ शश्वजापहोमपरायणी // 13 // शङ्खचक्रगदाशार्ङ्गशृङ्गारितचतुर्भुजाम् / पक्षान्ते पक्षिराजस्थामादिशक्तिमपश्यताम् // 14 // (युग्मम् ) देवि ! सेवासमायातदेवासुरनरस्तुते ! / त्रासितारिचमचक्रे ! चक्रेश्वरि ! नमोऽस्तु ते // 15 // अम्ब! त्रिभुवनस्तम्बकादम्बिनि! नितम्बिनि / सिद्धिशालिकरस्थालि! महाकालि! नमोऽस्तु ते // 16 // सर्वपापापहाराच संहाराच दुरात्मनाम् / दौस्यविस्तासाराय नारायणि नमोऽस्तु ते // 17 // इत्युपश्लोकयन्तौ तौ प्रेमगदगदया गिरा / जगाद जगतां माता जङ्गमा कल्पवल्लरी // 18 // प्रीताऽस्मि युवयोर्वत्सौ ! नियमोऽयं समाप्यताम् / मयेव प्रेरितः प्रातः समागत्य शमाम्बुधिः // 19 // चारणश्रमणः श्रीमान् मुनिर्दमनकाभिधः / युवा युवा जवेनैव सशक्त्याऽनुग्रहीष्यति . // 20 / / (युग्मम् ) इत्युक्त्वाऽन्तर्हितायां च तस्यां भुवनमातरि / तौ निशान्तें निशान्तस्थौ निद्रामुद्राममुश्चताम् // 21 // . IIIRHI AIIIIIIIISISIO
Page #56
--------------------------------------------------------------------------
________________ प्रथमस्कन्धे सर्गः 9 // 18 // III AIIIIII AIIIIIII कृतप्राभातिको भक्त्या विनिर्मितसुरार्चनौ / विहितस्वनसंवादौ यावद् विस्मयमृहतुः . // 22 // तावत् कमलकिञ्जल्कगर्भगौराङ्गकान्तिभिः / वृष्टिमष्टासु काष्ठासु कुर्वाणं काञ्चनीमिव // 23 // सग्रन्थं ग्रन्थनिमुक्तं सश्रीकं श्रीविवर्जितम् / दृष्टवन्तौ तमायान्तमन्तरिक्षान्मुनीश्वरम् ॥२४॥(युग्मम् ) स तं सौधतलासनं धृतरोमाश्चकञ्चुकः / अभ्युत्तस्थौ समं पत्न्या कुण्डिनेन्द्रः कृताञ्जलिः // 25 // निवेश्य काश्चने पीठे.प्रमोदभरनिर्भरः। त्रिः प्रदक्षिणयित्वाऽऽशु प्रणनाम प्रियासखः // 26 // अथाभिमुखमेतस्य नीचासनकृताश्रयः / उवाच वचन राजा प्रसन्ननयनाननः // 27 // अद्य चिन्तामणिः पाणौ अद्य कल्पद्रुरङ्गणे / यदयं मम सञ्जातो यौष्माकीयः समागमः // 28 // इत्यूचिवांसमुच्चाशं प्रसन्नः पृथिवीपतिम् / मुनिर्दमनको वाक्यं वभाषे शमभूषणः // 29 // निष्फलाः खलु जायन्ते तपसामपि लब्धयः / न भवन्त्युपभोक्तारो भव्या यदि भवादृशाः // 30 // दिष्ट्या हृष्टाः स्म भूपाल! भवद्भक्तिभराद् वयम् / मुक्तसङ्गा अपि यतो यतयः श्राद्धबान्धवाः // 31 // यस्मिन् यान्ति लयं पुनः पुनरपि प्रत्युद्गताः कोटिशः कल्लोला इव वारिधौ हरिहरब्रह्मादयस्तेऽपि हि / नियुत्पत्ति निरञ्जनं निरुपम निष्केवलं निष्कलं नित्यं निर्विषयं तनोतु परमं तद् ब्रह्म शर्माणि ते // 32 // इति श्रीमाणिक्यदेवसूरिकृते नलायने प्रथमे उत्पत्तिस्कन्धे नवमः सर्गः // 9 // ॐIIIIIIIIIIIIIIIIIK | भीमनृपेन अपत्यार्थमाराधिता / चक्रेश्वरी तस्या आगमनं वरप्रदानंच दमनकमुनिश्चागमः॥ // 18 //
Page #57
--------------------------------------------------------------------------
________________ प्रथमे उत्पत्तिस्कन्धे दशमः सर्गः / HII III AIATSIATI IIIK इत्युक्त्वा पुनरप्यूचे मनीषितचिकीर्षया / राजेन्द्र ! राजपत्नी ते सदा राज्यर्द्धिभागिनी // 1 // पृथक् तदियमस्माभिर्बहुमान्या मनस्विनी / राजवद् राजदारेषु वर्तितव्यमिति स्मृतिः // 2 // कल्याणि! क्रियतामेपा मूर्ध्नि मन्दारमञ्जरी। अपत्यं त्रिजगन्मान्या तब कन्या भविष्यति // 3 // त्रिजगत्पावनी कन्या तावदन्या गुणोत्करैः / पुत्रास्त्रयः पुनर्बाले ! भविष्यन्ति ततः परम् / / 4 / / ततः स्मितमुखी राज्ञी राजा च पुनरूचतुः। भूयः सम्भावनार्थ नौ भगवन् ! भृशमर्थ्यसे // 5 // प्रसीद गर्भरूपेषु मिथ्या दुष्कृतमस्तु नौ / शिवास्ते सन्तु पन्थानः साधयस्व मनीषितम् // 6 // इत्यादि वादिनौ विद्वान् स तावापृच्छ्य दम्पती / उत्पपात पतङ्गश्रीफ्रेम्ना मुनिमहत्तरः // 7 // अथोपचितसर्वाङ्गी वल्लीव बहलच्छविः। गौडेन्द्रदुहिता देवी दधावापन्नसत्वताम् // 8 // जाह्ववीजलमिश्रेण क्षीरसागरवारिणा / मुग्धा मजनमाधातुं बबन्ध हृदि दोहदम् सा सर्वगुणसंपूर्णां सकलक्लेशनाशिनीम् / अस्त तनयां सद्यो विद्यामुपनिषद् यथा नवोदितरविप्रायं विद्योतितदिगन्तरम् / ललाटे तिलकं तस्या नैसर्गिकमदृश्यत // 11 // त्रिखण्डभरतैश्वर्य पत्युः कुर्यादसाविति / अश्रूयत च लोकैन व्योम्नि वागशरीरिणी // 12 //
Page #58
--------------------------------------------------------------------------
________________ दमनकमुने प्रथमस्कन्धे सर्मः१० मनम् , 19 // दमयन्त्याश्व जन्म // III IIIIIIIIIIIIIIII वायवश्चाद्भतामोदा ववुमन्थरशीतलाः। विस्मयं जनयन्तश्च ववृषुः पुष्पवारिदाः // 13 // नेदुर्नभसि गम्भीरा दिव्यदुन्दुभयो भृशम् / अजनि स्वर्गसंकाशं तत्क्षणं क्षोणिमण्डलम् // 14 // प्रथमापत्यजन्मोत्थक्रीडामुदितसजनैः / कोऽपि कोलाहलाकीर्णो बभूव स महोत्सवः // 15 // सञ्चचार कुमारी सा हस्ताद्धस्तं प्रतिक्षणम् / सुकुमारा मरालीव पङ्कजादिव पङ्कजम् // 16 // सर्व स्त्रीगर्वसर्वस्वं दमयन्ती यदुत्थिता / सा ततो दमयन्तीति स्वजनैरभ्यधीयत // 17 // यत्तजन्मदिने प्राप्तः पुरं दन्ती दवादितः / दवदन्तीति तत् तस्याः पित्रा नाम कृतं पुनः // 18 // सा वेद वेदसिद्धान्तपुराणागमसंहिताः। तर्कव्याकरणच्छन्दोऽलङ्कारनिकराण्यपि // 19 // गीतं नृत्यं लिखितगणितं वैद्यकं भूतविद्यां शय्यां पुष्पग्रथनतरणं चित्रलेप्यादि कर्म / / होराचारायणरसवतीशाकुनद्यूतगन्धान् किश्चात्युक्तैः परमपि न तद् यन्न जानाति सात्र // 20 // इत्थं सर्वकलाकलापकुशला सर्वाङ्गशृङ्गारिणी सर्वानन्दविधायिनी किमपरं सा सर्वलोकोचरा। देवाकर्णयशं प्रति प्रतिदिनं नानाविधैर्विभ्रमैवैदर्भी नवयौवनेन गमिता वाचां तु पारंपरम् // 21 // तत् तस्याः सरसार्वभौमभुवनं लावण्यपुण्यं वपुर्मन्ये वीक्षितुमक्षमः स भगवान् देवः स्वयम्भूरपि / ध्यानव्याजनिमीलिताष्टनयनः सृष्टिक्रमं साधयन् येनाद्यापि न तत्समां वरतनुं शक्नोति कर्तुं पुनः॥२२॥ स्मरकरतलभल्ली हावभावैकवल्ली तरुणहृदयहाला सर्वसौभाग्यशाला / II IIIIIIIIIIII ILAISHII I // 19 //
Page #59
--------------------------------------------------------------------------
________________ नाजा III A TRIGANI - III VIII ISHIE जयति नृप! तदीया विश्वसम्भावनीया भुवनजयपताका रूपरेखा शलाका // 23 // उत्कल्लोलं त्रिवलिवलये लब्धराज्यं नितम्बे प्राप्तौन्नत्यं कुचकलशयोर्गण्डयोर्मुक्तनिद्रम् / पाणिद्वन्द्वे कृतकिशलयं केशपाशे विशङ्क चिन्तातीतं नयनयुगले वनं नाथ! तस्याः // 24 // समानधर्माः समशीलवेषाः सदृक्कुलास्तुल्यवयोविलासाः। सख्यः सदा सप्तशतानि तस्याः नरेन्द्रकन्याः सविधं भजन्ते // 25 // आजन्मतः सर्वजगद्वधूनां जयैकराज्ये विहिताभिषेका / सा लञ्छनच्छमकृतं विधात्रा ललाटपट्टे तिलकं बिभर्ति // 26 // दृष्टं दृष्टं नवनवमिव प्रेक्ष्यते यत्तदङ्ग तस्मादस्मन्मनसि घटते सूनृतं शाक्यवाक्यम् / दृश्यादृश्यं ननु तदुदरं येन तेन प्रकामं सम्यग् जैनी जयति सदसद्वादविद्याजयश्रीः / / 27 / / यां विलोक्य मनुजस्य जायते जीवितं च सफलं स्वजन्म च / सा नरेन्द्रतनया नयान्विता मङ्गलं शुभतनो ! तनोतु ते // 28 // इति श्रीमाणिक्यदेवसूरिकृते नलायने प्रथमे उत्पत्तिस्कन्धे दशमः सर्गः // 10 // ॐIIIIIIIIII-III FISHI
Page #60
--------------------------------------------------------------------------
________________ प्रथमस्कन्धे सर्गः 11 प्रथमे उत्पत्तिस्कन्धे एकादशः सर्गः। // 20 // II - III WITHIN ON III श्री दमयन्त्याः क्रीडनम्, नल-राजहंसयोविवादश्च॥ इदमाकर्ण्य सङ्कीर्ण वचनं मानसौकसः। बभार भारतः शोकमस्तोकविरहातुरः दीर्घमुष्णं च निःश्वस्य तिर्यग्वलितलोचनः। जगाद मदनोन्मादसादितोक्तिपरिक्रमम् // 2 // इत्येकैकं समाकर्ण्य बहुशस्तत् तदद्भुतम् / अर्द्धमनास्त्वया मूलान्मोहाब्धौ मन्जिता वयम् // 3 // वैदर्भी वर्णनव्याजात् सुचिरं सुचिरं जयन् / त्वमकार्षीमया साकं कलहं कलहंस ! किम् ? // 4 // किं करोमिक गच्छामि कंवा शरणमर्थये। न मुञ्चति हि मां लजा प्रतिष्ठाभङ्गलक्षणम् // 5 // अहो ! भ्रमति भूचक्रं पतति व्योममण्डलम् / विलीयन्ते दिशः सर्वा गात्रं प्रज्वलतीव मे // 6 // हन्त ! हा तात! हा मातर्युवयो नृणोऽस्म्यहम् / अमी गच्छन्ति मे प्राणा हा!लोकमपनायकम् // 7 // इति जल्पन् समुद्धान्तकण्ठमीलद्विलोचनम् / जगाम जगतापीठे पुण्यश्लोकः प्रजापतिः॥८॥ सरःसलिलसंपृक्तास्तुषारकणवर्षिणः / ततस्ते वीजयामासुर्व्याकुला; पक्षिणः क्षणम् // 9 // उपरागविनिर्मुक्तः शशीव विशदच्छविः / पुनः प्रकृतिमापन्नः स बभाषे पतत्त्रिणा // 10 // दुर्लभाऽपि हि वैदर्भी न च हस्तगतैव सा / आसन्ना हि सहस्रांशोर्दूरस्थस्यापि पबिनी // 11 // आस्तां प्रकृतिवर्गस्ते पक्षिमात्रोऽप्यहं तव / त्वदेकशरणां भैमी करिष्यामि न संशयः // 12 // IA II III 4 II II IIIIIII II 4. INHEII A TII . // 20 //
Page #61
--------------------------------------------------------------------------
________________ IISHIKE VISIT ISII A Isla THII A IIFII WIFIC Ille त्वत्प्रसादादिदं कार्य सुखसाध्यं मयाऽपि हि / न किं मन्त्रानुविद्धन रजसा नागनिग्रहः // 13 // हंसीवर्गः समग्रोऽपि सन्निधौ तव वर्त्तताम् / शीघ्रं प्रेषय मां राजन् ! कुण्डिनं नगरं प्रति // 14 // सा मद्वचनतः कन्या त्वदन्यं वृणुते यदि / देवेन तदियं हंसी नार्पणीया पुनर्मम // 15 / / अब्रवीच सखे हंस ! कोऽयं तव परिक्रमः। मित्रधर्मोचितस्येयं तव काऽस्मासु भृत्यता ? // 16 // कोऽपि नः सविधानाय शुभयोगेन केनचित् / हंसच्छमा समायातस्त्वमकारणबान्धवः // 17 // स्वयं वर्षति पर्जन्यः स्वयं तपति भास्करः। अपरप्रार्थनापेक्षं परोपकरणव्रतम् // 18 // सिद्धिस्तवास्तु पक्षीन्द्र ! क्षेमं भवतु वर्त्मनि / अस्माकं मास विस्मार्षीः प्रेक्ष्य भैमी शुचिस्मिताम् // 19 // समापृच्छय ततो हंसीं समादिश्य च किङ्करान् / पक्षिलक्षपरिक्षिप्तः प्रतस्थे कुण्डिनं प्रति // 20 // यावत् स्फुरति नो दृष्टिर्यावद् भ्रमति नो मनः / तावद् दिवि स नादर्शि छायाभुवि न तस्य च // 21 // नगनगरगिरीन्द्रद्वीपि.कोटिलक्षाननुपमरमणीयान् लीलया लक्चयित्वा / सपदि पुरमवापत् कुण्डिनं चण्डवेगः स नलललितशंसी हंसवंशावतंसः // 22 / / वनभुवि दमयन्त्यास्तत्र सर्वाङ्गतुङ्गं मरकतमयशृङ्गं चित्तनृत्तैकरङ्गम् / रचितकनकरम्भा विधुदुद्योतलीलं सजलजलदलीलं केलिशैलं ददर्श // 23 // कर्पूरपूरपरिवेषकृतालवालैीरन्ध्रगन्धजलसारिणिसिच्यमानैः / IIIAN AIII AIISSIFII
Page #62
--------------------------------------------------------------------------
________________ कुण्डिनं प्रति सर्वः११ // 21 // राजहंसस्य गमनम् // ISSIBILATISISile वृक्षैर्विराजितमुदीक्ष्य वनं स भेम्याः समार नन्दनवनस्य विहङ्गशक्रः // 24 // क्षितिखचितविसर्पद्ववैडूर्यरत्नप्रकरकिरणर्वादुर्विभाव्यस्थलीके। दिशि दिशि दमयन्त्यास्तत्र पश्यन् वयस्यास्त्रिदशमपि स मेने नामसौभाग्यसारम् // 25 // किमुत भुवनं बन्दीकत्तुं हरिण्मयशृङ्खलाः 1 किमुत जनतां मोहं नेतुं विषद्रुमवीरुधः / / नृपतिदुहितुः क्रीडालोलाः सखीवलोकयन्निति चिरतरं चिन्ताचक्रं चकार स विष्किरः // 26 // तत्र केलिकमलं भ्रमयन्तीं शैशवव्यतिकरं गमयन्तीम् / विश्वलोचनचयं रमयन्तीं पश्यति स्म सहसा दमयन्तीम् // 27 // रूपेण काश्चनसमुन्नतिमुद्वहन्ती तारागणैरिव वृता निकरैः सखीनाम् / सा तस्य सर्वसुरसिद्धगणाभिगम्या चित्तं चकर्ष कनकाचलचूलिकेव // 28 // तस्याः सकाशमधिगन्तुमसौ समन्तादाकाशवम गहनं प्रविगाहमानः / श्वेतं वितानमिव चारु चिरं वितन्वन् बभ्राम भूमिपतनाय पतङ्गशक्रः // 29 // इति श्रीमाणिक्यदेवसूरिकृते नलायने प्रथमे उत्पत्तिस्कन्धे एकादशः सर्गः // 11 // NSHI II II-IIIFIIIMSTE IAISHI AIII A 21 //
Page #63
--------------------------------------------------------------------------
________________ प्रथमे उत्पत्तिस्कन्धे द्वादशः सर्गः / II II ATHIGATII-IIIIIISHIKE ततः पक्षौ स संवृण्वन् सुपर्णकुलमण्डनः / पपात नभसो भूमौ भैमीपार्श्वे सितच्छदः // 1 // तस्य पत्रपुटास्फोटं श्रुत्वा सरसनिस्वनम् / बभूवाभिमुखी सुभ्रूः किमेतदिति संभ्रमात् ? // 2 // विलोक्य सहसा हंसं जिघृक्षुमनसा तदा / शालितं शालभञ्ज्येव क्षणं निस्पन्दमन्दया // 3 // तस्यास्तदा तदाकूतं जानन्नपि विहङ्गमः / न ययौ न च तस्थौ च न च धर्जुमदात् पुनः // 4 // पतत्त्रिमात्रमप्येनं स्ववशं कर्तुमक्षमा / सहस्ततालमालीभिः सा तत्कालमहस्यत किमेप करतालीभिरमुत्त्रास्यते खगः ? / मह्यं द्रुह्यति सा नूनं यात्र मामनुगच्छति इति प्रदत्तशापापि हस्यमाना सखीजनैः / बाला धृतावहेलं सा च्छायेव खगमन्वगात् // 7 // (युग्मम् ) मुचिरं सञ्चरंस्तस्या राजहंसः पुरःपुरः / बभौ तद्गतिभङ्गानामुपहासमिवाचरत् // 8 // धृतप्रायमिवात्मानं दर्शयन् स पदे पदे / दिधीर्षां वर्द्धयन् दूरं चकर्ष चपलेक्षणाम् // 9 // प्रस्वेदकणकीर्णाङ्गी विलक्षामुपलक्ष्य च / तामुवाच स निःशङ्कं छायामात्रपरिच्छदाम् // 10 // राजपुत्रि! किमर्थोऽयं प्रयासस्ते मनस्विनि बिभेषि न कथं बाले! विलोक्य गहनं वनम् ? // 11 // वयस्था इव संभाव्य त्वामस्थानप्रचारिणीम् / पश्य हारीतढुङ्कारैर्वारयन्तीव वीरुधः // 12 // .
Page #64
--------------------------------------------------------------------------
________________ प्रथमस्कन्ध सर्गः१२ | कुण्डिनपुरे आगतो // 22 // दमयन्त्यो नल वर्णनश्च // II III TRIVISI GIRI FISHID ISITE कथं व्योमचरा मुग्धे गोचराः क्षितिचारिणाम / तारुण्यं हि प्रपन्नाऽसि मुश्च शैशवचेष्टितम् // 13 // क्रीडाहंसो नलस्याहं पुण्यश्लोकस्य भूपतेः / न क्वचिद् राजपुत्राणां राजपुत्रि ! भयं हि नः // 14 // यस्य युद्धेषु तिष्ठन्ति न मां न च राक्षसाः। कस्तस्य तृणमात्रेऽपि कत्तुं शक्तः पराभवम् // 15 // तस्याहं जगतीभर्तुः प्रेष्यः प्रेक्षावतां प्रियः / दिग्देशान्तरवार्तानामाहर्ताऽस्मि विहङ्गमः // 16 // तस्य क्रीडावने सन्ति कोटिशो मम सन्निभाः। राजहंसाः सरस्तीरे नानाकार्योपयोगिनः॥१७॥ तं केचित् पक्षविक्षेपैर्वीजयन्ति रतान्तरे / कतिचित् पद्मिनीपत्रैः शय्यां कुर्वन्ति कोमलाम् // 18 // अन्ये गतिविशेषेषु शिक्षयन्ति तदङ्गनाः / परे दधति सानिध्यं तासां मणितकर्मणि // 19 // स्वच्छन्दं सममस्मामिस्तस्य जल्पन्ति योषितः। कात्रपा हि तिरश्चां नस्तिरश्चनपते च कः // 20 // दत्ता हि तुष्टया देव्या तस्मै शारदया वयम् / ब्राह्मीविमानहंसाः स्मः सर्वशास्त्रविशारदाः // 21 // न सामान्यजनं तावद् वयं प्रेक्षामहे किल / न च प्राकृतलोकानां तिष्ठामो दृष्टिगोचरे // 22 // त्वं तु वैदर्मि! सर्वासां कुमारीणां शिरोमणिः / भीमभूपालतनया न सामान्या मनस्विनि ! // 23 // तेनाहं त्वद्वनं प्राप्तस्तव दृग्गोचरं गतः। भवत्परिचयस्यार्थे सख्यो दूरीकृता मया // 24 // न कुर्याद् विषमां गोष्ठी समानां न चवर्जयेत् / कृता प्राणहरा पूर्वा त्यक्ताऽन्या प्राणनाशनी // 25 // तत्कल्याणि प्रवीणाऽसि ब्रूहि किश्चित् सुभाषितम् / स्वयं किमपि त्वं पृच्छ मम पार्श्वे कुशोदरि!॥२६॥
Page #65
--------------------------------------------------------------------------
________________ SSIFI AEISIFIE तन्वि! मामनुगच्छन्ती अमिताऽसि मया चिरम् / तद्व्यलीकापनोदाय प्रियं किं करवाणि ते 1 / / 27 / / इति वाक्यामृतं तस्य निपीय नृपनन्दिनी / दधौ हर्षत्रपातङ्कमोहकिम्मीरितं मनः // 28 // अचिन्तयच्च पद्माक्षी दिष्ट्या सुदिनमद्य मे / अभ्यन्तरचरः प्राप्तो यदयं प्रियसेवकः // 29 // किन्तु वक्तुं न शक्ताऽस्मि पक्षिणं सुविचक्षणम् / कथं नु कथयिष्यामि स्वयमस्मै स्ववाञ्छितम् // 30 // कुतोऽस्य मानुषी भाषा हंसस्याव्यक्तवादिनः?मा मृत कश्चिदयं दैवाद देवो वा दानवोऽथवा // 31 // संभवत्यक्षरोच्चारः पक्षिणामपि वा क्वचित् / तथाहि किं न दृश्यन्ते सर्वत्र शुकसारिकाः / // 32 // जय त्वं निषधाधीश ! विश्वविस्मयकारकाः। अधिकाः परमन्त्रिभ्यो यस्य ते पक्षिणोऽपि हि // 33 // किमर्थमयमायातो महात्मा मम काननम् ? / कच्चिन्नलनृपेणापि किमयं प्रेषितो भवेत् 1 // 34 // क्व वा मे मन्दभाग्यायास्तादृशं भाग्यमद्भूतम् / स्वस्मिन ममानुरागं च कथं वेत्ति स पार्थिवः // 35 // तदद्य तस्य राजर्षेनिषधस्य महात्मनः / अयं दीर्घायुरायातः क्रीडाहंसो वने मम // 36 / / अनेनैव हि तीर्थेन प्रविश्य नलकर्णयोः / तदन्तर्यदि तिष्ठामि किं न सिद्धं तदा मम? // 37 // भवत्वेवं ततस्तावद् वदामीति विचिन्त्य सा / जगाद सादरं बाला विशालाक्षी शुचिस्मिता / / 38 // आर्यराज! सभायोग्य! सौम्य! सर्वाङ्गसुन्दर! राजीविनीवनोत्तंस ! राजहंस : चिरं जय // 39 // समीपमुपपन्नस्त्वं मया यदपवाहितः / अनयाचरणं तन्मे कुमार्याः क्षम्यतां खग! // 40 // IATII AISFII A
Page #66
--------------------------------------------------------------------------
________________ ll AISFIL 23 // यत् त्वं दृष्टिपथं प्राप्तस्तत् कृतं प्रथमं प्रियम् / भूयस्त्वत्तः प्रियं प्राप्तुं किन्तु वाञ्छा तथैव मे-॥४१॥ तन्मे दिष्ट्या कथयतु भवान् वृत्तमामूलचूलं कोऽयं राजा नलनृप इति प्रौढचापप्रतापः / यस्यैतानि त्रिभुवनमनःकाननानन्दकन्दे क्षीरासारव्यतिकरभरभ्रा(जि)जि विष्वक यशांसि // 42 // इन्दीवराक्षि ! शृणु तं क्षितिपालसिंह ते यस्य विश्वविजयप्रगुणा गुणौघाः। ये रञ्जयन्ति हृदयं च निशाकरं च ये विद्विषां च विदुषां च हृतामिषङ्गाः // 43 // वक्तुं पुरस्तव परं यदि वेदवाणी त्वत्कौतुकाय मम केवलमत्र यत्नः। तत् क्षम्यतामिति चकोरदृशं ब्रुवाणः स्पष्टीचकार चरितं सकलं नलस्य // 44 // इति श्रीमाणिक्यदेवसूरिकृते नलायने प्रथमे उत्पत्तिस्कन्धे द्वादशः सर्गः // 12 // FII AIFI A हंसविषये दमयन्त्वा विभ्रमम्, नलस्य परिचयार्थ प्रार्थितो हंसश्च // FILAIIIIII AIIIIIIIIISIA II ITISING प्रथमे उत्पत्तिस्कन्धे त्रयोदशः सर्गः / आर्यावर्ने जनपदे जाह्नवीजलमालिनि / नगर्यां निषधाऽऽख्यायां वीरसेनः प्रजापतिः // 1 // तस्य रूपवती नाम्ना भार्या चारित्रशालिनी / बभार महिषी गर्भ प्राग ज्योतिषपतेः स्वसा // 2 // अनिशं ददती दानं प्रतीकारं रुजामिव / विवशेव न वेदासौ पात्रापात्रं क्षणाक्षणम् // 3 // . // 23 //
Page #67
--------------------------------------------------------------------------
________________ एवमुत्कृष्टचेष्टाभिः सूचयन्ती महोदयम् / असूत समये पुत्र प्राची दिनकरं यथा // 4 // प्राप्तोभयचरीयोगे मेषपूर्वांशगे खौ। उच्चपञ्चग्रही होरा तदाऽऽसीत् तस्य जन्मनि // 5 // संपत्तिरिव दानेन ज्ञानेनेव सुशीलता / वैदग्धी विनयेनेव देवी पुत्रेण सा वभौ // 6 // न लास्यत्येष निलोभः सद्भ्यो धर्मधनानि यत् / तेनास्य नल इत्याख्यां विदधुर्वन्धवो बुधाः // 7 // मुखेभ्यः मूरिसार्थानां सर्वशास्त्राणि सोऽग्रहीत् / वृक्षाणामिव पुष्पेभ्यः सौरभ्याणि समीरणः // 8 // पडङ्गान् चतुरो वेदान् पट् तर्कान् पइरसक्रमम् / पइभाषानिर्णयं वेत्ति नलः पण्मुखविक्रमः // 9 // किमत्र बहुना तावत् यत् किश्चिदिह वर्तते / तत् सर्वमपि जानाति लोकोत्तरमतिर्नलः // 10 // किं मस्तस्य रम्भोरु ! सौभाग्यगुणवर्णनम् ? / स कोऽपि मूर्तिमान् पृथ्व्यां गुणराशिरिवोत्थितः॥११॥ कदाचित् सादिभिः साकं स वाह्यालिभुवं गतः / अश्वेनापहृतः प्रापदहोरात्रान्महद् वनम् // 12 // तत्र कापि सस्तीरे परिश्रान्ततुरमात् / अवरुख कृतस्नानः शुश्राव करुणध्वनिम् // 13 / / किमेतदिति विज्ञातुमार्त्तत्राणपरायणः / गच्छंस्तदनुसारेण काश्चित् म प्राप शिंशपाम् // 14 / / तस्याः स्तम्वेन संबद्धं शून्यमष्टाङ्गकीलितम् / मुनिं ददर्श शिष्यं च रुदन्तं कन्यकान्वितम् // 15 // पृष्टस्तेनाथ शिष्योऽसौ साक्रन्दमिदमब्रवीत् / कुमार ! महती सेयं वार्ता तावन्निशम्यताम् // 16 // अयं पूर्वधरः श्रीमान् श्रीधरो गणभृद्वरः / संमेतशिखरं द्रष्टुं प्रस्थितस्तीर्थयात्रया // 17 // IAIATI AIAI AIISle .
Page #68
--------------------------------------------------------------------------
________________ प्रथमस्कन्धे सर्गः 13 // 24 // दमयन्तीसमीपे कृतं पक्षीराजेन नलनृपस्य वर्णनम् // BISHI RISHI AISHIGATHI ASRI II II श्रान्तश्च भगवानस्मिन् विशश्राम सरस्तटे / वैयावृत्यं च कुर्वाणो बभूवाहं प्रभोः क्षणम् // 18 // अत्रान्तरे दुराचारः कश्चिद् विद्याधराधमः। राजपुत्रीमिमां हृत्वा चचाल गगनाध्वना // 19 // तमन्यः संमुखायातः कन्यार्थी व्योम्नि रुद्धवान् / द्वन्द्वयुद्धं तयोरासीत् खड्गाखगि भुजाभुजि // 20 // तत्र क्षणे कुमारी च वं मुमोच विमानतः / पपात चलकल्लोलपल्वले लोललोचना // 21 // उल्लङ्घय च सरः शीघ्र विदग्धा नृपनन्दिनी / भगवन् ! रक्ष रक्षेति बुवाणा प्रभुमभ्यगात् // 22 // जालन्धराधिराजस्य सुताऽहं कनकावली। विद्याधरभयत्रस्ता प्राप्ताऽस्मि शरणं तव // 23 / / इति भीतां प्रजल्पन्तीमिमामाश्वासयन् मुनिः। जाङ्गुलीविद्यया विद्वान् चक्रे सर्वाङ्गरक्षितम् // 24 // विद्याधरोऽपि पापात्मा प्रतिमल्लं विजित्य तम् / प्रहारजर्जरः प्राप गृहीतुं सुमुखीमिमाम् // 25 // ततो विद्याप्रभावेण करालव्यालमालिनीम् / निधिलक्ष्मीमिवापुण्यः स्पष्टुमेतां न शक्नुवान् // 26 // मुनिशक्तिमिमां शारला सोपि कोपारणेक्षणः। फीलपित्वा मुनि पापी निर्यपौ प्रमजर्जरः / / 27 / / सेहे च तत् प्रभुः सर्व कुर्वाणः कर्मनिर्जराम् / आत्मरक्षां न कुर्वन्ति सचवन्तो मुमुक्षवः // 28 // अस्ति चास्य प्रतीकारः पुण्डरीकाचले परं / मायानिर्मूलनी नाम महावीर्या महौषधिः // 29 // द्वात्रिंशल्लक्षणः कश्चिद् राजपुत्रो युवा यदि / समानयति तच्छाखां वेगादसमसाहसः // 30 // (युग्मम् ) न हि तां सहसा कोऽपि नरः सत्त्वविवर्जितः। सिंहव्याघ्रवृकव्याप्तां नेतुं दिव्यौषधि धमः // 31 // IFILATERIATI AISSIAHISTSIK // 24 //
Page #69
--------------------------------------------------------------------------
________________ IFII III AIIATEII AISHII II न च सा प्रहरादुर्ध्व संप्राप्तापि फलप्रदा / यतः कीलनविद्येयं मध्याह्ने प्राणहारिणी // 32 / / तदेतदधुनाऽस्माकं सानिध्य कः करिष्यति / परार्थेन यतः पृथ्व्यां कोऽपि क्लेशसहः पुमान् // 33 // इदं संप्रति संप्राप्तं त्रयाणां मरणं ध्रुवम् / अयमित्थं प्रभुस्तावत मृत्युमाफ्यति निश्चितम् // 34 // आचार्य च विपन्नेऽस्मिन् ममानशनमेव हि / अग्रे च गुरुणा साकं मृत्युरङ्गीकृतो मया // 35 // हा हन्त ! राजपुत्रीयं रक्षिताऽपि न रक्षिता / विमुश्चति यतःप्राणान् गुरुमृत्यौ मनस्विनी // 36 // इति तस्य वचः श्रुत्वा शोकार्तस्य तपस्विनः / नलस्तं निःश्वसन्नूचे परदुःखेन दुःखितः // 37 // तपस्विन् ! राजपुत्रोऽहं लक्षणानि च तानि मे।न चास्ति निबिडक्रुद्धात् कृतान्तादपि मे भयम् // 38 // किन्तु वाहनमेतन्मे समर्थमपि सर्वथा। प्रहरात पुण्डरीकाद्रौ यातायातक्षमं न हि // 39 // अयं च भगवान् क्षीणो न कालहरणं क्षमः / असमर्थ परार्थेषु धिग् मां मिथ्याभिमानिनम् // 40 // ततः प्रमुदितःप्रोचे मुनिशिष्यो नृपात्मजम् / हन्त ! सिद्धानि कार्याणि कुमार! त्वयि संमुखे // 41 // प्रसादात् पूज्यपादानां यन्ममास्ति सुशिक्षितः / बलातिबलयोर्भेदो मन्त्रोऽश्वहृदयाभिधः // 42 // मन्त्रं पठितसिद्धं मे गृहाण पुरुषर्षभ ! / यत्प्रभावेण जायन्ते सपक्षा इव वाजिनः // 43 // न किञ्चिद् दूरमासन्नं शीतमुष्णं क्षुधं तृपम् / न च भूमिमभूमि वा जानन्ति ययवो यतः // 44 // तत्सङ्क्रान्तमिमं वाहमारुह्य ब्रजतस्तव / द्वियोजनशतान्तेऽपि पुण्डरीकाचलः पुरः // 45 //
Page #70
--------------------------------------------------------------------------
________________ प्रथमस्कन्धे सर्वः१३ दमयन्तीसमीपे कृतं पक्षीराजेन नलनृपस्य वर्णनम् !! // 25 // SII ILSI ALIGA SII ATHI LITERS ak त्रिपर्णी तिक्तगन्धा च श्वेतपुष्पा सदाफला / तस्य सर्वोत्तमे शृङ्गे हिंसमिश्राऽस्ति सौषधिः / / 46 // एवमुक्त्वा समाचख्यौ तं मन्त्रं नृपसूनवे / तेनाधिवासितोऽश्वोऽसौ यामार्द्धन ययौ गिरिम् // 47 // तत्र वित्रास्य शार्दलान् तामादाय महौषधिम् / कालेन तावता भूयः स पाप मुनिसन्निधौ // 48 / / तस्याः स्पर्शनमात्रेण मुनिरुत्कीलितोऽभवत् / स प्रत्यागतचैतन्यो नलमित्यभ्यनन्दयत् // 49 // श्रीवशीकरणचूर्णमुष्टयो धर्मसृष्टिपरमाणुवृष्टयः / त्वां पुनन्तु जगदेकपावना वीतरागपदपद्मपांसवः // 50 // स वासवााहिविलासहंसः सहसभाः शम्भुरधीसमासः / समाः सहस्राणि मुदे सदा सः सदासनः खात्मविलासवासः कुमार ! निर्वर्तितसर्वसारपरोपकारप्रकरप्रकार / जानामि कामं भवता समानो मानोन्नतो नात्र भविष्यतीति // 52 // तत् सर्वथा नः प्रियमाचरिष्यन् संमोहनादीनि महामहांसि / हिंसाविवर्ज विजयप्रदानि त्वं जृम्भकास्त्राणि गृहाण वीर ! // 53 // बहुविधमिति जल्पन् जृम्भकास्त्राणि तस्मै शमजलधिरदत्त श्रीधराचार्यवर्यः / तदनु समयमात्रप्राप्तसैन्यं तदानीं व्यधित हृतमनस्कं धर्मकर्मोपदेशः // 54 // MRITII IIIIIIIINIK
Page #71
--------------------------------------------------------------------------
________________ II SI आपृच्छथ तं नृपकुमारमथ प्रयत्नात् सम्मेतवम॑नि ययौ स मुनिः सशिष्यः। तस्याज्ञयैव च नलेन गजाधिरूढा प्रस्थापिता पितृगृहं कनकावली सा // 55 / / इति श्रीमाणिक्यदेवसूरिकृते नलायने प्रथमे उत्पत्तिस्कन्धे त्रयोदशः सर्गः॥१३॥ IIFI II + III MI - ISI AIII प्रथमे उत्पत्तिस्कन्धे चतुर्दशः सर्गः। पुरं प्राप्तस्य तस्याथ लब्धमन्त्रास्त्रतेजसः / कुर्वाणस्य पितुः सेवां पक्षो यावद् व्यतीतवान् // 1 // जालन्धराधिराजेन प्रहितश्चन्द्रबाहुना / श्रीवीरसेनमानम्य दूतस्तावद् व्यजिज्ञपत् // 2 // राजेन्द्र ! तव पुत्राय नलनाम्ने मनस्विनी / चन्द्रबाहुक्षितीशेन प्रदत्ता कनकावली // 3 // प्राणत्राणाद कपक्रीता पुराणि नलरागिणी ! संप्राप्ता नगरद्वारे तदिगं प्रतिगृह्यताम् // 4 // अवधार्य तदुक्तं तत् तस्मिन्नेव दिने नृपः / वरवध्वोर्विवाहं स सप्रमोदमकारयत् कालान्तरे च संभाव्य नलं राज्यधुरन्धरम् / स वृद्धसचिवं राजा सालंकायनमब्रवीत् // 6 // दशलक्षाणि वर्षाणां प्रजाकृत्यानि कुर्वतः। अमात्य ! मम यातानि स्वार्थश्चिन्त्योऽधुना मया // 7 // युवा धनुर्धरो वीरः समर्थः सांप्रतं नलः / तत् प्रार्थ्यतां कुमारोऽयं राज्यभारपरिग्रहे // 8 // III ARI ANEII IRIISTEII
Page #72
--------------------------------------------------------------------------
________________ प्रथमस्कन्धे सर्गः 14 // 26 // दमयन्तीसमीपे कृतं पक्षीराजेन / नलनृपस्य वर्णनम् // IIIIIIIIIIIIIIFIFIE ISFIE तथेति वचनं तस्य प्रतिश्रुत्य महीपतेः / स गत्वा नलमित्यूचे गिरा गम्भीरधीरया // 9 // परोपकारवीरस्य गम्भीरस्य यशस्विनः / कुमार! जगदाधार ! पितृभक्तिः कथं न ते? // 10 // पुत्रवानपि वृद्धोऽपि यदयं संयमोत्सुकः / वहत्यद्यापि भूभारं महाराजः पिता तब // 11 // तदेहि क्रियतां वाक्यमङ्गीकुरु धुरं भुवः / त्वया पुत्रेण तातस्ते पिपर्तु खमनोरथान् // 12 // इत्युक्त्वा शीघ्रमुत्थाप्य नलं कमललोचनम् / आनिनाय नतग्रीवं पितुरग्रे त्रपाकुलम् // 13 // कथं त्यजति मां तात ! किं विराद्धं मया गुरोः 1 / राज्यभारक्षमो नाहं देव एवात्र युज्यते / // 14 // इत्यादि बहु जल्पन्तं निःस्पृहं पुरुषर्षभम् / सिंहासने समारोप्य मन्त्री छत्रमधारयत् // 15 / / युग्मम् / चकार तिलकं तस्य वीरसेननृपः स्वयम् / अन्ये गृहीतभृङ्गाराः सिषिचुस्तीर्थवारिभिः // 16 // प्रणेमुरभितः सर्वे नृपसामन्तमन्त्रिणः / अश्रूयत नभोवाणी व्यक्तवर्णा च तद् यथा // 17 // निःशेषोल्लञ्चिन्ता शालिसमुज्वलतरा भृशम् / तव कीर्तिः प्रतापश्च नित्यं राजेन्द्र ! वर्त्तताम् // 18 // ततः सहाश्वहेषाभिः सह वारणवृंहितः। दिव्यदुन्दुभिनिर्घोष विष्वग् बधिरितं नमः // 19 // दीनेभ्यो ववृते दानं मुक्ताः कारानिवासिनः / तुष्टुवुर्बन्दिनो हृष्टा ननृतुश्च कुशीलवाः // 20 // वेणुवीणामृदङ्गानां झल्लरीभेरिनिर्भरः / निनादः सप्रतिध्वानो विजजृम्भे समन्ततः ॥२शा अहोरात्रत्रयार्ध्व महादानपुरःसरम् / प्रतस्थे वनवासाय स तु सान्तःपुरो नृपः // 22 // MIFILATERII IIFII ARISTIALISTEIH
Page #73
--------------------------------------------------------------------------
________________ DIII-IIIIIITHIATRII ताबा गृह्यतामयमायुष्मन् ! निजदासः क्रमागतः। श्रुतशीलं नलायेति स सालंकायनो ददौ // 23 // स्वयं वृद्धनरेन्द्रेण वृद्धामात्यः समं ययौ / नलस्त्वनुययौ सर्वान् पादचारी चिरं रुदन् // 24 // तदेतच्चरमं वत्स ! चुम्ब्यसे परिरभ्यसे / ममैव शपथास्तिष्ठ नागन्तव्यमतः परम् // 25 // इति श्रीवीरसेनेन स्वयमेव निवर्तितः / समागत्य गृहं तस्थौ स मासं विलपन्निति // 26 // युग्मम् / तत् तातदत्तताम्बूलं नत् तातेन सहाशनम् / म्मरन् वज्रसमान! त्वं न किं हृदय ! दीयसे? // 27 // ततश्च श्रुतशीलेन मन्त्रिणा प्रतिबोधितः / शिथिलीकृतशोकः सन् राजकार्याणि दृष्टवान् // 28 // कृत्वा द्विग्विजयं वीरः सर्व निर्जित्य राजकम् / चकार निषधोद्देशान् जयस्तम्भविभूषणान् // 29 // नानाधर्मपरायणः प्रतिदिनं नानाविधैरुत्सवै नोपायनपाणिभिः प्रमुदितैराराध्यमानो नृपैः / / नानाराजसुतासहस्रललितव्यापारपारङ्गतः श्रीमान् संप्रति राजपुत्रि ! कुरुते राजा स राज्यं नलः // 30 // क्षारो वारिनिधिः क्षयी शशधरो भिक्षाचरः शङ्करः शक्रो दुश्यवनः सरश्च वितनुः श्यामश्च दामोदरः। नागेन्द्रो विषभृद् विधिश्च जरठः काष्ठं च कल्पद्रुमो निर्दोषः पुनरेक एव जयति श्रीवीरसेनात्मजः // 31 // तिष्ठन्त्येव कलिङ्गबङ्गमगधश्रीगौडचौडावनीकर्णाटद्रविडप्रभुप्रभृतयो भूमीभृतः कोटिशः / गीर्वाणाश्च फमाभृतश्च शतशः किं वा बहु ब्रूमहे ! रूपे भूतभवद्भविष्यति जने नान्यो नलस्पर्द्धया // 32 // देवः कोपि स विश्ववीरविजयी राजेन्द्रचूडामणिदृष्टो येन नलः किमन्यदपरं साक्षात्कृतस्तेन हि /
Page #74
--------------------------------------------------------------------------
________________ ॥३शी सर्मः 14 // 34 // // 27 // श्री दमयन्ती समीपे कृतं पक्षीराजेन नलनृपस्य वर्णनम् / / // 35 // IIIIIIII-IIIF II II // 36 // इन्दुर्जाद्यहरः स्मरस्तनुधरश्चिन्तामणिश्चेतनः पुंरूपा च सरस्वती शतमखो मानुष्यमुद्राङ्कितः उडुगणपरिमाणं केन शक्यं विधातुं ? नवजलधरधाराः को हि संख्यातुमीशः / क्क नु कणगणनं वा वारिधेर्वालुकानां ? क्व किल नलगुणानां प्राप्यते सुभ्र ! पारः इत्वसौ तब विनोदहेतवे तच्चरित्रकणिका मयोदिता / कन्युफण्ठि ! गमनोसुको धुना किं. प्रियं वद पुनः करोमि ते ? अथ नरपतिपुत्री विस्मिता वाचमूचे खग ! सुकृतिचरित्रं शृण्वतः कस्य तृप्तिः / यदि पुनरपि किश्चित् कर्तुकामः प्रियं मे तदिह मम लिखित्वा नैषधं दर्शयेति खगनखलिखितस्य क्षमापतेः साऽपि रूपं निरुपमरमणीयं मन्मथार्ता निरूप्य / श्रमजलकलिताङ्गी कम्पमाना वरोरुः स्वमथ झटिति हारं तस्य कण्ठे चकार अथ जय जय भद्रं जीव जीवेति जल्पन् ननु किमिदमिति द्राक तामपृच्छद् विहङ्गः / सजलनयनपक्ष्मासन्नकण्ठी च साऽपि स्मरपरवशचित्ता मुक्तलजं जजल्प तन्मुश्च मोहमिह हंस ! गृहाण हारं यस्यैप तस्य भवताऽपि समर्पणीयः। कोऽयं कृतस्य करणेऽपि परिश्रमस्ते ? मा दिव्यदर्शन ! भजिष्यसि निष्फलत्वम मा मे विचिन्तयसि कश्चन बालभावं न त्वं भविष्यसि मृषा तदलं विचिन्त्य / BEII AISII AIIIIIIIIII AISEISTRIE // 37 // // 38 // // 39 //
Page #75
--------------------------------------------------------------------------
________________ आमा II ASINI ATHIINFINIK एकैव वाङ्मनसयोः पदवी यतो मे नैतन्मम प्रचलति प्रलयेऽपि वाक्यम् . // 40 // कि प्रार्थ्यसे चिरतरं चतुरोऽसि यस्मात् ? किं शिष्यसे च समये भणितुं बुधोऽसि / ' त्वत्तः सुसिध्यतु तवापि ममायमर्थो देहान्तरेऽपि मम शक्तिरिमं विधातुम् // 41 // जानामि नैषधमहं नृपति पुराऽपि देहं वहामि सकलं तदिदं तदर्थे / कत्तुं मया परिचयं सुचिरं त्वमुक्तस्तुभ्यं नमोऽस्तु कुरु कार्यमिदं मदीयम् // 42 // इति स तां मुदतीं नुदतीं जगौ यदि तवैष तनूदरि ! निश्चयः। शृणु ततस्त्वमपि प्रियवादिनि ! त्वयि नलप्रहितोऽहमुपागतः // 43 // मृतवतस्तव विस्मृतिजं भयं विरह एव दुनोति च जीवतः / मरणजीवितयोरधुनान्तरे तव कृते तरलाक्षि ! भवत्प्रियः // 44 // विविधमागधपान्थजनश्रुतां स सततं भवतीमनुनिन्तयन् / अपरराजसुताजनसङ्गमप्रभवसौख्यशतैरपि वश्चितः // 45 // कुवलयं वलयं च विलुम्पति स्वभवनं च वनं च विमुश्चति / अकरुणं करुणं प्रतिभाषते स विभवेऽपि भवेऽपि गतस्पृहः // 46 // मनसि दुःस्थितता कृशता तनौ भ्रमति चित्तमथ स्खलितं गिरांम् / HILAIFI AIFI AISI ISIFle
Page #76
--------------------------------------------------------------------------
________________ II SIK // 47 // प्रथमस्कन्ध सर्गः१४ हंसस्य नलसमीपे गमनम् // . // 48 // // 28 // // 49 // // 50 // USAII II ||RI - HIDISI PISSI IRK इति भवद्विरहादसमञ्जसं किमपि तस्य वरोरु ! विजृम्भते . . मतिमति ! दमयन्ति ! दन्तिदन्तद्युतिमतमोमयमुत्तमं तमन्तः। मदय दयितमेनमत्यमायं मुदितमुदात्तमुदन्तदत्तमोदम् लोलानिलेनाननुनूननुन्ना नानालिलीलोल्लललं लुलाना / नूनेन नूनं नलिनाननेन नलेन लीना ललने ! ललालम् तत् साम्प्रतं तव बिभर्तुं स सङ्गमाशां द्राक् साधयामि युवयोयुवकृत्यमेतत् / इस्यभ्युदीर्य रुदतीमनुगृह्य भैमी रेमे विहायसि विहाय वनं विहायः हा कुत्र तिष्ठसि ? विशारद ! शारदाभ्रशुभ्रप्रभ ! त्वमिह वल्लभ ! शारदायाः। हा हंस हंस ! किमहं सहसा विमुक्ता मुक्तात्मनेव भवता भवता विदरम् एवंविधानि विविधानि विपञ्चयन्तीमेकाकिनी विपिनसीमनि सान्द्रमोहाम् / तन्मार्गदर्शनपराः परम-चित्ताः सख्यः समेत्य परितः परिवरेनाम् किं वेपसे सखि ! कुतोऽपि भयं कथं ते ? कुत्राऽऽगताऽसि पदवी तव विस्मृता किम् / मुग्धे ! विमुश्च रुदितं गृहमेहि यामेत्युक्तेति सा द्रुतमनीयत वेश्म तामिः आमन्त्रयन्निव समस्तदिगीशवृन्दान् द्राग वीजयन्निव दिशस्तरुणार्कतप्ताः। II ATHI III // 51 // // 52 // // 53 // IASHI
Page #77
--------------------------------------------------------------------------
________________ व्याधूतपक्षतिरुपेत्य नलं पतङ्गः प्रोवाच विह्वलमुपायनदत्तहारः // 54 // त्वं देव ! द्रुतमेव पूर्वविदितो भैम्या स्वयं स्वीकृतः सत्याय प्रहिता तया तव कृते स्वच्छाच्छगुच्छावली। सिद्धं कार्यमिदं तवेति शतशः पृच्छन् विहङ्गाननात् प्रत्युच्चार्य विचिन्त्य च प्रतिकलं न प्राप तृप्ति नलः // 55 // इतिश्रीमाणिक्यदेवसूरिकृते नलायने प्रथमे उत्पत्तिस्कन्धे चतुर्दशः सर्गः // 14 // प्रथमे उत्पत्तिस्कन्धे पञ्चदशः सर्गः / छा.IIIIIIII-IIIIIIIFIE II ASHISHI IIISISTA ततस्तं नैषधः स्वच्छं विहङ्गमसमाहृतम् / बभार हृदये हारं व्याहारं च दमखमः उत्तीर्य कार्यगाम्भीयं प्रातः स्वीकारसंपदा | विरहाब्धेः परं पारं पश्यन्नासीत् समुत्सुकः // 2 // विहङ्गमसमानीतैः स्निग्धसंज्वलनैरिव / वैदर्भीवचनैस्तस्य दिदीपे विरहानलः ज्ञात्वाऽनुरागिणीं भैमी तत्सङ्गमसमुत्सुकम् / तं समाश्वासयन् तस्थौ किश्चित्कालं विहङ्गमः // 4 // अन्यदा स निशाशेषे तमनापृच्छथ भूपतिम् / प्रतस्थे तीर्थयात्रार्थ स्वयूथसहितः खगः // 5 // आत्मकृत्यं विनिहोतुं दिविषद्विस्मयाय सः। यत्र तत्र निगूढात्मा भूरि बभ्राम भृतले // 6 // ततो भैमीवियोगेन विहङ्गविरहेण च / नृपतिः सान्द्रसन्तापः प्राप पूर्वाधिकां दशाम् // 7 // . IIIIII
Page #78
--------------------------------------------------------------------------
________________ II प्रबमस्कन्धे सर्गः 15 II नल-दमयन्त्योर्विरहाग्निः॥ // 29 // II III ISIAllIFILAIII TERI AIST वयस्यथ गते तस्मिन् वयस्यभिनवे नृपः / वयस्यसहितस्तस्थावयस्ययमिवाहितः // 8 // स मञ्जन् विरहाम्भोधौ राजा निरवलम्बनः / हंसमेव स्मरंश्चित्ते प्रललाप प्रियंवदः // 9 // शत्रुर्दहति संयोगे वियोगे मित्रमप्यहो!। उभयोर्दुःखदायित्वे को भेदः शत्रुमित्रयोः ? // 10 // इत्यादि विविधं जल्पन निषधानामधीश्वरः / पुरप्रवेशविद्वेपी निनाय दिवसान् वने // 11 // दमयन्ती च तत्कालं मदनजरजर्जरा। न म मिचिद्विजानाति गृहीतापि गृहं ततः // 12 // सा तमेव दिवानक्तं दिवि दिक्षु विदिक्षु च / पश्यन्ती नलमेवैकं मेने नलमयं जगत् // 13 // निःशृङ्गारा निराहारा निर्विनोदा निरुद्यमा / जीर्णारण्यं जगन्मेने भैमी विरहविह्वला // 14 // अङ्गीचकार नाकल्पं न तल्पं प्रत्यपद्यत / मजनं वर्जयामास सज्जनं नाललाप च // 15 // विलोक्य रुदती बालां ततस्तदुःखदुःखिताः / भृशमाश्वासयामासुर्वयस्याः साश्रुलोचनाः // 16 // नलिन्यामिव मनायां तस्यां मोहमहार्णवे / वयस्यावृन्दमागत्य चक्रन्द कुररीगणः // 17 // उदकमुदकं वायुर्वायुर्वतासनमासनं भजत भजत च्छवं छत्रं च सिश्चत सिञ्चत / इति सरभस भीतभ्राम्यत्सखीमुखसंभवस्तदनु तुमुलो लोलः कोलाहलः सुमहानभूत // 18 // इत्थमुत्थितशुचां मृगीदृशामीदृशं कलकलं निशम्य तम् / मन्दिरं दुहितुराययौ जवात् कातरः किमपि भीमभूपतिः // 19 // II ATFII IASII 29 //
Page #79
--------------------------------------------------------------------------
________________ IIIIII-IIIIIIIITE अपि तिरस्कृतमन्मथलक्षणां दुहितरं चरणप्रणतामपि / स बुबुधे नृपतिविरहातुरां क चतुराः परचित्तविदो नहि ? // 20 // उन्नमय्य सहसा शिरस्ततः तां सुतां प्रति पिताऽऽशिषं ददौ / त्वं वरं गुणमयं स्वयंवरे वासरैः कतिपयैरवाप्नुहि // 21 // अवदच्च वचः सुतावयस्याः ! भवतीभिः कृशतातिरस्क्रियार्थम् / अचिरेण विधीयतां स्वसख्या रुचिरासन्नविवाहमङ्गलायाः // 22 // तामित्यभिप्रायविदो नृपस्य व्याजोक्तिमाकर्ण्य भृशं सकर्णः / आनन्दमन्दाक्षसमुद्रमग्नं मनो दधौ निर्भरमालिवर्ग: // 23 // एतत् किमप्यनवमं नवमङ्गलाकं माणिक्यदेवमुनिना कृतिना कृतं यत् / तस्यार्यकर्णनलिनस्य नलागनस्य स्कन्धोऽयमुत्तमतमः प्रथमः समाप्तः // 24 // इतिश्री माणिक्यदेवसूरिकृते नलायने प्रथमे उत्पत्तिस्कन्धे पञ्चदशः सर्गः // 15 // इति प्रथमः उत्पत्तिस्कन्धः समाप्तः /
Page #80
--------------------------------------------------------------------------
________________ द्वितीय स्कन्वे . द्वितीयः स्कन्धः। . द्वितीये दूत्यस्कन्धे प्रथमः सर्गः। सर्गः१ कुन्डिनाधीशेन दम यन्त्याः स्वयंवराई प्रेषिता दूताः // ARII IIIIIIIIIIIsile क्रमेण कुण्डिनाधीशः स्वदूतान् विससर्ज सः। चतुर्दिगन्तविश्रान्तानाहातुं पृथिवीपतीन् // 1 // ते गौडचौडकर्णाटलाटद्रविडचेदिषु / अङ्गबङ्गतिलङ्गेषु राजादेशात् प्रतस्थिरे प्रहितं तेषु कौवेयाँ वर्षीयांसं वचोहरम् / सखीमुखेन वैदर्भी देवदत्तमवीवदत् सर्वोदीच्यनृपाह्वाने तात ! कार्य तथा मनः / शीघ्रमागमनोत्कण्ठं नलोऽलं कुरुते यथा // 4 // इत्यशेषविशेषज्ञः सोऽपि प्रत्युत्तरं ददौ / विधाय स्वजनाश्लेष ययौ प्रत्युत्तरं तथा // 5 // विदग्धानुचरः सौम्यो वाग्मी जवनवाहनः / नृपानामन्त्रयन् सर्वानार्यावर्त्तमवाप सः // 6 // दृष्टस्तेन वनाभोगे धनुर्योग्यापरायणः / अश्ववारः सरित्तीरे श्रुतशीलान्वितो नलः // 7 // राजराजेश्वरं वीरं नलं कमललोचनम् / विलोक्य स निजं मेने कृतार्थ नयनद्वयम् // 8 // रत्नोपायनपाणिस्तं प्रणम्य पृथिवीपतिम् / इति विज्ञपयामास ललाटघटिताञ्जलिः विदर्भाधिपतिर्देवः श्रीमान् भीमनरेश्वरः / आमन्त्रयति देव ! त्वां स्वयंवरमहोत्सवे // 10 // HIFISHIEFII IIIHIRISE
Page #81
--------------------------------------------------------------------------
________________ III TII III III ATHII VIII IIle अध्यास्थतां समागत्य तालहिन्तालशालिनः / दात्यूहव्यूहसञ्चारचारवो बरदास्तटाः // 11 // किमन्यद् वसुधाचन्द्र ! भीमभूपालभूस्तव / अङ्गीकरोति वेगेन सेनाकरपरिग्रहम् // 12 // तत् कुरुष्व महाराज ! चतुरङ्गचमूवृतः / दक्षिणाभिमुखीं यात्रां दक्ष! दाक्षिण्यवारिधे! // 13 // स तस्य तां समाकर्ण्य गर्भितार्थान्तरां गिरम् / विद्वान् विवेद वैदाः पृथक् सन्दिष्टमात्मनि // 14 // तेनाथ चक्षुषा क्षिप्तः श्रुतशीलोऽवदद् वचः / विदर्भभूः श्रुताऽस्माभिः स्वभावतिलकाङ्किता // 15 // तां विदर्भभुवं रम्यां प्रपन्नस्य स्वयम्बरे / देवस्य सैनिकानां च प्रमोदो बर्द्धतां चिरात् // 16 // न कश्चन विलम्बो नः संप्राप्ता एव केवलम् / वैशाखी पूर्णिमाऽस्माकं तत्र नूनं भविष्यति // 17 // इत्युक्तवति मन्त्रीशे सहस्रतुरगान्विताम् / स्वर्णकोटिं ददौ तस्मै नृपतिः पारितोषिकम् // 18 // विसृष्टो बहुमानेन स्वयं संभाष्य भूभुजा / कुण्डिनं प्राप्य तत् सर्व स नृपाय न्यवेदयत् // 19 // कान्तोदन्तसुधासारं वाञ्छन्तीं शफरीमिव / दमयन्तीमिदं प्रोचे तद्वयस्थाननेन च // 2 // औदीच्यान् कुर्वता सर्वान् भूभुजः कुण्डिनोत्सुकान् / नलं चाप्य मया लब्धा काचित् कनकशृङ्खला // 21 // इत्युक्तिचतुरा सम्यक संभाव्य नलसङ्गमम् / तस्मै दिदेश वैदर्भी पञ्चाङ्गं हेमभूषणम् // 22 // इतश्च निश्चयप्राप्तप्रेयसीदर्शनोत्सुकः / चचाल चतुरङ्गिण्या सेनया निषधाधिपः // 23 // . शेषः सीदति कुर्मराट् विलिखति क्षोणीतलं मजति क्षुभ्यन्त्यम्बुधयः पतन्ति गिरयः क्रन्दन्ति दिद्गन्तिनः / भाAI AIITHIATRI FIISITE . .
Page #82
--------------------------------------------------------------------------
________________ द्वितीयस्कन्धे * लुप्तं व्योमतलं दिशः कवलितारुद्धो रविः पांशुना चक्रे तस्य बलैश्चलद्भिरभितस्त्रैलोक्यमप्याकुलम् // 24 // चूर्णीवभूवुरभितः पंथि शैलसङ्घाः पङ्कत्वमापुरपरं सरितः समग्राः। सद्यस्तडागतुलनां ययुरूषराणि प्राकाश्यमाशु गहनान्यगमन् तदानीम् // 25 // इतिश्रीमाणिक्यदेवसूरिकृते नलायने द्वितीये इत्यस्कन्धे प्रथमः सर्गः॥१॥ दमयन्त्याः स्वयम्वरे नलनृपस्य प्रयाणम् // .सर्वः२ द्वितीये दूत्यस्कन्धे द्वितीयः सर्गः / II II AISING THI - III II ISHIK IIIIIIIIIEIII-III-IIIFIII यियासुः कुण्डिनं यावत् स तस्थौ नर्मदातटे / तावत् पुरन्दरं द्रष्टुं हेमाद्रिं प्राप नारदः // 1 // दूरादपि तमायान्तं ददर्श त्रिदशाधिपः / स्वामी हि सर्वतो दर्शी सहस्राक्षो विशेषतः // 2 // स व्यक्तशान्तशृङ्गारहास्याद्भूतभयानकः / मुनिर्दिविषदां चक्रे हृदये रससङ्करम् तमभ्यर्च्य सुराधीशः पुरस्तादासनस्थितम् / निषिद्धान्यजनालापः सप्रश्रयमभाषत // 4 // अद्य त्वदर्शनाद् बाई तपस्विन् ! मुदितोऽस्म्यहम् / तथाहि नृत्यतीवेदं हृदयं तव सन्निधौ // 5 // ते देवास्तानि तीर्थानि स गुरुः स तथागमः। जायते येषु दृष्टेषु जन्मिनां मनसो धृतिः // 6 // तद् ब्रूहि भगवन् ! कस्मादिह प्राप्तो ममाधुना / सर्वत्राप्रतिबद्धोऽसि त्वं वायुरिव नारद!॥ 7 // // 31 //
Page #83
--------------------------------------------------------------------------
________________ ना ELI-IIIFFIl जानासि. जगतां वृत्तं नित्यं कामचरः प्रभो ! / भृलोकविपय छिन्धि ममैकं संशयं ततः // 8 // येन युद्धेषु सर्वेषु त्वं साक्षी तेन पृच्छ्यसे / किं कलिप्रिय : मेदिन्यां रणप्रत्यूहकारणम् ? // 9 // किंन सन्ति नरेन्द्राणां कुमाराः केऽपि वंशजाः?। वीर शून्याऽथवा जाता कथं वन्ध्या वसुन्धरा?॥१०॥ यदेतेऽद्यतने काले भूपालाः सुस्थिता इव / स्वर्गश्रियं न वाञ्छन्ति दुर्भगामिव कामिनीम् / / 11 // प्राणांस्तृणाय मन्यन्ते युद्धबुद्धिजुषो भटाः / स्वर्गश्च स्वामिकाय च द्वौ लाभौ च रणाङ्गणे / / 12 / / त्यनचार्मणकायानां दिव्यं वपुरुपेयुपाम् / पूर्व सुभटकोटीनां करोम्यातिथ्यमन्वहम् // 13 // महत्यमपि यत्ते मां नोपसर्पन्ति संप्रति / तेनात्मानमहं मन्ये रक्षितारमिव श्रियः // 14 // अधिकं भान्ति पुष्पाणि पीयमानानि षट्पदैः / विभज्य भुज्यमानानि धनान्यतिथिभिस्तथा // 15 // सा किं श्रीयंत्र नो द्वारं दानकोलाहलाकुलम् ? / अपतत् पक्षिसङ्घातः कीदृशः फलितस्तरुः 1 // 16 // यानि दानविटीनानां दिनान्यायान्ति यान्ति वा / अजातानां मतानां वा तानि जानामि निश्चितम्॥१७॥ इति श्रुत्वा श्रुताम्भोधेर्वाचं प्राचीनवर्हिषः। उवाच वचनं प्रेमव्याकुलः कलहप्रियः // 18 // माधु माधु सुराधीश ! प्रस्तुतं प्राज्ञ ! पृच्छसि / दिष्ट्या धर्मानुबद्धयं वासना तव वासव ! // 19 // इदं च परमैश्वर्य विनयश्चायमीदृशः / सुधियां द्वयमप्येतत् पुरन्दर! दुरुत्तरम् // 20 // स्थाने यदतिथीनां त्वमभावेन विषीदसि / यत् सत्यं कृतकृत्यम्य न्यूनताऽपि तवेयती // 21 // I ISIT ISIFIFIFIEI ISIF II
Page #84
--------------------------------------------------------------------------
________________ द्वितीयस्कन्धे सर्गः२ // 32 // II-IIIASRIGATII AIII IIITRIK आस्तुष्टाः स्म भवद्वृत्तः किमन्य विजयी भव / हन्त ! कालमसङ्ख्यातं त्रिदिवं वीर ! पालय // 22 // युद्धाध्वरहुतासूनां योऽयं राज्ञामनागमः। तमाकर्णय वृत्तान्तमन्तःकरणकार्मणम् // 23 // जयत्यनुपमा तत्र कुमारी भूविभूषणम् / दुहिता भीमभूभ र्दमयन्तीति विश्रुता // 24 // न तस्याः सदृशं रूपं भूर्भुवःस्वस्त्रयेऽपि हि / कुत्रापि श्रूयते काले भूते भवति भाविनि // 25 // जगद्युवजनोत्तंसे शुद्धवंशे महौजसि / सा. क्वचिद् भजते भावं भामिनी सुभगेऽधुना // 26 // न च विज्ञायते कश्चिद् यस्तस्या मनसि स्थितः। लज्जा जवनिका यस्य न ददाति प्रकाशताम् // 27 // सचितानङ्गसन्तापैरङ्गैविरहवादिमिः / तां वीक्ष्य तद्गुरुस्तस्याः समारेमे स्वयम्वरम् // 28 // वहन्त्यद्य दिवानक्तं स्थलेषु च जलेषु च / दिशां च विदिशां चैव पन्थानः पथिकवजैः // 29 // त्यक्तप्राक्तनवैराणां राज्ञामेकत्र गच्छताम् / जिनेन्द्रपरिषत्प्रायं पृथ्वीतलमजायत // 30 // सौभाग्यनिकषे तस्मिन्नद्य भैमीस्वयम्बरे / स पङ्किपतितो राजा यो नागच्छति सत्वरम् // 31 // येषु येषु रता भैमी भूषणेषु गुणेषु च / तेषु तेषु विशेषो यः पुरुषार्थः स भूभुजाम् // 32 // प्रत्यूहः प्रत्यहं सोऽयं साम्प्रतं रणकर्मणः / भैमीसुरभवोर्लामे राज्ञां हि महदन्तरम् अधिकं त्रिदशस्त्रीभ्यो जीवद्भिर्यदि लभ्यते / तन्मृत्वा स्वर्गमागन्तुं को विशेषो महीभृताम् // 34 // व्याप्तं च सर्वतो मञ्चप्रतिमञ्चध्वजादिमिः / शुभैः स्वयम्बरारम्भसंभ्रमैः कुण्डिनं पुरम् // 35 // दमयन्त्याः स्वयम्वरकाले हिमाद्री नारदपुरन्दरयोचर्चािलाप IIIIIIIIIIFile // 32 //
Page #85
--------------------------------------------------------------------------
________________ AIIAFllaSIATRI II IRIK ततो युद्धदरिद्रं तद् भूतलं द्रष्टुमक्षमः / असङ्ख्यसङ्ख्यसौख्येप्सुरहमभ्यागतो दिवम् // 36 // तद् वज्रधर! वृत्रारे! बलिन् ! बलिनिसूदन!। अत्र मेने तयोः किश्चिद् भाविपारणकारणम् // 37 // इत्यूचिवांसमाचार्य प्रत्युवाच पुरन्दरः / न कश्चिन्मम सङ्ग्रामसंभवो भगवन्निति // 38 // ततः स निःश्वसन्नुच्चैर्मुनिरूचे निरुत्सवः / यास्यामि पृथिवीपीठं किं वृथात्र स्थितेन मे ? // 39 // कदाचित् कलहायन्ते नृपास्तत्र स्वयम्बरे / ततः पश्यामि तद् युद्धं नृत्यन्नूस्फुरच्छिखः / / 4 / / इत्युक्त्वैव ययौ पृथ्वीं स मुनिः पिशुनः पुनः / बलानिवृत्त्य वृत्रारि द्वारतोऽप्यनुयायिनम् // 41 // श्रुत्वा हरिस्तदथ नारदवारिदस्य भैमीगुणग्रहमयं गलगर्जितं तत् / वीरः स्वयम्वरविलोकनकौतुकेन सजीवभूव भुवमभ्युपगन्तुकामः // 42 // नूनं गतानुगतिकः सकलोऽपि लोकः किं बमहे बहुतरं तरसा रसााः / / दिक्पालमौलिमणयोऽपि तमन्वगच्छन् वैवस्वतश्च वरुणश्च हुताशनश्च // 43 // साचीचक्रे घृताची मुखकमलमलं मजुघोषा सघोषा रम्भा स्तम्भं प्रपेदे सपदि कृतवती मेनका मौनभावम् इत्थं स्वःसुन्दरीणामनुसरति हरौ मानुषी राजपुत्रीं जज्ञे सन्तापचिन्ताकलिमलकलुषं मानसं मानिनीनाम् / / 44 // उद्दण्डैरुत्पताकैरविकलकलशैरुल्लसत्किङ्किणीकैरुल्लोचाढ्यैरुदश्चच्छुचिरुचिरुचिरैश्चारुपर्यङ्कयुक्तैः। विष्वक् मन्दारमालापरिमलमिलितस्फारभृङ्गारवौथैव्योम व्याप्तं विरेजे हरिमनुसरतां व्योमभाजां विमानैः॥ 45 // EFII ADHI AIFI ARISHIARIISISE
Page #86
--------------------------------------------------------------------------
________________ द्वितीय स्कन्धे सर्गः३ मकलकलशलीलां प्राप कुत्रापि चन्द्रः स्फुटकुसुमसमत्वं क्वापि नक्षत्रवृन्दम् / वचन जवनिकात्वं वारिदा विद्युतश्च ध्वजपटपटिमानं देवयांनेषु तेषु // 46 // स्वःसिन्धुसीकरकरम्बितगन्धवाहं भारण्डचण्डरवमण्डितदिग्विभागम् / उत्तीर्य दुस्तरतरं तरसा नभस्ते भेजुर्धरावलयसन्निधिमिन्द्रमुख्याः // 47 // इतिश्री माणिक्यदेवसूरिकृते नलायने द्वितीये इत्यस्कन्धे द्वितीयः सर्गः // 2 // दमयन्त्याः स्वयम्वर काले इन्द्रादीनां पृथ्वीपीठगमनम् // 33 // IISHII III द्वितीये दूत्यस्कन्धे तृतीयः सर्गः / II TERI AIIla TII-III III II अत्रान्तरे तिरस्कुर्वन् लक्ष्मी मकरलक्ष्मणः आसीद् रेवातरं पश्यन् श्रुतशीलान्वितो नलः // 1 // तमालतालहिन्तालशालमालूरमालिताः / कदम्बनिम्बजम्बीरजम्बूस्तम्बकरम्बिताः // 2 // करीरकीरवानीरकरवीरविराजिताः / केतकीकुन्दवासन्तीशतपत्री पवित्रिताः चूत चम्पककिङ्किल्लिमल्लिकाबकुलाकुलाः। तस्य प्रविविशुश्चित्तं विचित्रा वनराजयः // 4 // [त्रिभिर्वितस्य विन्ध्याचलोद्देशदर्शनानन्दकन्दलम् / सिषेच वाकसुधासारैस्ततः सचिववारिदः // 5 // शेषकम् ] सरलसरलशाखासक्तशाखामृगौधा हरिणहरिणियथा यथिकाजालभाजः / SHILAISEII III 4
Page #87
--------------------------------------------------------------------------
________________ = II A THEIIIII = = माझा IIIII-IIIII FIII II कमलकमलयातिप्रीतिदाः सारसानां सरससरस एते विन्ध्यशैलप्रदेशाः इत्थं स तेन सचिवप्रवरेण रम्यं रेवातटव्यतिकरं विनिगद्यमानः / हंसः पुरः परिवृतां चतुरेश्चतुर्भिरेका रथाङ्गगृहिणी सहसा ददर्श तां दर्शयन्नथ नलः श्रुतशीलमूचे मत्रिन्नमुत्र किमिदं ननु पश्य पश्य ? / एषामसावविषयस्तदमी परस्त्रीं हंसा रथाङ्गगृहिणीं किमु कामयन्ते ? // 8 // इयमपि चटुलेषु चाटुकारेष्वतिरुचिरेष्वपि खेचरेष्वमीषु / कथमपि न पुनर्षिभर्ति भावं रतिमिव कैरविणी रवेः करेषु अनुचितमनुरागमीदृशं धिक् ननु शिखिपिच्छमिवैकपक्षरम्यम् / बन इव रुदितं दिवीव गुप्त हुतमिव भस्मनि वा रतिर्विरक्ते // 10 // नैवान्यजातिमभियाति कदापि मुक्त्वा किश्चिन्निमित्तमिव मच्छुभमत्र नूनम् / अस्मिन् स्वयम्बरविधौ नियतं यदस्मात् संभाव्यते किमपि विस्मयकारि कार्यम् // 11 // इति निगदितवन्तं मत्रिणा सार्द्धमन्तर्विरचितदमयन्ती प्राप्तचिन्तातरङ्गम् / अनुपमरमणीयं पार्थिव द्रागपश्यन्नवनिमवतरन्तस्तं ततस्ते सुरेन्द्राः // 12 // इति श्रीमाणिक्यदेवसूरिकृते नलायने द्वितीये इत्यस्कन्धे तृतीयः सर्गः // 3 // ISIT A TEII A MEII II
Page #88
--------------------------------------------------------------------------
________________ द्वितीय स्कन्धे सर्गः४ II II IIIIIIE श्री पृथ्वीपीठा गतानां इन्द्रादीनां मन्त्रबलेन / नलेन स्तम्भिता सेना // 34 // . द्वितीये दूत्यस्कन्धे चतुर्थः सर्गः। प्रभावस्तम्भितैर्यानैर्ददृशुस्तं दिवौकसः / संयमस्तिमितैरक्षः क्षेत्रज्ञमिव योगिनः न शश्वसुने जगदुर्न च स्वं विविदुः स्वयम् / ययुश्च महसा शीघ्रं पश्यन्तस्तं दिवौकसः // 2 // महोन्नतिजुषा तेन सा निरर्गलगामिनी / सौभाग्यनलमन्त्रेण स्तम्भिता शक्रवाहिनी लावण्यामृतपाथोधौ पार्थिवे पृथुवक्षसि / अपि मग्नानि प्रौढानां मनांसि त्रिदिवौकसाम् // 4 // अहो ! रूपमहो! रूपमहो! रूपमिति क्षणम् / मज़स्तेषां धुनाति स स्तुतिझञ्झानिलो भृशम् // 5 // राजराजेश्वरः श्रीमान् स एवैष नलः कथम् / इत्थं परस्परं प्रोचुर्मन्दं मन्दं दिवौकसः // 6 // तत्र स्वयंवरे नूनं यात्यसौ पृथिवीपतिः / आमिरामिकमस्येदं यतः सर्वाभिषेणनम् // 7 // पग्रिन्या इव मार्तण्डं गङ्गाया इव सागरम् / अमुं विलोक्य वैदा नान्यस्मिन् रंस्यते मनः // 8 // रूपलक्षणवर्णाद्यैरत्यन्तं हीनताजुषः / पुरस्तादस्य दृश्यन्ते देवासुरनरोरगाः // 9 // एकहट्टवणिक् सोऽयं निश्चितं निषधेश्वरः / निजरूपक्रयक्रीतां दमयन्ती गृहीष्यति // 10 // मुर्खत्वादस्मदुत्कृष्टं भैमी त्यजति चेदमुम् / अप्रतीत्य परोत्कृष्टान् नास्मानपि वृणीत सा // 11 // गुणाधिकममुं मुक्त्वा सा कदाचिद् वृणीत नः। वृण्वत्यापि तदाऽस्माकं तया किमगुणज्ञया? // 12 // IIIIIIIIIEIFIIR IIIIIIITTE DIII RISHI AIII // 34 //
Page #89
--------------------------------------------------------------------------
________________ IIIIIIIIII AHINITIFI उत्तानपातिभिः पापैरभिमानवशंवदैः / अदीर्घदर्शिभिः सर्वैरस्माभिः किमिदं कृतम् // 13 // चिटिका बदरस्येव पृष्ठतः पुरतोऽपि वा / अस्माकं साम्प्रतं शक्तिन गन्तुं न निवनितुम् // 14 / / तान् वीक्ष्य कुमुखान् शक्रः प्रत्युत्पन्नमतिस्ततः। नलं प्रति प्रतीहारं नैगमेषिणमादिशत् // 15 // दिवः सुर इवायाति कोऽयमित्याकुलं नलम् / समीपे सोऽपि संप्राप्य सप्रश्रयमभाषत // 16 // राजन् ! मा विभ्रमं कापीभेज सञ्जातिथ्यताम् / अयं त्वां स्वयमभ्येति भगवान् पाकशासनः / / 17 / / इति तद्वचनाद् राजा समुत्थाय ससंभ्रमम् / कृताञ्जलिः प्रफुल्लास्यः पौलोमीपतिमभ्यगात् / / 18 // अथ ललितमुखीभिर्मञ्जुघोषादिकाभिस्त्रिदशवरवधूभिश्वामरैर्वीज्यमानम् अविरलकलकण्ठैः किन्नरैर्गीयमानं शुचिरुचिरचरित्रं चारणैः स्तूयमानम् // 19 // म्फुटमपि दुरवापं पापिभिर्द्रष्टुमुच्चैः सुकृतिभिरपि दूरं दीप्तिभिदुर्विभाव्यम् / तरुणतमतमालश्यामलादन्तरिक्षादवनिमवतरन्तं देवराजं ददर्श // 20 // युग्मम् // मकरमहिषधूमव्यक्तकेतूपसृष्टान् विकटविपुलनीलश्यामपिङ्गाङ्गभासः / वरुणयमकृशानूनद्भुतानूनशक्तीन् तमनु च मनुजेन्द्रस्तान् पुनलोकपालान् // 21 // नन्वेषोऽहं त्रिभुवनभुजः स्वामिनो लोकपालान् ? वन्दे युष्मञ्चरणयुगलं वीरसेनस्य पुत्रः। इत्यानन्दोच्वसितहृदयः पावकादीन् प्रणम्य प्रीतःप्रोचे स्वयमिति मितं सूनृतं भूमिपालः // 22 // .
Page #90
--------------------------------------------------------------------------
________________ द्वितीय दमयन्त्याः स्वयम्बर स्कन्धे सर्गः५ काले . कुत्राल्पकं मम तपः क्व च तत्फलं वा ? यूयं किल बजत लोचनगोचरं यत् / अस्मत्पुराणपुरुषव्रजनिर्मितानां नन्वेष मे सुमहतां तपसामुदकः // 23 // क्षोभं विशक्य हृदि सत्यपि हि प्रसादे संभावयन्ति विभवो न वृथैव भृत्यान् / आज्ञोपलम्भविभबैकरसस्तदुच्चैरादिश्यतां वचन कर्मणि दास एपः. // 24 // इति नचनादीर्ग प्रौढगाम्भीर्यनीर्यः स्वगमन हितनिनः श्मापतिद्धर्मवित्तः। त्रिदशपतिपुरस्तादाशु संयोज्य हस्तावजनि भृशमवामस्तद्वचः श्रोतुकामः // 25 // इतिश्रीमाणिक्यदेवसूरिकृते नलायने द्वितीये दूत्यस्कन्धे चतुर्थः सर्गः // 4 // 136 इन्द्रादीनां नलसमीपे आगमनम्। BHII III AIIlalIIAll IIIEITE HRI ASHII ATHI 4 ISISTERI ATHILIRIK द्वितीये इत्यस्कन्धे पञ्चमः सर्गः / इति तद्वचनैः प्रायः प्रीतोऽपि हृदि वासवः / नात्यजद् दुरभिप्रायं क्वार्थिनो दोपदर्शिनः // 1 // वैदर्भीकामुकं भूपं रूपवन्तं तमागतम् / हरिवञ्चयितुं दध्यौ क्वैकार्थिषु न मत्सरः 1 // 2 // परोत्कर्षासहिष्णुत्वं दुर्निवार्य सतामपि / सूर्यकान्ता ज्वलन्त्यन्तः सन्तप्ताः सूर्यकान्तिभिः // 3 // प्रभुत्वपिहितद्वेषो बहिवृत्त्या पुरन्दरः / दर्शयामास सौम्यत्वं सौम्या ह्यमृतकतरी // 35 //
Page #91
--------------------------------------------------------------------------
________________ II A Mila IASI TI GA SITE तृणच्छन्नैर्महाकूपैर्मधुलिप्तैस्तथाऽसिभिः / कितवैश्च महासौम्यैर्दुर्दुशां को न नीयते ? // 5 // अवलोकितदिक्पालः कालज्ञः कलया गिरा / तमुवाच सुनासीरः कुशलप्रश्नपूर्वकम् // 6 // क्वचित विजयभूयिष्ठं भूपाल ! भवतो वपुः / कच्चित् कल्याणमङ्गेषु सप्तस्वपि तव स्थितम् ? // 7 // एष नैषध ! कीनाशः कृशानुर्दीप्तिमानयम् / पश्चिमाशापतिश्चायं वयं च त्वामुपस्थिताः // 8 // दिवः क्ष्मातलमायाताः सर्वेऽपि भृशमुत्सुकाः / संभाव्य तव साहाय्यं स्वकार्यापेक्षया वयम् // 9 // त्वं राजत्रिदिवस्थानां पुराऽपि विदितोऽसि नः / गायन्ति भवतः कीर्ति सर्वदा सिद्धचारणाः // 10 // भूलोके तदपूर्व नस्त्वामेकमुपलक्षितम् / क्वचित् कार्य नियुञ्जाना राजन्नझीकरोपि चेत् // 11 // अथ तान् वत्रिणो वाचा जानन कार्यवशंवदान् / विचाय कार्यकारित्वं स स्वस्मिन् मुमुदे नृपः / / 12 / / दुर्लभं दिक्पतीनां किं मदधीनं च तत् कथम् ? / अहो ! वाञ्छा दिक्पतीनां कथमेपाऽवगम्यताम् ? / / 13 / / यथा नादिएमेवेषां कार्य कुर्यां ततः शुभम् / किं कार्यकारिभिमबरादेशक्लेशवाचिभिः ? // 14 / / द्रव्यं वा जीवितव्यं वा यत् किश्चिदपरं तथा / एतेषां कार्यसिद्ध्यर्थं ददतः स्खलना न मे // 15 // अनायत्ताऽपि वैदर्भी मनसा स्वीकृता मया / अमीषां याचमानानामदेया सैव केवलम् // 16 // जीवितावधिमूल्येन यशसः क्रियते क्रयः / तत् कथं क्रियतां कीतर्मया प्राणाधिकापणः ? // 17 // शरीरं वा श्रियो वापि राज्यं वा राष्ट्रमेव वा / सर्वाणि पुरतो भैम्यां कलां नाहन्ति पोडशीम् / / 18 // ||
Page #92
--------------------------------------------------------------------------
________________ द्वितीयस्कन्धे सर्गः५ DIII II A FIGIFI AII-III भवत्वेवं ततस्तावद् वक्ष्यामीति विचिन्त्य सः। प्रसन्नोदारगम्भीरामित्यल्पां वाचमाददे // 19 // यत्र कुत्रापि कर्त्तव्ये तव चित्तं प्रवर्तते / नियुज्यतां जनोऽयं द्राक तंत्र वासव ! दासवत् // 20 // अवश्यं निधनेनापि धनेनापि हि संप्रति / कर्त्तव्यं देवकर्त्तव्यं मया मायाविवर्जितम् // 21 // इत्युक्तवति निःशङ्कनलेऽनलसमानसे / साधु साध्विति गीर्वाणवाणीभिर्विश्वमानशे // 22 // अथ हस्तगतं ज्ञात्वा सात्त्विकं तं नरोत्तमम् / ऊचे दम्भमहाम्भोधिः स्वयं दम्भोलिभृत् पुनः // 23 // राजन् ! सर्वसहः सत्यं सर्वकार्यक्षमो भवान् / परं वाग्व्यंयमानं नः साधनं साध्यतां त्वया // 24 // कुण्डिने भीमभूभर्तुः पुत्री त्रैलोक्यसुन्दरी / स्वयम्वरोन्मुखी बालां दमयन्तीमवेहि ताम् // 25 // स त्वमसत्कृते गत्वा दमयन्ती प्ररोधय / निसृष्टार्थो भवास्माकं स्मराकुलितचेतसाम् // 26 // तदाकर्ण्य हरेर्वाक्यं स्फारस्फूर्जथुसन्निभम् / चकम्पे भृभुजश्चित्तं सुभटाक्षिप्तखगवत् // 27 // स तैरकपयः प्रायः क्षारवारिसहोदरैः / वश्चनावचनैर्मेने पिशाचमिव वासवम् // 28 // सङ्क्रन्दन! नमस्तेऽस्तु नाथ ! त्वं युक्तमुक्तवान् / किन्तु वाक्यावकाशोऽस्ति मम कश्चित् पुरन्दर!॥ 29 // भीमजार्थ मया नूनं याच्यमानाः स्थ सर्वदा / साऽद्य प्रत्युत मत्पादि युष्माभिर्याच्यतां कथम् // 30 // यामि यामहमुद्वोढुं तद्दौत्यं वः करोमि किम् ? / विडम्बनाय लोकानां केन यूयं सुशिक्षिताः // 31 // केवलं युष्मदर्थे तां त्यजामि दयितामपि / स्वामिकार्ये विमुञ्चन्ति प्राणानपि हि मानिनः // 32 // AINMEII III दमयन्त्याः स्वयम्वर काले / इन्द्रादीनां नलाय दमयन्तीदौत्यर्थ आज्ञा॥
Page #93
--------------------------------------------------------------------------
________________ FIISISEK IIIII-III DISFIFISEIS IS5I स्त्रीदत्यं तु कथं कुर्यां ? पामरैरपि गर्हितम् / न भजेत् शाल्मलीपुष्पं ग्राम्योऽपि किमु नागरः 1 // 33 // इह कृत्यमकृत्यं वा गुरुवाक्ये व्यवस्थितम् / अकृत्यमपि तत् कृत्यं यद् गुरुप्रतिपादितम् // 34 // गुरुरेव यदामूर्खस्तदा शिष्यस्य का गतिः। कः पन्थास्तत्र युग्यानां जात्यन्धो यत्र सारथिः // 35 / / कुर्वाणस्यापि में दूत्यं युष्माकमनुवर्तनात् / कथं भवति वैदा लीलयैव हि दर्शनम् ? // 36 // यदि पश्यामि तां बालामेकाकी चौरचर्यया। तदा रक्षकलक्षाणां रक्षणे का प्रतिक्रिया' // 37 / / हत्वाऽपि यामिकान् सर्वान् प्रसभं यातवत्यपि / किं विश्वसिति सा वाला प्रचण्डचरिते मयि // 38 // उरीकृतं तया पूर्व मां वरीतुं वरप्रिय ! / मयि दृष्टे त्रपां प्राप्य न सा वः स्वीकरिष्यति // 39 // न ममापि च तदृष्टौ तिष्ठेद् भावस्तिरोहितः / दुःखेनापि न जीयन्ते विषया विदुषाऽपि हि // 40 // तदित्थं प्रेषितात् पार्थादहमप्रेषितो वरम् / स्वार्थहानिश्च युष्माकं व्यर्थं च गमनं मम // 41 / / तत् प्रसीदत दिक्पाला:! मा कुरुध्वं परिश्रमम / इत्थं न कार्यसिद्धिवे केवलं वचनीयता // 42 // अथोवाच प्रचेतास्तं हस्तमुक्षिप्य हेलया। हन्त ! भूपालशार्दूल ! युक्तमुक्तं न हि त्वया // 43 // राजन् ! शतंवराः कन्याः को दोषस्तासु वीक्षया ? | देवभक्तस्त्वमप्युच्चैर्देवार्थं सर्वमेव ते // 44 // सार्वभौमः शुचिः श्रीमानभन्नार्थिमनोरथः / महेच्छो महिमाम्भोधिर्विद्वान् वाग्मी जितेन्द्रियः॥ 45 // अतो राजसुतापार्श्वे दूत्ययोग्यस्त्वमेव हि / नान्तःपुरप्रवेशाह: प्रायेण प्राकृतो जनः // 46 // युग्मम् / HILAIIIIIIISFII
Page #94
--------------------------------------------------------------------------
________________ द्वितीय दौत्याय नारद . सर्गः 5 प्रेरणा॥ // 37 // I III III RISHI यत्र यस्य हि योग्यत्वं तत्र व्यापार्यते हि सः / न मार्जारकरे दद्यात् कोऽपि गोपायितुं पयः॥४७॥ अयं वरप्रदः श्रीमान् जम्भवृत्रबलान्तकः / त्वद्वर्ज कथमप्यन्यं कथं प्रार्थयते हरिः ? // 48 // तमग्निरप्यभाषिष्ट विष्टपत्रयनायकम् / राजन् ! प्राप न कोऽप्यत्र पाकशासनमर्थिनम् / 49 // तद् मुश्च दयितामोहं कीर्तिमन्तर्विचिन्तय / आकल्पान्तस्थिताऽप्युच्चैर्न या गलितयौवना // 50 // यदि त्वयि गतेऽस्माकं न सिद्ध्यति मनोरथः / विहितात्मीयकृत्यस्य तदा दोषस्तु कस्तव ? // 51 // यमोऽपि वचनं प्रोचे मैवं मंस्था हुताशन / / नन्वयं सफलः श्रीमान् नलो नाम्ना महीपतिः // 52 // 'ननु नल! तव नाम्नाऽप्येव सर्वार्थसिद्धिस्तदिह कथमसिद्धं यस्य कर्ता त्वमेव / विसृज कुटिलभावं मुश्च राजेन्द्र ! मोहं शिथिलय हृदि कान्तां कीर्तिमङ्गीकुरुष्व // 53 // श्वास एष चपलः क्षणमध्ये यो गतागतशतानि विधत्ते / जीविते तनुमतां तदधीने कः समाचरति धर्मविलम्बम् ? // 54 // यद् वाम्यमावहति यत् कुरुते विलम्ब यद् मोदतेऽपि न च याचकयाच्यमानः / स त्वादृशस्य नियतं सकलः कलङ्कः किं त्वेक एव मृगलक्ष्मणि रकुरङ्कः // 55 // उत्तिष्ठ शीघ्रं कुरु देवकार्यमुपेक्षसे किं बहु भाषितव्यम् / भैमीसमीपं व्रजतस्तवास्तामन्तर्द्धि सिद्धिर्मनसोऽनुवृत्या // 56 // IIतIs Fle // 37 //
Page #95
--------------------------------------------------------------------------
________________ इत्थं सर्वैः कपटपटुभिस्तैरुदस्तः प्रकामं दत्तादृश्यीकरणमहिमा वासवं स प्रणम्य / तादृग् भैमीदृढरतिरसभ्रंशदूतोऽपि दूर दूतत्वस्य प्रसभनिहितं भारमङ्गीचकार // 57 // ततः सभृत्यः सह लोकपालैरन्तर्दधे तत्र सहस्रनेत्रः। चिन्तापनीतप्रमदः प्रपेदे पृथ्वीपतिः स्वं पृतनानिवेशम् // 58 // इति श्रीमाणिक्यदेवसूरिकृते नलायने द्वितीये दूत्यस्कन्धे पञ्चमः सर्गः // 5 // द्वितीये दूत्यस्कन्धे षष्ठः सर्गः। Kara------ III ASHISHI AIIIIIII जाII-III FISHIFIIIIIIIFIlle तत्राऽऽसीनः स पर्यङ्के विरलीकृतसेवकः / सुचिरं चेतसा दध्यौ नवबद्ध इव द्विपः // 1 // न तथा दुःसहं सम्यक् प्रियाप्रेमप्रमार्जनम् / यथाऽऽसीद् दुर्वचस्तस्य स्वयं वासववाचिकम् // 2 // सारं सारं प्रियाप्रेम चेतसोऽन्तर्गतं तदा / वारं वारं धुनाति स करौ वृश्चिकदृष्टवत् अथवा वचनीयं यत् किमप्यस्ति तदस्तु मे / कर्त्तव्य एव देवार्थः पर्याप्तं चिन्तयाऽनया // 4 // तिष्ठत्स्वपि पुमर्थेषु सर्वेष्वपि विशेषतः। पुंसामारब्धनिर्वाहः प्रथमं पुरुषव्रतम् ब्रह्मघ्नं च कृतघ्नं च मद्यपं गुरुतल्पगम् / दृष्ट्वा भ्रष्ठप्रतिज्ञं च नरः स्नानेन शुद्ध्यति
Page #96
--------------------------------------------------------------------------
________________ द्वितीयस्कन्धे सर्गः 6 दौत्याय विचार- . मग्नो // 38 // नलः॥ BIHI IIIII-IIIIIIIGIG तत् संप्रति प्रियाप्राप्त्या प्रीताः सन्तु दिवौकसः / लभतां साऽपि वैदर्भी दिव्यभोग्येषु योग्यताम् // 7 // दिक्पालैः प्रार्थ्यमानं स्वं कथं सा विनिषेधति ? / अनया वार्त्तया तस्याः प्रीयन्ते स्वजना अपि // 8 // करिकर्णाग्रचपलं श्रीवृक्षदलचञ्चलम् / द्विजिह्वारसनालोलं को वेद ललनामनः ? इत्थं विमृशतस्तस्य त्वरितद्वाःस्थसूचितः / पुष्कराक्षः प्रियादतो विदर्भेभ्यः समाययौ // 10 // स्वागदं भवतः कचिद् मन्त्रिनित इतो मवाद ! कुशली भीभूपाल ! इत्याणि स भूभुजा // 11 // सोऽपि मौक्तिकपुञ्जेन दत्तपुष्पाञ्जलि पम् / प्रणम्य परया भक्त्या निजगाद कृताञ्जलिः // 12 // अवैहि देव ! कुशलं कुण्डिनेन्द्रस्य सर्वतः / भवद्वार्तानुयोगेन विशेषादद्य तत् पुनः // 13 // अद्य स्वयंवरमिलत्पृथिवीपतीनामावर्जनव्यतिकराकुलितस्य तस्य / संप्रेषितः क्षितिपतेः सुतया तयाऽहं त्वामेकमुत्सुकयितुं मदनाभिरामम् // 14 // पूर्व प्रयाणदिवसात् प्रभृति त्वदीयं स्थानं चरैरनुदिनं विनिवेद्यमाना / त्वन्मार्गसंमुखगवाक्षनिषेदुषी सा श्लिष्यत्युदक्पवनमप्यनुवेलमङ्गः // 15 // प्रस्थापितं रचयितुं तव देव ! सेवा योग्यं तया च निजकिन्नरयुग्ममेकम् / अस्ति स्थितं नरपतिप्रतिहारभूमौ वीणागुणप्रगुणनाय गुणाम्बुराशेः // 16 // इत्युक्तः सन्नथ नरपतिस्तेन युक्तः पुरस्तादभ्युत्तस्थौ सपदि मुदितस्तद्दिदृक्षारसेन / bal III FIERITE ISSIF II IIT FIk // 38 //
Page #97
--------------------------------------------------------------------------
________________ // 17 // // 18 // // 19 // // 20 // IIIIIIII-IIIFIFTHEIR ISIK अर्घ दत्त्वा नृपचरणयोर्नीलनेत्रद्वयेन प्रोचे तच्च स्फुटकलरवं किन्नरद्वन्द्वमीहक धनुरनुभववर्ज बद्धमुष्टित्वमेकं परगुणहरणं वा यस्य दृष्टं न भूयः / जयति विजयवीरो वीरसेनस्य वंशे स जगति नलनामा निर्मल: सार्वभौमः सार्वभौम ! तव वर्णनाविधौ धूनयन्ति सुधियः शिरांसि यत् / तद् ध्रुवं निबिडयन्ति कर्णयोस्तावकीनगुणपूर्णमान्तरम् इत्थं युवाणमथ तन्मथितारिपक्षः पक्षान्तचन्द्रवदनो मदनोपमाङ्गः / मार्गश्रमापनयनाय स पुष्कराक्षं दचाऽनुजीविषु स सान्ध्यविधि व्यधत्त भूयोऽपि तारकितपुष्करसीम्नि काले हर्षादखिन्नहृदि संसदि संनिषण्णः / तत् तत्प्रमोदजननं किमपि बुवाणः शुश्राव किंपुरुषदम्पतिगीतगानम् निस्पन्दतेऽनुगगनं प्लवतेऽनुपृथ्वि सन्तप्यतेऽनुकरणं हियतेऽनुचेतः / इत्थं तदा तदुदिताद् नवगीतगीतात् श्रोतुर्जनस्य सहसाऽनुभवो बभूव पृष्टः स्वयं नृपतिना च कुतस्त्यमेतद् ? द्वन्द्वं प्रपन्नमिति सोऽपि हि पुष्कराक्षः / भूपाय सुन्दरविहङ्गमवाचि दक्षः सन्देहभङ्गकृतये मिथुनं जगाद विद्याधरेन्द्रदुहिता महितप्रभावा सा केशिनी प्रियसखी च विदर्भजायाः। DIIIIIEITF ITFITE ISIT ISIT FASHIT F TIK // 21 // // 22 // // 23 //
Page #98
--------------------------------------------------------------------------
________________ द्वितीयस्कन्धे सर्गः६ दौत्याय विचार- . मग्नो // 9 // नलः॥ IFII ISISla II ATHI IIIII केनापि च व्यतिकरण बने प्रपन्ना श्रीभीमभूमिपतिना तदहं न वेनि // 24 // इति निगदति तस्मिन् घूर्णिते राजलोके शयनसमयमुच्चैबन्दिभिर्बोध्यमानः / अनतिनिकटदृष्यादिष्टतद्योग्यशय्यः स्वयमपि शयनीयं भूमिपालः सिषेवे हन्त ! निश्चितमहो! दमयन्त्या निर्भरो मयि महाननुरागः / वेदवाक्यमिव वा कुलजानां सौहृदं विघटते न कदाचित् // 26 // प्रस्तरे लिपिरिव स्थिररूपा सिन्धुवत् क्रमविवर्द्धनशीला / पथ्यवत्परिणती शिवतातिः पातु वो जगति सजनमैत्री || 27 // भाले भास्वत्सहजतिलकं भोजवंशे प्रमूतिर्विद्याधर्या सह परिचयः किन्नरीगीतगोष्ठिः / रूपं तादृक् स च गुणगणो याचितारश्च देवाः तत् किं तावद् नृपतिदुहिता दैवतं सान नारी // 28 // एवं रूपं निरुपमतमं प्रेमराशिं दधाना सा वक्तव्या कथमपि मया तादृशैर्दतवाक्यैः / धिक धिक पापं कठिनमधमं निर्दयं मामधन्यं धिक धिक क्रूराननुचितकृतः कोपिनो लोकपालान् / / 29 // जानन्त्येते मम परिणतिं पुष्कराक्षादयश्चदेषामेव प्रभवति तदा कीदृशी चित्तवृत्तिः / अत्रैवाहं किमु समुचितं नात्मघातं विदध्यां त्यक्त्वा राज्यं न कथमथवा स्यां नु किं त्यक्तशस्त्रः॥३०॥ इतो दूरे व्याघ्रः किमपरमितः पर्वततटी त्वितो देवादेशः क्षितिपतिसुतासौहदमितः / II AISI II IIIIIIIIsle // 39 //
Page #99
--------------------------------------------------------------------------
________________ उपायानां भ्रंशाद् निरवधिनिरालम्बमचिरादहो! चिन्तारूढं कथमिदमिति भ्राम्यति मनः॥ 31 // इत्थं किश्चित् कलितकरुणाकामकौलीनलज्जं भूयो भूयो मनसि विमृशन् भूमिपालप्रदीपः / ईषत्कालं कथमपि चिराद् मीलिताक्षः प्रपेदे निद्रानाशं दिवसवदने किन्नरद्वन्द्वगीतैः // 32 // इति श्रीमाणिक्यदेवसूरिकृते नलायने द्वितीये दूत्यस्कन्धे षष्ठः सर्गः // 6 // द्वितीये दूत्यस्कन्धे सप्तमः सर्गः / III RIFII A LEGA MEIN - III WIFI III स प्रभाते महाप्राज्ञः प्रतिज्ञां हृदि चिन्तयन् आसीत् कार्याय देवानां कुण्डिनं गन्तुमुत्सुकः // 1 // कृतप्रभातकृत्येन तेन द्रष्टुं समीहितः / उपतस्थे प्रयाणोवीं पुष्कराक्षः सकिन्नरः // 2 // स तस्मै दत्तसारथ्यः पृथ्वीपतिशतावृतः। सहस्रतुरगोदाचं प्रतस्थे रथमास्थितः विनिहतविषादस्य सविशेष प्रसेदुषः / आसन् पथि कथास्तास्ताः पुष्कराक्षादिभिः समम् // 4 // एतानि तानि वरदातटमुत्तरेण प्रासादशृङ्गमिलितारुणमण्डलानि / सर्वत्र दर्भरहितस्य विदर्भनाम्नो देशस्य देव ! नगराणि महागुरूणि एतच्च भूतिलक ! भीमनरेश्वरस्य श्रीपत्तनं तदिति जल्पति पुष्कराक्षे /
Page #100
--------------------------------------------------------------------------
________________ द्वितीयस्कन्धे सर्गः 7 नल भीमयोः / E-समागमः॥ // 40 // DISI AISSIAHITHI-III IIIII भूपस्य तस्य विरहज्वरदाघहारिश्रीखण्डकुण्डमिव कुण्डिनमाविरासीत् प्रौढप्रासादशैलं नवधवलचलत्केतुकल्लोलमालं निर्घोषव्याप्तविश्वं जननयनमनोविस्मयानन्दभूतम् / भूरिस्खीपुंसरन्नं किमपि कमलयाऽध्यासितं भीमपुच्या विष्वक्सेनः स पश्यन् सुरप्रणिधिममुं प्राप किश्चित् प्रमोदम् // 7 // भो भोः पौरजनाः! समग्रनगरे पुष्पोत्करः कीर्यतां वध्यन्तां मणितोरणानि रभसाव:क्रियन्तां ध्वजाः / सिच्यन्ता घुमृणच्छटाभिरभितो मार्गा वितानावृताः प्राप्तो येन किलाय मूर्तमदनो देवः स्वयं नैपथः सामन्ताः ! सह सन्निधत्त सहसा भोः ! मन्त्रिणस्त्वर्यतां देवो भीमनरेश्वरः स्वयमयं देवं नलं द्रक्ष्यति / नेदीयस्यथ भोजराजनगरे तारप्लुतं जल्पतां इत्यश्रूयत निभरं नलबलेराघोषणा वेत्रिणाम् // 9 // ततः किञ्चित् कालाद् नलनृपमुपेयाय नृपतिर्नभश्छत्रच्छन्नं विदधदधिरूढः करिकरम् / पठद्भिर्बन्दीन्द्रः कमलनयनः कुण्डिनपतिः कुमारैः सानन्दैदमदमनदान्तः परिवृतः // 10 // अभ्युत्थानपरौ परस्परमथो दृक्पानमात्रे पथि द्वावाश्लिष्य दृढं क्रमादभिमुखौ सिंहासने सुस्थितौ / क्षेमप्रश्नविधानपूर्वकमुभावन्योन्यसंदर्शिनौ सूर्याचन्द्रमसोः श्रियं जगृहतुर्जामित्रमैत्रीभवाम् श्रीभीमो निषधेश्वरं प्रति ततः प्रोवाच वाचं मितां दिष्ट्या संप्रति सुप्रभातमभवद् जाते कृतार्थे दृशौ / कीर्त्या सर्वगतोऽपि विश्वविजयी येनोत्सवे ईदृशे इक्ष्वाकूद्भववीरसेनतनयो वीरः स्वयं प्राप्तवान् // 12 // ततोऽवोचद् वाचं नलनरपतिर्भीमनृपति महाराज ! प्रेयस्तव परिचयाद् नः किमपरम् / अनाASHI AAILE APPLIK // 40
Page #101
--------------------------------------------------------------------------
________________ // 13 // // 14 // // 16 // III III AIFlla IIAHINIII AIRIK मनोवाक्कर्माणि क्वचिदपि न भिन्नानि महतामतः पर्याप्त नस्तव नृपगुरोः सूनृतगिरा इत्थं वदन् संभृतभीमवाक्यो यथोचिताभिः प्रतिपत्तिभिस्सः / कुमारसेनापतिमन्त्रिमुख्यानावर्जयामास कृतप्रणामान् मध्याह्नसान्ध्यविधिरस्ति समीपवर्ती खेदं श्लथीकुरुत तद् भवनं ब्रजामः। इत्थं वदंस्तदनु भीमनृपः प्रतस्थे मुक्त्वोपचारपुरुषान् तदुपासनार्थम् भैम्या स्वयं विरचितां निषधेशहेतोर्नीत्वा नवां रसवतीमवरोधवध्वः / अभ्याययु तमनन्तरमुत्तरीयप्रच्छादिताः पटलिकाः शतशो वहन्त्यः तासामदत्त निजदर्शनमेव वीरः सन्मानदानसदृशं सचिवैविधाप्य / तैस्तैः समं स बुभुजे भुजनिर्जितारिस्तारापतिप्रतिमनिर्मलरम्यवक्त्र: इति श्रीमाणिक्यदेवमूरिकृते नलायने द्वितीये दत्यस्कन्धे सप्तमः सर्गः॥७॥ द्वितीये दूत्यस्कन्धे अष्टमः सर्गः। अथ विश्वजनीनेन प्रतिज्ञाभारवाहिना / विश्रान्तिस्थानकं मेने वैदर्भीमुखदर्शनम् श्रेष्ठं चेत् सफलीकुर्याद् दौत्यं मम नृपात्मजा / इत्यन्तश्चिन्तया तंस्य देवार्थः स्वार्थतां ययौ // 17 // IIII II AISI II // 2 //
Page #102
--------------------------------------------------------------------------
________________ // 3 // द्वितीयम्कन्धे सर्गः८ श्री दिक्पालव कार्यार्थिनः नलस्य कुण्डिनपुरप्रवेशः।। II IIIIIIII A15IIIIIIIE वैदाः प्राभृतीक रत्नाभरणसङ्करम् / स प्रेषीत् मन्त्रिणं मुखं पुष्कराक्षपुरस्सरम् स्वयं तदागमापेक्षी प्रासादशिखरस्थितः / ददर्श कुण्डिनोद्देशान् स प्रवेश विनिर्गमान् श्रुतशीलमपि प्रायो न पप्रच्छ विशारदम् / ददर्श तस्य कृत्यस्य निर्णय नैषधः स्वयम् वैदर्भीदत्तशृङ्गारैरन्यरूप इवागतः / सोऽपि प्रणम्य मुञ्जस्तं भावार्थझं व्यजिज्ञपत् स्वामिन्नुल्लवितद्वारं बहिःस्थितपरिच्छदम् / केशिनी सन्मुखायाता चन्द्रशालां निनाय माम् त्वत्प्रीत्या गुर्वनुज्ञातस्फुटमदर्शनाऽपि सा / तिसकृतैव वैदर्भी मत्प्रणामममन्यत वज्र वैडूर्यगल्वकर्केतनगुणानपि / प्रशशंस मुहुस्तेषां खचितं ग्रथितं च तत् पप्रच्छ मणिकारं च तेषां घट्टनकारणम् / अदर्शयत् सखीनां च पर्यधत्त च तत्क्षणम् लब्धसर्वाङ्गशृङ्गारः प्रदत्तनरवाहनः / विसृष्टश्चास्मि केशिन्या विहितावर्जनः स्वयम् मयि चोत्थितमात्रेऽपि तत्सखीनां जजृम्भिरे / निरस्तप्रतिसीराणां नाना मङ्गलगीतयः अथान्तर्धानमाधाय स्वेच्छासङ्कल्पसंभवम् / प्रचचाल स दिक्पाल कार्यार्थी कुण्डिनं प्रति अदृश्यमृतिना तेन पुरं प्रविशता सता / महाबलेन चैदाः प्राणरूपायितं स्फुटम् स्वयम्बरसमायातक्ष्मापालकुलसङ्कुले / न सेहे सहसा गन्तुं नलः सोत्कोऽपि तत्परे अभ्रंलिहमहाशुभ्रबलीकवलभीशतम् / सामन्तसङ्कलद्वारं नृपवेश्म स दृष्टवान // 7 // // 8 // // 9 // // 10 // File IIASHII IIIIIII // 14 // // 41 //
Page #103
--------------------------------------------------------------------------
________________ FIISIlle II II छIII II ATFICATII-III NIFll CISFIle अथ गन्धर्वकन्यानां गीतैस्तन्नामभूषणैः / दुरात् पिशुनितं सम्यक् स भैमीभुवनं ययौ // 17 // कस्यैते चरणन्यासाश्चक्रचापाजचिह्निताः? / कस्येयं दृश्यते च्छाया प्रतिमेव मनोभुवः ? - // 18 // कस्याभूत पुरुषस्येव स्पर्शो मे पुलकप्रदः / अन्तर्धानं दृशोर्जातं मम किं चित्रदर्शने ? // 19 // इत्थं बभ्राम रामाभ्यः स रक्षश्चित्तमात्मनः / सतां हि स्वप्रतिष्ठैव प्रायशः प्रथमाऽर्गला // 20 // विश्वविश्वम्भरासारसर्वस्वैरेव निर्मिताम् / सौधशैलशिरःसीम्नि प्राप भैमीसभा नल: // 21 // दिष्ट्या गताऽद्य सकला दमयन्ति ! चिन्ता दूरीबभूव विरहज्वरयातना ते / अभ्यागतः स दयितस्तव सार्वभौमः प्रातश्चकोरि! तव तन्मुखचन्द्रपानम् // 22 // विश्वम्भरा बलभरेण दिशो यशोभिर्दानेन मार्गणगणाः प्रमदेन लोकः / रूपामृतेन नयनानि तदेतदित्थं पूर्ण नलेन वसतीव जगत् समग्रम् // 23 // अधाशिपो गुरुजनख जयन्त्यमोपा आचार्चनं च सफलं कुलदेवतानाम् / अस्माकमद्य सफलानि मनीषितानि प्राणप्रियस्तव यदद्य सखि! प्रपन्न: // 24 // इत्थं पुरः प्रियसखीवचनानि पृच्छन् पश्यन् महीपतिसुतामहिमाद्भुतं तत् / आत्मानमिन्द्रहतहर्षभरं स निन्दन इत्थं स्वचेतसि भृशं विललाप भूपः // 25 // यत् पान्थैः शतशः पुरा निगदितं हंसेन यद् भाषितं लक्षांशेऽपि न तत् प्रयांति घटनां दृष्ट्वा मृगाक्षीमिमाम्। . II II DIFI A
Page #104
--------------------------------------------------------------------------
________________ ति || द्वितीयस्कन्धे सर्गः 9 नलस्य व्याकुलता // // 42 // // एतद् वाग्मनसाऽतिगं नु खलु भोः! किश्चिन्महद्भूतब वागीशोऽपि न वेत्ति रूपमथवा क्वान्यो जनः प्राकृतः॥२६॥ स्वामिन् ! शक्र ! कथं त्वयान गिरिवद् वज्रेण भिन्नोऽस्म्यहं दिक्पालाः! न कथं भवद्भिरथवा शापेन भस्मीकृतः। भैमीप्रेमपरंपरापरवशः प्रायः प्रहारं विना प्राणत्यागपरः कृतोऽहमधुना कि क्षात्रधर्मच्युतः ? // 27 // एतावदेव मम संप्रति हि प्रभूतं पश्यामि यत् क्षणमिमां सततं क्षितीशः। इत्यन्तहत्तरतरीत्कलिकाकुलः सन् भैमी ददर्श सुरसार्थकदर्थिताशः / // 28 // इति श्रीमाणिक्यदेवसूरिकृते नलायने द्वितीये इत्यस्कन्धे अष्टमः सर्गः // 8 // ~ ideoद्वितीये दूत्यस्कन्धे नवमः सर्गः / HITYIIVISIFIIFIFIII MILARIAII ASSIFII IIIII प्रलम्बकुटिलस्निग्धनीलनीरन्ध्रकोमलः / केशपाशः कुरङ्गाक्ष्या व्याललीलां विगाहते अच्छचीनांशुकच्छन्नः केशान्तः कुसुमोत्करः / शरदभ्रान्तरग्रस्तो गहुणेव निशाकरः तदेतत् तिलकं भाले बालारुणसमप्रभम् विभावरीब विक्षिप्ता कबरी यस्य सन्निधौ वदनामृतकुण्डस्य रक्षा कर्तुमिवानिशम् / नागो नागोदरच्छया कण्ठपीठं निपेवते इत्यस्याः सकले गात्रे महान् दोषोऽयमेव हि / अपि वर्षशतैस्तृप्तिः पश्यतः कस्यचिद् नहि // 1 // // 2 // // 3 // // 5 // // 42 //
Page #105
--------------------------------------------------------------------------
________________ बाजाIIIIIVISI PISSIRISIIIFile यदि भवति सहसं शक्रवल्लोचनानां न च भवति निमेषस्यान्तरायः कदाचित् / निरवधि च नृणां चेद् जायते जीवितव्यं तदपि क इह भैमी प्रेक्ष्य पारं प्रयाति ? स्वामिन् ! काम नमोऽस्तु ते कुरु कृपां केयं पुरो दृश्यते ? सत्यं ब्रूहि किमत्र भीमतनया हा हा ! हतोऽस्मि ध्रुवम् / एतस्याः कुलशीलरूपविभवं तादृग् मयि प्रेम च प्रत्यक्षं परिभाव्य हन्त ! भविता का नाम या मे गतिः // 7 // इत्थं तस्मिन् मनसि वदति स्वैरसङ्कल्पितानि प्रत्यासन्नव्यवहितरुचौ भूरि भूपालचन्द्रे / दायातप्रियपरिचयप्रेरणायेव भैम्याः स्पन्दं प्रापञ्चकितशफरीचश्चलं वामचक्षुः // 8 // दृष्ट्वा तां च प्रकटममुना लोचनागोचरेण प्रत्यग्रोऽभूत् पुलकविभवः कोऽपि तस्याः सखीनाम् / आलीदानां मलयमरुता माधवीनां लतानां सर्वाङ्गीणः स्वयमिव भृशं पल्लवोल्लासभावः // 9 // अथ कथमपि सनिगृह्य कम्पं नृपतिलकः सहसा बभूव दृश्यः। क्षितिपतिदुहितुः सखीसमाजे नव इव कैरविणीवने शशाङ्क: // 10 // इति श्रीमाणिक्यदेवसूरिकृते नलायने द्वितीये दूत्यस्कन्धे नवमः सर्गः // 9 // MMSTIIIIIIIIIIIIIIle
Page #106
--------------------------------------------------------------------------
________________ द्वितीये दूत्यस्कन्धे दशमः सर्गः / द्वितीयस्कन्धे सर्मः१० दमयन्त्या देवदूते विभ्रमः॥ 43 // IISSIAN II-IIIII-IIISHIE तमपश्यन् पुरः सौम्यं विस्मिताः स्मितलोचनम् / यथभ्रष्टभयत्रस्तमुग्धबालमृगीदृशः // 1 // न सेहिरे निजां तस्य दृष्टिं योजयितुं दृशा / ललजिरे तमालोक्य क्षमापालकुलकन्यकाः (युग्मम् ) // 2 // अन्यासां स्मरसङ्काशं पश्यन्तीनां तमग्रतः सन्तु पाऽऽदयो भावाः स्वात्माऽपि खलु विस्मृतः // 3 // स समग्रोऽपि नारीणां समूहो मोहनिर्भरः / नलेन व्याकुलीचक्रे रोमाञ्चवृतिवेष्टितः // 4 // विदग्धाः शान्तसद्भावमसामान्य विभाव्य तम् / न ताः कलकलं चक्रुर्यामिकागमशङ्कया क्रीडामृगमयूराद्याः सर्वे पिकशुकादयः / तद्दर्शनात् क्षणं तस्थुरालेख्यलिखिता इव निपेतुर्भीमनन्दिन्याश्चेतो भववशंवदाः / श्वेतकेतकपत्राणामुपहारोपमा दृशः // 7 // उभयोदृष्टिविक्षेपप्रेरिता इव तत् क्षणम् / ययुः प्रत्यङ्गमापुर्ख भित्त्वा मारस्य मार्गणाः // 8 // पूर्व नलधिया दृष्ट्वा सा पुनः प्राप संशयम् / सोऽपि तस्यां मनः कुर्वन् भूयो दूत्येन वारितः // 9 // परमब्रह्मलीनेव मग्नेवामृतवारिधौ / तन्मयत्वं प्रपन्नेव भैमी तद्दर्शनादभूत // 10 // कैश्चिद् नयनयोः पुण्यैः समानीताय गोचरम् / स्वागतं प्राणपूज्याय प्रथमावेशकाय ते . // 11 // अतिथे ! विश्वलोकस्य लोचनानां फलप्रद ! / कन्यकायाः फलार्थोऽयमाचार इति गृह्यताम् // 12 // ISHI AIIIIIIIIISITE // 43 //
Page #107
--------------------------------------------------------------------------
________________ IIIIIIII-III HIFIIEIFIFIFle अध्यासीनेन नश्चित्तं प्रथमं दर्शनादपि / क्षेत्रकालाहमेतद् मे कथं नासनमास्यते ? // 13 // अन्यतोऽपि यियासायां कर्तव्ये सुमहत्यपि / अनर्हेऽपि प्रदेशेऽस्मिन् हन्त ? विश्रम्यतां क्षणम् // 14 // उपरोधेन कस्यापि महाय॑मपि दीयते / तद् नः परिचयं दातुं कुतः कृपणता तव ? // 15 // शिरीपसुकुमारौ ते चरणौ निर्दयं मनः / अद्यापि हि कियद् दुरं कदर्थयितुमिच्छसि ? // 16 // कस्मिन् देशेऽधुना ध्वान्तं ? कुत्र चन्द्रोदयोऽधुना ? / यतस्त्वं विनिवृत्तोऽसि यत्र त्वं वा यियाससि // 17 // धन्यास्ते मातृकावर्णा यैर्नाम तव निर्मितम् / तत्कर्णाभरणीकर्तुं कस्येह न हि कौतुकम् ? // 18 // सूचयन्ति निमित्तानि न पुनर्भाग्यनिश्चयः / कस्याप्यत्रातिथिस्त्वं यत् किं वा व्यर्थमनोरथैः // 19 // न प्रज्वलन् हुतवहः किमु लचितोऽयं ? स्थाने यदत्र विषमे विहितः प्रवेशः। एतच्च साहसमियं च तनुः प्रशान्ता किं तत् प्रयासफलमित्यहह ! भ्रमो मे ? // 20 // पुंनाममिः शिशुमिरप्यविभाव्यमेतत् स्थानं ध्रुवं त्वमसि नः मुकृतेः प्रपन्नः / यद् रक्षकैर्न कलितोऽसि निशातशस्त्रैदृष्टोऽसि यन्मदनसुन्दर ! लोचनाभ्याम् // 21 // पातालभूतलदिवामपि हि त्रयाणां धन्यं तदत्र भुवनं तव यत्र जन्म। मध्ये सुरासुरनरोरगमानवानां सा जातिरत्र जयिनी तव यत्र जन्म // 22 // यश्चण्डांशुः स खलु निखिलस्त्वत्प्रतापस्तदुष्णः कायच्छाया स तव नियतं तेन कामोऽप्यनङ्गः। कामाबाबा बाबा नाना
Page #108
--------------------------------------------------------------------------
________________ HO द्वितीय // 23 // स्कन्धे तारानाथः स तव यशसां राशिरेतेन शुभ्रः सत्यं कोऽपि त्वमसि भुवने देवता देवतानाम् इति किल नलबुद्धिं तत्र सङ्कल्प्य पूर्व पुनरपि च महिम्ना देवमाशङ्कमाना / तमनु बहु बभाषे भूरि निर्मिनभावा किमपि किमपि भैमी चाटुगभैर्वचोमिः इति श्रीमाणिक्यदेवसूरिकृते नलायने द्वितीये दूत्यस्कन्धे दशमः सर्गः॥१०॥ दमयन्त्या देवदते विभ्रमः॥ सर्गः११ // 24 // // 44 // - द्वितीये दूत्यस्कन्धे एकादशः सर्गः। DESI RISHIATICA THIRTHI ANTHI तत् तस्या ललितं स्निग्धं विनीतं सरसं मृदु / अनुरूपं शरीरस्य वचोऽबुध्यत नैषधः मुधा मधु मुधा सीधु मुधा दुग्धं मुधा सुधा / मुधा वेणुर्मुधा वीणा दमयन्तीगिरां पुरः // 2 // तैस्तैः स्तुतिपदैस्तस्याः क्लिन्नोऽपि न चचाल सः। आक्षिप्तः सिन्धुकल्लोलेर्वेलन्धर इवाचल: स शक्रबद्धः संप्राप्य सपयाँ प्रियया कृताम् / आससादासनं हैम सवितेवोदयाचलम् // 4 // स प्रतिश्रुतमेवायं धर्मवीरः स्मरन् हृदि / विनितस्मरावेशः प्रत्युवाच नृपात्मजाम् अलं कृत्वा वृथाऽऽयास सुस्थिता भव सुन्दरि ! / भूतरूपैव नः पूजा विरमातिथिवत्सले ! * // 6 // सफलं यद् विधातव्यं दूत्यं नः कमलानने ! / तदेव महदस्माकमातिथ्यं हि भविष्यति // 44 //
Page #109
--------------------------------------------------------------------------
________________ // 8 // // 9 // // 10 // // 11 // // 12 // IIIATIATIAHIामाद // 14 // उत्थिताऽसि कथं मुग्धे! पुनरासनमास्यताम् / मा चिन्तय चकोराक्षि! दुर्विनीतमिमं जनम् कच्चिदस्खलितानन्दं हृदयं तव सुन्दरि! / कच्चित् प्रियसखीवर्ग कुशलं कमलाक्षि! ते आकर्णय गिरं गौरि ! मदीयां मदिरेक्षणे ! / विद्धि दिक्पालपार्थाद् मां तवैवातिथिमागतम् कामं कौमारमारभ्य हृता गुणगणैस्तव / द्रुमा इव सरित्पूरैः शक्रार्किवरुणामयः विभर्ति केवलं शक्रः कुण्डले कुण्डिनाख्यया / दमयन्ति ! भवन्नाम्ना तथा दमनकस्रजम् तस्यापरोऽपि दिक्पालस्त्वद्वियोगाग्निसंभवम् / अनूनं मन्यते तापं स्वतोऽपि हि तनूनपात् तस्य त्वद्विरहार्तस्य पूज्यमानस्य याज्ञिकैः / हाकारशब्दसामान्यं स्वाहाकारः प्रवर्त्तते वैवस्वतोऽपि दिक्पालः स कालिन्दीसहोदरः / धर्मराजोऽपि रम्भोरु ! कामराज्यं समीहते भवद्विरहविद्धस्य देहं दहति सन्ततम् / तस्य स्वदिग्भवो वायुहादग्निरिवोत्थितः पश्चिमाधिपतिर्देवः स श्रीमान् वरुणोऽपि हि / त्वदर्थ जीवितव्येऽभूदपाशः पाशवानपि निदाघकालतुल्यानि युगलक्षोपमानि च / अतिक्रान्तानि सापेक्षैरेतावन्ति दिनानि तैः तव स्वयम्वरं ज्ञात्वा स्वर्ग त्यक्त्वा समागतैः / तैरिदानी दिशामीशैरियं भूरि भृष्यते समस्तन्यस्तसन्देशः प्रेषितः प्रेमसूचकः। तेषां जङ्गमलेखोऽयं जनस्त्वां समुपस्थितः एकैकशो दृढकुचद्वितयोपपीडमालिङ्गथ निर्भरममी त्वयि सन्दिशन्ति / NIFTIIIEISHIRIFII-IIIMS // 16 // // 18 // // 19 // // 20 //
Page #110
--------------------------------------------------------------------------
________________ द्वितीय सर्वः१२ दमयन्त्याः | समीपे . देवदतेन न प्रकाशिता प लोकपाला नां भावाः।। // 45 // त्वं नः स्मरज्वलनजर्जरभूरुहाणां भीमोद्भवे ! भव नवामृतमेघवृष्टिः // 21 // तदिह सुरवरेषु त्वं विधाय प्रसादं कमलमुखि ! सुखेन स्वर्गमङ्गीकुरुष्व / वयमपि निवसामः क्ष्मातले तावकीने यदि तब सहवासप्रेम हातुं न शक्यम् // 22 // क इव स दिवसो नः कः क्षणः को मुहूर्त्तः किमिव तदथवा नः स्थानकं वा गृहं वा।। वयमिह चरितार्थाः सर्वसंसारसारं कमलमुखि ! मुखं ते यत्र दृष्ट्वा भवामः // 23 // इत्थं तेषां त्वयि निरुपमं प्रेम वैदर्भि ! तस्माद् एषां मध्यात कमपि रुचितं चेतसो लोकपालम् / देवेन्द्रं वा भुवनविदितं जीवितेशं यमं वा दीप्तं वाऽग्निं मरुतमभितः शीतलं वा घृणीष्व // 24 // इति श्रीमाणिक्यदेवसूरिकृते नलायने द्वितीये दूत्यस्कन्धे एकादशः सर्गः // 11 // IIIAHIMSHI AISHIजामाता आता माताजाबानाHISजाल द्वितीये दूत्यस्कन्धे द्वादशः सर्गः / विचित्रं वचनं श्रुत्वा देवदूतस्य तस्य तत् / दधार हृदये दीर्घ विस्मयं दमनस्वसा अहो ! तेषां क्षितिस्त्रीषु देवानां स्वर्वधूजुषाम् / शर्करासेविनां नित्यं रुचिर्मागधिकास्विव . // 2 // ज्ञानेनापि न जानन्ति किं वा ? ते मां परस्त्रियम् / सुस्थितां हृदये धृत्वा सङ्कल्पितपतिं नलम् // 3 // // 45 //
Page #111
--------------------------------------------------------------------------
________________ अधिस्त्रि प्रहितं दतमिमं तेषां विमृश्य च / जाने बभूव देवानां मन्त्रणे मूषकोऽपि न // 4 // दूतोऽपि रूपवानेवमस्माकं किं पुनर्वयम् ? / इत्ययं प्रहितो देवैर्यद्वा सर्वाङ्गसुन्दरः अयं सौभाग्यपाथोधिः कश्चिद् दर्शनमात्रतः / अज्ञातनलनाम्नो हि कस्याः शीलं न लुम्पति ? // 6 // यथा हरति मे चित्तं तथाऽयं गूढचेष्टितः / स एवैष कथं देवः शत्रुः कालानलो नलः ? // 7 // तदस्य कस्यचिद् धातुद्रावटङ्कणरूपिणः / देशनामान्वयप्रश्ने मम कौतूहलं महत् // 8 // इत्यन्तश्चिन्तयन्ती सा देवसन्देशदुर्मनाः / उवाच वचनं भैमी तत्रैव बहुमानतः देवदूत ! निरातङ्कं वचनं जल्पतोऽपि ते / क्रमभङ्गं सरस्वत्याः कुर्वतः पातकं न किम् ? // 10 // मया नाम भवन्नाम पृच्छयमानस्य मानद ! / हस्तिस्नानमिवेदं ते स्वच्छन्दं वाग् विजृम्भिता // 11 // त्वन्नाम श्रोतुकामायाः किं श्रव्यैरपि मे परैः / नहि तोयार्थिनस्तृप्तिमधुभिर्म धुरैरपि // 12 // इति पर्यनुयुक्तः सन् भैम्ययुक्ताभिरुक्तिभिः / प्रत्यभाषत भूपालः पालयन्तुरीकृतम् अयि ! रम्भोरु ! कोऽयं ते सारम्भं निरवग्रहः ? / मम नामान्वयप्रश्नो नितान्तं निप्रयोजनः // 14 // विनिषिद्धं च साधूनां स्वनामग्रहणं स्वयम् / न शक्तस्तेन तद् वक्तुं व्यवस्थाभङ्गकातरः // 15 // पुनस्त्वदनुरोधेन जल्पिष्यामि किमप्यहम् / मुग्धे ! हिमांशुवंशस्य परमात्रमवेहि माम् इत्युक्ता चेतसा तस्मिन् न संपूर्णमनोरथा / उवाच सशिरःकंपमीपत्खिन्नेव भीमजा // 17 // III-IIIIIIII-IIO
Page #112
--------------------------------------------------------------------------
________________ दमयन्त्याः द्वितीयस्कन्धे / सगः 12 . पृष्टं देवदूनस्य // 46 // नाम / / FIRTHI ASIA ISI - MEFII ANTI NEIG मुच्यते श्रोतुकामस्य यदर्धकथिता कथा / स एष पिबतो वारि धाराच्छेद इवान्तरा // 18 // प्रकाश्य वंशमात्मीयं नामनिहवकारिणा / अर्धवञ्चनचातुर्य भवता शिक्षितं कुतः ? // 19 // हन्त ! खेदयितुं लब्धो मुग्धोऽयं भवता जनः / चकोर इव चन्द्रेण दृश्यादश्येन दुर्दिने // 20 // कचिद् गूढा क्वचिद् व्यक्ता दुस्तरा दूरगामिनी / सरस्वतीव सेयं ते देवदूत ! सरस्वती // 21 // तन्मयापि न दातव्यं स्फुटं प्रतिवचस्तव / न योग्यः कुलवालानां प्रायो वक्तुं परः पुमान् // 22 / / इत्युक्त्वा विरतां सद्यो मौनमुद्रावलम्बिनीम् / वाग्भिः सानुप्रवेशाभिः प्रत्युवाच पुनर्नलः // 23 / / वदामि निखिलं तत् तद् मां पृच्छसि भामिनि ! / उक्तेनैव हि दूतानां वृत्तिर्वागुपजीविनाम् // 24 // त्वया विलम्ब्यमानेऽस्मिन् लीलया कार्यनिर्णये / इयत् प्रतीक्षमाणो मां कथं स्थास्यति वासवः // 25 // लोचनानां सहस्रेण मत्पन्थानं विलोकयन् / अधुना भगवानास्ते धिग् ममौत्सुक्यमन्थरम् // 26 // इति सानुशयप्राये तस्मिन्नुष्णं प्रजल्पति / साऽवदद् विनयाच्छीघ्रं स्वव्यलीकविशङ्किनी // 27 // को हि तेषां प्रतीक्षाणां दिक्पालानां महौजसाम् / विनयातिक्रमं कुर्याद् मुखौं वा पण्डितोऽपि वा 1 // 28 // नमोऽस्तु मे त्रिधा तेभ्यो भगवद्भ्यो दिवानिशम् / मिथ्या मे दुष्कृतं भूयात् तद्भुत! त्वां विराध्य च // 29 // श्रुत्वाऽपि तदुदन्तं यद् न मया दत्तमुत्तरम् / तत्किकर्त्तव्यतामोहाद् न त्ववज्ञा लवादपि // 30 // तथापि किं कचिद् देवा भजन्ते मानुषी स्त्रियम् ? / अप्सर केलिहेलाढ्या हंसाः कोशातकीमिव // 31 // MI AIIIIIIIIile लोचनाना सत्यमानेऽस्मिन् लालच्छसि भामिनि परिमः सानुप्रवेशा
Page #113
--------------------------------------------------------------------------
________________ IASle बलं बुद्धिर्वयस्तेजक देवानां क भूस्पृशाम् ? / उभयेषां क संयोगस्तेषां रत्नाश्मनामिव ? // 32 // अनभ्यस्तश्च मानां त्रिदशावर्जनक्रमः / किं हि ग्रामीणलोकानां गजारोहणकौशलम् ? / // 33 // पुरस्त्रिदशकन्यानां वराकी कैव मानुषी ? / सत्यां बकुलमालायां का लीला कुब्जकस्रजः // 34 // तस्मात् किश्चिद् यदभिरुचितं तत् प्रजल्पन्तु देवा न व्याषिद्धः खलु परिजने स्वामिनः कामचारः। तेषु प्रेम्णा क्षममनुचितं नैव भृत्यस्य कर्तुं सिंहाश्लेषं किल कलयितुं को मृगस्याधिकारः ? // 35 // प्रतिमागतानिह जगत्पितामहान् प्रणमामि यानहमहर्निशं किल / मम किं त एव किमतः परेण वा न हि नाम देवचरितं विचार्यते // 36 // स्वयम्बरविधिः स मे गुरुजनैः प्रसादीकृतो न हि त्वनुगतः स्फुटं निजकुलक्रमातिक्रमः। इतो विनयरक्षणं दिविषदामितः प्रार्थना किमत्र वद साम्प्रतं त्वमपि देहि शिक्षा मम ? // 37 // बाला सम्यक् प्रतिगिरमहं तेषु दातुं न शक्ता तद् दाक्षिण्यं किमपि गणयन् मामकीनं त्वमेव / अस्यै पूज्यान त्रिभुवनपतीन् रक्ष नीचस्पृहायै मा भूद् वीर! त्वयि सति सतां कोऽपि लोकापवादः॥ 38 // देया सम्यक् सुमतिरुभयोरन्तरं रक्षणीयं सोढव्यं च स्खलितमखिलं मूढबुद्धेर्जनस्य / चिन्त्या कीर्तिमनसि महती प्रेम सर्वत्र धार्य धर्मः सोऽयं जगति सकलः शाश्वतः सज्जनानाम् // 39 // इत्थं यतो नल उदेति तदेव सेव्यं सञ्चिन्त्य सा हृदि तमेवं विबोध्य दूतम् / पत II RISTIATI SHIATI
Page #114
--------------------------------------------------------------------------
________________ द्वितीय आबालकालकलितामलशीललीला नीलारविन्दनयना विरराम भूयः // 40 // इतिश्री माणिक्यदेवसूरिकृते नलायने द्वितीये दृत्यस्कन्धे द्वादशः सर्गः // 12 // स्कन्धे देवदूतेन नलेन . उत्साहिता दमयन्ती॥ सर्गः१३ // 7 // TIONSHIP IEFINIIIIEISHIBIEFE द्वितीये इत्यस्कन्धे त्रयोदशः सर्गः। - - ततस्तस्याः समाकर्ण्य भक्तिकञ्चुकितं वचः। उवाह पुनरुत्साहं नाकिकार्याय नैषधः तदिग्ध्येन तेनासौ विस्मितः स्मितपूर्वकम् / वाचस्पतिसमो वाग्मी तामुवाच वचस्विनीम् विनयद्वारपूर्वेण प्रतिषेधेण नाकिनाम् / न युक्तं तव वैदर्भि ! प्रत्याख्यातुमिमं जनम् यत् तेऽपि त्वयि रागान्धास्त्वं च तेभ्यः पराङ्मुखी / तदेतदद्भुतद्वन्द्वं न च दृष्टं न च श्रुतम् // 4 // मानुपी न सुरानिच्छेदिति त्वत्तः श्रुतं नवम् / अहो ! निधिमुपायान्तं निर्धनः प्रतिषेधति तव देवान् पतीयन्त्याः कथं किल कुलक्षतिः / किं मेरुशिखरारूढींचत्वमधिगम्यते ? अकुलीनः कुलीनत्वं तत्प्रभावात् प्रपद्यते / नृपच्छत्रतलस्नातः शुद्धः स्याद् मलिनोऽपि हि // 7 // सामान्येऽप्युत्तमस्यापि कापि प्रेम प्रजायते / मृगमङ्के मृगाङ्कस्य पश्य प्रेम्णा पुरः कृतम् . // 8 // त्वं हि कन्या कमप्यन्यं सामान्यमपि यास्यसि / त्वामिच्छन्ति स्वयं देवाः पर्याप्तं तद् न किं तव?॥ 9 //
Page #115
--------------------------------------------------------------------------
________________ CIRISHI IIIIII-III-IIIle पूजनीयाः शरीरेण सर्वस्वेन च देवताः / तत् कोऽयं तव देवेषु भक्तिभङ्गो निरर्थकः ? // 10 // प्रमाणीकुरु मे वाक्यं संप्राप्तं मां कृतार्थय / यदित्थं देवभक्तिस्ते यशश्च जगति ध्रुवम् . // 11 // कच्चित् ते रोचते चित्ते मघवा मेघवारणः / वारणाधीशगमनो वरः स्वर्गमनोहरः // 12 // ममाप्यनुमतं तावत् वियतां पाकशासनः / कोऽन्यः किल सहस्राक्षात् त्वां वीक्षितुमपि क्षमः ? // 13 // विश्वकपावके किं वा पावके तावकं मनः ? / नहि तेजस्विनोऽन्यत्र क्षत्रियाणां यतो रतिः // 14 // नूनं धर्मेकशीलाया धर्मराजः प्रियस्तव ? / यतस्त्वं बहुदाक्षिण्या स च दक्षिणदिक्पतिः // 15 // अस्तु वा तब स श्रीमान् वरुणस्तरुणो वरः। तरङ्गमालिनः स्वामी दत्तरङ्गो दिवानिशम् इत्थं सूत्रयतस्तस्य दीर्घ निःश्वस्य निःसहा / दृष्ट्वा सापि स वैलक्ष्यं वैदर्भी वाचमाददे // 17 // निष्कपेण कृपापात्रे निर्दोषे दोषभाषिणा / एतदन्तकदूतत्वं त्वया व्यक्तीकृतं मयि // 18 // तप्तागानिसङ्काशाः प्रविश्य मम कर्णयोः / हरन्ति हन्त ! मे प्राणान् गिरस्तव निरर्गलाः // 19 // खच्छन्दवादिनं वीर ! को हि त्वां वारयिष्यति ? / कल्पान्तमुक्तमर्यादं प्लावयन्तमिवार्णवम् // 20 // इति सा केशिनीकर्णे सर्वमाख्याय वाचिकम् / साक्षिणीव क्षणं तत्र स्वयं तस्थौ नमन्मुखी // 21 // ततस्तमवदद् दूत केशिनी पेशलोक्तिभिः / आकर्णय महाबाहो ! भवन्तं वक्ति भीमजा // 22 // किं वाञ्छन्ति परस्त्रियं दिविषदस्तत्त्वं विदन्तोऽपि ते कामानिपि तान् भजामि किमहं प्राप्तकपत्नीव्रता / HIRISHIFIIIIIsle
Page #116
--------------------------------------------------------------------------
________________ द्वितीयस्कन्धे सर्गः१३ // 48 // AISIOISIT ISI-IIII-II ISH इत्यन्योन्यविरुद्धमीदृशमिदं त्वं वा कथं भाषसे ? विश्वस्य प्रलयं करोति पितो धर्मः सतां शाश्वतः // 23 // सङ्ग्रामेष्वचलः कलासु कुशलः सेवाजुषां वत्सलः सत्कीर्त्या धवलः स्वभावसरलः प्रत्यर्थिकालानलः / पूर्व येन वृतो मया स सकलक्ष्मामण्डलाखण्डलः श्रीवल्लीनवकन्दलः पृथुबलः सौभाग्यसिन्धुलः // 24 // अद्याऽऽयातः स मम वचनादत्र हित्वा स्वदेशं प्रीतिं धत्ते मयि च महतीं तादृशः सार्वभौमः तस्यैतत् मे निखिलमधुना मण्डनं लग्नमङ्गे तस्मिन् मिन्नं भवति हृदयं किं कुलाचार एषः? !!25 // विघटितवपुभूयो भूयः शशी घटतेतरां फलति कदली वारं वारं कुठार हताऽपि हि / मिलति सहसा सूतः खण्डीकृतोऽपि मुहुर्महुर्न तु पुनरियं सूते जिह्वा मृगारिवधूरिव // 26 // नैकस्तम्भे भवति नियतं मत्तमातङ्गयुग्मं शूरस्यापि प्रभवति तथा नैककोशेऽसियुग्मम् / नैवैकस्मिन् भवति गगने सूर्यबिम्बद्वयं वा नैवैकस्मिन् भवति वदने हन्त ! जिहाद्वयं तत् // 27 // उभयवदना सूची शक्ता न तन्तुविनिर्गमे क्वचिदपि कथं गन्तुं शक्यं द्वयोरपि मार्गयोः / किमिदमुचितं द्वौ भर्तारौ नरश्च सुरश्च तद् ? द्वयमसदृशं स्वेच्छाचारः कुलक्रम एव च // 28 // यदि युवजनकीर्तिस्तम्भमम्भोजवक्त्रं नलनृपमपहाय क्वापि पत्यौ परस्मिन् / वलति हृदयहस्ती तावदाजन्मतो मे सकलभुवनदीपास्तत् त एव प्रमाणम् * // 29 // एतचिन्तामणिविजयि यच्चारु चारित्ररत्नं दत्तं सम्यग् भुवि भवजुषां भावभाजां जिनेन / देवदूतस्य वचसा . खिन्ना दमयन्ती तया च प्रतिपादितोत्तरः॥ IFTIIMSHIII-IIIFIESI 48 //
Page #117
--------------------------------------------------------------------------
________________ // 30 // // 32 // // 33 // DIHI GIFISHIVISIIIIIIISEK तव त्यक्तं यैः स्मरपरिचयात पातितं तैः स्ववंशे रुद्रक्रोधज्वलनजनितं भस्म तत् कामनाम शीलं हि चापलकणादपि याति नाशं पातक्षमं करतलाद् नहि काचपात्रम् / न त्रुट्यति प्रणयिनीश्वसितोपमेन किं तालवृन्तमरुताऽपि मृणालतन्तुः ? माता माता गृहमपि गृहं किञ्च सख्योऽपि सख्यस्तातस्तातः कुलमपि कुलं बन्धवो बन्धवोऽपि / यन्मे चित्तं वपुरपि वयो जन्म वा जीवितं वा तत् तत् सर्व निषधनृपते परेषां नवा मे देवी देवं भुजगमुरगी दानवी दानवं वा वृक्षं वल्ली मृगमपि मृगी मानुषी मानुषं च / इत्थं नारी जगति घटते कान्तमात्मानुरूपं जानाम्येतद् न पुनरपरं मूलमार्गादमुष्मात् इह सुखमसुखं वा वाच्यता वा यशो वा भवतु नरकपातः स्वर्गलोकस्थितिर्वा / निधनमनिधनं वा यत् तदास्तां समस्तं तदपि न कुलजाता मृलमार्ग त्यजन्ति नहि कुलबहुमानं नापि कुत्रापि कोपः क्वचन च न ममेर्ध्या कुत्रचिद् नैव लोभः / किमपरमपि दासी दिक्पतीनां च तेषां न च नलनृपवर्ज कान्तमन्यं करोमि स प्राचीशः स तपनसुतः स प्रचेताः स वह्विश्चन्द्रः सूर्यः स मम हृदये नैषधः सार्वभौमः / सर्वस्थाने तमिह वृणु यां पञ्चमं लोकपालं तद् देवेषु प्रभवति तदा कीदृशो मेऽपराधः? किमिह बहुना तावत् प्रातः स्वयम्वरणस्रजा मम हि समयस्तं प्राणेशं महीपतिमचितुम् / ISISTERIFIERI III FIle // 34 // // 35 // // 36 //
Page #118
--------------------------------------------------------------------------
________________ दमयन्त्या द्वितीयस्कन्धे सर्गः१४ अभ्य र्थना // 49 // BISIT ATSET A TEING THIABEI WISHING Isale तदिह भवता वक्तव्याऽहं न दिक्पतिवाचिकं मयि कुरु कृपां कोपं मुश्च प्रसीद कृतोऽञ्जलिः // 37 // खगनखमुखोत्कीर्णाकारः पुरा ददृशे मया तव सुसदृशः क्षोणीपालः स मे हृदयेश्वरः / भवतु पुरतः प्रातदृष्ट्वा तवापि मम प्रियं स्वमुखकमलच्छायालोको विना मणिदर्पणम् // 38 // इति केशिनीवदनमार्गनिर्गतं दमनस्वसुः सुवचनामृतं नृपः। नवपद्मनालविवरापवाहितं पिबति स हंस इव सारसं पयः / // 39 // इति श्रीमाणिक्यदेवसूरिकृते नलायने द्वितीये दूत्यस्कन्धे त्रयोदशः सर्गः // 13 // द्वितीये दूत्यस्कन्धे चतुर्दशः सर्गः। इत्थमभ्यर्थ्यमानोऽपि प्रियया प्रियसाहसः। पुनस्त्रिदशकार्यार्थी स वक्तुमुपचक्रमे अहो! जगति पानीयक्षीरपार्थक्यपण्डिता / साऽपि हंसी न जानाति सेवालकमलान्तरम // 2 // लोष्ठानां च मणीनां च तेजसां तमसां च यत् / नराणां च सुराणां च पङ्कजाक्षि! तदन्तरम् // 3 // क्क मनःसाधना देवाः क्व मत्योः कष्टकारिणः / क वपुस्तैजसं चैकं ? क्वान्यद् धातुमयं वपुः-१॥ 4 // त्वया नलाभिलाषिण्या मुक्तवासववासया / इक्षुद्वेषी शमीसक्तः करभोऽपि विनिर्जितः // 49 //
Page #119
--------------------------------------------------------------------------
________________ II AIIMille DIHI 4-THEII A THIGA THII - III NILEI GISEle आः! क एप नलो नाम स्वामी देशस्य कस्यचित् / मनुष्यश्चर्मचक्षुष्मान् स्वल्पसङ्ख्येयजीवितः // 6 // लोकानामुत्तमः स्वर्गः स्वर्गिणां त्रिदिवौकसः / तेषामपि हि स श्रीमान् महेन्द्रः परमावधिः / // 7 // प्रयत्नं कुर्वतां क्वापि प्रमादः स्याद् विशेषतः / पङ्किले रक्षतः पादौ कदाचिल्लिप्यते शिरः // 8 // सञ्जाता हि पुराऽप्येते संयोगा दिव्यमानुषाः / श्रूयते भरतादीनां गङ्गाद्या दिव्ययोषितः // 9 // कुपितेषु च देवेषु महेन्द्रवरुणादिषु / त्वां वरीतुं वरारोहे ! शक्तिरस्ति नलस्य किम् ? // 10 // कुमारीवरयोोंगे यमः कमपि वा यदि / अन्तं नयति दायादं क ततः स्याद् महोत्सवः ? // 11 // संप्रदानविधौ तं मुश्चेद् न वारि वरुणोऽपि चेत् / प्रसारितकरोऽपि त्वां तदा किं लभते नलः ? // 12 // नलनिर्वेदतो वेद्यां यदि ज्वलति नानलः / अनग्निसाक्षिकः स स्यात् तद्विधिः सारसाक्षिकः // 13 // उपायेनापि दिक्पाला विघ्नं कर्तुमिति क्षमाः / प्रत्यक्षं तेषु रुष्टेषु नास्त्येव शरणं तव // 14 // किमेकमेककालं व हरिणा कारयिष्यसि ? ! सर्वेषां क्षितिगालानां वध्यस्थानं स्वयम्वरम् कुपितेन कृतान्तेन गृहीतासुषु जन्तुषु / कपालमालिनो हर्षः किं हरस्य करिष्यति ? निर्मर्यादं विनिर्मुक्ते वरुणेन महार्णवे / जलाञ्जलिक्रिया नूनं जगतोऽपि भविष्यति // 17 // इत्थं दिक्पालकोपेन त्वद्नादरजन्मना / असावकालकल्पान्तस्त्वन्निमित्तमुपस्थितः // 18 // उत्सर्गमपवादं च द्वयं जानीत बुद्धिमान् / तत्वज्ञे ! राजकन्याऽसि कथमित्थं विमुद्यसि ? // 19 // BISIATII ATHI4I
Page #120
--------------------------------------------------------------------------
________________ द्वितीय स्कन्धे सर्गः१४ श्रीनल एव मे प्रिय इति. दमयन्त्या निश्चयः॥ // 50 III IIala III-III IIFile III आना इति तद्वचनं श्रुत्वा साभिमानं मनस्विनी / साशङ्का च सदुःखा च वाचमृचे विदर्भजा // 20 // न नाम दूत ! दोषस्ते सत्यमुक्तं त्वयाऽखिलम् / जानामि न च नाहं वा प्रभावं त्रिदिवौकसाम् // 21 // कः करेण स्पृशेदकं बाहुभ्यां कोऽब्धिमुत्तरेत् ? / कः पद्भयां लङ्घयेद् मेरुं को युद्धेन सुरान् जयेत् // 22 // यत् किश्चिदपि वाञ्छन्ति तत् सर्व साध्यते सुरैः / न कोऽपि प्रतिमल्लोऽस्ति तेषामिह महौजसाम् // 23 // न धर्माय न लोभाय न सुखाय कथञ्चन / एवमेव हि भपाले तस्मिन मम रतं मनः // 24 // निष्कारणमिह प्रेम प्रायः कुत्रापि जायते / किमर्थमिह पग्रिन्या देवे दिनपतौ रतिः ? // 25 // विषेण मोदते केकी चकोरस्तेन रोदिति / प्रियो हरस्य धत्तूरः केतकी वैरकारणम् // 26 // चन्द्रस्य रतिरिङ्गाले निम्बे रक्तो दिवाकरः / कस्यचित् क्वचिदप्रीतिः कस्मैचित् कोऽपि रोचते ॥२७॥युग्मम् स्वयमुत्पद्यते विश्वं स्वयमेव प्रलीयते / व्योमेव परमं ब्रह्म मेघाभ्राणि जगन्ति च // 28 // जानामि देवतावृत्तं जानामि स्वपराभवम् / तथापि न कथञ्चिद् मे मनस्तसाद निवर्तते // 29 // स भवतु मनुजो वा यादृशस्तादृशो वा गुणगणपरिपूर्णः सर्वथा निर्गुणो वा / तदपि न रमते मे वीरसेनस्य पुत्रं गगनमिव मृगाङ्कस्तं विनाऽन्यत्र भावः // 30 // किमिह बहुभिरुक्तैर्निश्चयः श्रूयतां मे यदि न भवति भर्ता नैषधः क्षोणिपालः। जलगरलहुताशोद्वन्धनाद्यैरुपायैस्तदहमिह समन्तादात्मघातं करोमि // 31 // II IIIIII // 50 //
Page #121
--------------------------------------------------------------------------
________________ बना ISHITAla II AISI NIFICANA समं मखभुजां रुषा वपुषि मे विनाशं गते समं मम मनोरथैर्विदलितेषु मे बन्धुषु / भवन्तु जगतीजुषः सकलसौख्यभाजः प्रजाः सतां हृदयदाहिना किमिह जीवितव्येन मे' . // 32 // तदतिशयसदुःखं साभिमानं सशकं वचनमिदममुष्या वैरसेनिर्निशम्य / निजमनसि निकामं विस्मयव्याकुलोऽभूदमरपतिविधेयात्यन्तचिन्तापरोऽपि // 33 // कश्चिद् नवो मधुरिमाऽभिनवं सुशीलं प्रेमाप्यहो ! मयि च किश्चिदपूर्वमस्याः / किं ब्रूमहे तदिह भीमभुवः प्रतिष्ठां ? नेयं प्रयाति विकृति हि भवान्तरेऽपि // 34 // एतां विहाय भुवि कैव बभूव सा स्त्री यस्यां स्वयं सुरवरैर्विहितोऽनुरागः / स्वोपज्ञकान्तरसभाविकया कया वा ? शक्रादयोऽपि गणिता न हि याचितारः // 35 // इति श्रीमाणिक्यदेवसरिकृते नलायने द्वितीये दूत्यस्कन्धे चतुर्दशः सर्गः // 14 // द्वितीये दूत्यस्कन्धे पञ्चदशः सर्गः / नामावाना बनाया जाता इति चेतसि सश्चिन्त्य मृळ्यां काठिन्यमुद्वहन् / एकान्तकृतदिक्पालपक्षपातं जजल्प सः वशीकृता नलेन त्वं यन्त्रमन्त्रादिभिर्बुवम् / निःशेषदेवनाथं यद्धरिं हित्वा नले रतिः // 2 //
Page #122
--------------------------------------------------------------------------
________________ द्वितीय // 3 // // 4 // स्कन्धे सर्गः१५ त्रिदशकार्यार्थिनो . नलस्य दमयन्त्या निश्चये विवादः॥ // 51 // BIHIR-III AISIlATHIIMSIIIFI AISIC यदि त्वं त्रिदशक्रोधादात्मघातं करिष्यसि / तद् भविष्यति किं तेषां कलङ्कोऽनुशयो नु वा ? घृणा जन्तुषु दीनेषु न लोकोत्तरतेजसाम् / क्व पतत्सु पतङ्गेषु दया दीपस्य जायते ? अम्भोधौ मग्नपोतानां यथा न शरणं क्वचित् / तथा दिक्पतिभीतानां न स्थानमिह वर्त्तते यदि त्वं कण्ठपाशेन व्योमसंस्था विपद्यसे / तत् पतिर्गगनस्थानां वासवः किं न नेष्यति यदि वहिप्रवेशेन प्राणत्यागं करिष्यसि / ततस्त्वं तस्य संप्राप्ता स्वयमुत्राङ्गासनिता जुहोषि यदि वा देहं जले जलजलोचने! / सिद्धानि पयसां पत्युस्तत् कार्याणि जगत्त्रये विधिनाऽन्येन केनापि दिष्टान्तं चेद् विधास्यसि / ततः प्रियातिथीभावं धर्मराजस्य यास्यसि इत्थं भक्त्या च शक्त्या च दुःखेन च सुखेन च / इह चामुत्र च प्राप्तो दिक्पालानां ग्रहस्तव तद् विहाय नलं शीघ्रं दिक्पालानुररीकुरु / मुग्धे ! मुश्च महामोहं स्वर्गभोगान् भज स्वयम् इत्थमर्थयमानं मां प्रमाणीकुरुषे न चेत् / अहमेव किल द्वेषी तत्पूर्व तव संप्रति इति तद्वाग्महामन्त्रदृढावेशविसंस्थुला / सहसैव हि वैदर्भी बुद्धिभ्रंशमवाप सा तथेति प्रत्ययं चित्ते तन्वाना स्विन्नविग्रहा / बभूव शुष्ककण्ठोष्ठी भयभ्रान्ता सवेपथुः सश्चिन्त्य च प्रियवियोगमसाध्यमन्तः सा निःसहा निबिडमन्युनिरुद्धकण्ठी / मन्दं रुरोद भयनिर्भरमीक्षमाणा दीनेन साश्रुनयनेन सखीजनेन // 8 // // 9 // // 10 // // 11 // // 12 // // 13 // // 14 // भा॥५१॥
Page #123
--------------------------------------------------------------------------
________________ // 16 // II IIIIle IIANSHI A TERI III &ISe // 17 // // 18 // II आपातजर्जरतरैः पृथुभिः समन्ताद् विक्षिप्तसूक्ष्मकणिकोत्करके सराढ्यैः / तद्वाष्पविन्दुभिरभूष्यत भूमिपीठं सद्यः कदम्बकुसुमप्रकरं हसद्भिः हा! तात ! तात ! विहितखिदशैस्तवायं क्रुद्धः स्वयम्वरविधिविफलः सुतायाः / यस्याः स्वकीयमपि नास्ति सुखं हताशा सा किं करोतु तनया तव तात! सौख्यम् हा नाथ ! विश्वजनवत्सल ! मां कथं न श्रीवीरसेनसुत ! रक्षसि दिक्पतिभ्यः / आराधिता हि सततं भवता पुराऽपि स्थास्यन्ति किं तव ते मुखलज्जयापि ? श्लाघ्यस्त्वदर्थमिह मृत्युरपि ध्रुवं मे भूयात् त्वया सह वरं नरकेऽपि वासः। यः पूर्वमित्थमिह मे हृदयं दुनोति कीदृक् करिष्यति सुखं त्रिदिवा स पश्चात् यस्मिन् पुराणसुकृतव्यय एव नित्यं नैवार्यतेऽभिनवधर्मलवोऽपि यत्र / उच्छशलः परिवृढः कठिनाश्च भृत्यास्तस्मै नमोऽस्तु सकलाय सुरालयाय हा तात ! हा जननि ! हा स्वजनाः! समस्ताः / कस्य प्रयामि शरणं शरणोज्झिताऽहम् / युष्मासु कः किल ममाद्य नलं हि कान्तं ? कर्तुं क्षमः प्रकुपितेषु दिगीश्वरेषु प्राणाः प्रयान्ति मम नूनममी इदानीं जिह्वे ! समुच्चर भृशं नलनाममन्त्रम् / यन्नैकदाऽपि दयितेन निरीक्षिताऽहं तन्मे दुनोति हृदयं मरणागमेऽस्मिन् // 19 // // 2 // FII A // 21 // BlLAIFI AEI // 22 // BIFI
Page #124
--------------------------------------------------------------------------
________________ द्वितीय स्कन्धे दमयन्त्या विलापः॥ // 23 // सर्गः१५ // 52 // // 24 // // 25 // S5II III AEIla IAEII IITale इति वदनसमक्षं भीमभूपालपुत्री कलमृदुविलपन्तीं वीक्ष्य विक्षिप्तचित्तः। स सपदि सुरदूत्यं तत्र विस्मृत्य वीरः सुललितमिदमृचे वाक्यमाश्वासनाय विरम विरम कान्ते ! न प्रिये ! रोदितव्यं मलिनयति मुखं ते हन्त ! बाप्पाम्बुपूरः / अयि ! कथय किमर्थ धार्यते देवि! दुःखं विलुठति चरणान्ते नन्वयं नैषधस्ते सफलय मम शीघ्रं देवि ! सिंहासनार्द्ध ननु सुमुखि ! मदीयोत्सङ्गमङ्गीकुरुष्व / अहह ! किमिदमुक्तं क्षम्यतां वाक्यमेतत् तव खलु विपुलं मे वक्ष एवासनं यत् इत्थं वदन् विपुलमन्मथमन्थराणि वाक्यानि कानिचन तां प्रति राजसिंहः / स स्वं विवेद पुनरेव हि देवदूतं योगीव कालवशवृत्तसमाधिभङ्गः अहह ! बत मयाऽऽत्मा किं प्रकाशीकृतोऽयं ? किमिव स मम वक्ता दृषणं देवराजः / न कृतममरकृत्यं खेदिता राजपुत्री द्वयमपि हि विनष्टं वश्वितो वश्चितोऽस्मि स्खलितमिह यदेतद् यत्नभाजोऽपि जातं ददति मम न तस्मिन् दूषणं लोकपालः / कथमनुचितवादी रञ्जनीयो जनोऽयं ? स हि सततमतूर्य नर्तितुं वेत्ति सम्यक इति तमथ समन्ताच्छोचमानं नलोऽयं ध्रुवमिति दमयन्ती चेतसा चिन्तयन्ती / व्यवहितसुरनाथप्रार्थनातङ्कशङ्का सपदि विपुललज्जावारिराशौ ममज // 26 // // 27 // // 28 // // 29 //
Page #125
--------------------------------------------------------------------------
________________ निरुपमरमणीयं व्यक्तसौभाग्यभाजः सपदि निषधभर्तुः सन्निधौ सा निषण्णा / किमपि हि वलितुं वा वीक्षितुं जल्पितुं वा श्वसितुमपि न सेहे हीलतापाशबद्धा . // 30 // इति श्रीमाणिक्यदेवसूरिकृते नलायने द्वितीये दूत्यस्कन्धे पञ्चदशः सर्गः // 15 // द्वितीये दूत्यस्कन्धे षोडशः सर्गः। बना जाना IIIIIIIIsle // 1 // // 2 // // 3 // अत्रान्तरे तरन् व्योम्ना मनसो विस्मयं ददत् / कुर्वाणः कूजितं रौप्यकिङ्किणीकाणकोमलम् आसन्नशापपर्यन्तचिन्तासन्तुष्टमानसः। समाजगाम वेगेन बालचन्द्रः स पक्षिराट् जयशब्दमुखः पक्षी प्रत्यभिज्ञाय भूभुजा / विहितावर्जनः प्रीतः प्रत्युवाच विचक्षणः यदित्थमयमेतस्यां द्राक् निष्कारणवैरिणा / कुकूल इव मालत्यामातङ्को निहितस्त्वया अहो ! ते सौम्यरूपस्य हृदयं हन्त ! निर्दयम् / कोमलस्यापि नालं वा कमलस्य हि कर्कशम् राजपुत्रि ! न मेतव्यं भवत्या नृपभाषितैः / वाक्पारुष्यमयः सोऽयं दूतानां धर्म एव हि न महेन्द्रादयो देवा बलात् कुर्वन्ति किञ्चन / असुराणामयं धर्मों यदेवं ग्रहणं त्रियः देवदूत्यमियत्कालं त्वया राजन् ! समर्थितम् / भूयः कण्ठगतप्राणामपेक्षस्व प्रियामपि बाजाI-IIEIHII-IIIFle // 7 // // 8 //
Page #126
--------------------------------------------------------------------------
________________ ना। नैना दुर्वाक्यजाति काष्ठनियतवती भृशम द्वितीयस्कन्धे सर्गः१६ // 53 // दमयन्त्या विलाप- . समये आश्वास नाय बालला चन्द्र: पक्षी | आगतः॥ इयन्तमवधिं यावज्वलन्तीं विरहाग्निना / नैनां दुर्वाक्यवात्याभिरुद्दीपयितुमर्हसि मृदुत्वं मृदुपु श्लाध्य काठिन्यं कठिनेष्वपि / भृङ्गः क्षिणोति काष्ठानि प्रसूनं न दुनोति च // 10 // महीपतिसुताऽप्येषा तिर्यश्चमपि मां पुरा / दासीव त्वदुदन्तार्थमभ्यर्थितवती भृशम् // 1 // प्रसीद सदयं राजन्निदमभ्यर्थसे मया / देवार्थप्रार्थनाभङ्ग भैम्यास्त्वं सोढुमर्हसि // 12 // स्वयम्बरं प्रपन्नेषु प्रातस्त्वयि च तेषु च / स्वमनीषितमेवेयं राजपुत्री वितन्वताम् // 13 // एतर्हि गर्हितादस्मात् स्वामिन् ! विरम कर्मणः / द्रुतं व्रज निजावासं स्वल्पा संप्रति यामिनी // 14 // अस्ति च त्वद्गृहं प्राप्तः पाकशासनशासनात् / त्वदीयनिर्गमापेक्षी नैगमेषी सुरोत्तमः // 15 // स्वस्ति वां श्वः समासन्नमङ्गलाभ्यां मनस्विनौ / इत्थमापृच्छय तौ विद्वान् प्रसभं प्रययौ खगः // 16 // तस्मिन् गते सरभसं मुदिता समन्ताद् भैमी वरं तमुपलभ्य महेन्द्रदूतम् चक्रुः प्रणम्य शिरसा विनयावनम्राः सख्यः क्षितीशदुहितुः पुनरर्घमस्मै // 17 // केयरि ! केसरिणि ! केरलि ! केतकाक्षि ! कौमारि ! कौतुकिनि ! कौमुदि ! कामसेने / कक्कोलि ! केकिनि ! कलापिनि! कम्बुकण्ठि ! कर्पूरकेलि ! करयोः करकं कुरुध्वम् // 18 // दुर्वादुकूलदधिचन्दनशालिरत्नमुक्ताफलप्रभृतिभिर्भुवनावतंसम् / / अभ्यर्च्य ताः प्रणयगद्गदकण्ठमित्थं तस्मै स्वयम्बरनिमन्त्रणमन्ववोचन् // 19 // IIIIIISil to III-IIIIIIIIla II AIFI SIRII ISISTille IIIATII / 53 //
Page #127
--------------------------------------------------------------------------
________________ = = IIIIIIII-IIIIIIIIIsle अथोत्थितः सत्वरमेष भैमीमनुव्रजन्तीं प्रसभं निषिध्य / अन्तर्दधे वज्रधरप्रभावः स्वभावधीरो निषधाधिराजः / // 20 // अद्य ध्रुवं त्रिभुवनं वशवर्ति जातं नूनं मया च सदृशः सुकृती न कोऽपि / प्राप्तः प्रसन्नमहिमा गृहमभ्युपेतः प्राणेश्वरः स मम लोचनगोचरं यत् // 21 // इत्थं प्रभृतभयविस्मयहर्षशोकस्तम्भत्रपापरवशं हृदयं दधाना / तत्संविधानकमपूर्वमनुस्मरन्ती भैमी सखीपरिवृता शयनीयमाप // 22 // संप्राप्तः स्वशिविरसनिवेशमुच्चैस्तत् सर्व निजकरणीयमभ्युदीर्य / प्रीतेन प्रतिबलसूदनं विसृष्टस्तुष्टाऽऽत्मा निषधनृपेण नैगमेषी // 23 // इति विधाय वचः स दिवौकसामनवमङ्गलगोचरजीवितः गमयति स्म कथश्चन यामिनी ससमयं शयने शयितो नृपः / 24 // एतत् किमप्यनवमं नवमङ्गलाकं यन्निर्ममे मुनिमनोहरयोर्विधाता / तस्याऽऽर्यकर्णनलिनस्य नलायनस्य स्कन्धो जगाम रमणीयरुचिर्द्वितीयः इति श्रीमाणिक्यदेवसूरिकृते नलायने द्वितीये दूत्यस्कन्धे षोडशः सर्गः // 16 // इति द्वितीयः स्कन्धः समाप्तः।। III AISII ATI IIIIIIIII
Page #128
--------------------------------------------------------------------------
________________ तृतीयस्कन्धे सर्गः१ भीमभूपतिना स्वयम्वरार्थ प्रेषिताः ॐ सचिवाः॥ // 54 // IIIIATELATHIIIII NIFICATI तृतीयः स्कन्धः। तृतीये स्वयंवरस्कन्धे प्रथमः सर्गः / ततः कृत्वा तमावेशं वैदर्भीनलयोस्तयोः / ययौ कुर्कुटशब्देन शाकिनीव विभावरी क्रथकैशिकनाथस्य शासनेन महीपतीन् / प्रावर्त्तन्त समाह्वातुं सचिवाः शुचिवादिनः // 2 // शचीबलिविधानस्य मेरीभाङ्कारमिश्रिताः / विष्वग् जजृम्भिरे वारनारीमङ्गलगीतयः इत्थं दिनमुखे तस्मिन् देवदूत्यकदर्थितम् / प्राबोधयन् प्रसुप्तं तं नलं वैतालिका नृपम् सारस्वतमयमूर्तिधर्मात्मा जगति विजयते वीरः। अपि दानैरपि कीर्तिभिराशाः परिपूरयन् सकलाः // 5 // कलाकेलिकल्लोलिनीलब्धपारः कुले वीरसेनस्य धर्मावतारः। जयश्रीवधूकण्ठशृङ्गारहारः सदा नैषध ! त्वं सदाचारसारः धीरपि कुशाग्रनिशिताऽसितप्रभं करतले च करवालम् / भरतावनीशकुलकमलिनी दिनकरस्य पृथुयशसः॥७॥ यशोराशिभिर्निर्जितक्षीरनीरः परानीकिनीमेघमालासमीरः कथं वर्ण्यसे वीरकोटीरहीरः 1 क्षितौ नैषध ! त्वं हि गम्भीरधीरः // 8 // IFILAISII II IIIIIIIII // 54 //
Page #129
--------------------------------------------------------------------------
________________ IIEI - RIMISSIMIRI FISSIBIEle महाधर्मनिर्माणबद्धावधानः प्रमोदप्रधानः प्रसिद्धिं दधानः / न कश्चित् परो दत्तसन्मानदानः क्षितौ नैषधक्ष्मापते ! त्वत्समानः शीतलमचन्दनद्रवममूलमन्त्रं जगदशीकरणममृतमसामुद्रमिदं गीतमहो! नैषधनृपस्य // 10 // अहो ! नैषधस्य क्षितीशस्य गीतं क्षणं यैरभिव्यक्तवर्ण निपीतम् / स्मरन्ति ध्रुवं तेन दत्तं गृहीतं न जानन्ति ते केचिदुष्णं न शीतम् // 11 // षट्पदी आगमतर्कपुराणवेदपरमार्थविशारद ! याचकजनचातकसमूहनवकाश्चनवारिद ! / वापीकूपतडागचैत्यमण्डितभूमण्डल ! निर्मलतरनिजकीर्तिनिचयनिर्जितविधुमण्डल ! / आबालकालकलिमलरहित ! धर्मकर्मनिर्माणपर ! तव सुप्रभातमनुदिनमुदितवीरसेनसुत ! नृपवर ! // 12 // सर्वलघुरेकस्वरः अमलतम ! सरू ! नवकमलदलसमचरण ! समरभरतरलतर ! सकलभटमदहरण ! / घनसजलजलदरव! मदचरसमयकरण ! भरतनरवरतनय ! जय सभयजनशरण ! // 13 // अलिकुलविलुलितमृदुदलविसरसरसिजवनतनुविरचितविभवम् / विभवद ! विदलितरिपुजन ! सविता वितरतु तव नृप ! सुखमुषसि भृशम् // 14 // BEIIIIIIIIIIIIIIIISISite
Page #130
--------------------------------------------------------------------------
________________ हतीयस्कन्धे सर्गः१ EII A TEII II स्तुतिभिः नलस्य प्रबोध| कारका वैतालिका // 55 // IIIIIII-III IISHIFISHIBIHI अयमपि सुरतश्लथजनसुखदो विलुलितसकलदुमकुसुमचयः / दिशि दिशि शिशिरः श्रमजलविजयी। दिनवदनभवः प्रवहति पवनः इयमपि रमणीया जातरूपाऽऽत्मकस्य त्रिदशनिकरभाजो भूधरस्योपकण्ठम् / यदरुणकरमाला दृश्यते संपतन्ती तदुदयसमयोऽयं त्यज्यतां नाथ ! निद्रा इत्थं तेषामनुपमविभवः श्रुत्वा वाचं क्षितिपतितिलकः / त्यक्त्वा तल्पं सरसिजवदनः प्रातःकृत्यं स सपदि विदधे नैवेद्यपुष्पफलचन्दनधूपदीपतोयाक्षतैः क्षितिधरप्रवरस्तदानीम् / अभ्यर्च्य भक्तिपरमः परमेष्ठिनं स प्रीतस्ततः स्तुतिमिमामपठत् पटिष्ठः // 18 // विश्वस्थितिस्थपतये भगवन् ! जना ये तुभ्यं नमन्ति कमलासनसंस्थिताय / ब्राझीपितुर्निरुपम ! ध्रुव ! सर्वथापि तेषां हि नाभिभव ! नाभिभवः कदापि // 19 // स्वामिन् ! जटामुकुटमालितमौलिभागं कन्दर्पदर्पदलनं वृषभध्वजं त्वाम् / ध्यायन्ति ये हृदि महेश्वर ! भव्यसचाः सर्वज्ञ ! ते शिवपदं सहसा लभन्ते // 20 // लक्ष्मीनिवास! नरकान्तक! सौम्यरूप! श्रीवत्सलाञ्छन ! सनातन ! विश्वनाथ ! / भास्वत्सुदर्शन ! विभो ! पुरुषोत्तम ! त्वां नत्वा प्रियं जिन ! जना जनयन्ति किं न? // 21 // II 4 II DIII A MEII // 55 //
Page #131
--------------------------------------------------------------------------
________________ इत्थं प्रणम्य पुरतः पुरुषोत्तमं तं शंभुं जगत्त्रयगुरुं परमेष्ठिनं च / शृङ्गारमारभत कर्तुमनन्तरं स श्रीमान् स्वयम्वरसमाजमुपैतु काम: . // 22 // इति श्रीमाणिक्यदेवसूरिकृते नलायने तृतीये स्वयम्वरस्कन्धे प्रथमः सर्गः // 1 // तृतीये स्वयम्वरस्कन्धे द्वितीयः सर्गः / IIIIIIII SIHITS IBEI HO ISIIII-IIIIIIFIGIBIEle // 2 // // 3 // // 4 // अथाऽऽजग्मुर्जगन्मौलिमण्डनाः कुण्डिनान्तरे / स्वयम्बरं स्वयं वीरा महीभाजो महाभुजाः प्राक्प्रत्यगुदगूवाचां दिग्मुखानामधीश्वराः / तत्रामिलन् महीपालास्तले रविरथस्य ये वरीतुं कुलजाः केऽपि हर्तुं धीरोद्धताः परे / द्रष्टुमन्ये महासत्त्वाः स्पृहयन्ति स्म भीमजाम् अकामुको न कोऽप्यासीद् नाभूत् कश्चिदनागतः / कतमोऽपि तदा तत्र न चाभवदनीश्वरः चकासामासिरे तुझा मञ्चाः काञ्चननिर्मिताः / अपि चेतसि कुर्वाणा विस्मयं विश्वकर्मणः रत्नसिंहासनाऽऽसीना मश्चेषु पृथिवीभुजः। गिरीन्द्रशिखरस्थानां चक्रुः केसरिणां श्रियम् सन्ध्याभ्रसन्निभै छन्नं विताननिखिलं नमः / नृपाणामनुरागस्य पटलैरिव देहिभिः सुवर्णाण्डकसङ्काशैः सुवर्णकलशैस्तदा / बभावुदितबालार्कसहस्रमिव पुष्करम् दन्दह्यमानकर्पूरकृष्णागरुसंमुद्भवैः / रुद्धा दश दिशो धूपैरकालजलदैरिव // 8 // // 9 // BIIIIIII
Page #132
--------------------------------------------------------------------------
________________ तृतीय स्वयम्व स्कन्धे सर्गः 2 IIIIIAlalIIAFIllll ततस्ततघनानद्धशुषिराक्षरभेदतः / पञ्चशब्दसमाहारः समकालमजायत // 10 // मृदङ्गशङ्खमेरीणां झुम्बर्याः पणवस्य च / झल्लरीवेणुवीणानां डक्काडमरयोरपि // 11 // इत्येतेषामनेकेषामन्येषामपि निर्भरः / ध्वनिर्दध्वानवाद्यानां दिक्निकुञ्जोदरम्भरिः // 12 // प्रतिमञ्चं प्रतिद्वारं प्रतिभूपं प्रतिक्षणम् / तत्राभवन् विचित्राणि प्रेक्षणीयानि लक्षशः // 13 // न दूतानां न मतानां न द्विजानां न वेत्रिणाम् / न तत्र वारनारीणामपि पारं ययौ जनः // 14 // अथाऽऽजगाम स श्रीमान् क्रौञ्चकर्णनिषूदनः / निःशेषनृपसौभाग्यगर्वसर्वषो नलः // 15 // प्रतीहारगणैरीशः स निर्दिष्टं पुरःसरैः / आरुरोह महामश्च कैलासमिव शङ्करः // 16 // तस्य सिंहासनं हैमं समन्तादधितस्थुषः / बभासिरे महीपालाः परे भूमिगता इव // 17 // तावदासीत् प्रभा तेषां यावद् नायाति नैषधः। आगतश्च नलः श्रीमान् नष्टं कान्त्या च भूभुजाम् // 18 // बलिनाऽपि प्रयत्नेन प्रकृति नुगम्यते / न हंसलीलया याति स्पर्द्धमानोऽपि टिट्टिभः // 19 // मुक्तास्रगनायकेनेव धिष्ण्यपतिरिवेन्दुना / अशोभत सभा तेन भूपालतिलकेन सा // 20 // इत्थं स्वयम्बरारम्भे वर्तमाने मनोहरे / चिन्तयाश्चक्रिरे चित्ते शक्रमुख्या दिवौकसः // 21 // अहो ! नलप्रिया भैमी देवानपि न वाञ्छति / विकुर्मस्तद् वयं तावद् नलरूपं कथं न हि ? * // 22 // बाला मलभ्रमेणापि सा कदाचिद् वृणीत नः / इति सश्चिन्त्य शक्राद्या नलरूपं विचक्रिरे // 23 // IIIAHIIIII बाबाHI IIle
Page #133
--------------------------------------------------------------------------
________________ // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // DIII-IIIllualII AIII Nlllll परिवृत्य तमासीना सहसा सा चतुनली / ययौ विस्मितचित्तस्य नलस्य विषयं दृशोः तैरनादर्शसम्भूतैः प्रतिविम्बैरिवात्मनः / चभार पश्चरूपत्वं वैशाख इव नैषधः . नन्दनोद्यानवीथीव पञ्चभिः कल्पपादपैः / नलाकृतिधरैवीरै राजराजी रराज सा तान् विज्ञाय समायातान् तत्र शक्रादिकान् सुरान् / कौतुकोत्तरलाः सर्वे सुपर्वाणः समाययुः तालवृन्तैः क्षतस्वेदाः निर्निमेषाः कुतूहलैः / छत्रैरम्लानमाल्याश्च बिभिदुर्न नरामराः यक्षरक्षीणसौभाग्यैर्गन्धर्वैर्गर्वबन्धुरैः। किन्नरैश्च स्यात् प्राप्तं तत्र किंपुरुषैरपि ते ते तक्षककर्कोटशङ्खचूडादयोऽपि हि / महोरगाः समाजग्मुः सहाश्वतरकम्बलाः आससाद तदास्थानं वासुकिर्नागवासवः। विष्वक् पातालबालाभिर्वालव्यजनवीजितः अचाक्षुषेन कायेन स्पर्शग्राह्येन केवलम् / बभ्राम तत्र सर्वत्र वायुः प्रकृतिचञ्चलः दूरादपश्यदत्युच्चै रूद्धदिग्भागसंस्थितः। प्राप स्वयम्वरं वृद्धः स्वयं नतु पितामहः अपेक्ष्य चपलां लक्ष्मी गृहच्छिद्रस्य शङ्कया / नाजगाम परित्यज्य पातालनिलयं हरिः विज्ञाय ज्ञानवीर्येण स्वपदे भाविनं नलम् / मन्यमानः स्नुषां भैमी नाययौ नरवाहनः एकपादेन देवेन प्रियार्द्धस्यूतमूर्तिना / शृङ्गारैकरसेनापि हरेण न समागतम् यामिका इव दूरस्था ददृशुस्तं निशाचराः / स्थानीयं नयनानन्दि जनविक्षोभशङ्कया IIIIIFIE IF IIIFIFTII // 31 // // 32 // // 33 // // 34 // // 35 // // 37 //
Page #134
--------------------------------------------------------------------------
________________ तृतीयस्कन्धे सर्गः 2 IISSIC स्वयम्वराथेमागता देवा राजानश्च / / // 57 // II IIAHINIAHITIES II II अनावृतादयस्ते ते जम्बूद्वीपादिनायकाः / सरित्सागरशैलानां संप्राप्ताश्चाधिदेवताः // 38 // अप्सरोभिरभिव्याप्तं सिद्धेश्च निखिलं नमः / ऋषिभिर्नारदाद्यैश्च ग्रहैश्चापि बुधादिभिः // 39 // संममौ तत्र तत् सर्वं त्रैलोक्यमपि लीलया / दिव्ये देवाधिदेवस्य सर्वज्ञस्येव संसदि // 40 // सेहे सकलरूपाणां समदं भीमभूपतिः। सर्वसिन्धुजलौघानां संपातमिव सागरः // 41 // अन्यत्रापि हि देवानां सान्निध्यं संप्रधार्यते / किं ब्रूमस्तत्र सम्प्राप्ता देवा एवं स्वयम्बराः // 42 // भूमीतले दशसु दिक्षु नभोऽन्तराले सञ्जल्पतां नवनवैरनुवादभेदैः।। ब्रह्माण्डमाण्डदलनोद्यमकर्मठोऽभूत् कोलाहलः स खलु कोऽपि तदा जनानाम् // 43 // अवनतमिव जातं व्योम हस्तावचेयं मिलितमिव समन्तात् किश्च दिकचक्रमासीत् / इयमपि च समन्तादुत्थितेवाभवद् भूस्त्रिभुवनजनतानां तावता मेलकेन // 44 // द्रुतमवनिमसिञ्चस्तत्र गन्धाम्बु मेघाः सपदि मलयवातास्तालवृन्तीबभूवुः / सुरयुवतिविमुक्तैः सान्द्रसिन्दूरपूरैः समजनि रमणीयः पूर्वसन्ध्यानुबन्धः // 45 // उपर्युपरि सन्ततं विनिपतन्ति वैमानिकाः समग्रमधिरोहिणीक्रमवशेन रुद्ध नभः / अहं च हरिणा स्वयं समधिगम्य रुद्धोऽधुना किमत्र भवितेत्यभूद् हृदि नलो भयव्याकुलः // 46 // इति श्रीमाणिक्यदेवसूरिकृते नलायने तृतीये स्वयम्वरस्कन्धे द्वितीयः सर्गः // 2 // FII AISII AII // 57 //
Page #135
--------------------------------------------------------------------------
________________ तृतीये स्वयम्वरस्कन्धे तृतीयः सर्गः / CINEI WIFI IMEI VIHIHIHIFII II अथ चिन्तितवान् चित्ते सहसा विस्मयाकुलः / विभाव्य तमसम्भाव्यं समाज भीमभूपतिः // 1 // धन्योऽस्मि मम यस्यैते देवासुरनरोरगाः / स्वयमेव समायाताः स्वयम्वरमहोत्सवे // 2 // अहो ! सकलकन्यासु वत्सा भाग्यवती मम / यामन्वेष्टुं समाजग्मुः सर्वे भूचरखेचराः // 3 // अनुरूपमिदं सर्व जातं विधिवशादिह / कथं पुनर्विधातव्यं गोत्रसङ्कीर्तनादिकम् ? // 4 // न तावत् तादृशः कोऽपि मम राज्येऽपि वर्त्तते / य एषां वदति स्थानमभिधानं कुलक्रमम् अज्ञातकुलशीलं चेत् कदाचिद् वृणुते सुता / तदा कुलकलङ्को मे परेषां चापि मत्सरः तदिदानी मत्पुव्यर्थे निःसहायः करोमि किम् ? / अनेन हेतुना नूनं भविष्यति विडम्बना अथवा या स्वयं दत्ता देव्या च दमनेन च / यस्यास्तत् तादृशं भाले विशेषकमलौकिकम् यजन्मनि च सा तादृक् जाता वागशरीरिणी / यस्याः स्वयम्बरे सोऽयमित्थं सुरसमागमः // 9 // तस्याः प्रभूतभाग्याया वत्सायाः पुण्यजन्मनः / भाग्याकृष्टः कथं कश्चित् साहाय्यं न करिष्यति ? // 10 // त्रिभिर्विशेषकम् / इत्थं चिन्ताप्रपन्नेऽस्मिन् जनके दमनस्वसुः। कन्याप्रवेशविष्कम्भमुपलभ्य समुत्सुकाः IEFISIIIIIIIIIIHIFIEle
Page #136
--------------------------------------------------------------------------
________________ तृतीयस्कन्धे DISE गोत्रसङ्की नार्थ . सर्गः३ देवाः शारदा // 58 // 'प्रेरयन्ति / III-III AIIA ISI - BEII ISITING सुरास्तत्र समायाताः स्वयम्बरदिदृक्षया इत्थमभ्यर्थयामासुर्देवीं वाचामधीश्वरीम् // 12 ॥युग्मम् किं कुर्मस्त्वत्पुरो वाणि ! भवर्णनकौशलम् ? / उपरिष्ठान्महाम्भोधेरासारं वारिदा इव // 13 // और्वाग्निशमनादीनि तानि तानि सहस्रशः / सर्वदा सुरकार्याणि त्वं कुरुष्व कुरुष्व च // 14 // तदिदानीमपि ब्राझि ! गोत्रसङ्कीर्तनादिकम् / इहापि क्रियतां नूनं मौनं कत्तुं न ते क्षणः // 15 // पराः सुरा वधूभैमी याचितारश्च ते वयम् / कन्यासान्निध्यमाधातुं प्रसीद परमेश्वरि ! त्रैलोक्यलोकसङ्कीर्णा सर्वपण्डितमण्डिता / इयमेवंविधा संसद् न भृता न भविष्यति // 17 // वक्तुं सदसि दिव्येऽस्मिन् त्वदन्यः कोऽपि न क्षमः / न हि स्वर्णमये चैत्ये काष्ठघण्टा विराजते // 18 // द्रुतमवतर हंसस्कन्धतो बन्ध्यलज्जे ! सफलय सुरयाच्यां शारदे ! मुश्च मौनम् / अपनय भयभाजो भीमभूपस्य चिन्तां भगवति ! दमयन्त्यां सुप्रसन्ना भव त्वम् // 19 // इति विचार्य वचांसि दिवौकसामवसरं परिभाव्य सरस्वती / भगवती जगतीतलमाययौ परिषदि क्रथकैशिकभूभुजः // 20 // तां सर्वशास्त्रमयरम्यतराङ्गभागां गङ्गातरङ्गविमलावरणां पुरस्तात् / मुक्ताफलामम्मद्भुतमुद्वहन्तीं कर्पूरवल्लिमिव भूमिपतिर्ददर्श // 21 // व्याकुर्वती शशिकलेव शरीरभासा सा निर्भरं दश दिशः सहसा सहासाः। IIIIIII ATHISRIA // 58 //
Page #137
--------------------------------------------------------------------------
________________ SIBEII III A MEIGA IGITA III WIKII RISING सप्रश्रयं समभिगम्य ससंभ्रमेण श्रीभीमभूमिपतिना कृतमध्माप // 22 // आगन्तुभिर्निरुपमैः शकुनस्वराद्यैराप्तैव काचिदियमित्यनुचिन्तयन्तम् / वाग्देवता नृपमभाषत शोचमानं मानप्रदा कविकुलक्रमकामधेनुः // 23 // वैदर्भीजनक ! विमुञ्च हन्त ! चिन्तां जानीहि स्वजनमिमं जनं जनेश / वक्तव्यं तव दुहितुः पुरो वराणां सर्वेषामपि हि मया कुलक्रमादि // 24 // तदनु भीमनृपेण समर्पितं सकलदुर्जयदुर्जनतर्जनम् / कनकदण्डनखण्डमुपाददे भगवती वचसामधिदेवता // 25 // इतिश्रीमाणिक्यदेवसूरिकृते नलायने तृतीये स्वयम्वरस्कन्धे तृतीयः सर्गः // 3 // IAHINI बाजाIlle तृतीये खयम्वरस्कन्धे चतुर्थः सर्गः / अथामन्द्राणि सान्द्राणि धीराणि सरसानि च / भैमीप्रवेशवाद्यानि तानि तानि निरुच्छसुः स मङ्गलमृदङ्गानां पर्जन्यानामिवारवः / जगन्मनोमयूराणां ददौ ताण्डवडम्बरम् सहस्रपुरुषोद्वाह्य सहस्रांशुसमप्रभम् / सहस्रशिखराकीर्ण सहस्राक्षसभोपमम् // 1 // // 2 // // 3 //
Page #138
--------------------------------------------------------------------------
________________ sille तृतीय स्कन्धे सर्गः४ स्वयम्वरमण्डपे . आगता दमयन्ती // 59 // IGATHI AHINI सफेनमिव पुष्पौधैः सेन्द्रधन्वेव तोरणः। ससन्ध्याभ्रमिवोल्लोचैः सविद्यदिव केतुभिः // 4 // चतुरस्रं चतुरि चतुरैः शिल्पिभिः कृतम् / भेजे रत्नमयं यानं दमयन्ती सखीवृता // विशेषकम् // 5 // दमो दमनदान्तौ च राजपुत्रास्त्रयोऽपि ताम् / अन्वगच्छन् समं सैन्यैः सन्नद्धा रुद्धभूमयः // 6 // तैस्तैः कर्पूरभृङ्गारताम्बूलस्थगिकादिभिः / केकिकोकिलकीराद्यैस्तैस्तैः क्रीडनकैरपि // 7 // म्वैरं व्यग्रकराग्राणां राज्योपकरणैर्भृशम् / तस्या नासीरदासीनां वृन्दानि नृपवर्त्मनि // 8 // युग्मम् प्रत्यासनां परिज्ञाय भैमी शशिकलामिव / स त्रैलोक्यसभालोकः समग्रोऽपि हि चुक्षुमे // 9 // प्रविशन्ती सभामध्ये समुद्रोत्था सुधामिव / ततः पपुरपाङ्गैस्तां देवासुरनरोरगाः देवदत्यव्यलीकेन नलनिग्रहहेतवे / प्राप्तां पाशमिवादाय बन्धूककुसुमस्रजम् // 11 // विवृत्तवदनः कश्चित् कुर्वन् मित्रैः समं कथाः। ताम्बूलाय करं चक्रे स्थगिकाधरसंमुखम् // 12 // विघट्टयन समासक्तां तदीयदलसन्ततिम् / मन्दमुन्मीलयामास कश्चित् कमलकोरकम् // 13 // निवेश्य पीडयन् गाढं तर्जनीमध्यमान्तरे / ताम्बृलीदलसन्दर्भ कोऽपि त्वरितमच्छिदत // 14 // अन्यः सहचरैः क्रीडन् करद्वितयमध्यगान् / अक्षान् निर्वर्त्तयामास सारिदाय विचारयन् द्रुतमलभत रोम्णां हर्षमध्युष्ट कोटी रतिरसजलसेकैर्धातवः सप्त भिन्नाः। निरुपमदमयन्तीदर्शनादेव सद्यस्त्रिकरणमपि जज्ञे तन्मयं पार्थिवानाम् // 16 // काII-IIFISHIRUSHIIIIFIERI RISHI RISHI A 59 //
Page #139
--------------------------------------------------------------------------
________________ II Ille // 18 // // 19 // DIII III AISGATI ANI WIFI IFlle इयमिह दमयन्ती नाम सा भीमपुत्री तिलकमिदममुष्याः किश्च नैसर्गिकं तत् / समजनि सफलो नः सर्वथा मार्गखेदः क्षणमपि यदवाप्ता द्रष्टुमप्यङ्गनेयम् त्रिकालविद्भिस्त्रिजगन्नमस्यैः सुदुष्करं केवलिभिः कृतं यत् / स्त्रीरत्नमीदृग् भुवि भावि सम्यग् ज्ञात्वाऽपि तैमुक्तिरूपार्जिता यत् वेषं वयः परिजनं विभवं कुलं वा रूपं विलासमथवा किमु वर्णयामः / एकैकमप्यनुपमं मनसि स्मरन्तो भूमिभुजः प्रविविशुर्गहनं तदानीम् दूरे परे नृपतयः स तदाकुलोऽभूद् भैमी विलोक्य तु नलोऽपि हि धीरधुर्यः / यो वा समुत्तरति बाहुबलेन रेवां तस्यापि दुस्तरतरा जलदागमे सा किमपि रजनिवृत्तध्यानलजातिजिला पुनरभिलषितार्थप्राप्तये सावधाना / इयमभिनवरूपा काचिदन्या किमित्थं नलहृदि विदधे सा विस्मयं दृश्यमाना रात्री परार्थकृततादृशदत्यकृत्यः प्रातर्वरीतुमपि च स्वयमागतः सन् / आसन्नतद्वरणवाञ्छितसिद्धिमाप्य लज्जामुवाह मनसा निषधाधिराजः अन्ये नलं हृदि समीक्ष्य जहुस्तदाशां तादृक् चतुर्नलमयं तु नलोऽपि भेजे / प्राप्तुं नरेश्वरसुतां दृढनिश्चयस्तु कस्यापि न त्रिभुवनेऽपि तदा बभूव // 20 // II IIIIIII // 21 // // 22 // // 23 // BIII
Page #140
--------------------------------------------------------------------------
________________ तृतीय स्कन्धे सर्गः५ नूनं न कश्चिदिह विश्वजनस्य मध्ये निःशेषसौख्यसहितः सततं जनोऽस्ति / ईयां हि विभ्रति धनाधिपतौ दरिद्रा लक्ष्मीपतेः कितवलोकभयं तु शश्वत् // 24 // एकैवासीद् भुवनवलये तत्र सा स्त्रीषु भैमी नाभूत् पुंसां सपदि विषयस्तद्दिदृक्षां विहाय / जज्ञे मुक्त्वा न रतिमितरः कोऽपि भावस्तदानीं वीरः कश्चिद् न च पुनरभूत पञ्चवाणद्वितीयः // 25 // इति श्रीमाणिक्यदेवसूरिकृते नलायने तृतीये स्वयम्वरस्कन्धे चतुर्थः सर्गः // 4 // शारदा दमयन्त्याः . परिचयं कारयति // // 6 // DIMEII 4 IBFI 4 IPalla I55l - IEFI IRila IMEI तृतीये स्वयम्वरस्कन्धे पञ्चमः सर्गः / IIIIIIIजाना-IIIIIFFICE अथ हस्तगृहीतेन हेमदण्डेन भास्वता / छायापथविभिन्नाया विभ्रमं बिभ्रती दिवः अकालकौमुदीकेलिं बिभ्राणा दन्तकान्तिभिः / स्वयं भगवती वक्तुं समारभत भारती भो भोत्रिभुवनावासस्तम्भाः! सुरनरेश्वराः / क्षोभं विहाय पश्यन्तु पश्यन्तो भीमसम्भवाम् अपि त्रैलोक्यराजीवमकरन्दमधुव्रताः / युवानः प्रेक्ष्य वो भैमी व तृप्तिर्वर्षकोटिभिः ? इयं युष्माकमास्थानी कल्पद्रुमवनीमिव / सफलीकर्तुमात्मानं दमयन्ती समागता इतः कुरु कुरङ्गाक्षि ! चक्षुर्विक्षेपमादरात् इयं सा युवभिाप्ता नरामरमयी सभा // 1 // ॥२॥युग्मम् // 3 // // 4 // 60 //
Page #141
--------------------------------------------------------------------------
________________ छा.IIATIGATI AISHI WISEle इह तावदमी बाले ! कालेयकविलेपनाः / बद्धकक्षाः परेलक्षा यक्षास्त्वद्वरणं प्रति अधिष्ठाय निधानानि तिर्यग्लोकनिवासिनः / अकुतो भयसञ्चाराः समयं गमयन्त्यमी . विलोकय दृशा सर्वान् असङ्ख्येयतमानिमान् / पृथग् विवर्णतां येषां यान्ति वत्सरकोटयः एषु किश्चिद् मनोऽभीष्टं वृणीष्व वरवर्णिनि! / यदि निश्चिन्तमक्षीणविभवं सुश्रु! वाञ्छसि इत्युक्ते भक्तिसंयुक्तां तत्प्रणामपरायणाम् / निन्युरन्यत्र तां धन्यां कन्यां यानधुरन्धराः तामूचे भारती भूयो भक्तिपर्यस्तमस्तकाम् / अमी सर्वेऽपि गन्धर्वाः स्वगर्वोद्धरकन्धराः वहन्ति वल्लकीदण्डानुद्दण्डान् तुम्बचुम्बिनः / स्वरग्रामाणवोत्तारतरण्डश्रीविडम्बिनः एतावतैव कल्याणि ! स्वर्गस्य स्पृहणीयता / यत् तत्र किल गान्धर्व गीतगानं प्रवर्तते इत्थं संकीर्घामानेषु तेषु प्रागल्भ्यलीलया / सदृष्टिसौष्ठवां भैमीं भूयोऽभाषिष्ट भाषया कचिद् विदित एवायं तव तामरसानने ! / सहस्रबदनः श्रीमान् वासुकि गवासपः नागेन्द्रमन्तरेणैवं कस्त्वां वक्तुमपि क्षमः 1 / द्विगुणो वदनेभ्योऽपि यस्य जिह्वासमुच्चयः अस्यैव भुवनाभोगस्फीतस्फुरितमूर्तयः / अमी तक्षककर्कोटशङ्खचूडादयो भटाः उद्योतयन्ति दिक्चक्रं दिवापि द्युतिमण्डलैः / यत्फणामणयो बाले ! भाले ! तिलकवत् तव सनन्दनवनक्रीडारतोऽपि स्वर्गिणां गणः / अमी तु त्रिषु लोकेषु विख्याता भैमि ! भोगिनः // 8 // // 9 // // 10 // // 11 // // 12 // // 13 // युग्मम् / // 14 // // 15 // // 16 // // 17 // // 18 // // 19 // // 20 //
Page #142
--------------------------------------------------------------------------
________________ तृतीयस्कन्धे सर्गः 5 IA ISFI ISIST DIHIFIEI शारदा दमयन्ती परिचयं कारयति / / // 61 // एतेऽपि गतनिर्वेदा विद्याधरधुरन्धराः / सन्ति वैदर्भि! सम्भूता वैताळ्यगिरिवासिनः // 21 // कुले नमिविनम्योयें पृथक्पत्तनसंस्थिताः / गान्धारा रौहिणेयाद्या महेन्द्रस्पर्द्धिसिद्धयः // 22 // गन्धर्वेषु न सर्वथा तव रतिर्नागेषु रागो न ते वैलक्ष्यं बहुयक्षलक्षविषये चित्तं न दैत्येष्वपि / सामान्यस्य पिशाचभूतपलभुगवर्गस्य वातैव का? तद् दिव्या तव सृष्टिरेव सकला नूनं न भैमि ! प्रिया // 23 // अतिजरसि न सम्यग्ज्ञानविज्ञानभाजा भुजबलकलितेन व्यक्त केलिक्रमेण / शशिमुखि ! न हृतं ते देवलोकेन चित्तं तदिह भवतु भैमि ! प्रेक्ष्यतां राजलोकः // 24 // इत्थं प्रविश्य भणिता सविलासहासं तत्तत्प्रलोभनपरायणयाऽपि देव्या। गङ्गेव देवविषयात् क्षितिपाललोकं सोत्कण्ठमाप रभसेन विदर्भसुभ्रः // 25 // इति श्रीमाणिक्यदेवसूरिकृते नलायने तृतीये स्वयम्बरस्कन्धे पश्चमः सर्गः॥५॥ तृतीये स्वयम्वरस्कन्धे षष्ठः सर्गः / II II III DISHI IIत ततस्तामवदद् वाचं साचीकृतविलोचनाम् / अजिमघटनां ब्राह्मी घटप्रतिभटस्तनीम् अयं शशिमुखि ! श्रीमान् सूर्यवंशविभूषणः / पुरः प्रभुरयोध्याया ऋतुपर्णोऽभिधानतः // 2 // 61 //
Page #143
--------------------------------------------------------------------------
________________ // 3 // // 4 // // 8 // IIIIIIIIIIK नरेन्द्रकमलाधारं लोकशोकमलापहम् / कमलाक्षि ! विमुच्यैनं कमलङ्कर्तुमर्हसि इत्थमुक्तवती देवी मौनं कर्तुमजिज्ञपत् / सा लीलयैव कुर्वाणा कर कुड्मलमीलनम् पुरस्थनृपनेपथ्यसाताकृतिदर्शनात् / तद्विरक्तिविदः शीघ्रं जन्या याति स च स्वयम् अभ्यधायि पुनर्देव्या पुरस्तन्वङ्गि! नन्वयम् / अङ्गाधिपतिरध्यास्ते पुरी पुष्पकरण्डिनीम् भातिभिन्नेभकुम्भस्य सख्ये विक्षिप्तमौक्तिकः / अस्यासिः करकासारं कुर्वाण इव वारिदः इति स्तुतिपरां भैमीदृक्तरङ्गप्रणोदिता / अकाले दत्तकर्पूरा चेटी देवी न्यवारयत् उवाच वाचं पुनरेव देवता वितीर्णहर्षा विदुरां विदर्भजाम् / इमं पुरस्तक्षशिलापुरीपतिं प्रतीच्छ निर्मत्सरमुच्छलद्गुणम् शाभिधस्य धनुषः पुरुषप्रवीरः कर्णे करोति विदुषां च गुणं गुणज्ञः / एकत्र यत् पुनरयं दृढबद्दमुष्टिरन्यत्र मुक्तकर एव तदद्भुतं नः न गिरिपु न च बजे केवलं मांसमात्रे क्षिपति विभुरयं यत् तेन लजाधिकं नः / इति दलितविपक्षाः मातलं यान्ति नाशं समरशिरसि बाणा यस्य दण्डप्रमाणाः गुरुरिति कविसाथै रथिभिः कल्पवृक्षः स्मर इति रमणीभिरिभिर्वज्रपातः / जनक इति जनौघेर्योगिभिश्चापि नित्यं नरपतिरयमेकः स्मयतेऽनेकरूपः II IIIजIनIकाल // 9 // // 12 //
Page #144
--------------------------------------------------------------------------
________________ तृतीयस्कन्धे सर्गः६ शारदा दमयन्ती परिचयं कारयति॥ // 62 // II-IIATIATERIATERII NITIATile क्वापि प्राङ्गणभूमिका क्वचिदपि प्रच्छाद्यते स्थण्डिलं धाराणां निकरैरपि प्रतिदिनं धाराधरे वर्षति / ' अस्य क्षोणिधवस्य विश्वजयिना खड्गस्य धाराद्वये मनानि द्विषतां गृहाणि सहसा शैलाग्रलग्नान्यपि // 13 // दानिना विनयिना विवेकिना मानिना प्रणयिना यशस्विना / नन्वनेन वसुधासुधांशुना गूर्जरेण सह गौरि ! गम्यताम् // 14 // अयं च चञ्चद्गुणवल्लिपल्लवः समुल्लसन्छौर्यरसैकपल्बलम् / अवन्तिभर्ता विततायतेक्षणः क्षिणोति दुःखं सुमुखि ! क्षणादपि // 15 // कन्दर्पाकुलिता मनाक् मुकुलिता लावण्यकल्लोलिता लीलासंवलितास्त्रपाशबलिता भावोदयान्दोलिताः / कर्णान्तस्खलिता विलोमवलिताः प्रज्ञाबलोन्मीलिता नन्वस्मिन् निपतन्तु सन्ततममी नेत्रत्रिभागास्तव // 16 // इति हि चतुरगम्यैश्चेष्टितैः सावहित्थैः प्रतिपदमपि भैम्या विस्तर वार्यमाणा / उचितसमयमानं देवता तत्र वाचामकथयदभियुक्ता भूयसो भूमिपालान् प्रेमाकुलेऽपि सकले सति राजलोके चित्तं चकर्ष पुनरेव नलस्तदीयम् / के के रुचिं विरचयन्ति च चन्द्रिकायां तत्पानकर्मचतुरस्तु चकोर एव // 18 // राजकादपगमय्य ततस्तां रक्तकोकनदकोरकहस्ताम् / आनिनाय नलपञ्चकमचं यानधुर्यनिवहः सहसैव // 19 // 2 // 62 //
Page #145
--------------------------------------------------------------------------
________________ त्रिपथगामिव नैषधवारिधेर्गणयतां हृदि तामविनिर्गमाम् / सपदि वर्णितशेषमहीभुजां स्वकुलकीर्तनकौतुकमप्यगात् . // 20 // इति श्रीमाणिक्यदेवसूरिकृते नलायने तृतीये स्वयम्बरस्कन्धे षष्ठः सर्गः॥ 6 // तृतीये स्वयम्वरस्कन्धे सप्तमः सर्गः। IIIIII-IIIIEIHITSIK सा ददर्श सरोजाक्षी सहसा नलपञ्चकम् / रुरुधे च त्रपातङ्कप्रेमविस्मयसाहसैः तामसामान्यसौभाग्यां पुरः प्रेक्ष्य पतिवराम् / इन्द्रादयोऽपि दिक्पालाः क्षणं क्षोभं प्रपेदिरे परमार्थ परिज्ञातुं कथ्यमानं तदग्रतः / बभूवुः सहसा सर्वे सावधाना महीभुजः अविभिन्नान् प्रतिहारी कथं नः कथयिष्यति ? / इति शक्रनलाद्यास्ते चित्ते चिरमचिन्तयन् अथ भूतभवद्भाविवृत्तचित्तैकतूलिका / त्रैलोक्यदीपिका देवी स्वयं वचनमब्रवीत् दिष्ट्या विदर्भतनये ! तब सुप्रभातं सोऽयं नलो भवति यद्विबुधाधिराजः। वजं करेण दधता दलिताभिमानो भूभृद्गणः सुमुखि ! येन कृतो विपक्षः अभिनन्दितवीरसेनमेनं समरे विद्धि च सुभ्र ! पाशंपाणिम् / ISISIII-IIIII-IIIFIFISHIKE // 2 //
Page #146
--------------------------------------------------------------------------
________________ // 7 // तृतीयस्कन्छ शारदा दमयन्तीं . परिचयं कारयति / सगे: 7 * // 8 // // 10 // जालना ISI WIFI II II IST मृदुपाणिरपुष्पराजिराजो वरुणोऽयं तरुणि ! प्रियस्तवास्तु अविनयिषु च दण्डं धारयन् धर्मराजः स्मृतिपरिचयदक्षो दक्षिणाशां पिपर्ति / तदयमुदययुक्तो मुक्तदुर्वृत्तसङ्गः शशिमुखि ! निजचित्ते धार्यतां जीवितेशः विभ्राणः किमपि सुदुःसहं च तेजः पूज्यत्वं जगति गतो जनवजानाम् / उत्फुल्लस्थलकमलानने ! (s) नलोऽयं काष्ठानां रचयति लीलयैव रक्षाम इत्यन्तः प्रयतसरस्वतीप्रयुक्तं शक्रादिस्तवनमिदं नलस्तवोक्तम् / कर्पूरव्यतिकरितं प्रपद्य सद्यः श्रीखण्डद्रवमिव सा जडीबभूव सुव्यक्ते सति कथिते भयं सुरेभ्यः प्रच्छन्ने भवति च वञ्चिता कुमारी / तद् ब्राह्मी नलनृपति सलोकपालं प्रस्तोतुं पुनरपि मिश्रवागवादीत किममुं न वेत्सि कमलाक्षि! नलं सदृशोऽमुना न भुवि कोऽपि नृपः / अनुकारमिन्द्रवरुणानियमा यदि तावदस्य वपुषा दधति इत्थमुक्तवति देवते गिरा दत्तकर्णनयनापि भीमजा / नाससाद खलु तत्र पञ्चके रोममात्रमपि किश्चिदन्तरम् परिकलितसुधर्म निर्मलं लोकपालं कथमपि न वृणीषे देवमेनं मृगाक्षि / बजाI-IIIIIIIIFISHIK // 11 // // 12 // . // 13 //
Page #147
--------------------------------------------------------------------------
________________ IIEI THAI VIII IRIDIII 1510 त्यजसि यदि कदाचिद् भीरु ! भर्तारमेनं क इह तव तदानीं सुन्दरि ! प्राणनाथः१ // 14 // चिन्त्यते बत विलम्ब्यते च किं ? लज्जया जडतया च पूर्यताम् / स्वीकुरु प्रियतमं प्रमोदतां मन्मथश्च सुजनश्च भामिनि ! इत्यनेन बहुलार्थवृत्तिना सा मुमोह वचसा विशेषतः / वैभवाधिकतया हि लोचने नूनमन्धयति वैद्युतं महः // 16 // अप्यमन्यत नलं तु दिक्पतिं दिक्पतिं च नलमप्यमन्यत / प्रत्यपद्यत न निश्चयं क्वचित् कीर्तनादपि विलोकनादपि एकैकस्मिस्तत्र राग विधातुं भिन्दन बाणैः पञ्चभिः पञ्चबाणः भैमीलक्ष्ये शस्त्रसङ्ख्यां स्वकीयां सार्थीचक्रे पञ्चभावाद् नलस्य // 18 // रुद्धबुद्धिविभवा भगवत्या प्राप भीमतनयाऽपि न मार्गम् / भीमभूमिपतिना सह सर्व व्याकुलं नृपतिमण्डलमासीत् // 19 // मूकमङ्गलमृदङ्गसहस्रं सावधानसकलस्वजनं च / गीतनृत्यरहितं हतहर्ष तत्क्षणं बत बभूव सदस्तत् // 20 // स्पृश्यमानमनिलस्य तरङ्गैदृश्यमानमखिलक्षितिपालैः / भीतभीमतनया कररुद्धं न स्वयं वरणदाम रराज // 21 // कण्ठपीठगतजीवितमङ्गं धूसरधरदलं कलयन्ती / इत्यचिन्तयदचिन्त्यचरित्रा भीमभूपतनया हृदयेन // 22 // एक एव स नलः किल पूर्व पश्च संप्रंति कुतः पुनरेते / निर्जले कथमपि प्रतिबिम्ब दृश्यते न खलु चन्द्रमसोऽपि // 23 // कजा IIIIIII-III-III ISSING
Page #148
--------------------------------------------------------------------------
________________ तृतीय स्कन्धे शारदा दमयन्ती. परिचयं कारयति॥ सर्गः 7 // 64 // DISIONSHIFALINIIII-III TRA यन्मया विरहनिम्महया वा वीक्षितो दशसु दिक्षु स कान्तः / मदृशस्तदधुनापि पुरावत् किन्नु तत्परिचयं रचयन्ति // 24 // कौतुकी किमथवा नल एव व्याचकार बहुरूपतया स्वम् / अर्जितार्यहृदयः स कदाचिद् वेद भूपतिरिमामपि विद्याम् // 25 // ज्ञातमेतदथवा किमिवान्यत् हन्त ? निश्चितमयं मयि कश्चित् / मत्प्रियं प्रसभमेष पिधत्ते लोकपालकपट्टस्तु कपाटः // 26 // खल्पसत्त्व विभवेऽपि जनेऽस्मिन् मन्युरेष बत दिक्पतयः किम् / स्वामिनामनुचितं हि चरित्रं तृणेष्वपि कठोरकुठारः // 27 // थटा भाग्गनिपरीतनया मे नागिनोऽपि गमिताः नारिपुलम् ! नान्गगेन सलिलं जसदानां गतारोगकरण निरतं न // 28 // पल्बलं ज्वलति शुष्यति शाखी मर्मरं वपुषि वपति चन्द्रः / वासरः सृजति रात्रिविभागं भाग्यभङ्गसमये हि जनस्य // 29 / / अद्य सर्वमपि हि प्रतिकूलं लोकपालकपटे मम रुटे / याति रेणुरपि दुःसहभावं भास्करव्यतिकरेण हि सद्यः // 30 // कस्य यामि शरणाय समीपं कः करोति मयि कारुणिकत्वम् / किं करोमि? कमुपायमुपैमि? व्याकुलाऽस्मि विषमे पतिताहम् / / 31 / / दुर्जनः सुरगणः सकलोऽयं नषधोऽपि मिलितः सह देवैः / यः पुरापि मयि निर्मितरङ्गः सोऽपि संप्रति न हंसविहङ्गः // 32 // अत्र कश्चिदपि सत्यनलो यः स्वीकरोतु स पुनर्वरमालाम् / उच्यमानमिति विश्वसमक्षं नानुरुध्यति कथश्चन लज्जा // 33 / / वीरसेनतनयं वरमालां प्रापयति यदि नाम नियुञ्ज / वेत्रिणीं भवति हन्त ! तदस्या विग्रहः सह सुरमदुपज्ञः // 34 / / स्वार्थसिद्धिविषये सुहृदर्थ यो विनाशयितुमिच्छति मूढः / स प्रतीच्छति मुखे निपतन्तं पाणिना निविडशस्त्रनिपातम् // 35 // लोकपालपरिपन्परिरब्धे नैषधे पृथगनु ध्रियमाणे / अस्तु हस्तगतहानिरियं मे मूढता तदपरः परिवादः . इत्यादि चेतसि चिराय विचारयन्ती दिक्पालदम्भगहनग्रहगोचरस्था / IIIIIIIIIIIIIII
Page #149
--------------------------------------------------------------------------
________________ // 37 // आवर्तगर्तपतिता बलदर्पिताऽपि न प्राप वारणवधूरिव निर्गमं सा इति श्रीमाणिक्यदेवसूरिकृते नलायने तृतीये स्वयम्वरस्कन्धे सप्तमः सर्गः // 7 // तृतीये स्वयम्वरस्कन्धे अष्टमः सर्गः / // 1 // // 2 // // 3 // इयेष नैषधं ज्ञातुं ततः सा देवसेवया / गम्यते परमं ब्रह्म किमनाराध्य वाङ्मयम् ? दिक्पालपरिचर्या च कल्पवल्लीव लीलया / इयं हि द्वितयी पुंसां ददाति दयितं फलम् एतदेव हि दानार्थे समन्तादन्तरं तयोः / दूराद् ददाति यत्पूर्वा तटस्थानां पुनः परा समुद्दिश्य दिशामीशान् समाधिस्था समन्ततः / चिरं चकार चाटूनि चेतसा चारुहासिनी नमोऽस्तु मम युष्मभ्यं दिक्पालेभ्यो दिवानिशम् / कुमार्यां सुकुमारत्वं यूयं भजत देवताः! अद्य युष्मासु रुष्टेषु यूयमेव गतिर्मम / अन्नविद्वेषिणां कायो वायुना हि न धार्यते सर्वकषप्रभावेषु का नाम प्रतिमल्लता। न विध्यापयितुं शक्तिस्तृणानां हि दवानलम् स्वल्पेषु भ्रूबलं ज्ञातुं बलिनां वितथा रतिः / को हि विश्वम्भरां मुक्त्वा मेरुमुद्रोढुमीश्वरः यद् दहन्ति न मार्तण्डा न क्षुभ्यन्ति यदन्धयः / यच्च शक्तास्तितिक्षन्ते तेनेदं वर्त्तते जगत् जातामा बाजा बजाना // 7 // // 8 //
Page #150
--------------------------------------------------------------------------
________________ शारदा तृतीयस्कन्धे सर्गः८ | दमयन्ती. परिचयं कारयति / / // 65 // ISIAHITIATI तामle युष्मासु दूरतः शक्तिर्भक्तिरप्यतिदुष्करा / केनापि हि न शोष्यो हि पोष्योऽपि हि न सागरः // 10 // केवलं करुणां कत्तुं यतध्वं जगदीश्वराः। भर्तृभिक्षाप्रदानेन जनोऽयमनुगृह्यताम् यदि नैषधवर्ज मे परस्मिन् रमते मतिः / तद् भवद्भिर्विधातव्यो निग्रहस्तक्षणं मम / / 12 / / इत्थमन्तः सरन्ती सा तच्चतुष्टयतुष्टये / प्राप मोहार्णवोत्तारतरण्डं ज्ञानमात्मना // 13 // जलपत्यपकारिया युद्धेर्दचावलम्मनाम् / प्रत्यपयन्त तां सयः सहाया इव हेतवः नुनोद हृदये तस्याः सङ्केतकमिवाचरन् / देवेषु नैषधभ्रान्ति निमेषः क्षमापचक्षुषोः अकथ्यत नलस्तस्यास्त्रिदशाङ्गविलक्षणैः / कदम्बमुकुलप्रायैरङ्गैः पुलकवाहिभिः प्रत्यग्रमिव वैदा नृपस्य समदृश्यत / म्वेदद्रवलवैभिन्नं भाले तिलकचन्दनम् / / 17 / / सम्भाव्येव भविष्यन्तीं स्वस्थाने भीमसम्भवाम् / हृदि म्लानतमा मालामालुलोक नलस्य सा // 18 // चरणौ रणवीरस्य वीरसेनसुतस्य सा / ददर्श भर्तृभक्त्येव स्पृशन्तीव वसुन्धराम् // 19 // इति स्वेदादिभिर्भावैर्भिन्नश्छलनलबजान् / मनुष्यलक्षणैलेंभे वैदर्भी निजवल्लभम् // 20 // दिक्पालपरितोषेण ज्ञातसत्यनला ततः / वाणीविलसितं वाचां देव्याश्चिरमचिन्तयत // 21 // वाग्भिः कत्तुं विपर्यस्तमनुष्यत्रिदशं जगत् / न ब्रह्मतनयां मुक्त्वा सृष्टिसामर्थ्यमीदृशम // 22 // इति लब्धनलख्यातिः सङ्ख्यातिगगुणान्विता / धृतगाम्भीर्यसम्भारं भारत्या मुखमैक्ष्यत // 23 / / IIIIIIIIIIIile
Page #151
--------------------------------------------------------------------------
________________ IIIIIIII-III IITia. कुमारि ! कुरु निःशङ्ख मानिनि ! स्वमनीषितम् / स्वेच्छापुरस्सरोऽयं ते जनो जनकनन्दिनि! // 24 // उचितेवार्चनां कर्तुं देवेऽस्मिन् वरमालया / इति धृत्वा करे कन्यां निनायाभि पुरन्दरम् . // 25 // ततः सकङ्कणक्काणं हस्तमुन्मुच्य हेलया / तां नलाभिमुखं यान्तीं रुरोधाश्लिष्य भारती // 26 // यत्प्रसादादिदं सर्व ये पूज्यास्त्रिजगत्स्वपि / समुदाचरितुं तेभ्यः कथमित्थं प्रमाद्यसि / // 27 // इत्युक्तिकृतविश्वासा लज्जावनतकन्धरा / तेषां पपात सोत्कण्ठं चतुर्णां चरणेषु सा // 28 // प्रणमन्ती च शिष्येव स्नुषेव दुहितेव च / अदृश्यत तदा देवैर्दमयन्ती ससम्भ्रमम् // 29 // प्रणतेषु कृपालुत्वं लजालुत्वं च संसदि / श्रद्धालुत्वं सुशीलेषु प्रकृतिमहतामियम् // 30 // ततः सा सर्वदिक्पालदृक्तरङ्गप्रणुन्नया / अनीयत सरस्वत्या स्वयं नैषधसन्निधौ // 31 // अथ कथमपि कम्पस्वेदरोमाञ्चजाड्यप्रभृतिभिरभिरामा काचिदन्या भवन्ती / सरभसमिव गत्वा सा नलस्योपकण्ठं स्वयमपि वरमालां कण्ठपीठे मुमोच // 32 // मसृणकनकभासि स्फारविस्तारसारे प्रतिफलितशरीरा तस्य वक्षोविभागे / शुचिविपुलगुणत्वात् क्षिप्रमन्तर्गतैव स्फुटकुसुमसमृद्धा सा विरेजे वरस्रक् // 33 // ततस्तन्माङ्गल्यप्रहतघनतूर्यध्वनिभरं तिर-कुर्वन् विष्वक चलचकितचेटीश्रुतिकटुः / अकाण्डब्रह्माण्डस्फुटनघटनाकृत क्षितिभुजां भटक्ष्वेडानादः समजनि जनक्षोभजनक: // 34 // BIAIAHINIII II Sile
Page #152
--------------------------------------------------------------------------
________________ तृतीयस्कन्धे सर्गः८ शारदा दमयन्तीं. परिचयं कारयति // @al RISHI III-IIIIIII यावद् मीमसुतार्थिनो नलरुषा संक्षोभयन्तः सभां व्यावल्गन्ति महीभुजो भुजबलैः कोलाहलव्याकुलाः। ' तावद् दिक्पतिभिः समं स भगवान् प्रत्यक्षरूपः प्रभुर्वजं वज्रधरः करेण कलयन्नुच्छल्यमित्युचिवान् // 35 // भूपालेषु विदर्भराजसुतया पत्यौ वृते नैषधे रोषाद् यस्य हि कस्यचित् किल शिरःशूलं समुत्पत्स्यते / मद्वजाहतिजर्जरं जडमतेस्तस्याधुना मिश्रितं साक्षादार्जकमञ्जरीव शतधा शीणं शिरो यास्यति // 36 // प्रस्थाने स्थितिषु स्थलेषु च जले रात्रौ तथा वासरे स्वप्ने जागरणे वने च भुवने दुःखे सुखे वा क्वचित् / भैमी भोक्तुमतः परं बलमुखो यः कश्चिदारिप्सते पापात्मा भुवि भस्मसात् स भविता दत्तो मयाऽयं वरः // 37 // तव च पार्थिवनायक ! जायतां ध्रुवमपत्ययुगं युगपावनम् / जलधराच मनीषितवर्षिणो नल ! भवन्तु भुवं त्वयि शासति // 38 // अथ यमस्तमभाषत पार्थिवं मम गिरा मिथुनप्रसवस्य यत / अपरुजःपुरुषायुषजीविनो जगति जानपदास्तव सन्त्विति // 39 // तमवदद् वरुणः पृथुकद्वयं त्वमधिगच्छत वैभववाञ्छया / जलमपि स्थलतां व्रजतु ध्रुवं भवतु वापि तदीयविपर्ययः // 40 // हुतवहोऽपि बभाण शिशुद्वयं भवतु ते भवतश्च मनीषया / अविकृतस्य महामदसाधनं मिहिररश्मिषु सङ्क्रमणं मम // 41 // IA II II ISHITISING
Page #153
--------------------------------------------------------------------------
________________ SIBHIIIIIII-III DIII RISII IIIG आधाय रूपमथ पुस्तकहस्तमन्तःप्रीतिं प्रकाशितवती विशदस्मितेन / वाग्देवता भगवती नलमावभाषे सा खेचरीनिचयचुम्बितपादपद्मा // 42 // वार्तासु वर्त्मनि वधूषु विवाहकाले प्रातः प्रदोषसमयेषु च कीय॑मानः / त्वं सार्वभौम ! भविता भुवि मानवानां क्षेमाय वाञ्छितफलाय च तुष्टये च // 43 // इत्थं देवैर्विरचितवरः पार्थिवैर्मन्यमानः शोभां बिभ्रन् भुवनविजयी भक्तिनश्रेण मूर्ना / भैमीभर्ता नृपतितिलकस्तुष्टुवे हृष्टचित्तः पुण्यश्लोकत्रिभुवनजनैः पुष्पवृष्टिं किरद्भिः॥४४॥ अत्रान्तरे तरलयन् हृदयं जनानां देवैः स्वयं विदितत्यकलावदातः / भैमीनलप्रणयपूर्वमुपेत्य हंसः श्रीशारदाचरणपीठमलञ्चकार // 45 // तस्मै तुतोष सविशेषमशेषविद्या वैदग्ध्यवारिनिधये वचसामधीशा। तत् तादृगद्भुतवधूवरसङ्गमैकवीजप्ररोहजलदाय विहङ्गमाय इत्युद्दामं किमपि ललितं निर्मलं निष्कलङ्कं त्रैलोक्यस्य प्रमदजननं विस्मयोत्पादनं च।। स्वेच्छावृत्तं त्रिभुवनजुषां दर्शयित्वा समन्तादन्तर्धानं सपदि विदधे लोकपालैः सदेवैः // 47 // दत्तं दानं द्युतिरुपहिता वारितं विघ्नवृन्दं शीलं चापि स्फुटमिह कृतं भीमभूपालपुत्र्या। तैरागत्य त्रिदशतिलकैःक्ष्मातलं नागलोकादाकल्पान्तं जगति सकले नैषधः स्थापितश्च // 48 // IIIIIIIIIIIIIIIIM
Page #154
--------------------------------------------------------------------------
________________ तृतीय स्कन्धे सर्गः८ मिलितमिह महीपतिं वजन्तं निजपुरगोपुरवासिनं विनीतः। सकलमपि निमत्रितं वितेने सपदि विदर्भपतिर्विवाहसज्जः // 49 // इति श्रीमाणिक्यदेवमूरिकृते नलायने तृतीये स्वयम्वरस्कन्धे अष्टमः सर्गः // 8 // विवाहारम्भः // // 67 // तृतीये स्वयम्बरस्कन्धे नवमः सर्गः / CHI II III-III IIFIIIgle प्रविश्य च प्रमोदेन जवादन्तःपुरं नृपः / सुतामातरमित्यूचे तातः स दमनस्वसुः // 1 // अयि ! प्रतीच्छ तं वीरं प्रिये ! जामातरं नलम् / यस्यानुकारकर्त्तव्ये देवानामपि कौतुकम् // 2 // नूनं नलेन जामात्रा लोकोत्तरगुणेन नः / कथकैशिकवंशोऽयमाकल्पान्तं विभूषितः // 3 // किमन्यत् तत्र तादृशं त्रिलोकीनाथमेलके / तनया यदि जानाति विवेक्तुं वरमीदृशम् // 4 // प्राप्तकालक्रमं सम्यक् शीघ्रं सपरिवारया / तत् कल्याणि ! क्रियाः सर्वा वितन्यन्तामनन्तराः // 5 // इत्युक्त्वा पुनरास्थाय खयमास्थानमण्डपम् / दिदेश सादरं सर्वान् कृत्येषु कुलपुत्रकान् // 6 // आकीर्णमभवत् सर्व मङ्गल्यैः संविधानकैः / व्यग्रत्वमनिशं भेजे समग्रो नगरीजन: विधाय विधिवत् तस्या विवाहस्नानमङ्गलम् / प्रसाधिकाभिरारेमे विभूषणमहोत्सवः // 8 // EHI AIIIIIIIIISele // 67 //
Page #155
--------------------------------------------------------------------------
________________ WIII IIIAFISHITATII NilIsile लोलैरुललकल्लोलैर्वाचालितदिगन्तरः / समुद्र इव दध्वान मण्डपः स्वजनाकुलः तदा प्रमोदनृत्यं च प्रीतिदानं च निर्भरम् / विरेजे वचनातीतं भीमभूपालसंसदि // 1.0 / / आमन्त्रयितुमायातस्त्वरितो भीमबन्धुभिः / सोत्कण्ठं क्रौञ्चकर्णारिः प्रतस्थे रथकोटिभिः // 11 / / तमनुव्रजतां राज्ञां रत्नकोटीरकोटिभिः / उपरिष्ठाद् ययौ वर्षन् सपक्ष इव रोहणः // 12 / / वेणुवीणादिभिर्वाद्यैर्वाद्यमानैरनेकशः / नासीरसीम्नि तस्यासीत् स्वरग्राममयं नमः सौभाग्यशशिमुत्तुङ्गं मूर्तिमन्तमिवोत्थितम् / तं विलोक्य तदा लोका ममज्जुः प्रेमवारिधौ / / 14 // त्रुट्यत्हारं क्षरत्पुष्पं सर्वतस्तद्दिदृक्षया / अधावन् शीघ्रमारोढुं गवाक्षान् प्रति योषितः // 15 / / तासां दृग्मुखदन्तौष्ठर्गवाक्षास्तत्क्षणं बभुः / अम्भोजशशिमाणिक्यप्रवालखचिता इव // 16 / / विधाय तन्मुखश्रद्धा लीलाकमलचुम्बिनी / प्राप कापि रसोद्रेक भ्रमरव्रणिताधरा // 17 // निर्भरं -गात नरिमन समकालं मृगीदृशाम् / कटाक्षा रिपोम्य: पाणिभ्यो लाजवृष्टयः // 18 // अहो ! जयति वैदर्भी सत्यमद्य शचीमपि / यतोन स्वीकृतो भैम्या संप्राप्तोऽपि हि तत्पतिः // 19 / / इति कुण्डिननारीणां स्वयमाकर्णयन् गिरः / प्राप सर्वश्रुतग्राही म गृहान् भीमभृभुजः // 20 / / समुल्लद्ध्य प्रतोली च सप्तद्वारान्तराणि च / प्रसन्नः प्रविवेशान्तः प्रतीहारपुरस्सरः // 21 // मधुपर्क त्रिराचम्य श्वसुरेंणोपकल्पितम् / प्रतिजग्राह तत्रार्थं दुकूलाभरणानि च / / 22 / / BIHARII IIIIII NIFIISISING
Page #156
--------------------------------------------------------------------------
________________ तृतीयस्कन्धे सर्गः 9 लग्नमहोत्सवे. मधुपर्कादि ग्रहणम् / // 68 // IIIIII-IIIIIIIle पुरोधाः सौषधीकल्पौ दम्पत्योः कोमलौ करौ / तयोः साङ्गुष्ठसन्देशौ दर्भबद्धावयोजयत् // 23 // रुरुचाते विचित्रं तौ मिश्रहस्तौ वधूवरौ / संसक्तपल्लवी गाढं फलिनी बकुलाविव // 24 // अथ रतिललितानि व्यक्तलीलोज्वलानि प्रणयभरगुरूणि बीडया व्याकुलानि / स्वजनसदसि तारामेलके कार्यमाणे बहुनलदमयन्त्योश्चिक्लिशुलोचनानि // 25 // समदनफलहस्तौ बद्धवस्त्राञ्चलौ तौ हुतवहमभिरामं चक्रतुस्लिः परीतम् तदनु सपदि कन्यायोजकस्तत्र वह्नौ द्विजवरगुरुवाचा लाजमोक्षं चकार // 26 // अयुतमिभपतीनामर्बुद वाडवानां प्रयुतमनुपमानां चारुवाराङ्गनानाम् / अगणितमपि कुप्याकुप्यशस्त्रासनादि व्यतरदथ स भीमः पाणिमुक्तौ नलाय // 27 // भूयश्चतुर्थदिवसे चरुपाकमेकं भुक्त्वैकभाजनगतं च मिथः प्रदत्तम् / तौ सार्वलौकिकमथो चतुरस्रवेद्यामार्द्राक्षतव्रजनिवेशनमन्वभृताम् // 28 // नानाविधानि सरसानि कुतूहलानि तूर्यत्रयव्यतिकराबहवश्च ते ते / तत् तच्च सर्वमपि मङ्गलसंविधानं तत्राभवद् विभवशीलकुलानुरूपम् // 29 // भीमः स्वयम्बरसमागतपार्थिवानां पूजां तदा सुमहतीं विदधे विधिज्ञः / कन्यार्पणप्रणयतोऽपि यथाऽर्जितं तैः सन्मानपूर्णहृदयैः सविशेषसौख्यम् // 30 // III-III-II-HIMISSIE // 68 //
Page #157
--------------------------------------------------------------------------
________________ AIIMISSIII-III IIFIEI Isle तथा नलमहीभुजा भुजविनिर्जितद्वेषिणा वितीर्णमखिलावनीवलयकल्पवृक्षेण च / बभूव सहसा यथा कनकभूषणानां भरैः परिश्रमपरम्परा वपुषि याचकानामपि // 31 // भैमीसख्यो निजदुहितरः प्रीतियोगं विदद्भिः पृथ्वीपालैललितरचनादक्षिणैर्दाक्षिणात्यैः। श्रेष्ठैः साकं नलसहचरैः पार्थिवैः शुद्धवंशैः सम्यक्पाणिग्रहणविधिना योजिताः शीलवत्यः // 32 / / स्थित्वा मासं प्रियपरिचयैरुत्सवादुत्सवेन स्वीयं देशं प्रति जिगमिषौ नैषधे राजचन्द्रे / पत्युर्गेहं प्रियदुहितरं प्रेष्यमाणां सवाष्पां प्रत्याह स्म प्रणतशिरसं साश्रुट्टा भीमभूपः // 33 // जानासि सर्वमपि संवृणु पुत्रि ! बाष्पं किं शिक्ष्यसे क इव नो वचनावकाशः / ब्रूमस्तथापि किमपि व्यवहारसारं चन्द्रस्य चन्दनविलेपनमाचरामः // 34 // निश्छद्यता गृहपतौ गुरुषु प्रणामः स्नेहः कुले परिजने च महन्महत्त्वम् / सापत्न्यकेऽपि मृदुता प्रतिषः प्रियारौ निर्मोक्तयः प्रियसखे ! च कुलाङ्गनानाम् गृहिणि वदति नम्रा पादयोर्दत्तदृष्टिः स्वयमुपचरति द्राक् दत्तशिष्टासना च / प्रथममपि न शेते तस्य जागर्ति पूर्व सुमुखि ! कुलवधूनामेष सिद्धान्तधर्मः इत्यूचिवान् विनयिनीमनुगृह्य पुत्री जामातरं स्वयमनुव्रजति स्म धीरः। तिस्रः प्रयाणवसतीः सह संनिविश्य प्रत्याजगाम च नलानुमतः स्वदेशम् // 37 // जा ISIT IIIFISHI IN HIFIEle
Page #158
--------------------------------------------------------------------------
________________ हतीय स्कन्धे सर्गः९ // 69 // BIBIla-III TElla THII AIII WIIIT ISe उल्लङ्ख्य वर्त्म विपुलं च नलः प्रयाणैरानन्दसौहृदसमृद्धसमग्रसैन्यः / स प्राप सन्मुखसमागतपौरलोकामुत्तुङ्गतोरणगणाऽऽकुलराजधानीम् // 38 // दैवज्ञवृन्दकथिते विपुले मुहूर्ते कृत्वोत्सवेन महता स पुरप्रवेशम् / निःशेषलोककृतमङ्गलसंविधानः सन्मानदानविधिभिः स्वजनं पुपोष // 39 // एतत् किमप्यनवमं नवमङ्गलाई श्रीमद्यशोधरचरित्रकृता कृतं यत् / तस्यार्यकर्णनलिनस्य नलायनस्य स्कन्धो जगाम रसवीचिमयस्तृतीयः // 40 // इति श्रीमाणिक्यदेवसूरिकृते नलायने तृतीये स्वयम्वरस्कन्धे नवमः सर्गः // 9 // समाप्तस्तृतीयः स्कन्धः / नलस्य लग्नान्तरं . स्वदेशगमनं भीमभूपतेश्व दमयन्त्या उपदेशः॥
Page #159
--------------------------------------------------------------------------
________________ चतुर्थे स्कन्धे। // 2 // III RISIAFIATII-III NIFII ISIle // 4 // प्रथमः सर्गः। वैदर्भीनलसंबद्धैः कथालापैः परस्परम् / न लध्यमानमध्वानं जानन्ति स्म महाभुजाः इति तैव्योंम्नि गच्छद्भिः पुरः सन्मुखमापतन् / स्वर्गगङ्गातटं प्राप्तैर्जनौघः कश्चिदैक्ष्यत तेषु केपि खरारूढाः केचिद् महिषवाहनाः / उत्कूदनपराः केचित् केचित् स्खलितचारिणः नृत्यन्तश्च हसन्तश्च रुदन्तश्च निरर्थकम् / विडम्बयन्तः स्वमपि पश्यन्तस्तृणवद् जगत् सप्तव्यसनिनः सर्वे पञ्चपातकिनोऽखिलाः। तनाश्चैव सकलाः समस्ता आततायिन: अश्रूयन्त च कस्यापि तत्र वाक्यानि बन्दिनः। अधिकृत्य जगल्लोकं शिक्षापूर्व प्रजल्पतः रे रे ! त्यजत दुर्योधं कुरुध्वं कामशासनम् / अनित्यस्य शरीरस्य फलं नयत बालिशाः! नास्त्येव पुनरावृत्तिः प्राणिनां मृत्युतः परम् / पयोनिधौ निमग्नानां ग्राव्णामुन्मजनं कुतः केयं वर्णक्रमव्यक्तिः स्वजातीयेषु जन्तुषु ? / सर्वसाधारण तावद् भास्करः कुरुते महः इह पापं च पुण्यं च मनसो विभ्रमावुभौ / शङ्का विषसमा नित्यं न हि धीरं विलुम्पति स्वाध्यायध्यानकृच्छाणि भिक्षाभ्रमणमेव च / प्रायः पौरुषहीनानां जीवनोपायकौशलम् 'IIIAIIIIIIIIIIIIIIISIlle // 8 // // 10 // // 11 //
Page #160
--------------------------------------------------------------------------
________________ चतुर्थे II IIEI स्कन्धे सर्गः१ // 70 // इति प्रलपतस्तस्य शक्रभ्रूभङ्गनोदितः / नैगमेपी सुरश्रेष्ठः साक्षेपमिदमब्रवीत् // 12 // अरेरे ! कोऽयमत्यन्तं धर्मकर्माणि कृन्तति ? / सुधर्माधिपतौ विश्वं पाति धर्मधुरन्धरे // 13 // तिष्ठ तिष्ठ दुराचार ! क चिरं जीव्यतेऽधुना ? / आतालुमूलतो जिह्वामयमुन्मूलयामि ते // 14 // कृत्याकृत्यविवेकश्चेद् न कश्चिदिह वर्तते / तेजसस्तमसश्चापि तुल्यत्वं तत कथं न हि ? // 15 // प्रत्यक्ष एवं विश्वेऽस्मिन् प्रपञ्चः पापपुण्ययोः / यद् विभिन्न जगत् सर्व सुखदुःखव्यवस्थया // 16 // एके कुर्वन्ति साम्राज्यं परे दधति दासताम् / स भवान्तरबद्धानां विपाकः कर्मणामिह // 17 // न दृश्यते हि भगवान् आत्मा सर्वत्र सङ्कमन् / सञ्चरन् पुष्पजातिभ्यो गन्धः पात्रान्तरेष्वपि // 18 // समानेऽपि हि वृक्षत्वे भेदश्चेदाम्रनिम्बयोः / तथा तुल्येऽपि मर्यत्वे वर्णानामन्तरं महत् // 19 // अधुनैव भवेत् सर्वमेकार्णवमयं जगत् / मर्यादासेतुबन्धोऽयं श्लथीभवति चेद् मनाक // 20 // तज्जगत्प्रलयं नेतुं स्थितिभङ्गं चिकीर्षताम् / वधः शीघ्रं विधातव्यो नास्तिकानां दुरात्मनाम् // 21 // अयं हि विभ्रमान्धानां चार्वाकमतवर्तिनाम् / उत्पथस्खलितं हन्ति राजदण्डो महाबलः // 22 // तदेष प्राप्यसे प्रान्तं दुरात्मन्नित्युदीर्य सः। आददे त्रिदशः शक्तिं किङ्किणीजालमालिनीम् // 23 // तां विलोक्य तडिद्भासं दिव्यशक्तिं भयातुरः। पपात स लुठन् बन्दी पुरस्तात् शक्रपादयोः // 24 // रक्ष रक्ष जगन्नाथ ! व्यक्तं वैतालिकोऽस्म्यहम् / युक्ता कृतापराधेऽपि कृपेव कृपणे सताम् // 25 // FII-III-IIIEI चावार्कश्रीमतवर्तिनां केषांश्चित् | मनुजानां शक्रप्रेरितस्य नैगमेषिण उपदेशः॥ IAHINI ATHI II IITrle // 70 // जाह
Page #161
--------------------------------------------------------------------------
________________ // 26 // // 27 // // 28 // युक्तायुक्तं न जानन्ति स्वभावेनैव सेवकाः / परमार्थः परं तेषां प्रभुचित्तानुवर्तनम् अवादिषमिदं सर्व तदहं कलिगुद्यकः / इत्युक्त्वा दर्शयामास कलिमाया तमग्रतः अद्रष्टव्यमुखं मत्वा ततस्तं त्रिदिवौकसः / दक्षिणेन सुवर्णादिं गन्तुमारेभिरे दिवि मार्गान्तरेण व्रजतः समग्रान् विज्ञाय देवान् प्रणयीव गाढम् / प्रतीक्षता वासव ! वासवेति जल्पन् स तिर्यग्वलितुं दधावे इतिश्रीमाणिक्यदेवसूरिकृते नलायने चतुर्थे स्कन्धे प्रथमः सर्गः // 1 // // 29 // III RISHI AISHITA NHIHI WIFII III चतुर्थे स्कन्धे द्वितीयः सर्गः। IIIIIII-IIIEITE मत्तमातङ्गरूपं तं कृष्णं किल्विषिकाधिपम् / कलिं विलोकयन्तोऽपि न देवाः पूर्वमब्रुवन् पश्यन्नपि पुरः सर्वान् सुरूपान् सुरसत्तमान् / आत्मानं न कलिमेंने मनागपि स दुर्भगम् उपेत्य निकटं तेषामदत्त प्रणयोऽपि सः / सौजन्यवानिव स्वैरं जगाद मुदितो भृशम् दिष्ट्या विजयतां वज्री कृशानो! कुशलं तव / वैवस्वत ! विशल्योऽसि वरुण ! प्रणयीभवन् ! यत् सत्यमभवद् भाव्यं भवन्तो मिलिताः पथि / शकुनं शकुनेभ्योऽपि दर्शनं सुहृदां यतः // 4 //
Page #162
--------------------------------------------------------------------------
________________ चतुर्थे स्कन्धे सर्गः२ // 71 // III RISHI ASIA II ATFI II MEING वय तावद् ब्रजन्तः स्मः श्रीकुण्डिनपुरं प्रति / स्वयम्बरसभामध्ये. वरीतुं भीमसंभवाम् तिष्ठन्ति मिलितास्तत्र बहवोऽपि महीभुजः / अस्मासु नु प्रपन्नेषु कथं मयं वृणीत सा? तद् ब्रूत मम वृत्तान्तमात्मीयं सुरसत्तमाः ! / कुतः संप्रति युष्माभिरिदमागम्यते पुनः ? ततस्तं वासवः प्राह हन्त ? युक्तं कृतं त्वया / मिलितोऽसि यदस्माकं वरणोत्कण्ठितोऽपि सन् // 9 // तद् विमुश्च वृथारम्भ माभूत् तव परिश्रमः व्यावर्तस्व सहास्माभिः स्वावासं प्रति संप्रति व्यतीतः स हि वृत्तान्तस्त्रिजगजनरञ्जनः / तत एव वयं प्राप्ताः सांप्रतं प्रीतचेतसः // 11 // सत्स्वमर्येषु मर्येषु पन्नगेषु नगेषु च / निषधाधिपतिः श्रीमान् दमयन्त्या वृतो नलः // 12 // मुक्त्वा यक्षान् सवैलक्ष्यान् नागान् रागातुरांस्तथा। देवान् सेवापरान हित्वा सा मेने निमलं नलम् // 13 // तत् क्व यास्यसि तत्र त्वं तां गृहीत्वा गते नले / महोत्सवमपि द्रष्टुं न प्राप्तिरभक्त तव // 14 // मूलादपि च नाभूत् ते गन्तुं युक्तं स्वयम्वरे / नैष्ठिकब्रह्मचारीति यत् त्वां गायन्ति योगिनः इति वासववाक्यानामभिप्रायप्रियं ततः / ववर्ष वाक्शरासारं भारती तारतम्यतः अहो ! बत प्रसुप्तस्य व्यतीतं ग्रहणं तव / वीक्षितुं हि विभाते त्वं प्रमार्जयसि चक्षुपी // 17 // अभवद् भवतैकेन नूनमूनः स्वयम्बरः / स सर्वगुणपूर्णोऽपि कलङ्केनेव चन्द्रमाः / // 18 // अमुना खलु रूपेण वेषेण विभवेन च / आस्तां भीमोद्भवा साक्षादन्यापि त्वां वृणीत यत् // 19 // II II II II ARIES स्वयम्वरार्थ गच्छतः . -कलेवानां मीलनं वासवस्य व्यावर्त्त नाय प्रेरणा // // 71 //
Page #163
--------------------------------------------------------------------------
________________ HIATRII NIIIGISTE धिग् भवन्तमनात्मज्ञमकालज्ञमसंयतम् / दुर्भगं सुभगंमन्यमधन्यं धन्यमानिनम् // 20 // न लजसेऽपि वैदर्भी प्राप्स्यामीति ब्रुवन्नपि / प्रवेष्टुमपि यद् दृष्टौ न लब्धस्त्वादृशः खलः . // 21 // साभिलाषां तमेवैकं परमं पुरुषं प्रति / त्वमन्त्यज इवानोषि ब्रह्मोपनिषदं क ताम् ? // 22 // अतः परं परस्त्रीं तां चित्ते चेच्चिन्तयिष्यसि / ततो मुहूर्त्तमात्रेण भस्मसात् त्वं भविष्यसि // 23 // ज्ञातोऽसि ब्रह्मचारी त्वं मास्म कालमुखं गमः / इतोऽपसर दुर्बुद्धे ! गन्तुं देहि दिवौकसाम् // 24 // इति शक्राशयं ज्ञात्वा सरस्वत्या स तर्जितः / वृक्षात् कपिरिव भ्रष्टः स्तिमितः स्थितवान् क्षणम् / / 25 // अनुभूय सुभूयोऽपि व्यथां वृश्चिकदष्टवत् / विहाय वाग्मिनी ब्राह्मी दिक्पालानवदत् कलिः // 26 // हुं वृता दमयन्ती सा हुं ततो यूयमागताः / कथं दृष्टं न युष्माभिरनार्य कार्यमीदृशम् ? // 27 // धिग् युष्मान् विमुखान् मूर्खान् पर्वहीनान सुपर्वणः / तिष्ठत्सु येषु युष्मासु मानव्या मानवो वृतः॥ 28 // निपात्य नृपतीन् सर्वान् अपहृत्य च मानवीम् / स्वर्गमागच्छतो युष्मान् प्रतिषेद्धं क ईश्वरः? // 29 // अद्य स्वर्गस्य युष्माभिर्महिमा सकलो हृतः / अमर्त्या अपि ते यूयं मर्त्यहीना हि संप्रति // 30 // मह्यं ददत यूयं च ब्रह्मचर्यस्य देशनाम् / कान्तानितम्बलुब्धाश्च स्वयं याताः स्वयम्बरम् // 31 // अहो ! कथकवल्लोकः परस्मै धर्मदेशकः / स्वयं च कुरुते तत् तद् यद् यस्मै च प्ररोचते // 32 // तत् किं न वदत व्यक्तं यद् वयं विफलश्रमाः / ततः स्वयम्बरात् सर्वे तृणीभूय समागताः // 33 / / RIASIAHI4I4IIEISISle BIII RISHII AIT
Page #164
--------------------------------------------------------------------------
________________ IIile चतुर्थे II स्कन्धे सर्गः 2 // 72 // तदद्यापि मया सार्दू व्यावर्तध्वं भुवं प्रति / अपहृत्य समेष्यामो नलं हित्वा विदर्भजाम् // 34 // इति तद्वचनं श्रुत्वा देवाश्चकितचेतसः / कर्णी पिधाय मा मेति शान्तं शान्तमवीवदन // 35 // आः पाप ! भवतो वाक्यैः प्रविष्टैः कर्णकोटरे / सान्द्ररिव मपीपकैरन्तरात्मापि लिप्यते आत्मवद् मन्यसे दुष्ट ! देवानपि हि विप्लुतान् / परमार्थ न जानासि मूढ ! गूढतरं पुनः // 37 // न दृष्टस्ते नलो राजा सा च देवी नलप्रियाअप्रत्यक्षं तयोरेतद् वृथा ते गलगर्जितम् // 38 // तस्यास्तस्य च राजर्षेः सतीत्वं शान्ततां च ताम् / वक्तुं यदि हि जानाति स्वयं देवी सरस्वती // 39 // इति साक्षीकृता देवैर्दिक्पालैर्वासवादिभिः / स्वयम्वरप्रतीहारी व्याजहार कलिं प्रति // 40 // कले ! कलय चैतन्यं कालुष्यं त्यज दुर्मते ! / मा विडम्बय गीर्वाणान् माधिक्षिप च नैषधम् // 41 // तत्र तावत् सभाशोभा नलाय च विदर्भजाम् / उभयोश्च वरं दातुं ययुर्देवाः स्वयम्बरे // 42 // तस्मिन् सतीमये वह्नौ न लक्षित्वा नलोल्वणे / प्रसभं शलभायन्ते भ्रान्तिमन्तो भवादृशः // 43 / / मधुदिग्धाऽधिगन्तव्या खड्गधारा विदर्भजा / तामिच्छद्भिदुराचारैर्दूरमूवं विदीर्यते // 44 // नहि तस्य च राजर्षेः पुण्यश्लोकस्य धीमतः / नलस्य सदृशः कोऽपि धैर्यवीर्यादिभिर्गुणैः // 45 // इत्यारब्धं सरस्वत्या श्रुत्वा स नलवर्णनम् / सहसा कुपितः प्रोचे कलिः कलकलाकुलः . // 46 // मुश्च मुञ्च कथां तस्य वाचालासि सरस्वति ! | अहो ! वहन्ति मर्त्यस्य देवा वैतालिकवतम् // 47 // दमयन्तीमपहरणार्थ कलिर्देवान् | प्रेरयति देवाश्च तं तीरस्कुर्वन्ति // DHI RIFIESIGATHI AII 72 //
Page #165
--------------------------------------------------------------------------
________________ OFICISSIA IIIIII BIFII ISIS कथं वर्णयितुं योग्यो युष्माकं स नराधमः / रत्नचौरः सभावरी त्वर्थहानिकरो नलः // 48 // तदद्य रिपुकल्पाग्नौ क्रुद्धे सति कलौ मयि / ज्ञास्यते खलु पापात्मा स स्थास्यति सुखं यदि . // 49 // अद्यप्रभृति मे वैरं नलेन सह निश्चलम् / नित्यं जगन्ति गायन्तु कृत्वा पटहघोषणम् // 50 // अपि तं दश दिक्पालाः पितरो लिङ्गिनोऽथवा / सतीत्वं दमयन्त्या वा यः कश्चिदपि रक्षतु // 51 // यदि तं हृतसर्वस्वं राज्यभ्रष्टं क्षुधातुरम् / विद्वेष्यं सर्वलोकानां कातरं धैर्यवर्जितम् // 52 // दुबेहेति परिज्ञाय स्वयं त्यक्त्वा निजप्रियाम् / वनं वनेन सीदन्तं रुदन्तं भ्रमयामि न // 53 // तदा मम न दातव्यं सभायां पुनरासनम् / न च भूयोऽपि कर्त्तव्या लोकयात्रा मया सह // 54 // त्रिभिर्विशेषकम् / इत्थमुक्तवतस्तस्य कोपारुणितचक्षुषः। प्रशमं सामभिर्वाक्यैः कर्तुमारभिरे सुराः // 55 // त्यज त्यज कले! कोपं प्रसन्न हृदयं कुरु / विषमं ब्रजसि स्वैरं कथमुन्मार्गमन्धवत् ? // 56 // गदि तत्र वर्ग प्राप्ताः स्त्रयम्बरमहोत्सवे / अस्मिन्निमिन एवायं तत्कोधस्तव किं नले? // 57 // इह स्त्री वा मनुष्यो वा धनवान् निर्धनोऽथवा / युवा वा जरठो वाऽस्तु सर्वस्याचरणं महत् // 58 // आचारवांश्च सर्वोऽपि देवानामपि दैवतम् / यस्तत्परिचयं कुर्यात् स परं पुण्यवान् जनः // 59 // कर्पूरेऽपि हि कालुष्यं चण्डत्वं चन्द्रमस्यपि / सत्संसर्गेऽपि शाठ्यं च विचिन्तयति दुर्जनः // 6 // यस्य सज्जनयात्राऽस्ति गुणरागश्च निश्चलः / स विभुः स सुखी लोके परः पामर एव हि // 61 // IIAHIATI AISHINI AISITE
Page #166
--------------------------------------------------------------------------
________________ चतुर्थे स्कन्धे सर्गः२ | दिवौकसा कलये . उपदेशः | कलेश्च प्रतिज्ञा / / ISISI-II II III श्लाध्यते खलु सर्वत्र सर्वोऽपि गुणवान् जनः / तथाहि गुणसंपन्न सूत्रं शिरसि धार्यते // 62 // दमयन्त्या महासत्या नलस्य च महात्मनः / वर्ण्य माने गुणग्रामे किमयं मत्सरस्तव ? धर्मज्ञेन कृतज्ञेन निवरेण महात्मना / का वैरसेनिना सार्दू नव बैरायितुं रतिः ? अत्यगाधमपारं च नलमुच्छेत्तुमिच्छता / आरब्धं टिट्टिभेनेव त्वया जलधिशोषणम् परिश्रमफलं मोघं परिहासकर नृणाम् / तद् विमुञ्च कले ! सद्यो नलेन सह मत्सरम् // 66 // इति प्रसन्नगम्भीरैर्वचोभिस्त्रिदिवौकसाम् / जज्ज्वाल स भृशं भूयः कलिः कलहसागरः सम्बिधाय करास्फोटं पश्यन्नंसौ मुहुर्मुहुः। उच्चैरुवाच वाचं च भ्रकुटिभीपणः कलिः // 68 // मूखों वा चतुरोऽस्मि वा दिविषदां किं मेऽनया चिन्तया नो निर्वास्य नलं पुनः क्षितितलात् स्वर्ग विशामि ध्रुवम् / अत्रार्थे हत एप बामचरणो मुक्ता मयेयं शिखा सर्वे बध्यत यूयमेव भवतां साक्ष्ये प्रतिज्ञा मम // 69 // इमां समाकर्ण्य कलिप्रतिज्ञामनर्थशङ्का हृदये दधानः / प्रत्युत्तरं न म ददाति तस्मै भूयस्ततः किञ्चन नाकिलोकः हन्त ! कुप्यति हितैरुपदेशेर्दुर्जनः किमपि चित्रममुत्र ? / जायते हि सविपः सविशेष क्षीरभोजनवशेन भुजङ्गः // 71 // सर्पिपा यदि हि नाम कृशानुः प्रायशः प्रशममेष्यति सिक्तः। BIE5IS ISSIF |FIELHI-IIIIIII // 73 //
Page #167
--------------------------------------------------------------------------
________________ // 72 // // 73 // तत्खलोऽपि कलयिष्यति शान्ति सामवाग्भिरभिरामतराभिः ध्रुवमधिकतरः स्यात् सामवाक्येर्नवीनज्वर इव जलसेकरस्य मूर्खस्य मन्युः। / परिहरत तदेनं दूरतो दुर्विनीतं द्रुततरमिति मत्वा निर्ययौ देवसार्थः तादृक् तदीयगुणवर्णनमूलमन्त्रैरुद्दीपितः परुषरोपकषायिताक्षः / भैमीकरग्रहणवैरमिव स्मरद्भिः कृत्या कृतः किल नले कलिरेव देवैः पुरः सुराणां विहितप्रतिज्ञो नलस्य निष्कारणशत्रुभूतः / चचाल कालानलकल्पकोपः कलिमहीमण्डलमायियासुः इति श्रीमाणिक्यदेवसूरिकृते नलायने चतुर्थस्कन्धे द्वितीयः सर्गः // 2 // // 74 // // 75 // IIIIIIII-IIIFIE ISIIIFIC ISISIFIC ISHIFISIIFIEFII-III ISle चतुर्थे स्कन्धे तृतीयः सर्गः / अथ त्रिदशवीराणां प्राप्तानाममरावतीम् / आसन् कलिनलद्वेषपरिणामाश्रयाः कथाः अहो ! साधु बभूवेदं वैदा यद् वृतो नलः / कष्टं तु यत् कलिः पापी नलमुच्छेत्तुमिच्छति // 2 //
Page #168
--------------------------------------------------------------------------
________________ चतुर्थे सैन्येन सह कलेराग-. मनम् // सर्गः३ // 74 // ISISFI III-III-III ISK यदि स्वयम्बरे भैमी कान्तं कृतवती नलम् / किमत्रारक्षकः सोऽनमस्थापितमहत्तरः ? // 3 // अस्य पश्यत दौर्जन्यं कलेनिरवैरिणः / अहो! दित्सति दुष्टोऽयमेकहस्तेन तालिकाम् // 4 // अब्धेरौवोऽनिलोऽब्जानां राहुर्भानां सतां खलः / चतुर्णामत्र चत्वारो वैरिणः कारणं विना पश्यन्ति पर्वते वहिं नात्मीयपदयोः पुरः / स्वनाशमपि वाञ्छन्ति परनाशेच्छुकाः खलाः हीनेन हि समर्थोऽपि च्छिद्रलीनेन जीयते / कर्णमध्यप्रविष्टेन मशकेनेव कुञ्जर: तद् यतध्वं नलस्यास्मिन् प्राप्ते कलिपराभवे / सौमनस्यं सुमनसः सर्वे कुर्वन्तु संप्रति अस्ति पातालवास्तव्यो नागः कर्कोटकाभिधः / पितृव्यो नलभूभर्तुर्वीरसेनस्य बान्धवः // 9 // स च रक्षतु पुण्यात्मा पूर्वस्नेहेन पन्नगः / बुद्धिभ्रंशमये काले नलं कलिसमाकुलम् // 10 // इतश्च कलिरप्याशु संप्राप्य पृथिवीतलम् / आर्यलोकसमाकीर्णमार्यावर्त्त विलोकयन् // 11 // सर्वधर्ममयं देश तं दृष्ट्वा बद्धसाध्वसाः / न पुरः पदमप्येकं चिक्षिपुः कलिसैनिकाः // 12 // ततस्तानात्मनो भृत्यान् पश्यन् चकितचेतसः। अवोचत् स कलिर्वाचं सहसा साहसी हसन् // 13 // एवमेव मदान्धानां भृशमुत्तानपातिनाम् / आपातमात्रसाध्यो हि नामाकं निषधेश्वरः // 14 // ततः संप्रति सर्वेऽपि यात यूयं यथागतम् / अहमेव गमिष्यामि विग्रहाय कृताग्रहः . // 15 // स्थास्यामि चिरकालं च निभृतं यत्र कुत्रचित् / तृतीयोपायसाध्यस्य नैषधस्य जिघांसया // 16 // // 74 //
Page #169
--------------------------------------------------------------------------
________________ BIBHITFINIII-II II RISHISISEle आसाद्य विवरं तस्य प्रविश्य बलवत्तया / सवेग दर्शयिष्यामि स्वस्वभावमरुन्तुदम् // 17 // वैदर्भीनलयोर्मध्यात् परस्परवियुक्तयोः। अहं हत्वा कमप्येकं सङ्गमिष्यामि वः पुनः // 18 // इति तानात्मनो भृत्यान् कान्दिशीकान् विसृज्य सः / एक एव स्वयं शीघ्रं प्रपेदे नैषधी पुरीम् // 19 // तत्र प्रविश्य पश्यन् स विश्रामस्थानमात्मनः। त्रिकचत्वररथ्यासु चचार चरटश्चिरम् // 20 // नाससाद क्वचित् किश्चित् कलिः परिचितं निजम् / नले स युगपद् दुःखी युगशेषः सुखासिके // 21 // निपपात पतद्दन्तो भग्नजानुमेहीतले / उल्लङ्घयन् सुमेध्यानि सुरस्नात्रोदकानि सः // 22 // सिद्धान्ताध्ययनध्वानः शिष्याणां वाचनासु सः / उवाह सव्यथौ कणौँ तप्तत्रपुभृताविव // 23 // तुतोष कृतशृङ्गारा वारनारीर्विलोकयन् / रुरोष पुनरालोक्य नृत्यन्तीः सुरवेश्मसु // 24 // इत्थमाकुलितो मध्ये निःसृत्य नगराद् बहिः / मनोऽभिराममारामं विश्रामाय जगाम सः // 25 // तत्र द्रुमसमूहानां चैत्यपूजोपयोगिनाम् / छाया तमदहत् काम कामातमिव कौमुदी // 26 // उपरि सकलभूभृन्मण्डलस्य स्थितेन स्वजनकमलखण्डश्रीसमुल्लासकेन / नलदिनकरनाम्ना निर्मले तत्र देशे तमस इव न कोऽपि क्वापि तस्याश्रयोऽभूत् // 27 // अथ कथमपि खेदच्छेदवाञ्च्छां दधानः कलिरलसशरीरः स्वैरसञ्चारमुक्तः। प्रचलदलसमूहैर्दत्तसङ्केतमात्रं प्रणयिनमिव दूरादक्षवृक्षं ददर्श // 28 //
Page #170
--------------------------------------------------------------------------
________________ नलराज्ये नृत्यन् ततो विततबाहुरुपेत्य वेगादालिङ्ग्य तं विटपिनं विटचक्रवर्ती / क्रोशार्द्धतुङ्गवपुषः सुखसङ्क्रमस्य तस्यारुरोह शिखरं स खरस्वभावः इति श्रीमाणिक्यदेवसूरिकृते नलायने चतुर्थस्कन्धे तृतीयः सर्गः // 3 // स्कन्धे सर्गः 4 // 29 // कले स्थिरता॥ // 75 // चतुर्थे स्कन्धे चतुर्थः सर्गः। DIHINDISIT ISII VISI IIF THEIR THEI II AIII II ISIS स वायस इवारूढो दुष्टबुद्धिर्बिभीतके / एकदृग् नलसाम्राज्यं पश्यति स्म दिवानिशम् पष्टिवर्षसहस्राणि तेन तत्रैव तस्थुषा / न स्वल्पमपि संप्राप्तं विवरं तस्य भूभुजः // 2 // स हि शीलकुलोपेतः पुण्यश्लोकः प्रजापतिः / शासिता दुर्विनीतानां गोप्ता विनयवर्तिनाम् दक्षः स्वपरदोषज्ञो गुणवान् गुणवत्सलः / भयङ्करश्च सौम्यश्च धीरोऽपि ललितोऽपि च // 4 // नित्यं धर्मार्थकामेषु तुल्यभावेन संस्थितः / इह लोकफलं भुङ्क्ते परलोकाद् बिभेति च // 5 // त्रिभिर्विशेषकम् / वशीकृतारिषड्वर्ग चातुर्विद्यविशारदम् / शक्तित्रितयसंपन्नमुदयत्रयभूषितम् नित्यमभ्यचिंता देवा गुरवो नित्यपूजिताः / नित्यसंपन्मयं राष्ट्रं तस्य नित्योत्सवं मनः / // 7 // वर्णाश्रमेषु सर्वेषु पौरजानपदेषु च / न कश्चिदभवत् तस्य स्थितिभङ्गं करोति यः माहि शीलकुलोतःगुणवान् गुणवत्सलतः / इह लोकाफलं // 75 //
Page #171
--------------------------------------------------------------------------
________________ // 9 // // 10 // // 11 // // 12 // // 13 // // 14 // रथाश्वगजसङ्कीर्ण भूपालकुलसङ्कलम् / दृश्यते तत्सभाद्वारं छत्रच्छन्नं नभस्तलम् निर्विकारं निरायासं निःसपत्नं निरामयम् / स निरीति निरातङ्कं राजा राज्यं विनिर्ममे विशेषेण च वैदर्भी तस्य राज्यमभूषयत् / तत्तद्वेषकलादानैवैदग्ध्या दाक्षिणात्यया आपाणिग्रहणाद् नित्यं क्षणमप्यवियुक्तयोः / तयोस्तदभवत् प्रेम गौरीशङ्करयोरिव चक्रवाको वियुज्यते हीयेते रात्रिवासरौ / अवियुक्तमहीनं च दाम्पत्यं तत्पुनस्तयोः पुष्पावचयसङ्गीतदोलासलिलकेलिभिः / नलश्च दमयन्ती च चिक्रीडतुरहनिशम् तयोः परस्परप्रेमपरंपरितचित्तयोः / उभयोः कीर्तनद्वन्द्वैर्मण्डितं क्षितिमण्डलम् दिक्पालवरसंपन्नः स्वेच्छागतजलानलम् / सूर्यपाकौदनं चक्रे नित्यं भैमीकृते नलः स्त्रीपुंसलक्षणोपेतमपत्यद्वितयं नलः / गीर्वाणवरवीर्येण दमयन्त्यामजीजनत् तदा तपासमुद्रान्तपृथ्वीपतिशिरोमणेः / सन्ततिश्रवणात सर्व सुसुदे मध्यमं जगत् उपायनसमाकीणों बन्धुभिर्वद्धतोरणः / स्त्रीभिर्विहितमाङ्गल्यः सामन्तैः कृतकौतुकः प्रधानपुरुषैः प्राप्तो भीमस्य च महीभुजः। दुकूलमौक्तिकच्छन्नसमस्तोदीच्यमण्डलः दानैः पूर्णार्थिसङ्घातस्तूयैर्वधिरिताम्बरः / एकविंशत्यहोरात्राण्यश्रान्तोऽभवदुत्सवः इन्द्रादिभिः प्रदत्तस्य तस्य द्वन्द्वस्य पार्थिवः / इन्द्रसेनाभिधां चक्रे स चक्रधरविक्रमः // 16 // / / 17 // OTHII IIIAHITIA // 19 // // 20 // // 21 // // 22 //
Page #172
--------------------------------------------------------------------------
________________ चतुर्थे सर्गः४ नलस्य उत्कर्षः . कलिं ज्वालयति / / BIIIIIIIIIIIIIIIIIO रेजे राजकुलं ताभ्यामपत्याभ्यामहर्निशम् / व्योमेव पुष्पदन्ताभ्यां संचरझ्यामितस्ततः // 23 // तेन तेनोदयेनास्य सपत्नीकस्य भूभुजः / शुशोप कलिरत्यन्तं जलेनेव जवासकः // 24 // अथ कदाचन पान्थमनस्विनीघनमनोरथसाधनसारथिः / पिकवचः प्रतिभागुरुराययौ रसमयः समयो मधुमाधवः // 25 // समनिशादिवसो यदि विस्तरः समहिमातपनिर्गमसङ्गमः ।उभयतस्तुलया विधृतं दधौ भुवनमाशु वसन्तमहोत्सवः // 26 // क इव नाम न संप्रति मन्यते जगदलच्यतमं स्मरशासनम् / इति विचेतुमिवावजगाहिरे वसुमतीवलयं मलयानिला. 27 ज्वलयितुं हृदयानि वियोगिनां दहनसङ्गमपिङ्गमयात्मभिः / समुदितं नव चम्पककोरकैर्मकरकेतनवाणफलैरिव // 28 // श्रुतिसुखप्रदहंसकुलवणभ्रमरगुजितकोकिल कूजितः / हृदयवेश्मसु बालमृगीदृशां सपदि जागरितो मकरध्वजः // 29 // किमधुना मधुनाम्नि मनोरमे रसमये समये समुदीर्यते / उपवने पवने हृतपल्लवे नवनवा वनवासजुपां रतिः // 30 // सह सतीभिरुपपल्लवयन्मुनीन् सह विटघर्टयन्नटयोपितः / सह च पान्थवधूः पथिकवजेविरचयन्नुचितं विदधे मधुः // 31 // | प्रियमाप कापि शिरसा दधती नवमालिकाकुसुमदाम हितम् / अभिसारिका चपलचित्ततया नवमालिका कुसुमदामहितम् // 32 // न कासरो लम्बतरङ्गतारं नकासरोलम्बतरङ्गतारम् / न कासरोलम्बतरङ्गतारं न कासरोलम्बतरङ्गतारम् रेजे स कामरसतामरसप्रसक्तप्रोद्दामदामडमरभ्रमरो वसन्तः / उत्तालजालकजटालरसालशालवाचालवालमदलालसकामतालः॥३४) तत्रैकदा सुविरचय्य वसन्तपूजां गीतात् परं सुपरितोषितगायनस्य / भैमीसखस्य सुखगोष्ठिगतस्य तस्य वैतालिका निजगदुर्दिवसावसानम् || 35 // IIIIIIIIIIIIII FISIO
Page #173
--------------------------------------------------------------------------
________________ CII ISITISHI VIDEIR ISHI II त्यक्त्वा दूरं हृदयदयितां पद्मिनी लब्धनिद्रां हित्वा विष्वक् द्युतिपरिकरं जिह्मभावं दधानः / संप्रत्येकः प्रतितरुवरं दत्तपक्षिप्रलापः क्वापि क्षिप्रं पतति गहने वासराणामधीशः // 36 // आकर्ण्य सूतच्यवनं तमसा वृतोऽयं प्रक्षिप्तये वहति निःप्रभतां पतङ्गः। श्यामीभवन्ति ककुभो विरुवन्ति काकाः स्तोकापि नास्ति वियति स्खलना किमन्यत् ? // 37 // विरहदुःखदशामतिशोकयोः सदयचित्त ! विलोकय कोकयोः / यदनया विधिवेशसजं भयं भवति कस्य जनस्य न पश्यतः // 38 // गन्तुकाममुपलक्ष्य षट्पदं पद्मिनी कृतपलाशबन्धना / आदधे च सुगृहीतमञ्जसा मजुभाषिणमियं निशामुखे // 39 // का ते करोमि मम सान्ध्यविधेपास्ति? यां नाथ! वाञ्छसि न कुत्र ममाथ वाञ्छा। इत्थं विलासमयवक्रगिरं वदन्तीं वक्रोक्तिभिः प्रणयिनीं स वदन्नुदस्थात् // 40 // अत्रान्तरे त्वरितमेव जयं विधातुं तस्मिन् प्रमोदकृतपादसरोजशौथे। पश्यन्नलग्नजलमङ्गुलिसन्धिरन्ध्र छिद्रं प्रपद्य कलिरस्य विवेश कायम् // 41 // सम्यक शौचेन हीनं कृतविवशतनुं मुक्तकेशं हसन्तं निष्ठीवन्तं रुदन्तं मदनपरवशं जृम्भमाणं स्खलन्तम् / भीतभ्रान्तं विवस्त्रं परिकलितरुपं लङ्घितोच्छिष्टधान्यं छिद्रं लब्ध्वा विशन्ति ध्रुवमिह पुरुष प्रायशो दुष्टदेवाः // 42 // इति श्रीमाणिक्यदेवसूरिकृते नलायने चतुर्थस्कन्धे चतुर्थः सर्गः॥४॥
Page #174
--------------------------------------------------------------------------
________________ चतुर्थे स्कन्धे पञ्चमः सर्गः। छिद्रं चतुर्थे स्कन्धे सर्गः 5 // 77 // लब्ध्वा कलेरङ्गप्रवेशः नलस्य द्यूतक्रीडा च // तेन तीव्रविपाकेन विषेणेव विसर्पता / नलस्य कलिताः शीघ्रं भिन्नाः सप्तापि धातवः सर्वभारक्षमं प्राप्य तमाधारं महीपतिम् / प्रससार कलिः स्वैरं सलिले तैलबिन्दुवत् // 2 // तमाविश्य विशेषेण संप्रहत्तुमनाः कलिः / दध्यौ दुरोदरं नाम्ना देवं द्यूताधिदैवतम् स्तेयानृतच्छलच्छद्मपैशुन्यादिपरिच्छदः / स तस्य पुरतः तस्थौ प्रणम्य रचिताञ्जलिः ततस्तं विनयप्रहं कलिः कलितविस्मयः / नलस्य दक्षिणं पाणिं भजस्वेति समादिशत् नतमौलिः कलेराज्ञां तथेति प्रतिगृह्य सः। नलपाणितलं भेजे कपोत इव पङ्कजम् तदादि सततं तस्य नृपस्यात्मवतोऽपि हि / विक्षिप्तदिनकृत्यायामक्षवत्यां मनोऽभवत् ततः समुदितद्यूतक्रीडार्कुण्डलपाणिना / तेन राज्ञा सुखं लेभे न मुहूर्तमपि क्वचित् // 8 // कदाचित् कूबरं नाम्ना भ्रातरं स निजानुजम् / स्नेहादपरमात्रेयं द्वन्द्वद्यूते न्यमन्त्रयत् // 9 // उभयोरभवद् द्यूतं सभायां रतिवर्द्धनम् / मिथः क्रमसमायातदोलारूढजयाजयम् // 10 // यो जयाभिमुखं द्यूतं जानाति स्म स्वहेतवे / स चकार प्रतिज्ञातात् पूर्वस्माद् द्विगुणं पणम् . // 11 // सुव्यक्तमनदनक्षाः करप्रेडोलनेस्तयोः / नत्यतः कलिधर्तस्य पादघर्घरका इव // 12 // IAI AISI II II II // 77 //
Page #175
--------------------------------------------------------------------------
________________ DISESIVIFIII-III FIE निन्यं जपतपःस्नानध्यानदानाशनादिकम् / कर्नु न किमपि प्राप द्यतबन्दीकृतो नल: देव्या अपि हि वेदाः स स्वल्पं दर्शनं ददौ / प्रियाया अपि पप्रिन्याः प्रायपीव दिवाकरः . / / 14 / / असीदन् राजकार्याणि राज्ञि द्यूतवशंवदे / अव ग्रहबलग्रस्ते शस्यानीच पयोमुचि अहो ! दिवानिशं राजा तत्परत्वेन संप्रति / क्रीडतीति प्रवादोऽभूत् प्रकामं प्रकृतिष्वपि यूननिन्दामयैर्वाक्यैः प्रयुक्तः प्रेमपूर्वकम् / वारं वारं सुखोपायरमात्यास्तमवारयन् // 17 // न बचोभिरमात्यानां गुरूणां च न लज्जया / न च स्वप्रज्ञया सेहे स विहातुं दुरोदरम् // 18 // न गीतेन न नृत्येन न वाद्येन न कौतुकैः / न कथाभिन गाथाभिन श्रमेण न निद्रया न राजकार्यसम्पातैर्न शरीरसुखेच्छया / अशक्यत निराकतुं तस्य द्यूतपिशाचिका // 20 // त्रिभिविशेषकम / ततो विदितवृत्तान्ता विज्ञप्ता मूलमन्त्रिणा / ददर्श कान्तमायान्तं वैदर्भी स्वगृहेऽन्यदा // 21 // स्वयमुत्थाय तं भैमी भक्त्या भृशमपूजयत् / अभ्यर्यो हि कुलस्त्रीणां च्युतोऽपि गुरुवत् पतिः // 22 / / ता दानवदना खिन्नामहर्षामविभूषिताम् / गरिमच्छन्नसन्तापां पादयोर्दत्तलोचनाम् // 23 // स पश्यन दाखितप्रायां प्रियां प्राणेश्वरी निजाम / महमा संभ्रमं बिभ्रद् विशदं वाक्यमनवीन // 25 // (यरमम) बेहि किं तव पृच्छामि भवत्या विदितं यतः / किमर्थमीदृशावस्थो मम प्राणेश्वरो जनः // 25 // दुनोति हृदयं दूरं सांप्रतं मम पश्यतः / दुहितुः कुण्डिनेन्द्रस्य शरीरमविभूषितम् / / 26 // II II AIAHIAle
Page #176
--------------------------------------------------------------------------
________________ चतुर्थे ISle द्यूतार्थ स्कन्धे सर्गः 5 दमयन्त्याःशोचः॥ // 78 IIIII-III-IIIII देवि ! वैदर्भि ! कच्चित् ते चित्ते सुखमखण्डितम् ? / निरातङ्कानि गात्राणि कच्चित् तव तनूदरि ? // 27 // को दधाति त्वयि द्वेषं ? कस्त्वामुल्लङ्घ्य वर्तते ? / कुतस्तव भयं मीरु ! कस्मै मनसि कुप्यसि ? // 28 // सुता भीमस्य राज्ञस्त्वं वीरसेनस्य च स्नुषा / पक्षद्वयविशुद्धायाः कथं कलुषता तव ? // 29 // अयि ! प्रसीद बैदर्भि ! हृदयं सदयं कुरु / प्रिये ! प्रयच्छ मे हन्त ! हन्तकारं च वाङ्मयम् // 30 // इति जल्पन कर धृत्वा निवेश्य निजसन्निधौ / अभिप्रायप्रकाशाय स तस्याः शपथं ददौ ततः शिरसि कुर्वाणा करकुड्मलशेखरम् / उवाच वचनं देवी दमयन्ती नलं प्रति // 32 // कथमित्थं महाराज ! वृथा मनसि दूयसे ? / यत्तनोरेव मां पश्यन्नलङ्कारैरलताम् // 33 // किं माणिक्यमयैः कार्य भारभृतैर्विभूषणैः / त्वमेव देव ! नित्योऽसि शृङ्गारो मम जङ्गमः / // 34 // पतिसन्मानिता नारी निर्वेषापि विराजते / शोभते हि पयःपूर्णा पद्महीनापि दीर्घिका // 35 // प्रतिकूलप्रियाणां किं पुरन्ध्रीणां प्रसाधनेः / सच्चसाहसहीनानां सेनानां डिण्डिमैरिव / / // 36 // स्वामिन् ! धवलितं विश्व तव कीर्त्या चराचरम् / स एव हि ममोद्योतः शृङ्गारमण्डनं विना // 37 // त्वदर्धासनसान्निध्यं लभमाना मनोरमम् / न श्रद्दधाम्यहं नाथ! पौलोमीमपि सुस्थिताम् // 38 / / इत्थं भवत्प्रसादेन सर्वोत्कर्षजुपोऽपि हि / भाग्यहानिः पुनः शीघ्रं संप्राप्ता मम संप्रति // 39 // यत् त्वां मदपकर्षन्ती हरन्ती हृदयं तव / शश्वदक्षवतीयं ते सपत्नीमामुपस्थिता // 40 // SHI AIATI THIS
Page #177
--------------------------------------------------------------------------
________________ IISTRIIIIIII-III NIFillele पण्याङ्गनेव निर्वीडा द्यूतक्रीडा धनापहा / न नप्रकरणी कस्य परिणामे नरेश्वर ! // 41 // इमां सजनविद्वेष्यां भजतामयशस्करीम् / धनस्य प्रथमा हानिर्द्वितीया स्वसुखस्य च न काले भोजनं निद्रा न काले देवतार्चनम् / न काले स्नानदानाद्यं कितवस्य कदाचन // 43 // प्रभवन्ति भृशं रोगाः शीघ्र कुप्यन्ति देवताः / भ्रश्यन्ति सर्वकार्याणि छूतासक्तस्य देहिनः // 44 // स्वजना दूरतो यान्ति, न विश्वसिति कोऽपि हि / लक्ष्मीविलीयते शीघ्रं, द्यूतव्यसनशीलिनः // 46 // न तिष्ठति विना क्रीडां जितमेव हि पश्यति / पराजितस्त्वनिर्वाच्यं लभते दुःखमाक्षिकः // 45 // कपिकच्छ्र: करद्वन्द्वे दृशौ मरुमरीचिका / दवाग्निमर्मरो देहं द्यूतकारस्य नोज्झति // 47 // उत्खातनयनघ्राणाश्छिन्नकर्णकरक्रमाः / अंकिता इव दृश्यन्ते द्यूतदासा नराधमाः // 48 // अकीर्त्या मलिनं पूर्व जायते सकलं कुलम् / निर्जितस्य परैः पश्चात् कितवस्य मुखं पुनः // 49 // एकत्रबलितान्येव व्यसनानि परस्परम् / एकमङ्गीकृतं पेनस सरभिगम्यते वरं हालाहलं भुक्तं भृगुपातः कृतो वरम् / वरं वहिप्रवेश्नो वा नतु द्यूतं निषेवितम् आस्तां परजनः सार्धं द्वयोन्धिवयोरपि / विमेदकारिणी क्रीडा कुभार्येव परस्परम् || 52 // श्रयते हि पुगणेषु भगिन्योरुभयोरपि / कविनतयोरासीद् वाग्द्यतमपि दारुणम् // 53 // तथाहि 2 अपि प्रातः कदाचिद् गन्धमादने / ज्योतिष्कशक मुद्यन्तं पश्यतः म्म दिवाकरम् // 54 / / जा II ARTII IIISSII IIISTFile
Page #178
--------------------------------------------------------------------------
________________ चतुर्थे म्कन्धे सर्गः 5 दोषाणि॥ // 79 // III E-III III III-III III TING धृतलाक्षारुणच्छवं चलद् मानिष्ठचामरम् / रक्तोत्पलदलोत्तंसं गैरिकारक्तवाससम् 55 // युग्म तस्य दीर्वारुणोष्णांशुबर्बरीजालमालिनः / सद्यः प्रतिहतं तेजस्तेजसा चाक्षुपं तयोः कृष्णवर्णान् हरेर्वाहान् वर्णयन्ती भ्रमदृशम् / हरितस्तान् प्रजल्पन्ती कद्रं च धिनताऽहसत / / 57 // तन्निमित्तं विवादोत्थं बाग्द्यूतमुभयोरभृत् / सुधाकलशमेकैकं पणीकृत्य परस्परम् // 58 // अतिवेलाप्पुना जाता पानिर्णय व नौ / इति समयं कृत्वा जग्मतुः सत्वमन्दिरम् / / 9 / / नागेभ्यो निजपुत्रेभ्यस्तच्च कदूरचीकथत् / मिथ्या दृष्टमिदं मातरित्यूचुस्तां भुजङ्गमाः ततो मातुर्भयार्त्तायाः परित्राणाय पन्नगाः। अवेष्टयन रवेर्वाहान् मैत्र्या योक्त्रफणाभृतः // 61 / / ततः सङ्केतवेलायां ते द्वे रविरथं गते / ददर्श सहसा श्यामान् विनताऽपि तुरङ्गमान् अजानती च तां मायां कव्वा सापि पराजिता / याच्यमाना सुधाकुम्भं विनता वाक्यमब्रवीत् / / 63 / / अहं कुमारी निर्वीरा दद्यां कथमृणं तव ? / प्रतीक्षस्व कियत्कालं भविष्याम्यनृणा तब // 64 // यावद् दत्से न मे देयं तावद् मद्दास्यमुबह / इत्युक्ता सा निजस्वला तथेति विनताऽवदत् // 65 // तदातिकिङ्करीभूतां वाहनीकृत्य तां स्वयम् / आरुह्य भुवनं सर्व कद्रूरभ्रमदन्वहम् // 66 // संवाहनादिभिस्तैस्तैर्दुष्करैरेव कर्मभिः / अखेदयच्च तां वाला कद्रः कठिनमानसा . // 67 // इत्थं वर्षशतेऽतीते सा भगिन्याः पराभवात् / रुरोद जाह्ववीतीरे कदाचित् करुणस्वरम् // 68 // II II SAINII THISle IIIIII
Page #179
--------------------------------------------------------------------------
________________ DISI IIAllIII-IIIIIFIE तस्याश्च रुदितं श्रुत्वा कश्यपो मुनिरागतः / सर्वमाच्छय वृत्तान्तं प्रददावण्डकद्वयम् इतः पुत्रवती भूत्वा त्वमानृण्यं प्रपत्स्यसे / इत्युक्त्वा कश्यपे याते प्रमोदं विनताऽवहत् // 70 // पश्चवर्षशतेभ्यश्च सा दास्येन कदर्थिता / कालक्षेपासहिष्णुत्वात् कोशमेकं व्यदारयत् // 71 // ततःप्रादुरभृद् दीप्तः पुमान् रूपेण कुब्जकः / श्रीमानकाण्डजातत्वात पङ्गभावेन दूषितः // 72 / / सुनिष्पन्नाद् द्वितीयाण्डाद् भविता यो ममानुजः / स हि त्वामनृणीकर्ता विनतामित्युवाच सः // 73 // स तेजःपटलं वर्षन् दुःसहं दैत्यदानवैः / प्रथमोदयमुद्दिश्य सारथ्यं ग्राहितो रवेः // 74 // ततो वर्षसहस्रान्ते स्वयं विघटिताद् द्रुतम् / प्रादुरासीद् द्वितीयाण्डाद् गरुडो नाम पक्षिराट् // 75 // निषादान् प्रथमं जग्ध्वा भुक्त्वा कुञ्जरकच्छपौ / भक्त्वा च रोहिणी शाखा स प्राप्तो मातृसन्निधौ // 76 // तस्याश्च दास्यवृत्तान्तं ज्ञात्वा मनसि दुःखितः / प्रतस्थे पन्नगः शीघ्रममृताहरणाय सः // 77 // क्षिप्त्वा पवानिलैर्ववान् बर्हि विध्याप्य वारिभिः / निहत्यारक्षकान नन्ना नरैतरुरिक्षण पञ्जरम् // 18 // तस्यादाय सुधाकुम्भं स्वस्थानाभिमुखस्य च / बभूव यायिनो युद्धं सह सेन्ट्रैः सुरासुरैः // 79 // युग्मम् द विनतामनृणीचक्रे कद्रदेयं समर्प्य सः। सापि कर्तुं सुधापानं निजपुत्रानजूहवत् दर्भेषु कलशं मुक्त्वा यावत् स्नानाय ते ययुः / तावद् हृत्वा सुधाकुम्भं प्रययौ पाकशासनः // 81 // सुधारसकणक्लिन्नान् लिलिहुः पन्नगाः कुशान् / द्विजिह्वास्ते ततोऽभूवन् तद्धाराभिर्विदारिताः // 82 // HEFI = TERI 4 EII * ISRI 4 III 4 IMEI + IXElle
Page #180
--------------------------------------------------------------------------
________________ चतुर्थे स्कन्धे सर्गः 5 वाग्द्यूतस्य दोषाणि // // 80 // III ATHII A ISIIA HI AISI VIII TING अथ मातुः सरन् दास्यं क्रोधान्धो गरुडः क्रमात् / सर्पान् व्यापादयामास पातालानि प्रकम्पयन् // 83 // ततः कर्तुं कुलत्राणं प्राहिणोत् तस्य वासुकिः / मनोनं सर्पमेकैकं वध्यं नित्यकरप्रदः // 84 // इत्थं विशसतस्तस्य सर्पान् मलयपर्वते / कालक्रमात् समुत्तस्थुः स्थूलकूटाः फणाभृताम् // 85 // कदाचित् तत्र संप्राप्तो मलयेन्द्रसुतावरः / ज्ञात्वा तत्सर्परक्षार्थ तस्थौ जीमूतवाहनः // 86 // स च वध्यशिलासुप्तः शङ्खचूडस वारके / गरुडेनार्द्धजन्यः सन् परिवृत्य ददौ वपुः संप्राप्ते शङ्खचूड़े च ददति स्वं वपुः पुरः / जीमूतवाहनं ज्ञात्वा तुष्टः सत्त्वेन पक्षिराटू // 88 // सर्परक्षावरं तस्मै वाञ्छितं गरुडो ददौ / यथावस्थितदेहं च तं चक्रे विनतासुतः // 89 // तदतिविषममेतत् कुत्सितं छद्ममूलं सुजनहृदयशून्य कीर्तिकूलङ्कपं च / परिहर नरदेव ! द्यूतमुद्भूतपापं परिचिनु दुरखापं निर्मलं धर्मकर्म // 9 // अवन्ध्यविज्ञप्तिरिय सदेव प्रसादपात्रं तव भीमपुत्री / तदार्यपुत्र ! क्रियतां मदुक्तमुक्त्वेति सा तत्पदयोः पपात // 91 // तुभ्यं शपे यदि दुरोदरमाचरामि स्वास्थ्यं भज वहृदि भीरु ! भयं विहाय / इत्थं त्रपापरवशो नृपतिर्बुवाणः प्राणेश्वरीं सरभसं भृशमुच्चकर्ष - // 92 / / किं शर्मणापि मम तेन न यत् प्रियं ते भूयाञ्च दुःखमपि तद् मम यत् तवेष्टम् /
Page #181
--------------------------------------------------------------------------
________________ मा भूद् मुहूर्तमपि मे दयिते ! विना त्वाम् / त्वं जीवितं च हृदयं च ममोत्पलाक्षि! // 93 // इत्यादिभिर्बहुविधैरनुरुध्य वाक्यैः स्वं सापराधमिव चेतसि मन्यमानः। सप्रश्रयप्रणयमुत्कलिकाकुलोऽसौ तामालिलिङ्ग च चुचुम्ब च सन्दधे च // 94 // घिग् धिक् कष्टं मनसि सुतरां दूयते हन्त ! देवी स्वार्थभ्रंशः कुलमलिनता द्यूततो यद् ममेति / भैमीस्पर्शः सपदि नृपतेश्चन्दनालेपहृयो दीप्तं चित्तज्वरमिव चिरं तस्य दूरीचकार // 95 // इति श्रीमाणिक्यदेवसूरिकृते नलायने चतुर्थस्कन्धे पञ्चमः सर्गः // 5 // DIBHI DIBHISHIIIIIIEIS ISRO चतुर्थे स्कन्धे षष्ठः सर्गः। ISISHI ISISISI FII-IIIike // 2 // तस्योषितस्य तां रात्रि दमयन्तीनिकेतने / अभूद् भावपरावृत्तिर्मलयाद्रौ तरोरिव अधिगम्य च वृत्तान्तं गर्भदासीभिरीरितम् / अवहन् हृदये हर्ष श्रुतशीलादयस्तदा प्रातः कृत्यं यथापूर्व स चकार महीपतिः / नाम्नापि द्यूतविद्याया वभार महतीं त्रपाम् भूयो मध्याहसन्ध्यायां भोजनावसरे कृते / चुकोप तस्य सोत्कर्ष विषमज्वरवत् कलिः न सेहे सहसा स्थातुं सांरिक्रीडां विना नलः / विसस्मार प्रियापार्श्वे स प्रतिश्रुतमात्मनः
Page #182
--------------------------------------------------------------------------
________________ चतुर्थे स्कन्धे सर्गः६ कले छिद्र| प्रवेशान प्रतिज्ञाभ्रष्टो नलः॥ // 81 // DIIIIIIIIIII AIIIIIII अक्षान् देवितुमारेभे स.सभायां सकूबरः / प्रतिष्ठाभङ्गमूलं हि द्यूतकारस्य चेष्टितम् आससाद तदा राजा वारं वारं पराजयम् / वामत्वं मन्मथस्येव द्यूतस्य हि परा रतिः हस्त्यश्वरथवारखीग्रामाकरपुरादिकम् / यद् यत् पणं नलश्चक्रे तत् तत् सर्वमहारयत् न ददर्श पुन:मी न द्यूताद् विरराम च / दिने दिने ददौ दुःखं जिगीषुरधिकाधिकम् // 9 // अक्षक्रीडाविदग्धोऽपि कूबरण स निजितः / न कश्चिदथवा विद्वान् देवस्यैकस्य कौशलम् // 10 // न तं चकमिरे पौरा न भृत्यास्तमजीगणन् / उपेक्ष्य मत्रिणस्तस्थुरसद्व्यसनिनं नृपम् // 11 // हीयमानः श्रिया नित्यं स त्यक्तः सेवकैरपि / अन्वगच्छद् जनः सर्वः कूबरं जितकाशिनम् // 12 // पद्मतः कुमुदं याति सन्ध्यायां मधुपव्रजः / धिक ततश्चापलं लक्ष्म्यास्तदासक्तं जनं च धिक् // 13 // किं कुर्वन्ति महामात्याः कस्य साध्यो हि भूपतिः ? / क नु शक्यः करी कर्णे धत्तुं मदभरोद्धरः // 14 // म्लानेव निखिला बुद्धिर्विक्षिप्तमिव वायसः / विध्यातमिव धामापि नलस्य कलिकोपतः अत्यगाधोऽप्यपारोऽपि कलशोद्भवमूर्तिना / जग्रसे कलिना शीघ्रं लीलया नलसागरः // 16 // द्वाररोधेन सामन्ता अनुद्घाटैर्वणिग्वराः / लङ्घनैश्चापि दायादास्तं दीव्यन्तं न्यवारयन् आरूढपतनाशङ्की कूबरोऽपि न्यषेधयत् / नैव तस्थौ पुनर्दीव्यन् हारव्यावृत्तये नलः * // 18 // धिगहो ! पैतृकी लक्ष्मी द्यूतेन गमयत्यसौ / वरमभ्रषज्वाले न जुहोति हुताशने // 19 // IIIIIIIIIIIIIIIIII // 8
Page #183
--------------------------------------------------------------------------
________________ = = = III II AIEFINIA जा बाबा निषिद्धाचरणासक्तं व्यवस्थितमिमं नृपम् / साधु स्याद् यदि गृह्णाति सर्व निर्जित्य कूबरः // 20 // कथमस्य करप्राप्ता मौक्तिकस्रक कपेरिख / चिरं स्थास्यति सौख्येन देवीयं भीमसंभवा? . // 21 // इदमन्यदपि स्पष्टं प्रभूतमनया दिशा / जजल्प जातवैराग्यो नलद्वेषाकुलो जनः // 22 // तद्धनेनैव संनद्धः कूबरस्तं जिगाय च / जायते हि विधौ वामे स्वशस्त्रमपि घातकम् // 23 // ततः सह महामात्यैवैदर्भी भर्तृवत्सला | सामान्तचक्रसङ्कीर्ण तत्सदः स्वयमाययौ // 24 // तत्र तस्यां समायान्त्यां सह कञ्चुकिनां शतैः / एति देवीति भीतानां वेत्रिणां तुमुलोऽभवत् // 25 // तां च दृष्टिपथप्राप्ताष्टाङ्गस्पृष्टभूमयः। प्रणेमुः संवृतैरक्षैः सामन्ताः कूबरोऽपि च // 26 // बभूव निभृतं सर्व दूरस्थं राजमण्डलम् / बभार कूबरो लआं धाष्ये भेजे पुनर्नल: // 27 // अथ व्यामिमां कर्तुमपश्यन्निव तां नलः / स्वैरं परामृशन् सारीः सावलेप इवावदत् // 28 // किं. संवृणोपि पाणिभ्यामक्षान् पातय कूबर ! वृथा कालपरिक्षेपः क्रियते किमसाविति ? वीक्ष्य तिर्यग्वलद्दृष्टि साभिप्रायं प्रियं प्रति / ततः कूबरमेवोचे कुण्डिनेन्द्रसुता स्वयम् // 30 // विमुश्च देवर ! द्यूतं स्वधर्ममनुचिन्तय / वैवाह्यमिव वा युक्तं स्वगोत्रे किं दुरोदरम् ? // 31 // जये पराजये वा वां तावदेकस्य कस्यचित् / द्वयोर्बान्धवयोर्मध्ये व दुखं कुत्र वा सुखम् ? // 32 // यदि तावद् महाराजोऽवधारयति वा न वा / तत् तवापि मतिभ्रंशो बभूव किमु कूबर !? // 33 // III ASIAFIAISI ASHISile === = =
Page #184
--------------------------------------------------------------------------
________________ चतुर्थे स्कन्धे सर्गः६ // 82 // दम्यन्त्या: कुबरस्य द्यूतावरोधनार्थमुपदेशः॥ II IIIAFIRTHI AIY|slila न कस्यचन विश्वेऽस्मिन् सर्वथा जातु जायते / अन्यायोपार्जितं वित्तं स्थले जलमिव स्थिरम् // 34 // जितं मयेति कितवो जितकाशी प्रजल्पति / जीयमानं तु जानाति नात्मानं व्यसनेन यत् // 35 // त्वं यद्यधिकराज्याय घृतं देवर ! दीव्यसि / मालवेन्द्रमहाराष्ट्रं गृहाण मम पैतृकम् // 36 // मणिमाणिक्यरत्नानि स्वर्णमुक्ताफलानि च / तानि स्वीकुरु सर्वाणि गृहे तिष्ठन्ति यानि मे // 37 // दस्त्यश्वरथमुख्यं व साधनं सर्वमेव मे / त्वदकेनाक्यतां शी द्वारे न तन तिष्ठतु // 38 // प्रसीद सद यं वत्स ! प्रार्थनां मे कृतार्थय / कुरु कूबर ! मद्वाक्यं त्यज दूरं दुरोदरम् // 39 // त्वां वीक्ष्य विरतं द्यूताद् राजाप्यनु विरंस्यते / नयनात्मसमैः सार्द्ध द्यूतं युद्धं च भूभृताम् // 40 // इत्युक्तवति सोत्साहं भैमीनाम्नि बृहस्पतौ / अन्वभाषन्त मन्त्रीशाः श्रुतशीलादयोऽपि यत् // 41 // ततस्तथेति यत् किश्चित् यावद् वदति कूबरः / अकार्षीदन्तरालापं तावद् वेगेन भूपतिः // 42 // अहो ! ददाति यद् देवी सर्वस्वं तव कूबर ! / दास्याम्यहं पणीकृत्य स्वयमक्षमुखेन तत् // 43 // तस्मिन्नपि हि सर्वस्मिन् हारिते सति देवतः / इमामपि पणीकृत्य रन्तुं मम समुद्यमः ||44 // गच्छन्तु मन्त्रिणः सर्वे न कार्या नौ निवारणा / द्रक्ष्याम्यहं परं पारमक्षाणां कूबरस्य च // 45 // प्रविश्याभ्यन्तरं देवि ! त्वमपि ब्रज सत्वरम् / घृतेऽपि रणवद् भीरु ! किमयं तव संभ्रमः ? . // 46 // चतुर्भिः कलापकम् / इतस्तथेति यत् विदवी सर्वस्वं तवत देवतः / इमामयाम्यहं पर पारम्पकमय IASINI ASIAHI // 82 //
Page #185
--------------------------------------------------------------------------
________________ @ IIIIIIIIIIIFIIजIE इति श्रुत्वा गिरं पत्युः प्रत्युवाच विदर्भजा / समन्युरपि साशवं विनीता नतकन्धरा // 47 // आर्यपुत्र ! कृतार्थाऽस्मि यत्पणीकर्तुमिच्छसि / नृणां संभावनापात्रं विरलाः खलु योषितः / // 48 // यः कश्चिदपि वाञ्छायाः प्रत्यूहो विहितो मया / तत्र प्रसीद राजेन्द्र ! मा स्म खेदं कथा मयिं // 49 / / आयान्तु मन्त्रिणः सर्वे किं दृष्टिकटुभिः स्थितैः / द्यूतकौतुकविच्छेदं देवस्य किसु कुर्महे ? // 50 // अस्तु निर्मक्षिकमिति प्रत्युच्चरति भूपतौ / ततः खिन्ना ययुः सर्वे देव्या सह नियोगिनः // 51 // प्राप्ता च मन्दिरं भैमी केशिनी वीक्ष्य सत्वरम् / अवलम्ब्य भृशं कण्ठे रुरोद मृदुगद्गदम् // 52 // रेजे राजीवनेत्रा सा वर्षन्ती वाष्पबिन्दुभिः / नमाश्रियः प्रमीताया ददानेव जलाञ्जलिम् // 53 / / प्रमृज्य नयने तस्याश्चिरमाश्वास्य भामिनीम् / उवाच सान्त्वनागर्भ केशिनी दीर्घदर्शिनी // 54 // अयि ! प्रसीद वैदर्भि ! रम्भोरु ! रुदितं त्यज / प्रथमं हि प्रपन्नाऽसि व्यलीकं प्राणवल्लभात् // 55 // न समा वाराराः सर्वे नैकरूपमिदं जगत् ! भवन्ति विविधैर्भावैः प्रायशः प्राणिनां दशाः // 56 // न ते धर्मज्ञया सम्यक् शोचनीयं शुचिस्मिते ! / बन्धोदयविपाकाश्च सत्ता नक्कनु कर्मणाम् ? // 57 // यदैवाक्षाः करे दत्तास्तस्य देवेन केनचित् / सत्यङ्कारस्तदैवासीत् त्वत्प्रीतिपरिमार्जने // 58 / / किं नैनं वेत्सि वात्सल्यात् संप्रति प्रीतिमोहिता / नलं नाम परावृत्तं कृतान्तं किञ्चिदात्मनः // 59 // यत्सत्यं भूतवेतालाः पिशाचाः कटपूतनाः / अद्यनमधितिष्ठन्ति दुष्टाः पलभुजोऽथवा // 60 //
Page #186
--------------------------------------------------------------------------
________________ चतुर्थे स्कन्धे सर्गः६ दमयन्त्यै केशिन्या: सान्त्वनम् // // 83 // आजIIIHIVISISIFISHI II अन्तरेण समावेश व्यन्तराणां दुरात्मनाम् / कथमित्थं भवेद् मुग्धे ! यदि शिक्ष्यः स्वयं नलः // 61 / / अतिक्रामति किं सत्यं विनयं वाति वर्तते / परित्यजति वा प्रीति कल्पान्तेऽपि कथं नलः? // 2 // नास्त्येव हि नलो राजा स भवत्प्राणवल्लभः / इदं तद्रूपमास्थाय भूतं किञ्चिद् विजृम्भते // 63 // न नाम मङ्गलैरुक्तैर्माङ्गल्यमुपजायते / अपि कर्णकटु स्पष्टं शृणु पथ्यं वचो मम // 64 // यद् मार्तण्डः परिधिवलयी व्याम्नि सूर्यद्वयं यद् रात्री चन्द्र धनुपि च यत् यच्च युद्ध ग्रहाणां / उल्कापाता यदपि बहवः क्रूरकेतूदयो वा कालातीतौ यदपि रजनीभर्तुरस्तोदयौ च यद् दिग्दाहो यदपि च रजोवृष्टिभूमिप्रकम्पौ यद्गान्धर्व व्रजति नगरं गोचरं लोचनानाम् / यच्चात्यन्तप्रसवविकृतिः कालतो रूपतो वा यच्चाकाले किल जलधरो वारि वर्षत्यभीक्ष्णम् // 66 // ग्रामे वन्या वनभुवि च यद् ग्रामसच्चाः प्रवृत्ताः क्रूराक्रन्दं खरनखरिणो यच्च मिश्रं रसन्ति / दुर्गा नीडं मधु च सरघासम्भवं मन्दिरे यत् यत्सञ्जातः स्थलजलनभश्चारिणां स्थानभेदः // 67 // चक्राकारं यदपि गगने गृध्रकङ्का भजन्ते काकप्राया यदपि विहगा हर्म्यमन्तर्विशन्ति / यद् दृश्यन्ते सुरतनिरताः श्वेतवर्णाश्च काका यत्सत्वानामतिविषयिणामन्ययोनौ प्रवृत्तिः // 68 // पुष्पे पुष्पं फलमपि फले पल्लवे पल्लवं यत् यच्चात्यन्तं फलसुमनसां कापि चित्रा समृद्धिः। कन्दो दो यदपि विपिने हस्तपादादितुल्यः सस्यानां वा परिणमति यद् मांसरूपेण पाकः // 69 / / IAHINITISile 83 //
Page #187
--------------------------------------------------------------------------
________________ बाजाII IIIIIIIIBETE पङ्कस्वेदश्रमपरिगता मूर्तयो यत्सुराणां यच्चैत्यानामथ विटपिनां निनिमित्तं निपातः / यत्पर्यस्तो गृहिषु विधिवत्पूज्यपूजाक्रमो वा लब्धः सर्वैऋतभिरभितो यद्विपर्यासभावः // 70 / / भम्भारावा यदपि रजनौ दर्दुराणां शिखा यत् सत्वा मत्स्यादिव समभवन् जातिमांसाशिनो यत् / / मिथ्यादृष्टिः समजनि जनो यत्कुलिङ्गानुरोधाद् राजद्वारे यदपि सततं दुर्जनानां प्रवेशः // 71 / / ज्वालाधूमप्रभृति सहसा यच्च वद्धिं विनापि त्रासोत्कम्पास्तुरगकरिणः कारणं यच्च मुक्त्वा / यद् दृश्यन्ते मदजलजुषो हस्तिनीनां कपोला यद् भज्यन्ते सपदि चमरच्छत्रदण्डाः स्वयं च // 72 / / त्यक्त्वाचाज्ञामपि बहुविधाः स्वस्वभावव्यवस्था इत्थं विश्वं सकलमधुना यत्परावृत्तमेतत् / अद्य श्वो वा नृपतितिलकं पूर्वमुच्छिद्य वेगादन्यः कश्चिद् भवति भुवने भूपतिनिश्चितं तत् / / 73 // नवभिः कुलकम्॥ शय्यासनेषु गुणजालकमौर्णनाभं शब्दायितं च गृहमूर्धनि संहतेऽपि / ध्यामत्विपः सशलभाश्च निशि प्रदीपा निर्वासनं तव वदन्ति सह प्रियेण !! 74 // हारस्रजश्च तव यद्विरलीभवन्ति सीमन्तपङ्किरपि यन्मिलति प्रकामम् / तद् मन्यते तव निरन्तरदुःखदायी वैदर्भि ! कान्तविरहोऽपि भविष्यतीति // 75 // एवं विचारचतुरे ! सुविचिन्त्य चित्ते कालोचितं रचयितुं तव युक्तमद्य / वैदर्भि ! दर्भमुखतीक्ष्णमतिस्त्वमेका छेकाऽसि किं शिथिलतामवले ! विभर्षि ? / / 76 // अHI AII IIIIIजाल
Page #188
--------------------------------------------------------------------------
________________ चतुर्थे स्कन्धे इति परिणतिरम्यं वाक्यमाकर्ण्य तस्या विमलविपुलचित्ता धैर्यमालम्ब्य देवी / नरपतिकुलभक्तान् शीप्रमामन्त्र्य सर्वान् निजगृहकरणीयं मन्त्रिपुत्रानपृच्छत् इतिश्रीमाणिक्यदेवसूरिकृते नलायने चतुर्थस्कन्धे षष्ठः सर्गः // 6 // // 77 // सर्गः 7 II ATHI III on Isle दमयन्ती स्वसंतति पितृगृहे . प्रेषयति॥ // 84 // चतुर्थे स्कन्धे सप्तमः सर्गः। DIEIIFTII-ISSIFIII FIIIFFIIEISE ते सर्वे समवायेन कतुं नलकुलोदयम् / देव्याः पितृगृहे स्थानं योग्यमाहुरपत्ययोः तद्वचो मत्रिपुत्राणां तथेति प्रतिपद्य सा / आहूय बाहुकं नाम सेनान्यं वाक्यमब्रवीत // 2 // व्रज बाहुक ! वेगेन त्वं मोक्तुं कुण्डिने पुरे / इन्द्रसेनं च मत्पुत्रमिन्द्रसेनां च मे सुताम् // 3 // यथा नाम महाराजो मां पणीकर्तुमिच्छति / वत्सावपि तथा कुर्यात् तदानीं बेहि का गतिः // 4 // अपि नाम पुनर्वीक्षे मुखमायुष्मतोरहम् / निःसरिष्यामि जीवन्ती कैतवावर्त्ततो यदि // 5 // द्यूतं हि रममाणानां विजयस्य व निश्चयः / भक्षणे कालकूटस्य कदाचित् किं हि जीवितम् ? // 6 // अग्रेऽपि च सदादेशैरादरं प्रथयन् भृशम् / दौहित्रदर्शनोत्कण्ठां धत्ते तातः कृपानिधिः तत् तत्र वत्सयोरेकं रक्षा तावद् कृता भवेत् / तातश्च वहते प्रीति निश्चिन्तत्वं तथा मम HI - III A III // 84 //
Page #189
--------------------------------------------------------------------------
________________ NESI ASHIATICA FIA ITII ISISTile मातामहगृहे वृद्धिमिन्द्रसेनः प्रपद्य च / कालान्तरेणापि निजं राज्यमाहर्तुमीश्वरः // 9 // वत्सायाश्चेन्द्रसेनायाः संप्राप्ते सति यौवने / विवाहं कारयिष्यन्ति मातुला एव कौतुकात् . // 10 // इतस्त्वयि गते तत्र कुर्वन्त्याः स्वामिसेवनम् / पश्चाद् यदा तदा वा मे यद् भाव्यं तद् भवत्विह // 11 // तथा विधेयं च यथा न पथि स्यादुपद्रवः / यथा च पुनरावृत्तिः शीघ्रं तव भवेदिह // 12 / / इति देव्या वचः श्रुत्वा साश्रुराह स्म बाहुकः / यदादिशति देवी मां तत् करिष्यामि निश्चित्तम् // 13 // हन्त ! मे साधु संपन्नो निषधाया विनिर्गमः / नहि श्रोष्यामि कर्णाभ्यां पथि भर्तुः पराजयम् // 14 / / धिक शस्त्रभारवाहित्वं धिग् बुद्धिं धिग् बलं मम / यस्य मे त्याज्यते राज्यं भर्ता भृत्यस्य पश्यतः // 15 // भूपालभालपीठेषु मुकुटस्थपुटेष्वपि / यस्य विश्रम्य विश्रम्य विश्वमाज्ञा प्रसर्पति // 16 // तस्येव रणवीरस्य वीरसेनाङ्गजन्मनः / वयं सेनाचराः सर्वे गर्वोद्धरशिरोधराः। // 17 // भूगोलमासमुद्रान्तं कृत्वापि करगोचरम् / एतत् कष्टमयं प्राप्तं परचक्रं कुतोऽपि नः // 18 तथा कि न जयी राजा यथा जयति कूबरः / नूनं मायाप्रपञ्चोऽयं दैवस्यैव दुरात्मनः // 19 // तदनेन नियोगेन गच्छतः कुण्डिनं प्रति / प्रत्यावृत्तिं न मे देवी संभावयितुमर्हति // 20 // देवं भीममहं दृष्ट्वा दवा कन्याकुमारको / यास्यामि तीर्थयात्रार्थ स्वस्ति सौख्याय संप्रति // 21 // ततोऽहं पुनरावृत्तो न शक्तः शक्तिमानपि / द्यूतापहृतराज्यस्य द्रष्टुं भर्तुः पराभवम् // 22 // नवभिः कुलकम् / SI9I5195IIIIIIII-III FIRING
Page #190
--------------------------------------------------------------------------
________________ चतुर्थे स्कन्धे सर्गः 7 दमयन्ती स्वसन्ततिं. पितगृहे | प्रेषयति / / // 85 // LI .II A SIGATIA ITI WEIGATIO इति जल्पन् स वैदा चिरमाश्वासितोऽपि सन् / शोभावचोभिरेवास्याः प्रमाणीकृतवान् वचः // 23 // सा पञ्चवर्षदेशीयं स्निग्धं युग्ममपत्ययोः / प्राणप्रियं तदुत्सङ्गे ददौ भीमसुता स्वयम् // 24 // आपृच्छय विह्वलां देवीं तयुग्मं परिगृह्य च / प्रतस्थे स महावाहुर्बाहुको बहुकोविदः // 25 // महता सह सैन्येन कतिचिद्भिः प्रयाणकैः / ज्ञात्वा तं कुण्डिनासन्नं भीमः प्रत्युद्ययौ नृपः पुरप्रवेशमुद्दाम कारयित्वा महीपतिः / क्षेमं दौहित्रयोर्मातुर्जामातुरपि पृष्टवान् // 27 // प्रणम्य बाहुकस्तस्मै विदग्धो वदतांवरः / शशंस सकलं शस्तं दमयन्तीनलाश्रयम् // 28 // न च तं नलवृत्तान्तं देवी समदिशत् स्वयम् / न स्वामिवत्सलः किश्चिद् बाहुकश्चाप्यचीकथत् // 29 / / प्रमोदप्रवणो राजा दमयन्तीपिता तदा / दौहित्राय ददौ देशमिन्द्रसेनाय केरलम् // 30 // स राजा तस्य राज्ञी च स्वपुत्र्याः पृथुकद्वयम् / स्वकीयवपुपः पार्थाद् न दूरीचक्रतुः क्षणम् // 31 // कृतकृत्यस्तयोर्देव्या विज्ञप्तिं बाहुको निजाम् / प्रैपीत् क्षेमोपलम्भाय श्रीभीमस्य च वाचिकम् // 32 // बभूव सुस्थिता देवी सुतरां वार्त्तया तया / अपत्यविरहक्लेशं न बभार पतिव्रता // 33 // विदर्भाधिपमापृच्छय प्रत्यावृत्तिमिषेण च / बभ्राम तीर्थयात्रार्थ बाहुकः सकलां भुवम् // 34 // शक्रावतारतीर्थस्थ विख्यातस्य दिदृक्षया / स कदाचिदयोध्यायां पुरि प्राप्तो महामतिः // 35 // विज्ञाय बन्दिवृन्देभ्यस्तं तथाविधमागतम् / ऋतुपर्णनृपः प्रेम्णा स्थापयामास सन्निधौ IATI जा II // 85 //
Page #191
--------------------------------------------------------------------------
________________ e +II-IIIATIla |All इत्थं च बहवो वीराः कूबरद्वेपिणस्तदा / नलभक्ता महात्मानो राज्यं त्यक्त्वा विनिर्ययुः // 37 // समयज्ञो महामात्यः श्रुतशीलोऽपि शीलवान् / निजमुद्रां परित्यज्य निर्ययौ तीर्थयात्रया . // 38 // इदं हि स्वामिभक्तानां धीराणां परमं व्रतम् / यत् प्रभुव्यसनं दृष्ट्वा न पश्यन्ति तटस्थिताः // 39 // स तथैव दिवानक्तं दमयन्तीपतिनृपः / चिरं चिक्रीड निर्वीडः पीडितः कलिना नलः // 40 // असाध्यो मन्त्रिवैद्यानां मुक्तः स्वपरचिन्तया / प्रत्यासन्नविनाशोऽभूत् सन्निपातज्वरीव सः // 41 // तामिमामप्रतीकार्यां सम्भाव्य भवितव्यताम् / न भीमतनया देवी वभार मनसि व्यथाम्। // 42 // तदादि विदधे नित्यं सा तपांसि मनस्विनी / पोढा षोढा विभक्तानि बाह्यान्याभ्यन्तराणि च // 43 // क्षेत्रेषु सप्तसु द्रव्यं निजमुप्तं तथा तया / तत् सहस्रगुणीभूतं यथा भूयोऽपि लप्स्यते // 44 // कूबरेण हृते राज्ये यथा चित्तं न यते / तथा रिक्तीकृतः कोशश्चिरं चतुरया तया // 45 // नलोऽपि द्यतसंज्ञेन परचक्रेण तेन सः / गृहीतदेशः सहसा दुर्गशेषः कृतोऽभवत् // 46 // ततः परिभवं चित्ते भृशमाशङ्क्य कूबरात् / कल्लोलिनी-कमलिनी-केरली-कलिकादिकाः // 47 // देवकन्यासमाः स्निग्धाः कुल-शील-गुणान्विताः। प्रजिघाय सखीः सर्वाः केशिन्या सह कुण्डिनम् // 48 / / युग्मम्।। रत्न-मौक्तिक-माणिक्य-मणि-स्वर्णादिकं च सा / इन्द्रसेनान्तिकं प्रैपीत् कोशसारं तया सह // 49 / / सहिता परिवारेण कियतापि मनस्विनी / सा तस्थौ वपुरुद्दिश्य दैवं प्रति पतिद्रुहम् // 50 // FILAI IIIIIIIISSIC
Page #192
--------------------------------------------------------------------------
________________ चतुर्थे स्कन्धे // 51 // सर्गः७ आमा II II अथ वनमिव वहिस्तीवकोपस्तपो वा तटमिव जलपूरः कालकूटस्तनुं वा / विघटयति समन्ताद् यावता तावतैव व्यघटयदधिपत्वं घृतविद्या नलस्य सायाहे कचिदन्यदा सरभसं तस्मिन् सभामण्डपे सर्व राज्यमहो ! जितं जितमिति स्पष्टो महानिष्ठुरः / क्रूरैः कूबरसेवकैर्विरचितो बुम्बारवः कोऽप्यभूत सद्यः क्षोभमवाप येन नगरं भीता च भीमात्मजा कोशे गजेषु तुरगेषु पुरे प्रतोल्यां सर्वत्र कूबरनराः परिवृत्य तस्थुः / आत्मानुजेन हृतराज्यभरोऽपि राजा खिन्नः परं हृदि पराजयलजयैव मा खेदमुदह नरेन्द्र ! कुरुष्व किश्चिद् भूयः पणं न विरतिर्विरतं विना त्वाम् / इत्थं तु कूबरवचांसि निशम्य राजा भीमोद्भवामपि जवेन पणीचकार पुरा हि सा तस्य महाहचेतना बभूव राज्यादपि जीवितादपि / स्वकीयराज्यं तु दुरोदरापणे तदा तया क्रेतुमियेष नैषधः चिरमभवदभृतं द्यूतमुच्चावचं तत् विहितरसविशेषात् कूटमक्षा निपेतुः। नलमनु दमयन्ती पक्षपातेन लोकः समजनि विजयार्थी व्याकुलोऽभूत कलिश्च दमयन्ती कोशादीन्. रिक्तीकरोति कूबरेण च | राज्यादिकं | प्राप्तम् // // 53 // // 54 // // 55 // // 56 // म् // 86 //
Page #193
--------------------------------------------------------------------------
________________ धिर धिक कष्टमयोग्यमेतदिति हि क्षोणीभुजां जल्पतां हाहाकारविदीर्णकर्णकुहरे लज्जापरे कूबरे / दुर्वृत्ताक्षविवर्त्तनैः क्षितितले खेदात् करं निघ्नता दीर्घ निःश्वसता नलेन दयिता देवी स्वयं हारिता // 57 // इति श्रीमाणिक्यदेवसूरिकृते नलायने चतुर्थस्कन्धे सप्तमः सर्गः // 7 // चतुर्थे स्कन्धे अष्टमः सर्गः / SIFIIIIIIIII VIHIRITE ISIS IS // // इत्थं हारितसर्वस्वो विश्वकविजयी नलः / न लेभे मनसा दुःखं दु:खितार्तिहरो नृपः स पञ्चशब्दनिर्घोष नलसिंहासनस्थितः / अभ्यषिच्यत भूपालैः कूबरस्तत्क्षणं नृपः आज्ञा प्रववृते तस्य नले गलिततेजसि / अस्तगामिनि मार्तण्डे हविर्भुज इव प्रभा राज्यभ्रष्टमहात्मानं मनसा निर्मलं नलम् / कूवरः शल्यमाशय स्वदेशाद् निरकासयत् कठोरभाषिणः क्रूरान् मुक्त्वा सर्वत्र शत्रिणः / रुरोध सकलं लोकं नलमार्गानुगामिनम् कनकावलिमुख्याश्च न मुमोच नलप्रियाः। वरं पितृगृहे प्रैषीत् तत्पितृणां स याश्चया नलानुजीविभिस्त्यक्ता रुद्धा कूबरसेवकैः। विदर्भसम्भवा देवी न मेने किश्चिदर्गलाम् तां निशम्य समायान्तीं शीघ्रमुत्थाय कूबरः / प्रत्युजगाम सामन्तैः समन्तादुत्थितैः समम् = = = orrmrur 9 = = = = // 8 // =
Page #194
--------------------------------------------------------------------------
________________ चतुर्थे स्कन्धे सर्गः 8 || नलेन |सह गन्तुं . कूबरं - दमयन्ती प्रार्थयति // // 7 // I AISHIATRI GARATHI पत्रिंशत् पङ्गकोटीनां समुद्रं पृथिवीपतिम् / को हि तत्पितरं भीमं मनसा न विशङ्कयेत् नलाय त्रिदशैर्दत्ता भ्रातृजाया पतिव्रता / न च सा तादृशं पात्रं युज्यते यत्र लाघवम् को दद्यादनले झम्पां कः सिंहीं दोग्धुमिच्छति ? / सर्वस्य जीवितं प्रेयो मरणं कस्य वल्लभम् ? // 11 // अतो नलप्रियां देवीं भीमपुत्रीं पतिव्रताम् / कूबरो जीवितव्यार्थी वाचाऽपि न विराद्धवान् // 12 // प्रणम्य परया माया तस्थिवांसं तमग्रतः / प्रत्यभाषत चैदी कुलशीलोचितं वचः राजन् ! प्रयच्छ मे गन्तुं स्वकीयस्वामिना समम् / कुरु निष्कण्टकं राज्यं पृथ्वीं पालय देवर ! // 14 // पुत्रस्त्वमपि तातस्य युक्तं राज्यं तवापि हि / वामे वा दक्षिणे वाऽपि, पाणी भवति कङ्कणम् // 15 // न तु युक्तं निषेद्धं ते कान्तानुगमनं मम / वपुर्मे हारितं पत्या प्रणयो न पणीकृतः अपि नाम त्वया रुद्धा यद्वा तिष्ठाम्यहं किल / जीवितत्यागमार्गेऽपि कथं दण्डधरो भवान् ? // 17 // इति तस्या वचः श्रुत्वा त्रपातङ्कतिरोहितः / अवोचत विनीतात्मा कूबरः कालविद्वरः // 18 // आर्ये ! विसृज मात्सर्य प्रसन्न हृदयं कुरु / न त्वां प्रति विरुद्धोऽस्मि मनोवचनकर्मभिः // 19 // अहं नलस्य दास्यामि न स्थातुं निजमण्डले / नोकस्मिन् वने क्वापि घटते केसरिद्वयम् // 20 // मया गृहीतसर्वस्वो निर्धनो निःपरिच्छदः / भ्रमिष्यति भुवं सोऽद्य देशाद् देशान्तरं व्रजन् / // 21 // त्वं तेन सह गच्छन्ती देवि ! दुःखमवाप्स्यसि / अतएव हि रुद्धाऽसि न किश्चित् कारणान्तरम् // 22 // II AIATI ATHIS // 7 //
Page #195
--------------------------------------------------------------------------
________________ II .IIISIFile II 4. III III A FII A III IIIMe त्वं हि देवि ! यथा राजा वीरसेनस्तथा मम / जननी वा स्वसा वाऽसि न मम त्वं प्रजावती // 23 // त्वमेव कुरु साम्राज्यं समादिश नियोगिनि !| अहं तवास्मि सेनानीस्त्वदाज्ञा भुवि वर्त्तताम् . // 24 // इति तद्वचसः प्रान्ते प्रत्युवाच विदर्भजा / एवमेव यथार्थत्वं कुलीनानामिदं व्रतम् // 25 // मयि भक्तिप्रसक्तस्य ज्येष्ठं प्रति विरोधिनः / विसंवदन्ति किन्त्वेतास्तव मायामयोक्तयः // 26 // परित्यज्य महाराज कितवस्य तवान्तिके / ममावस्थितिमाधातुं युक्तमुक्तं त्वया किल क्रौञ्चकर्णारिमुक्तेन फलं फल्गु विवृण्वता / शाल्मलीपुष्पतुल्येन तव राज्येन किं मम ? // 28 // यत्र नास्ति मनःप्रीतिर्यत्र न प्रियदर्शनम् / यत्रास्ति परतन्त्रत्वं तद् राज्यं नरकं विदुः // 29 // यदि कूबर ! राज्येन मम कार्य भविष्यति / आविन्ध्यादासमुद्रान्तं कस्य तद्दक्षिणापथः ? // 30 // स्वस्त्यस्तु तव भूपाल ! स्वसुखानि प्रमाणय / तव देवर ! संपत्या प्रीतिर्मम विशेषतः // 31 // उक्तवानसि वक्तव्यं न दोषः कोऽपि तावकः / केवलं न ममैकस्यास्तव वाक्यं तु गेचते // 32 // तदेतद् गम्यते शीघ्रं मा चित्ते खेदमुद्वह / सुखमास्स्व चिरं जीव राजन्नापृच्छथसेऽधुना // 33 // इति किश्चित् प्रजल्पन्ती राजद्वारं व्यतीत्य सा / प्रार्थितापि नृपः स्थातुं निर्ययौ नलवर्त्मना // 34 // तुभ्यं नमोऽस्तु निषधे ! कुलराजधानि ! मा वासवेश्म मम विस्मरणं विदध्याः। भूयो विलासवन ! यास्यसि दृक्पथं मे कार्या कदापि गृह ! चापि ममापि चिन्ता // 35 // I IIIIII
Page #196
--------------------------------------------------------------------------
________________ चतुर्थे कर्माधीन स्कन्धे सर्गः८ सर्वम् / / // 88 // // 38 // DIFIGIFII III-IIIIIIIII दृग्गोचरं चिरतरं क गवाक्ष ! यासि दोलानिवेश ! विजयी भवः सर्वकालम् / मा सारिके ! विलप संवृणु कीर ! वाष्पं क्रीडामयूर ! विपिनं प्रति गच्छ वत्स! आपृच्छय सर्वमिति भीमसुतां प्रयान्ती लोकः समेत्य सकलो निषधाधिवासी / आगत्य साश्रुवदनः प्रणमन् पुरस्ताद् दूरीकृतः सपदि कूबरभृत्यवगैः हा ! हन्त ! हन्त ! हतदैव ! दुरन्तता ते पृथ्वीभुजामपि यदेष दशाविवर्त्तः / धिर धिर विगीतमथवा भुवि राज्यलोभं ज्येष्ठे यदर्थमनुजोऽपि विमुक्तभक्तिः आत्मज्ञता तदखिला खलु कूबरस्य देव्या नलानुगमनं स न यद् रुरोध / नो चेद् नृपं तमशपिष्यत भीमपुत्री भीमोऽथवा सपदि राष्ट्रमभक्ष्यदेतत् सत्यव्रतः किमपरं नल एव राजा यः कूबरस्य कितवस्य ददाति राज्यम् / युद्धेन कस्तृणमपि क्षमतेऽस्य नेतुं यः क्रौश्चकर्णमपि तं हतवान् किलैकः इत्थं मिथः सकलपौरवचांसि शृण्वन् प्राप्तः पुरीपरिसरे सरसीतटस्थम् / स्तम्भं महान्तमवलोक्य नलस्तदानीं दध्यौ महोदधिरिवाकलनीयरूपः यत्रागतः परिवृतः पृतनासहरुद्धयमानचमरो विधृतातपत्रः / तत्रैव भीमसुतया सह राजमार्गे पश्यन्ति मां चरणचारिणमत्र लोकाः // 39 // // 40 // // 41 // // 42 //
Page #197
--------------------------------------------------------------------------
________________ IISISEK - = II निर्जित्य किन्तु रिपुभिर्न हता मम श्री ते जितो यदनुजेन ततः किमासीत् / निःसारतेव मयि संप्रति लोकचित्ते जानन्तु हन्त ! मम जानपदा बलं तत् . // 42 // 43 // इति समचतुरस्र क्रोशषष्ठाङ्गतुङ्गं शतकरपरिणाहं स्तम्भमुन्मूलयंस्तम् / स वियति युगमात्रं शीघ्रमुत्क्षिप्य नीत्वा पुनरपि हि तथैव न्यस्तवान् वज्रहस्तः // 44 // तद् विस्मिता नलबलं समुदीक्ष्य लोकाः स्तम्भे समेत्य लिखितां ददृशुः प्रशस्तिम् / भावी त्रिखण्डभरताधिपतिः स नूनमुत्थाप्य यः पुनरिमं विनिधास्यतीति // 45 // ऐतिह्यमेतत् परिभाव्य सर्वैः सम्भाव्यमानप्रसरत् पुनः श्रीः। गङ्गातटं प्राप स भीमपुत्र्या देव्यानुयातो निषधाधिराजः // 46 // इति श्रीमाणिक्यदेवसूरिकृते नलायने चतुर्थस्कन्धे अष्टमः सर्गः // 8 // = HI.SIATI III-III II Asale II II II चतुर्थे स्कन्धे नवमः सर्गः। तत्र राज्यपरित्यक्तः प्रियामात्रपरिच्छदः / अध्युवास घियापेतः स वेतसतरोस्तले पश्यन् पुरं परित्यक्तं दीर्घमुष्णं च निःश्वसन् / सापराधमिवात्मानं मेने मनसि पार्थिवः // 2 // II A
Page #198
--------------------------------------------------------------------------
________________ चतुर्थे स्कन्धे सर्गः९॥ HISTIK दमयन्त्या सह . राज्यपरित्यक्तो नला गंगातटे॥ ISISTE // 89 // इति कर्त्तव्यतामूढः सर्वोपायपराङ्मुखः / न जजल्प स वैदा देव्याऽपि सह पार्थिवः // 3 // राजदण्डभयापेक्षी कूबराज्ञानियन्त्रितः / नान्ववर्त्तत तं कश्चित् पौरजानपदो जनः शय्याऽऽसनपरित्यक्तः पानाशनविवर्जितः / व्रतीव स बभौ राजा निरगारं वने वसन् किं कुर्वनस्ति विध्वस्तो बलिना कलिना नलः / अवेक्षितुमिवात्युच्चैरारुरोह दिवाकरः तस्याभिनवदुःखस्य चकार कमपि क्लमम् / निदाघसमयोत्पन्नस्तीवः कलिरिवातपः // 7 // ततस्तस्य मनो हत्तुं गङ्गामाहात्म्यपृच्छया / वैजयन्ती तमित्यूचे वैदर्भी कदलीदलैः // 8 // अयि देव ! दुरुत्तारा सैवेयं विश्वविश्रुता / रङ्गत्तुङ्गतरङ्गा किं गङ्गा नाम सरित् किल? // 9 // इत्येतदनुयुक्तः सन् देव्या दयितभक्तया / कौञ्चकर्णारिरारेमे वक्तं युक्ताभिरुक्तिभिः // 10 // आम वामाक्षि! यत्साक्षात् सैवेयं सुरनिम्नगा। दत्ते नव निधानानि या तुष्टा चक्रवर्तिनाम् // 11 // सुशीतं शतपत्राक्षि ! निर्मलं नर्मवादिनि! / गङ्गावारि वरारोहे ! सुशीले! परिशीलय // 12 // इति जल्पन समं देव्या परिसर्पन शनैः शनैः / विधि माध्याह्निकं चक्रे गङ्गास्रोतसि नैषधः // 13 // विधाय वारिणा वृत्ति विधिना विधुरीकृतः / वासरं वाहयामास वैरसेनिर्विशांवरः // 14 // वासतेयी ययौ तस्य वालुकातल्पशायिनः / वहन मरुति निःसङ्गरथाङ्गे गागरोधसि // 15 // इत्थं च तथुस्पस्तस्य राज्ञस्तत्र दिनत्रयम् / सामन्ता योग्यभक्त्यर्थमन्वमन्यन्त कूबरम् I .II ATHI THI AI || HIII. A 89 //
Page #199
--------------------------------------------------------------------------
________________ IIIATIGATHI AIII THISle शखवखवसपेतं खाद्यस्वाद्यसमन्वितम् / ते तस्मै तुरगोडाह्यं प्राहिण्वन काञ्चनं रथम् ततो भुक्त्वा रथारूढः प्रियया मह साहसी / अनुद्दिश्य दिशं राजा प्रतस्थे सारथिः स्वयम् // 18 / / अतिक्रम्य स वेगेन राजा राजन्वती भुवम् / पपात पर्वतोदेशं भिल्लपल्लीवनाकुलम् // 19 // तदीयरथनिघोंपं श्रुत्वा निर्घातभैरवम् / अधावन् सहसारोळ् किराताः कृत्तिवाससः // 20 // पुलिन्द्रसेनया रुद्धा रेजिरे गिरयः क्षणम् / विष्वक् प्रचलिता कालकालिकाकलिता इव त्यज त्यजेति जल्पन्तः समं तेन डुढौकिरे / कृतकोलाहलाः सर्वे नाहलाः कलहायितुम् // 22 // दृढध्वानं धनुर्धन्वन् वितन्वन् शरदुर्दिनम् / न पारं मारयन् प्राप किरातानां महाभुजः // 23 // संमोहनास्त्रमुख्यानि शस्त्राण्यपि हि तत्क्षणम् / देहं त्यक्त्वा ययुस्तस्य सहसा कलिकोपतः // 24 // भयादपि रथोत्सङ्गाद् भैमीमुत्तार्य सत्वरम् / दुरीबभूव भृपालः कालज्ञस्त्यक्तविग्रहः // 25 // ययुः म्पन्दनमादाय किगताः मर्वसभृतं / अथार्थिनो हि ते दुष्टाः न पुनः प्राणवैरिणः ततश्चरणचारेण प्रियया सह सञ्चरन् / प्राप श्वापदसङ्कीर्णां विकटामटवीं नलः // 27 // अतिक्रामन्नरण्यानी नलः प्रबलसाहसः / ददर्श मस्करस्कन्धे चिन्वतः कर्णविष्किरान् // 28 / / तान् वीक्ष्य पक्षिणो हैमान विस्मयस्मेरलोचनः / देवीमुद्दिश्य वैदर्भीमिदं वचनमब्रवीत् // 29 // कुरुविन्दक्रमद्वन्द्वा वालवायजचञ्चवः / इन्द्रनीलदृशः कान्ताः शकुन्ताः कनकच्छदाः // 30 // AIIIIIII AIIle
Page #200
--------------------------------------------------------------------------
________________ चतुर्थे स्कन्धे सर्गः९॥ // 9 // II ISISTEle विपरीते कर्मणि सर्व विपरीतमेव // DISTRIBILIRI VIIII-II 131 दृश्यन्ते पश्य पद्माक्षि ! नन्वदृष्टचरानमून् / अहं गृहीतुमिच्छामि बहुमूल्या हि खल्वमी // 31 // युग्मम् / वहन्ति हारिणी मूर्ति देवमायामया ह्यमी / अश्रद्धया न गृह्यन्ते किमेभिः स्यात् प्रयोजनम् ? // 32 // यदि ते पैतृकं द्रव्यं स्थावरं करतश्युतम् / अधुना जातपक्षं तत् कनकं किं जिघृक्षसि ? // 33 // उक्तवत्यामपि व्यक्तमिति देव्यां महीपतिः। तेषामुपरि बन्धार्थमुत्तरीयं स्वमक्षिपत् दुसरीयमुरिक्षप्य समुहीय च ते खगाः ! अगोनरमुपायानां नियत्रं जगाहिरे हृत्वा पटमपि प्राप्तान् तान् दुष्टान् तस्करानिव / राजा वीक्ष्य सवैलक्ष्यं दध्यौ विधिविजृम्भितम् // 36 // अहो ! विपरिवर्त्तन्ते मम भाग्यानि संप्रति / यदद्य किल कुर्वन्ति पक्षिणोऽपि पराभवम् // 37 // एकः स समयो यस्मिन् दूत्यं कुर्वन्ति पक्षिणः / हन्त संप्रति संप्राप्तास्त एव मम शत्रुताम् // 38 // इत्थं चिन्ताप्रपन्नं तं पश्यन्तः पक्षिणो रुषा। मनुष्यवचनैरुच्चैराचुक्रुशुरलं नलम् // 39 // येस्तवापहृतं राज्यं वनवासः कृतस्तव / त्वमस्मान् विद्धि दुबुद्धे ! तानक्षान् द्यूतमन्त्रिणः // 40 // सर्वसौवर्णमात्मानं दर्शयामः सदा वयम् / अस्मद् ये धनमिच्छन्ति तेषां पुनरियं गतिः // 41 // यदि नाम नहि च्छिन्नं हस्तपादादिकं तव / तदुत्तरीययुक्तं त्वां किं तितिक्षामहे वयम् ? // 42 // विश्वस्तघातकानस्मान् पर्युपास्ते नरस्तु यः / बाह्यमाभ्यन्तरं वाऽपि तस्य संवरणं कुतः // 43 // वालुकाभ्योऽपि तैलं स्यात् क्वचिद् वहिर्जलादपि / राजन् ! जानीहि न क्वापि त्वमक्षेभ्योधनं पुनः // 44 // FILA III - II II // 90 //
Page #201
--------------------------------------------------------------------------
________________ . // 45 // // 46 // // 47 // // 48 // बाजाIIIIIIIIII इति स तद्वचः शृण्वन् प्रत्युत्तरमनर्पयन् / प्रत्यायित इव द्विष्टैरसूयां प्राप कामपि संवीतपरिधानार्दो मार्गश्रमसमाकुलः / तीव्रतृष्णार्त्तिवेगेन शुष्ककण्ठोष्ठकाकुदः परदुःखं स्वदुःखेन जानन् किमपि दुःसहम् / उवाच दयितां देवीं विवृत्तवदनो नलः आमृष्टकोकनदकोरकसौकुमार्यो सौन्दर्यनिर्जितरसालतरुप्रवालौ / दर्भक्षतौ सुतनु ! शोणितवर्षिणी ते मार्गे कथं नु चरणौ चलितुं क्षमेते ? इह धन्वसु नन्वमीषु नूनं स्थलशृङ्गाटककण्टकाकुलेषु / पदमेकमपि क्षमं न दातुं रवितप्तेषु विशेषतस्त्विदानीम् तीर्णप्राया तदियमटवी वासरचाल्पशेषः प्रेक्ष्यन्ते च प्रणयिनि ! पुरो नूतनानूपकच्छाः उत्कूजद्भिः कलमविरलं सारसैः सूच्यमानः स्त्यानच्छायस्तिलकयति नो वर्मभागं तडागः अयि ! मम किमिवास्ति देव ! दुःखं ? प्रियतमसङ्गमसौख्यसुस्थितायाः। व्यथयति यदि केवलं मनो मे नृपतिपितामह ! तावकी दशेयम् कथमिदमविमृष्टदेशकालं द्रुतमवितर्कितहेतु गम्यते तत् / ननु विरतिजुषामियं हि चर्या नरवरचन्द्र ! न भूभुजां क्रमोऽयम् भुवनविजयिना त्वया हि नीता दिशि दिशि दास्यपदं पुरा नरेन्द्राः / AIIबाजाII II कानात . // 49 // // 50 // // 51 // // 52 //
Page #202
--------------------------------------------------------------------------
________________ // 53 // चतुर्थे स्कन्धे ISIS श्वशुरगृहनिवासाय. दमयन्त्याः प्रेरणा॥ सर्गः९ // 54 // // 91 // I विवरमिदमुपेत्य सांप्रतं ते निजविकृति त्वयि देव ! मा स्म कुर्वन ग्रहबलमधुना न तेऽनुकूलं व्यसनमिदं च दुनोति देव ! यावत् / श्वशुरकुलमलकुरुष्व तावत् यदि मयि नाथ ! विधित्सति प्रसादम् धवलगृहगतोऽपि विश्ववन्धं प्रियमतिथिं च भवन्तमभ्युपेत्य / सुखमिव लभतां स तीर्थयात्राफलमधुना भुवि भीमभूमिपाल: इति कथमपि भीमभूपपुत्र्या रतिसमयासमयज्ञयार्थ्यमानः / अनभिमतपराश्रयानुरोधो नृपतिलकः सपदि त्रपामवाप अस्त्वेवमेव ननु देवि ! यदात्थ तथ्यमित्थं वदन् दयितया सह सार्वभौमः / स प्राप तापशमनं कमठोपमानो मानोन्नतस्ततपयः प्रसरं सरस्तत् तस्मिन् पीत्वा दलविनिहितं कान्तयेवोपनीतं शीतं वारि स्फुटपुटकिनीपुष्पगन्धानुविद्धम् / वृत्तिं चक्रे तटतरुफलैराम्रजम्बीरमुख्यैः साक्षीकुर्वन् वनपरिसरं सर्वतो वैरसेनिः इति श्रीमाणिक्यदेवसूरिकृते नलायने चतुर्थस्कन्धे नवमः सर्गः // 9 // // 56 // I HII AISHIATRIGATHIASINIII // 57 // // 58 // || AISSI.ATHI | // 91 //
Page #203
--------------------------------------------------------------------------
________________ चतुर्थे स्कन्धे दशमः सर्गः / // 1 // 2 // 3 // 4 // // // // DIII ATHI AIIAHINICISFIKe ततः कमलिनीभत्तुर बिम्बमदृश्यत / अस्ताचलशिरःसीम्नि शिलिन्ध्रमिव निर्गमम विष्वक् तिमिरपूरेण व्याप्यमाने महीतले / आरोहन पक्षिणः शीघ्रं शिखराणि महीरुहाम् एकाकारं जगत् कुर्वन् उच्चनीचविभेदभित् / मुमूर्छ महिमा कामं तमिस्रस्य कलेवि अचक्षुर्विषया लोका बभूवुश्चतुरिन्द्रियाः / शब्दगन्धरसस्पर्शः पदार्थाः प्रचकासिरे लब्ध्वा तिमिरसङ्कीर्णे तमित्थं विजने वने / निःशङ्क: स्वैरमारेभे कलिश्छलयितुं नलम् क नु संप्रति गन्तव्यं गमनीयाः कथं दिनाः / नृणां हि धनहीनानां न साध्यं न च साधनम् हसन्ति दुर्जनाः स्वैरमङ्गीकुर्वन्ति वैरिणः / सहायाश्च विमुञ्चन्ति नरं धनविवर्जितम् निर्वनस्य न साहाय्यं निःसहायस्य लाघवम् / लघीयसः सदाऽवज्ञाऽवज्ञातः किं नु जीवितम् / अद्य सम्यक समेष्यन्ति सततं शत्रवो मयि / छिद्रान्वेषणमेवैकं कर्त्तव्यं शत्रुसर्पयोः बलवानपि दुःशीलैरेकाकी काकवृत्तिभिः / न तैः सह सभार्योऽहं सामं कर्तृमीश्वरः अद्यैव रक्षणीया मे नाभविष्यद् यदि प्रिया / अहरिष्यन् किरातास्ते मदीयं तत् कथं रथम् ? विनापि शत्रुसम्पातं दुर्वहा पथि भीमजा / नैवास्याः सुकुमाराझ्याः क्षमीऽहं दुःखमीक्षितुम् // 10 // // 11 // // 12 //
Page #204
--------------------------------------------------------------------------
________________ चतुर्थे स्कन्धे सर्गः१० // 92 // दमयन्त्यास्त्यागे नलस्य निश्चयः॥ न पानमशनं किञ्चित् न शय्या न च वाहनम् / न सहाया न सामयं कथं पन्थाऽतिवाह्यते ? इयं च मम शुश्रूषां परिश्रान्तापि नोज्झति / क्लेशैकफलमेवाहमस्याः संप्रति केवलम् न मां त्यक्त्वा पितृगृहं प्रहिताऽपि प्रयाति च / अस्याः पित्गृहे गन्तुं स्पृहा न मम सर्वथा पूर्व हि तादृशो गत्वा कथं कुण्डिनवासिनाम् / आत्मानमीदृशावस्थं दर्शयिष्यामि संप्रति नणां खलु कदर्याणां श्रशुरावासुवासिनाम् / पितृनाम्ना ममं याति महन्न हतकर्मणाम् उत्तमोऽमुक इत्युक्तोऽमुकसूरिति मध्यमः / जामेय इत्यप्यधमो जामातेत्यधमाधमः इयं पितृगृहं प्राप्य यद्वा श्वशुरमन्दिरम् / स्वस्था तु यदि पत्नी स्यात् ततश्चिन्ता न काऽपि मे एकाकी यत्र कुत्रापि यस्य तस्यापि सन्निधौ / पश्चाद् यथा तथा वापि कालं निर्गमयाम्यहम् जनमात्रस्य मे कश्चिद् न शत्रुभ्यः पराभवः / न मार्गणगणोद्वेगो न लज्जा परसेवया अनया विप्रयुक्तं मां ज्योत्स्नयेव निशाकरम् / सोऽयमेवेति किं कश्चित् प्रत्येति शपथैरपि ? पुस्तिका बालिशस्येव निर्धनस्येव सेवधिः / इयं न घटते पार्थे क्लीवस्येवासिपुत्रिका तत्प्रपञ्चेन केनापि वञ्चयित्वा त्यजाम्यमूम् / मद्वियुक्ता यथा याति कमपि स्वजनाश्रयम् अपि नाम मम क्वापि दुर्दशा विरमेदियम् / अपि जीवेदियं देवी संप्राप्य स्वजनाश्रयम् क तद् मे साम्राज्यं नृपतिशतसङ्कीर्णसदनं क्व चायं नो दैवाद् मृगमिथुनवृत्तिव्यतिकरः / // 13 // // 14 // // 15 // // 16 // // 17 // // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // // 24 // // 25 // IIIIIIIIIIIIIle J // 92 //
Page #205
--------------------------------------------------------------------------
________________ @IIIIIIIlatII-IIIIIIIIC सदा कृत्याकृत्यस्मरणविमुखेभ्यः प्रभुतया नमः स्वच्छन्देभ्यो विधिविलसितेभ्यः किमपरम् ? // 26 // इत्थं किश्चित् प्रकृतिविषयं चिन्तयन्नात्मचित्ते शीघ्रं देव्या दिवसविगमे निर्मितं धर्मवत्या / / मेजे राजा रजनिसमये राज्यलक्ष्मीवियुक्तः सन्तप्तात्मा कुवलयदलस्रस्तरं सस्तगात्रः // 27 // तस्यावस्थामवनिशयने हस्तविन्यस्तमूनों दर्श दर्श चरणयुगलं खाङ्कभागे वहन्ती / तत्रारेभे सुपरिचरितुं राजपुत्री कराभ्यामार्द्राभ्यामविरलगलबाष्पपूरप्लवेन // 28 // हा ! धिक कष्टं वनचरचमूविग्रहाध्मातमन्योरक्षक्रीडाव्यसनजनिता काण्डसर्वस्वहानैः / देवस्याद्य क्षितिपतिगुरोर्वेश्म तद्गाङ्गनीरं ? भैमीमात्रो गृहपरिजनस्तल्प मुर्वीतलं च // 29 // धिक् सौभ्रानं धिगधिकजनं धिग् महामात्यवर्ग धिर धिग् लक्ष्मी धिगधिकबलं धिक् कुलं धिक् सहायान् / येनैकाकी विकलकरणः कानने भूमिशायी ? पुण्यश्लोकः कथयति दशामीदृशीं राजहंसः // 30 // यद् यत् पूर्व प्रियसहचरी केशिनी मामवोचत् तत् तत् सर्व फलमविकलं दुनिमित्तैः कृतं मे। ग्रस्तः सोऽयं कपटपटुभिः कोटिभिर्व्यन्तराणां मत्प्रज्ञायाः स्फुटमविषयं रक्षितुं प्राणनाथः // 31 // नूनं शून्यः क्वचिदपि विधौ मां विहाय प्रमत्तां स्वैरं राजा विरचयति यदा कस्तदानीं रुणद्धि / वारं वारं स्फुरति यदि वा दक्षिणं चक्षुरेतत् तद् मे सम्यग् दयितविरहः सर्वथा हा ! हताऽस्मि // 32 // इत्थं चिन्तापरवशतया साध्वसाद्वैतशून्यां राजन् ! राजनिति सरभसं भीमजां व्याहरन्तीम् / नाASIAFIIIIIIII
Page #206
--------------------------------------------------------------------------
________________ चतुर्थे म्कन्धे सर्गः१० पतिविरहे আন হাক্কা दमयन्ती॥ HITI IRI-IIIFIIIII जाताशङ्कः किमिति महमा गाढमालिङ्गय राजा स्वस्थीचक्र नयनमलिले मार्जयन मुक्तबाष्प अयि ! कथमसि भीरु ! व्याकुला मुश्च कम्पं न खलु तव समीपं देवि ! मुक्त्वा गतोऽस्मि / न कलयमि किल त्वं मां पुर:म्यं मृगाक्षि : क्षिप मयि निजदृष्टिं पश्य मोऽहं नलोऽस्मि / / 34 // ननु सुतनु ! समन्तान सावधानामि जाता तब किमिदमिदानी भीमभृपालपुत्रि ? / त्वमिह जाति तय सि वेदमा म वमपि च दमयन्ति : स्वान्तखद दधाास विग्मतु परिचर्या सुप्यता मागखेदज्वरभरपरिपाकव्याकुलैरङ्गभारः अहमपि निकटस्थः सस्तरन्यस्तगात्रः शशिमुखि ! तब रक्षां जागरूकः करोमि इति सकरुणधर्य भूभुजाऽऽश्वाम्यमाना सपदि हृदयकम्पं भीमजा सन्निगृह्य / मननि जगदीश देवदेवं म्मरन्ती कुवलयदलतल्पं लीलयाऽलश्चकार मा नाम पांशुमशकादिकदर्थनाऽभूदित्यात्मनो निवमनेन पनि परीत्य / तस्याचलं निजतले विनिवेश्य भैमी निद्रां चकार नलयानभयं निरस्य / / 38 // वान्मल्याद जननी स्नुपा विनयतम्तीथ च माध्वीगुणाद् वेदग्ध्यान सचिवः सखी परिचयाद् दासी क्रमोपासनात् / आत्मानःकरणं वपुः किमथवा सर्व हि मे भीमजा मन्यां भीमभूचि कमः कव मे किंवा मया हारितम् // 35 // अद्यापि मे सहचरं मकलं कुटुम्बमद्यापि गज्यमिह में वनवासिनोऽपि / // 93 / /
Page #207
--------------------------------------------------------------------------
________________ ile // 40 // यावत् समीपमधितिष्ठति विष्टपैकविस्तारिकीर्तिमुदा दमनस्य जामिः इत्थं चिन्तयतो नलस्य निभृतं देवीदुकूलस्फुरन्मायावीजविदर्मितस्य नृपतेः सद्यो विधातुं पृथक् / . सेहे तत्र जगत्त्रयीविघटनाशल्यप्रवीणोऽपि सन् वैदर्भीगुणगुम्फगूढघटितं न स्नेहतन्तुं कलिः इति श्रीमाणिक्यदेवसूरिकृते नलायने चतुर्थस्कन्धे दशमः सर्गः॥१०॥ // 41 // II RISHI AHITIAHIN IA II AREII II II AISINS // 2 // = चतुर्थे स्कन्धे एकादशः सर्गः। अथ तन्मिथुनं रेजे दुकूलवलयस्थितम् / एकशम्बासमुत्पन्नमिव मुक्ताफलद्वयम् तिमिरं जर्जरीचक्रुस्तत्र भैमीशिरः स्थितम् / भालस्थलज्वलन्नित्यविशेषकशिखित्विषः तं वीक्ष्य सुस्थितप्राय प्रियास्पर्शरसालसम् / वृथाऽबुद्धिः कलिस्तस्य राज्यभ्रंशं स्वयंकृतम् ततः स्मृतसमायातसमग्रजनसैनिकः / डुढौके कलिरुत्कर्षादभिषेणयितुं नलम् तमरण्याश्रयक्लेशं साक्षादनुभवन् नलः / चिरं चिखेद साम्राज्यलीलाललितलम्पटः सङ्कल्प्य पत्युरात्मानं भुजपञ्जरगोचरम् / सुखं सुष्वाप निःशङ्का भीमभूपालनन्दिनी तां वीक्ष्य पतितां व्योम्नः क्षितौ चन्द्रकलामिव / अचिन्त्यचरितं दैवं शुशोच सुचिरं नृपः = // 4 // =
Page #208
--------------------------------------------------------------------------
________________ चतुर्थे भीमजात्यागे वि-. स्कन्धे सर्गः 11 बदमानो नलः॥ // 94 // IIIIIIIISHIFI SEK विभिन्नरत्नवद् राज्यमपुनर्योज्यमात्मनः / सम्भाव्य भग्नसामों धैर्यध्वंसमवाप सः // 8 // विहाय दृक्पथं तस्या गन्तुकामः स लज्जया / दध्यौ कलिबलग्रस्तसमस्तगुणगौरवः अहो ! त्रिलोकमङ्गल्या भीमपुत्री दमस्वसा / वीरसेनस्नुषा देवी मया पत्या विडम्ब्यते // 10 // न मम द्यूतकारस्य सतीयं युज्यतेऽन्तिके / कपालमालिनो मौलौ कला चान्द्रीव शूलिनः // 11 // इमां संप्रति सन्त्यज्य क्षीणचन्द्रः क्षपामिव / अहं शूरस्य यास्यामि सकाशं कस्यचित प्रभो! // 12 // एकाकिनी तदपहाय बने प्रसुप्तां प्राणप्रियामनुचरी कुलजां सुसाध्वीम् / एतन्मया कुलवतामतिगर्हणीयमात्मोदरम्भरिपदं प्रतिपद्यतेऽद्य // 13 // एकः स्वदारपरिहारविभुनलोऽभृदेतद् यशः प्रसरतु त्रिजगत्सु नित्यम् / इत्थं विमृश्य स कर दयितोपधानस्थानस्थितं विघटयन् मनसा जगाद // 14 // इममभिनवरूपं कर्मचण्डालमुच्चैरयि ! परिहर मुग्धे ! पापिनं मामभव्यम् / ननु गुणगणवल्लि ! स्वेच्छयेवाधिरूढा कथमसि विषवृक्ष कल्पवृक्षभ्रमेण ? // 15 // कुलवति ! कुललजाशृङ्खला येन लुप्ता स खलु नलगजोऽहं निर्विवेकाङ्कशोऽस्मि / तव निवसनमेतद् बन्धनं ब्रूहि मुग्धे ! मम किमिव हि लूतातन्तुतुल्यं तनोतु ? // 16 // या दुर्गभङ्गविषये परपार्थिवानां पूर्व बभूव ननु भूवलयप्रसिद्धा / // 94 //
Page #209
--------------------------------------------------------------------------
________________ DIII-IIATilaII-IIIIII छेत्तं प्रियानिवसनं तु पलायनार्थमद्यापि सैव महती मम हस्तवत्ता तुभ्यं हे नलहस्त ! दक्षिण ! सखे ! स्वस्त्यस्तु धैर्य भज त्वं मे संप्रति बान्धवस्तदिह मे याच्या प्रमाणीकुरु / धूतावेशविसंस्थुलीकृतमहासाम्राज्यलक्ष्मीक! ते केयं भीमसुतानितम्बवसनच्छेदेऽपि लजालुता? // 18 // पापातङ्कज्वरविधुरिता वेपथु स्रस्तशस्त्राः प्रौढप्रेमोपचयजडिता गाढलज्जाविजिह्माः / कष्टं कान्तानिवसनमिदं छिन्दतः सर्वथाऽमी वारं वारं कथमपि न मे हस्तघाताः पतन्ति // 19 // छिन्नं वासस्तदिदमधुना प्रेमपाशेन साकं त्यक्ता देवी सपदि मनसा लोकलज्जा च सद्यः / इत्थं राजा स्वगतमखिलं व्याहरन्नात्मकर्म प्रेक्षाञ्चक्रे नृपदुहितरं हन्त ! शेते नवेति ? // 20 // एतत् तदेव वदनं क्षितिपालपुच्या निद्रानिमीलितमपि स्मितवद् विभाति / लक्ष्मीविलासमुकुरस्य यदग्रभागे भिन्दन्ति भालतिलकस्य रुचस्तमांसि // 21 // यूयं दिक्पतयः : कुरुध्वमधुना भैम्यां मनो वत्सलं युष्माकं पदियं स्तुपा किमथवा तन्नाम गृहाम्यहम् ?! ते सर्वे कृतघातिना हतधिया सङ्कीर्त्यमाना मया मन्ये कजलकर्दमैरिव भृशं लिप्तं वपुर्बिभ्रति // 22 // सेयं संप्रति मुच्यते भगवती गार्हस्थ्यलक्ष्मीः स्वयं क्लीवस्यैष नलस्य देवि ! चरमो मुग्धे ! प्रणामस्तव / धिर धिग् रात्रिरिय प्रयातु विलयं यामः क्षयं यात्वसौ शीघ्रं संप्रति दह्यता वनमिदं यत्र प्रिये / मुच्यसे / / 23 // श्रमविवशशरीरां भर्तृविश्वासबद्धां वनपरिसरसुप्ता भीरुमेकाकिनी यत् / DISHILAIII II IIIII IIIIIII
Page #210
--------------------------------------------------------------------------
________________ चतुर्थे दमयन्तीत्यागः॥ . स्कन्धे सर्गः११ / / 95 // DIL ATHRILANEFIlATEFII-IIIII अकलितकुललजः प्रेयसी फेलिकावत् बलिमिव बलवद्भ्यः श्वापदेभ्यः क्षिपामि // 24 // दुर्वारदारुणनिरन्तरशोकमोहलज्जावसादगहनो विषमः क्षणोऽयम् / नो वेभि भीमतनयामपहाय शीघ्रं गन्तुं सुखेन मम दास्यति वा नवेति // 25 // भवति विरतिमेपा याति यावद् न रात्रिर्दिशि विदिशि च यावत् क्रूरसञ्चाश्चरन्ति / विपिनभुवि मदीयप्रेमविश्रम्भसुप्तां जिगमिषुरपि तावत् प्रेयसी पालयामि // 26 // दारत्यागी कठिनहृदयः किश्च विश्वासघातीत्येवं नित्यं परिवदतु मामेष सर्वोऽपि लोकः / राज्यभ्रष्टः श्वशुरनगरीमप्रपित्सुः सुखार्थी नैवानुज्झन् पुनरहमिमामन्यथा सुस्थितः स्याम् // 27 // इति क्षोणीपालः प्रियजनबियोगातिलहरीसहस्रव्याकीणं प्रबलकलिकीलाकुलमपि / मनः प्रेङ्खारूढं दधदुभयतः प्रौढमहिमा गतायातैश्चक्रे वनपरिसरं राजपथवत् // 28 // भ्रातचूत ! सखे ! कदम्बविटपिन् ! वत्स ! प्रियालद्रुम ! त्यक्ताऽऽस्ते फलपुष्पपल्लवजुषां युष्माकमेषाऽन्तिके / तद् दुरवियोगवज्रपतनप्रत्यग्रमूर्छागमे चैतन्यं लभते यथा पुनरियं छाया विधेया तथा // 29 // अपि च जगति तुङ्गाः सानुमन्तो भवन्तः परिचितमिह पक्षच्छेददुःखं भवद्भिः / तदियमुभयपक्षभ्रंशमासाद्य दीना निषधपतिकलत्रं रक्ष्यतां भीमपुत्री - // 30 // अहमपि च विचित्रं वाचिकं किश्चिदस्याः प्रणयमयममर्षच्छेदि संपादयामि / OHIT = Mil : Til - HiT 4 | NilI IIIIIIII 4 ISHITISI // 95 //
Page #211
--------------------------------------------------------------------------
________________ // 31 // IIIle // 32 // // 33 // // 34 // निजमनसि यदाशाबन्धनं धारयन्ती कथमपि न यथाऽसौ जीवितव्यं जहाति इति निवसनपत्रे नैषधस्तत्र तस्यास्तिमिरपरिकरेऽपि व्यक्तसंस्कारशक्त्या / इदमलिखदखिन्नं छिन्नजङ्घा विनिर्यत्तरुणरुधिरधारासक्तशस्त्रीमुखेन ईदृशः श्वशुरवेश्मनि लज्जे नेक्षितुं तव पथि क्लममीशः / तत् क्षमस्व दयिते ! मम गन्तुं कारणेन न परेण गतोऽस्मि कुण्डिनं प्रति वटेन पुरोऽध्या किंशुकेन निषधां प्रति पश्चात् / देवरस्य भज वेश्म पितुर्वा मद्वियोगसमयं गमयन्ती। यदि रिपुकुलसिन्धौ न क्वचिद् भीरु ! मनो न च यदि गदमुख्यैरन्तरायैर्विपन्नः। पुनरधिगतवित्तस्थानलाभस्य तद् मे सुमुखि ! सलिलपानं त्वन्मुखेनेक्षितेन भूयो राजा रजनिमखिलामौषधिस्पर्द्धयेव व्याकुर्वन्तीं दिशि दिशि भृशं निर्भरं भालभासः। तस्थौ दुःस्थः कथमपि सह स्वात्मना नेतुकामः पश्यन् पत्नी निधिमिव चिरं चौरवद् दूरसंस्थः दुःखावेगविदीर्यमाणहृदयन्यस्तस्वहस्तो जवादाक्रन्दध्वनिमुच्चकैर्विरचयन् हा तात ! तातेति सः। त्यक्त्वा लोचनगोचरात् प्रियतमामत्यन्तनिद्रालसामेकाकी सहसा विवेश विवशः सञ्चार घोरं वनम् माभूवन् विपदः शरीरजरुजां मा दुष्टसच्चव्यथा माभूद् दुर्जनविदरः क्कचन ते मा जृम्भकेभ्यो भयम् / // 35 // IIIIIIII ASHISII // 36 // // 37 //
Page #212
--------------------------------------------------------------------------
________________ चतुर्थे स्कन्धे शोकप्रस्तो नलः॥ . II IIISTFle निश्चिन्ता दमयन्ति ! बन्धुसदनं लप्सीय शीघ्रं सुखं जल्पन्नित्थमसौ भृशं दश दिशः पश्यन् द्रुतं निययौ // 38 // तस्य सत्क्रमविकारकारकैरुत्पथेरुभयथाऽपि गच्छतः। स्वैरपोरघनघर्घरारवा वायवः सपदि संमुखा ववुः // 39 // इतिश्रीमाणिक्यदेवसरिकृते नलायने चतुर्थस्कन्धे एकादशः सर्गः // 11 // चतुर्थे स्कन्धे द्वादशः सर्गः / सर्गः 12 // 96 // II BIPII III AISINA THII A TEII VIII MISle ततो बहलधुलीकैरन्धकारितदिग्मुखैः / मरुद्भिजृम्भितं ग्रीष्मवासरारम्भसम्भवैः प्रभञ्जनघनोद्धृतद्रुमसङ्घट्टसम्भवः / अथ तत्र समुत्तस्थौ दारुणः सहसा दवः // 2 // स्फुटद्वेणुत्रटत्कारैः सकरक्षोभमोटनम् / आचुक्रुशुरिव ज्वालाः कलत्रत्यागिनं नलम् // 3 // विश्वस्तघातिनो राज्ञः किल्विषस्येव कक्षया / तत्क्षणं कलुषीचक्रे कृष्णवास रोदसी // 4 // ताहग् दवाग्निसंमः तत्रातस्येव कस्यचित् / राजन् ! नल! नलेत्युच्चैरथ्रयन्त प्लुता गिरः किमियं कर्णयोर्धान्तिराहोस्विद् वक्ति कोऽपि किम् ? / चिन्तयन्निति वाचस्ताः शुश्राव स पुनः पुनः॥ 6 // इहापरिचितस्थाने क एष मम सूचकः / किमस्य पुरुषस्यैवं ममाऽऽकारणकारणम् ? // 7 // तद् वेधि किमिदं तावदिति राजाऽप्यवीवदत् / कस्त्वं भोः! क्व किमर्थ मां भूयो भूयोऽभिभाषसे? // 8 // IA ILAII
Page #213
--------------------------------------------------------------------------
________________ IIIIIII-IIIMIRISISile अहमस्मि महागर्ने पतितो वह्निवेष्टितः / त्वां वदामि तदागच्छ मामुद्धर महीधर ! // 9 // इति श्रुत्वा समागत्य गाया निकटं नलः / मनुष्यभाषया सर्प जल्पन्तं तत्र दृष्टवान् . // 10 // ऊष्मशुष्कमुखश्चाहं वाचाऽनुमितिगम्यया / उत्क्षिपोत्क्षिप मां राजन् ! रक्ष रक्षेति सोऽवदत् // 11 // स्पर्शः खलु विरुद्धस्ते कथमुद्भियते भवान् ? / इत्युक्तः सोऽपि भूपेन व्याजहार भुजङ्गमः // 12 // क्वचिद्वयमनादिष्टा न दुष्टं कर्म कुमहे / यदि त्वयि विरुद्धः स्यां त्रिसत्येन शपामि तत् // 13 // शीघ्रं पुनरतो गर्तात् कृतान्तमुखभीषणात् / मामुद्धर धराधीश ! पूर्वजं नरकादिव // 14 // ततः प्रमाणयन् याञ्चां भुजगस्य महाभुजः / भुजावलम्बनं तस्मै तरण्डमिव दत्तवान् काकोदरं दुराराध्यमुद्धरन् काकुवादिनम् / भारमुग्नभुजो राजा निर्जगाम शनैः शनैः न त्वामहं महाकाय दूरमुद्वोढुमीश्वरः / क मुश्चामीति राज्ञोके दम्भात् कुम्भीनसोऽवदत् // 17 // इतो नव पदानि त्वं गणयन् गच्छ भूपते। दिसख्ये तु पदे पाते विदध्या मा गोननम् // 18 // इति तद्वचनाद् राजा पदानि गणयन्नगात् / एकद्वित्रिचतुःपञ्चपदसप्ताष्टनवावधिः // 19 // दशमे तु पदे प्राप्ते स यावद् मोक्तुमिच्छति / प्रकोष्टे निष्ठुरं दष्टः स तावत् तेन भोगिना // 20 // दष्ट्वा च कुण्डलीकृत्य भोगाभोग फणीश्वरः / तस्यैव सम्मुखस्तस्थौ साभिप्रायं विलोकयन् // 21 // तद्विषानलदग्धस्य नलस्य च शरीरतः / शुष्कवृक्षादिवोत्तस्थौ धूमस्तिमिरसोदरः // 22 // IIIIIIIIIIII-IIIFIyle
Page #214
--------------------------------------------------------------------------
________________ चतुर्थे स्कन्धे सर्गः१२ कर्कोटकसर्पण कुब्जीकृतो नलः॥ // 97 // BIEFIT ISIT TEET-IIIIIIIIIIsle स सद्यः प्राप्तसंस्थानवर्णस्वरविपर्ययः / दग्धसौभाग्यसम्भारं बझार विकृतं वपुः // 23 // विषस्थपुटितस्थूलसिरास्थिग्रन्थिवीथिभिः / ततान तत्तनुर्जीर्णनिम्बस्तम्बविडम्बनाम् // 24 // हयवद् ग्रीवया वक्रः क्रूरः पोत्रीव दंष्ट्रया / गोवत् ककुमान् पृष्ठेन वैचित्र्यं प्राप नैषधः // 25 // बभूव कुटिला घोणा त्रिकोणमभवच्छिरः / तस्य शीघ्रमजायतां चक्षुषी चोर्ध्वपिच्छले // 26 // भियाजनगुजरय गिद्धमानः स रोचिषा लिप्तः प्रियापरित्यागपातरित दिद्युते 201 आत्मानमीदृशावस्थं विह्वलः स विलोकयन् / दुरुदर्क स्वचित्तेन दारत्यागं विचिन्तयन् // 28 // तमुग्रमग्रभागस्थं दृष्टं दृष्टिकटुं भृशम् / पन्नगं प्रति रोषान्धः साक्षेपमिदमब्रवीत // 29 / / युग्मम् / आः पाप ! कथमद्यापि पुरस्ताद् मम तिष्ठसि ? / दर्शयन् मुखमात्मीयं किं निर्लज्ज ! न लजसे ? // 30 // धिर धिग् रामठनीरेण सिक्तं माकन्दकाननम् / विषदृष्ट्या कथं ध्वस्तं त्वया रम्यं वपुर्मम ? // 31 // वरं श्लाध्यतमो मृत्युरितो मे कुब्जजीवितात् / कथं दुष्ट ! विनिर्दिष्टा त्वया मे नित्ययातना ? // 32 // उपकारपरं साधु विश्वस्तं वचसि स्थितम् / दशता निर्विरोधं मां कस्त्वयाऽर्थः समर्थितः ? // 33 // भवादृशैर्दुराचारैर्दीनानां दुर्दशापहः / परोपकारमार्गोऽयं परेपामपि भज्यते // 34 // युक्तं शिरसि वः कर्णी न जातौ मूलतोऽपि यत् / करोति कर्ममर्मावित सकर्णः क इवेदृशम् ? // 35 // बभूव भवतां स्थानं स्थाने च जगतामधः / तदधोऽपि पुनर्गन्तुं कर्मभिः परिभाव्यते // 36 / / जाII.4 II-IIIIII // 90
Page #215
--------------------------------------------------------------------------
________________ II TIME II - III जगत्प्राणभुजः पगून् द्विजिह्वान कर्णवर्जितान् / मलिनान् जिह्मगान् युष्मान् कथं कद्रूरजीजनत् ? / / 37 // अयं ममैव दोषो हि यद् मृत्युमुखगोचरम् / कृतघ्नं त्वामपाकृष्य प्रपन्नं फलमीदृशम् . // 38 // युक्तमेव त्वयाऽऽचीण मयि प्रणयिनि प्रियम् / विदधाति सुखं किं वा कपिकच्छूरीकृता ? // 39 // धिर धिक् परोपकारं तं यत्र स्वात्मा विडम्ब्यते / दत्त्वा भट्टस्य कौपीनं नग्नत्वं नूनमात्मनः // 40 // सहस्रगुणनीचः स्याद् नीचपात्रप्रदानतः / वामनाय भुवं दत्त्वा पातालं प्रययौ बलि: // 41 / / किमचितैर्दुराचारैः किमाराद्वैः कुदेवतैः / सिक्तस्य विषवृक्षस्य विपाकः खलु दारुणः // 42 // न चौरेभ्योऽभयं दद्याद् न कृपां परिशीलयेत् / आत्मनश्च परेषां च कतुं यदि हितं मतम् // 43 // खलेषु नापकर्त्तव्यं नोपकर्त्तव्यमप्यहो? / उपेक्षैव क्षमा तेषु स्वकर्मफलभागिषु // 44 // न हि व्यापादयामि त्वां व्याल ! विश्वासघातकम् / स्वयमेव समाकृष्टं म्रियमाणं दवानलात् // 45 // यद् मया विहितं तुभ्यं त्वया च मम यत् कृतम् / तत् तत् कर्मफलावानिरस्तु नौ किमतः परम् 1 // 16 // अहो ! नु खलु भोः ! सर्वे देवासुरनरोरगाः ! / तिष्ठन्तु साक्षिणो यूयं दष्टोऽहमहिनाऽमुना // 47 // यदि कश्चिद् न दोषो मे यदि साधु कृतं मया / तद् ममानुग्रहं कतुं सत्वरं यूयमहथ // 48 // तस्यैवं शपमानस्य कुब्जरूपस्य भूपतेः / विहस्य सामसंपन्नं पन्नगः पुनरुक्तवान् // 49 // किमेवमव्यलीकं मामधिक्षिपसि पार्थिव ! / दशेत्युक्तस्त्वयैवाहं तेन दष्टो मया भवान् // 50 // ASIAFII NHI II ITIE I काजा I
Page #216
--------------------------------------------------------------------------
________________ // 51 // स्कन्धे सर्गः 12 // 52 // विकृतसर्परूपं त्यक्त्वा . प्रकटीभूतो मनुजः॥ // 98 // // 54 // AllIIIFII II III RISHIDISH प्रसाद एव देवानामयं च त्वयि संप्रति / रूपसंपत्तिनाशेन वृथा. सन्तप्यसे नल ! इति ब्रुवाणः स नलस्य चित्ते दुःखं वितन्वन् विषनिर्विशेषम् / विहाय तं वैक्रियसर्पभावं मनुष्यरूपं प्रकटीचकार अये ! किमेतद् ननु तावदेष स्वयं पितृव्यो मम वज्रसेनः / वातानुजस्यास्य पुरः खकीयं कथं मुखं दर्शयितुं सहिग्य ? हा तात ! वात्सल्यवशादुपेत्य किमीदृशः संप्रति वीक्षितोऽस्मि / भवान्तरेणापि शठेऽप्यपत्ये न स्नेहपाशः शिथिलोऽथवा स्यात राज्यं च धर्मश्च यशः सुखं च चत्वारि नीतानि मया विनाशम् / तत् तात! दुष्टे कुलकण्टकेऽस्मिन् वृथैव वः प्रेम मयि प्रकामम् उज्झता शठतया निजपत्नीमत्र पापरतया वनमन्तः / अत्रपापरतया वनमन्तश्चिन्तिता न पितरोऽपि मया यत् गुणव्रजानां महतामहानये महानये वर्त्मनि तिष्ठतोऽपि मे / उदस्य चक्रे सहसा महापदं महापदं तात ! दुरोदरं मम इति बहु विलपन्तं राज्यधुर्य सुतं तं स सपदि परिरम्य व्याकुलः साश्रुनेत्रः। HI AISSIATI AIIIIIIII // 56 // // 98 //
Page #217
--------------------------------------------------------------------------
________________ . // 58 // // 59 // // 60 // // 61 // IIIIIIIIIEISHIFISite कनकमयमपूर्व श्रीफलद्वन्द्वमस्मै मणिपरिकरचित्रं चारु दत्त्वा जगाद अहं पितृव्यस्तव वत्स ! पूर्व जातः पुनः संप्रति कर्मयोगात् / लोकान्तरे नागकुमारवृत्त्या कर्कोटकाख्यो भुवनाधिनाथः ज्ञात्वाऽवधिज्ञानवलेन सर्व तवाऽऽगतं संप्रति कष्टमेतत् / सानिध्यमाधातुमुपागतोऽस्मि मा विस्मयं चेतसि वत्स ! कुर्याः दुनोति हि प्राक्तनकर्म बद्धं भवन्तमद्य प्रतिहस्तरूपः। अग्राह्यनामा खलु देव एकस्त्वयाऽनुगम्यः समयान्तरे स: एकाकिनः शत्रुभयं विचिन्त्य रूपं परावृत्तमिदं मया ते / स्वच्छन्दचारी चिरमीशस्त्वं सुरक्षितः स्थास्यसि दुर्जनेभ्यः यहि स्वरूपं तव कर्तुमिच्छा तर्हि द्रुतं बिल्वसमुद्गमेतत् / उद्घाख्य वस्त्राभरणानि दध्याः प्रपत्स्यसे त्वं प्रकृति पुराणीम् अहं च मुञ्चामि सुखप्रदेशे कुवासरान् यापयितुं भवन्तम् / अलध्यभावाद् भवितव्यतायाः कत्तुं परं नाहमपि क्षमस्ते इदं वदन् व्योमविसर्पिगन्धै-रन्धीकृतालिवजमातनद्भिः। IIIIIIEISSIFIEFICIFI FIFle // 62 // = // 63 // // 64 //
Page #218
--------------------------------------------------------------------------
________________ 65 // चतुर्थे स्कन्धे मनुजरूपेण पितृ-. सर्मः१२ // 66 // व्येन // 99 // प्रकटीकृतं कुन्जरूपला कारणम्॥ // 68 // IIIIIIIIIIIIIIIBEle कर्कोटको वत्सलताविहस्तस्तस्तार पुष्पप्रकरैः स पृथ्वीम् / माभूद् राज्यं सकरितुरगं माभवन् भृत्यवर्गा भूयो युक्तं कथमपि पुनस्तात ! वध्वा विधेहि / तद्वाणीनामुपचितमिदं वक्तुकामोऽपि राजा सौख्योत्कर्षात् स सपदि तमः प्राप मूछौं विनाऽपि उन्मील्य पश्यति च यावदसौ न तावत् तत् काननं न स दवो न स पूर्वजश्च / अव्यञ्जितागमन एव जवादवाप पारिप्लवोर्मि नगरीनिकटं तडागम् इत्थं स विस्मृतवधूविरहः सरस्तत् व्यावर्ण्य वर्णनपरः परवीरहन्ता / बभ्राम काममभिरामतमप्रवेशं वेशं तवारिपरितः परितुष्टचित्तः तस्मिन् मानसमानमर्दिनि मनःसन्तोषपोषप्रदे विष्वपालिकपाटपाटनपटौ पारिप्लवैर्वारिभिः। तिर्यग्भीरवणक्वणन्नवनवक्रीडापतङ्गबजे शुद्धः सान्ध्यविधि विधाय नगरीं द्रष्टुं ययौ नैषधः जनं तु तत्राभिमुखं स पृच्छन्नियं विनीतेत्युपलभ्य राजा विक्षिप्तकालायनविप्रकर्ष दिव्यं दधौ वृत्तमचिन्त्यमन्तः अत्रैव तच्च ऋतुपर्ण इति त्रिलोकीलोकम्पृणैर्गुणगणैः प्रगुणैः प्रतीतः / श्रीमानमेयमहिमा मम बालमित्रं भृङ्गेश्वरस्य तनयो विनयी नरेन्द्रः नव्यं तदेतद् मम संविधानं जातं सुहृत्सङ्गमनामधेयम् / IIIIIIIIIIIIIIIIFIFE // 69 // // 70 // // 71 //
Page #219
--------------------------------------------------------------------------
________________ // 72 // // 73 // मया पुनः प्राकृतमात्रवृत्त्या स पार्थिवः संप्रति वीक्षितव्यः न तानि सौख्यानि न तत् प्रभुत्वं न तच्छरीरं वचसोऽधिवासः। दैवानुवृत्त्या मम कालयोगाद् भवान्तरं जीवत एव जातम् तदपरिचितवृत्तेरीदृशः सांप्रतं मे कथमिव मुखयात्रा तस्य राज्ञो भवित्री। इति विहितविमर्षों जातहर्षो नृपस्तां पुरममरपुरश्रीतुल्यभासं विवेश इति श्रीमाणिक्यदेवसूरिकृते नलायने चतुर्थस्कन्धे द्वादशः सर्गः // 12 // चतुर्थे स्कन्धे त्रयोदशः सर्गः। // 74 // --- छानाबानाबाAI III II ISIIIIIEISEIR ISI-IBITIO यादृशः प्रविशन्नासीत् पुरः स पुरगोपुरम् / तादृशस्तुमुलरतत्र समुत्तस्थौ भयङ्करः तरुणाकारहाणामुपर्यारोहणक्रियाम् / अदृश्यन्त च कुर्वाणा जनाः पूरभयादिव धिगू धिग हस्तिपकाः सौख्याद् गजशिक्षाप्रमादिनः। नो चेत् किं नो राजवाह्यो व्यालत्वमवलम्बते // 3 // स्वच्छायामपि निघ्नन्तं जिघृहुं पक्षिणोऽपि हि / शब्दमप्यनुधावन्तं गन्धमप्यभिकोपनम् // 4 // क इवैनं वशीकुर्यादुद्दाममददुर्दिनम् / भ्रमभ्रमरझङ्कारैरभिचारैस्विोल्वणम् // 5 // युग्मम् /
Page #220
--------------------------------------------------------------------------
________________ चतुर्थे स्कन्धे सगः१३ नलस्य गजताडनम् // // 10 // DIEFITS THEIR ISIII-IIIII भो भोः ! कश्चित् पुमानस्ति य एनं वशमानयेत् / ग्रामपञ्चशती तस्य प्रसादीकुरुते नृपः // 6 // हन्त ! दृष्टिपथं पौराः परित्यजत दूरतः / नश्य नश्य मृतः कुब्ज ! त्यज व्यालमुखं द्रुतम् नीत्वा भूरिखसोः पुत्रीं करेण नलिनीमिव / दुरात्मा वारणः सोऽयमित एवाभिवर्त्तते इत्युक्तः समकालं च निःशब्दपदसश्चरम् / पुरस्तादेव दुर्दान्तं ददर्श करिणं नल: रे रे मांसपसाबूट ! दीर्घनासिक ! दन्तुर !! पशो ! पिशान ! निःशङ्कपित्थं भ्रमसि किं भृशम् ? // 1.!! धिग् धिग् मातङ्गतुङ्गस्य भवतः स्त्रीषु पौरुषम् / अहमेकोऽस्मि रे ! युष्मद् मदज्वरभिषग्वरः // 11 // इति जल्पन भृशं लोष्ठनिष्ठुरैस्तमताडयत् / पश्यतां पौरलोकानां जनयन् विस्मय नलः // 12 // त्रिमिर्विशेषकम् / उत्तालपदसञ्चारः समूत्कारकरः करी / अभ्यधावद् नलं हन्तुं रोषारुणविलोचनः / // 13 // वातोद्धृतमिवाम्भोदं सपक्षमिव पर्वतम् / दृष्ट्वा तमभिधावन्तं हा ! हेति तुमुलोऽभवत् // 14 // तदीयकरसम्पातं वश्चयन वेगवत्तया / चरणद्वारमार्गेण स तं गृहमिवाविशत // 15 // निस्तुलस्य स्थलस्येव तलं तस्य प्रविश्य सः / जघान तं कफोणिभिर्दण्डसारैररत्निभिः // 16 // वज्रपातप्रतीकाशैर्घनघातविजित्वरैः / बभूव बधिरं तस्य प्रहारध्वनिभिर्नभः // 17 // दृढं प्रहरतस्तस्य तलस्थस्य जिघृक्षया / द्विपः कुलालचक्रस्थः स मृत्पिण्ड इवाभ्रमत् // 18 // भुजाभ्यां चरणाभ्यां च भृशं सन्दश्य तत्पदौ / स्खवपुर्निगडेनैव तं बबन्ध क्षणं नल: // 19 // // 10 //
Page #221
--------------------------------------------------------------------------
________________ SIRI DIBHIIIIIIIIIIIIIII द्विपेनापि स विक्षिप्तः समुच्वासयता क्रमौ / तमुत्प्लुत्य जघानोचैरधिपेचकमंहिणा. // 20 // सहसा व्योम्नि विक्षिप्तस्ततो हस्तेन हस्तिना / स तिर्यक् ताडयामास तं पतन्मूनि पाणिना . // 21 // सहसैव च निःशेषशुष्कदानाम्बुशीकरः / निस्पन्दमन्दतां भेजे गजेन्द्रः सान्द्रसाध्वस: // 22 // तथागतममुं सम्यक् समारुह्य प्रसादयन् / महामात्रार्पितसृणिः प्रतिशालमचालयत् // 23 // विषधरविषदृष्ट्या रूपसंस्थानलीलाविनिमयमयमित्थं वैकृतं लम्भितोऽपि / न खलु निषधनाथः शौर्यहानिं प्रपेदे भवति हि घनसारे सौरभं चूर्णितेऽपि // 24 // प्रतिपदमथ पौरैः प्रेमतः पूज्यमानं विरचितगजशिक्षावर्णनं बन्दिवृन्दैः / नृपमिव तमपश्यत् लीलया यान्तमन्तर्नरपतिऋतुपर्णस्तुङ्गवातायनस्थः // 25 // ग्रैवं निधाय च गजादिविरूढमेव वेगादुपयुपरि सम्मुखमापतन्तः। तं वेत्रिणः सपदि निन्युरनन्यचित्ता राजाज्ञया सदसि दर्शनकारणेन // 26 // कस्त्वं कुतः किमिदमद्भुतमीदृशं ते ? दन्तीशदर्पदलनं विकला च मूर्तिः / इत्थं नृपेण मृदुयुक्तिमता नियुतः प्रत्युच्चचार सकलप्रचयं स कुब्जा // 27 // श्रीवीरसेनतनयः प्रथितः पृथिव्यां सत्यव्रतो नरपतिर्निषधाधिनाथः / दूरं दुरोदरजितः स हि सोदरेण निर्वासितः प्रथममेव गृहीतराज्यः // 28 // DISTIAISHI IIIIIIIISISile
Page #222
--------------------------------------------------------------------------
________________ चतुर्थे स्कन्धे सर्गः१३ गजे नलस्य . विजयः। // 10 // II IIATIGATIA II IIIIIINE सूतोऽस्मि तस्य च नृपस्य पदच्युतोऽहं भूमि भ्रमन् पुरमिदं क्रमतः प्रपन्नः / प्राक तत्र सङ्गवशतः पुनरद्य सद्यः त्वदर्शनाच्च सफलश्रमतां गतोऽहम् // 29 // इति कुब्जगिरा निशम्य सम्यक् प्रियमित्रस्य नलस्य तामवस्थाम् / विनिवारितगीतनृत्यवाद्यस्त्रिदिनं भूमिपतिर्बभार दुःखम् // 30 // नलभृत्य इति स्वयं स राजा बहुमानं मनसानिशं दधानः। प्रियमित्रतया चकार कुब्ज सपदि ग्रामशतानि पञ्च दत्वा // 31 // न नृपतिकुलकलाभिः सूर्गपाकादिकाभिः सततमपि वितन्वन् विस्मयं मानसस्य / प्रतिदिनमपि राज्ञो लब्धनानाप्रसादः क्षितिपतिरिख तस्थौ नैषधः कुब्जकोऽपि // 32 // किं किं चेतसि चिन्तयिष्यति सती यद्वा विपन्नैव सा भूयो नास्ति तदीक्षणं क्वचन मे मृत्युश्च नागच्छति / घिर धिर निष्फलजीवितव्यसनिनः कालो वृथा याति मे तस्थौ चेतसि चिन्तयनिति चिरं कुब्जाकृतिर्नैषधः // 33 // वरजनं तदुदन्तजिघृक्षया दशसु दिक्षु सदा विसृजन्नपि / स्वविषयेऽपि हि कोशलनायको नल इति प्रकटं न बुबोध तम् // 34 // तमुदयं नवमङ्गलशोणया निजदृशा भृशमाकलयन कलिः / प्रियतमाविरहज्वरपीडया बहु निरन्तरमन्तरदीपयत् // 35 // एतत् किमप्यनवमं नवमङ्गलाई माणिक्यदेवमुनिना कृतिना कृतं यत् / तस्यार्यकर्णनलिनस्य नलायनस्य स्कन्धो जगाम चतुराभिमतश्चतुर्थः // 36 // इति श्रीमाणिक्यदेवसूरिकृते नलायने चतुर्थे स्कन्धे त्रयोदशः सर्गः // 13 // समाप्तोऽयं चतुर्थः स्कन्धः। IIIIIIII RISHISIle // 10 //
Page #223
--------------------------------------------------------------------------
________________ पञ्चमः स्कन्धः 00 प्रथमः सर्गः। BILIGIBIFII II IIEISII ISIS इतश्च तेन सा त्यक्ता यत्र रात्रौ विदर्भजा। तत्प्रभातेऽपि तत्याज निद्रा नैव सखीव ताम् // 1 // तदा काले च सा स्वमे विवेद यदहं किल / रसालशालमारूढा सरसं फलशालिनम् // 2 // अत्रान्तरे समागत्य निषण्णस्तस्य मूर्धनि / कपोतपतगः पापी शुष्कश्च स महातरुः अहं शिथिलसर्वाङ्गी तस्माच्च पतिता तरोः / इति स्वमं समासाद्य सद्यो निद्रां मुमोच सा // 4 // त्रिभिर्विशेषकम् / दुःस्वममिव विज्ञाय तत्प्रतीकारकासया / द्रष्टुं प्रियमुखाम्भोजं व्यापारितवती दृशौ न साऽपश्यत् प्रियं पार्श्व वामे वा दक्षिणेऽपि वा / न मुनि न च पादान्ते न दूरं न च सन्निधौ // 6 // किमेतदिति सत्रासं सा समुत्थाय विह्वला / विवेद च पति कूपे पतितं स्वमनाथवत् // 7 // ततस्तत्कालमालम्ब्य साहसं चकिताऽपि सा / सरस्तरुलतागुल्मान् विचिनोति स्म सर्वतः // 8 // धीरनिर्वृतनिस्त्रिंशयष्टिवत्कम्प्रया तया / न सेहे सहसा वक्तुं तत्क्षणं क्षीणकण्ठया निलीनं परिहासाय सा तमाशय कुत्रचित् / आर्यपुत्रार्यपुत्रेति व्याजहार पदे पदे // 10 // IAITIATHI AIतI.HISITE
Page #224
--------------------------------------------------------------------------
________________ पञ्चमे स्कन्धे सर्गः१ नलत्यागा नन्तरं दमयन्त्या दशा॥ // 102 // BHI IIATIGATI AAYI ISIII दिष्ट्या दृष्टोऽसि दृष्टोऽमि मा भृयो भव निनुतः। व्यसनेऽपि महाराज! किमेतत् कौतुकं तब ? // 11 // इत्यादि बहु जल्पती यदाऽपश्यत् प्रियं न सा / तदा भीमोद्भवा भेजे विशेषव्याकुलं मनः // 12 // वेगादपहृतो नूनं रूपातिशयलुब्धया / विद्याधरकुमार्या वा व्यन्तर्या वा स मत्प्रियः // 13 // नूनमत्याहितं किश्चिद् महाराजय वर्तते / अन्यथा किमियत्कालं मदुःखं क्षमते प्रियः // 14 // विगविक् सुखनिषेपिन्याः प्रमादपरतां गा ! गु गद् दुःखेद सम्बोधपि या निमितो निधिः // 15 // सर्वथा मुषिता साऽहमनाथा शरणोज्झिता / कथमेका भविष्यामि निराशा गहने बने ? इदं हि प्राणिनां प्रायो जीवितव्यं व्यवस्थितम् / आशामेव समालम्ब्य कुशमूचीमिवोदकम् // 17 // यदिदं प्रिययुक्ताया वासागारमिवाभवत् / तदेतदधुना जातं वनं कष्टमहार्णवः // 18 // लीलागारं भुवनविजयी वीरसेनस्य मूनुर्भर्त्ता लब्धः कथमपि मया तद्वियोगश्च भूयः। तत साम्राज्यं मम पुनरसावीदृशी च व्यवस्था चिन्तातीतं जयति चरितं कर्मणां किं परेण // 19 // अस्मिन् घोरे वनपरिसरे सर्वतः पर्वतौ धेरैकाकिन्याः कथमपि न मे वर्तते जीवितव्यम् / बन्धुभ्रंशादकृतसुकृतस्तीर्थसेवादिवन्ध्यो निर्भाग्याया मम कथमभृदेष निर्याणभागः? // 20 // हा हा नाथ ! क नु खलु भवान् देहि मे देव ! वाक्यं शक्यः सोढुं कथमिव मया दुस्तरस्त्वद्वियोगः। भूगोलेऽस्मिन् किमपि घटते नैव शङ्कास्पदं मे कः प्रत्यर्थी भवतु मवतः कौश्चकर्णान्तकस्य ? // 21 / / IIIII 4 II SAINI ATHI // 102 //
Page #225
--------------------------------------------------------------------------
________________ . // 22 // II-III IIISTille // 23 / / // 24 // कथय कथय स्वामिन् ! क्वापि स्थलेऽथ जलेऽथवा रिपुभिरमरैर्नागेन्द्रर्वा हृतोऽसि हतोऽसि वा / तव किमपि वा दुःखं विश्वप्रियस्य न गण्यते निधिरिव भवानन्तर्धानं गतो दुरितैर्मम जलमभिमतं प्राणत्राणप्रदं जगतां ध्रुवं त्वमपि दयितो मह्यां नाथ ! स्वजीवितवाञ्छया। यदि मयि न ते देव ! प्रायः प्रियेति समर्थना जनमशरणं त्रातुं त्रातः! कृपाऽपि न किं तव ? एहि नैषध ! निषेधय क्लमं द्राग विधेहि नल ! निर्मलं मनः / वीरसेनसुत ! वारय व्यथां देवदूत ! मम देहि दर्शनम् स्फुटति हृदयं यान्ति प्राणा विमुश्चति चेतना स्फुटमयमयं प्राप्तो मृत्युः किमन्यदतः परम् / / तदखिलमपि क्षन्तव्य मे प्रियाप्रियदुष्कृतं मम तु भुवने भर्ता भूयास्त्वमेव भवे भवे हा देव ! हा दयित ! हा भुवनावतंस ! हा वीरसेनसुत ! हा निषधाधिनाथ ! इत्थं विलप्य विवशा मृदुमुक्तकण्ठी भीमोद्भवा भुवि जवेन पपात मोहात् तां वल्लरीमिव परश्वधलूनमूलां भूमौ विलोक्य पतितां क्षितिपालपुत्रीम् / निष्पन्दमन्दवपुषं वनदेवतानां बादं बभूव हृदयेषु दयावकाशः तस्थुर्निरन्तरतरुस्थगिता दिगन्ता दूरीचकार किरणप्रकरं पतङ्गः / आकर्ण्यते स्म घननिर्झरघोरघोषैरेकाननेन विलपन्निव शैलवर्गः // 25 // IIIIIIIIIIIIIIIIIIIII FIRING I // 26 // // 27 // IIIIIII // 28 //
Page #226
--------------------------------------------------------------------------
________________ पञ्चमे स्कन्धे सर्गः१ दमयन्त्या विरहदशा // // 10 // माना ISHI ASIANSHI ATAIL NEFIITIES नान्दोलिताः कपिकुलैरपि वृक्षशाखा दुःखेन वेणुभिरपि कणितं निरस्तम् / मुद्रा मुवे विघटिता न विहङ्गमानामङ्गीकृतं न च तृणं हरिणाङ्गनाभिः // 29 // स्त्रीहत्याऽपि न यस्य पश्य हृदये जाता घृणा कारणं तस्यार्थे दमयन्ति! हन्त! किमिदं मुग्धे ! मुधा खिद्यसि / उत्तिष्ठ ब्रज मन्दिरं प्रति निजं भीमस्य राज्ञः पितु गित्युक्तवतीव तामलिकुलक्काणोत्तरं पद्मिनी // 30 // अथ जलकणमिथैर्नसलानूपवातैस्तटपरिसरभाजां शाखिनां छायया च / सरभसमनुवेलं दत्तहस्तावलम्बा कथमपि कमलाक्षी मोहमूछौं जिगाय // 31 // इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे प्रथमः सर्गः // 1 // माता- III II-IIIEIFI पञ्चमे स्कन्धे द्वितीयः सर्गः। ततः प्रपन्नचैतन्या पूर्वसंस्कारधारया / पुनर्नवेव देवी सा चक्रे नलविलोकनम् // 1 // तस्याः पार्थात् प्रियं दूरं कर्तुं कलिरभूत् प्रभुः। न तु तन्मनसो मध्याद् विच्छेत्तुं कश्चिदीश्वरः? // 2 // इतस्ततः प्रियं द्रष्टुं सा विद्युदिव दुर्द्धरा / भृशं बभ्राम वामाक्षी भुवः स्थपुटसङ्कटा // 10 //
Page #227
--------------------------------------------------------------------------
________________ IIile %= = = = = HISIATERIlaSIAFI आरुह्य तरुशृङ्गाणि विकीर्य तरुवीरुधः / प्रविश्य च गुहागर्ताः सा वीक्षितवती नलम् पत्रसञ्चारमात्रेऽपि नलसञ्चारशङ्कया / सा ददर्श वनोद्देशान् भूयो दृष्टचरानपि तच सायन्तनं शून्यं शयनीयं सरस्तटे / समुत्खातनिधिस्थानमिवापश्यत् पुनः पुनः तमेव पुरुषं द्रष्टुं योगिनीव वियोगिनी / विवेद न हि वैदर्भी शीतमुष्णं क्षुधं तृपम् न श्रमो न भयं नेा नानुतापो न विभ्रमः / नलान्वेषणशीलाया वैदाः किश्चिदप्यभूत् // 8 // कण्टकवणितौ तस्याश्चरणौ शोणितारुणौ / अलक्तकरसन्यासं वहन्ताविव रेजतुः // 9 // प्रिय ! प्रियेति जल्पन्ती सिञ्चन्ती भुवमश्रुभिः / चातकध्वनिरुद्धायाः साध्वजत् प्रावृषः श्रियम् // 10 // इति विष्वग् विचिन्वाना निराशा वितथश्रमा / रुरोद कुररीकण्ठक्रेकारकलया गिरा // 11 // सायं वल्लभयुक्ताऽहं प्रातः प्रियविवर्जिता / अहो ! तादात्विकः कोऽपि विपाको दुष्टकर्मणाम् // 12 // राज्यभ्रंशस्य नो दुःखं प्रवासोऽपि न दुःराहः / अयं पियतियोगरतु विषचे हृदयं द्विधा आकाशात् पतितेवास्मि पातालादिव निर्गता / इह मे दुःखमनाया न कश्चिदवलम्बनम् // 14 // किं शृणोति रविद्राद् विसंज्ञो वेत्ति किं मरुत् ? / जगच्चक्षुर्जगद्व्यापी कतमः पृच्छथतां पुरः ? // 15 // ग गिरिसरिद्व्याप्तं तदेव सकलं वनम् / एक एव परं नास्ति नलः प्राणप्रियो मम / // 16 // अहं नलविनिर्मुक्ता भग्नध्वजपटेव नौः। दुःखमेव कथं दातुं यास्यामि पितुरन्तिके ? // 17 // CIRIF SHI-IFIELHIVII-IIIF IIIe.
Page #228
--------------------------------------------------------------------------
________________ Olil पञ्चमे स्कन्धे सर्गः२ नलविरहा नन्तरं दमयन्त्या विलापः॥ // 104 // III-IIIIIIIEISIIEI तत्र पित्रोः सखीनां च वधूनां सहवासिनाम् / हृदये शल्यभृताया जीवितव्यस्य किं मम ? // 18 // दुहितस्नेहमूढानां नित्यं तेषां मुखेन च / अयशः प्राणनाथस्य श्रोतव्यं केवलं मया तदिह मम वरं हि श्वापदेभ्योऽपि मृत्युर्विषमविषधरेभ्यो नाहलेभ्यो दवाद् वा / स्फुटमनधिगतायां किन्तु कान्तप्रवृत्तौ परमिति करणीयं नेक्षते बुद्धिचक्षुः // 20 // असकलमुत तप्तं नो पितीर्ण हि पूर्ण किमनिखिलगधीतं मुक्तमर्द्धरतुतं वा ?! क्वचन किमुत मैत्र्यं खण्डितं प्राग्भवे वा यदहमसमयेऽस्मिन् स्वामिना विप्रयुक्ता // 21 // किमु हृतमसमक्षं किन्नु मिथ्योपदिष्टं किमभिहतमसभ्यं किं वृथा वाऽभिशप्तं ? / किमु कृतमभिमानं किं कृता वाऽन्यनिन्दा यदजनि मम भर्ना सार्द्धमित्थं वियोगः // 22 // किमुत विघटिता वा सेतवो दीर्घिकानां क्वचिदपि किमु शाखाः खण्डिता वा क्षुपाणाम् / किमुत मधु विकीर्ण सारचं छत्रमानं मम खलु गृहबन्धध्वंसदुःखं यदासीत् // 23 // तदिति बहु विलप्य व्याकुला राजपुत्री नयनजलमुदासे पट्टकूलाञ्चलेन / तदनु सपदि तस्मिन् शोणितेन प्रणीतां नलनृपलिखितां तां वर्णपङ्गिं ददर्श // 24 // दृष्ट्वा तदर्थमधिगम्य निधाय मूर्ध्नि मेने नलं चलितमात्मनि रागिणं च। उद्भिन्त्रमन्युभरनिर्भररुद्धकण्ठी भूयः प्रियं नियतिमोहवशादवोचत् // 104 //
Page #229
--------------------------------------------------------------------------
________________ II N-IIISTRIC RIGIAIIAHI AIII IIFII MEING राजन् ! पुरा सनगरदुमसिन्धुशैलां विश्वम्भरामपि भवान् बिभराम्बभूव / - एकाकिनीमनुसृतां दयितामिदानीं स्वीक मत्र स पुमानपि न क्षमोऽसि .. // 26 // न कलयितुमशक्यं शृङ्गयुग्मं वृषाणां न खलु निजविषाणौ दुर्वहौ दन्तिनां वा / न हि शिरसि पिधानात् पूर्णकुम्भस्य भारो भवति हि परिणीता कस्य कान्ता क्लमाय? // 27 // अधिजलधि वहति कूलषा प्रतितरुवरमेति बल्लीगणः। गतिरिह पतिरेव देवस्त्रियां तदिह कथय नाथ ! मुक्ताऽस्मि किम् ? // 28 // अहर्निशं नृपकुलमानमर्दनं बभूव यत् प्रियतम ! साहसं तव / दुरोदरव्यसनवशेन दीव्यता कथं त्वया तदपि नरेन्द्र ! हारितम् ? // 29 // किं वा मिथ्या नृपकुलगुरो ! दीयते दूषणं ते नूनं ग्रस्तस्त्वमसि महता केनचिद् व्यन्तरेण / तेनैवैते तव विरचिता दुर्दशावतपातास्तेनैवायं मम च रचितश्चित्रवल्लीविलासः // 30 // नूनं तावत् किमिह बहुना तेऽपि जल्पन्तु देवा देवश्चायं भुवनतिलकः कर्मसाक्षी समक्षः / यः कश्चिद् मे व्यथयति पतिं यावदन्तर्निलीनस्तावत्कालं क्षणमपि सुखं तस्य माभूत् कदाचित् // 31 // नित्यं चित्तं दहतु दवथुस्तस्य कालाग्निकल्पः स्वल्पोऽप्यङ्गं न परिचरतु श्रीविलासस्तदीयम् / इत्युक्त्वाऽसौ विमलसलिलैः क्षालयित्वाऽङ्गभागं तस्मिन् तल्लस्थलपरिसरे नित्यकृत्यं वितेने // 32 // DISEILAII III-III O
Page #230
--------------------------------------------------------------------------
________________ पञ्चमे स्कन्धे सर्गः३॥ सक-चन्द्र-चन्दन-विलेपन-भूषणानि भोज्यानि खण्ड-दधि-दुग्ध-घृत्तादिकानि / माङ्गल्यमजनविधि च शुचा तदानीमादर्शनं प्रियतमस्य तु सा मुमोच इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे द्वितीयः सर्गः // 2 // नलविरहा नन्तरं दमयन्त्या विलापः॥ // 105 // पञ्चमे स्कन्धे तृतीयः सर्गः। // वचसा तेन वैदास्तपसा च महीयसा / नलदुर्गतिलीनोऽपि बभूव विकलः कलिः यः सत्यं वज्रकायोऽपि धात्रैर्गावरसैरिव / कलिगलितसामर्थ्यः सतीशापैरभिद्यत सापि कत्तुं प्रियादेशं मार्गेण वटगामिना / वीरसेनस्नुषा देवी कुण्डिनं प्रति निर्ययो वस्ने शस्त्रभवं पत्युश्चित्ते त्यागापमानजम् / प्रहारद्वितयं धैर्याद् दधानापि चचाल सा नलदौजन्यखिन्नेन हृदयेन मनस्विनी / जीवितव्यविरक्ता सा निःशकैका ययौ पथि इमकुम्भभ्रमं बिभ्रत् कुचकुम्भावलोकनात् / पपात पुरतस्तस्याः सहसा पथि केसरी तद्भालतिलकज्वालातडित्ताडनडम्बरैः / स प्रत्युत भयातः सन् व्यावर्चत हरिद्रुतम् = = = = = = orrmrur, = = = = = = = II IIEI HIFTHI FII // / // 105 //
Page #231
--------------------------------------------------------------------------
________________ // 8 // गच्छन्ती महायरसम्बतसम्बनम् / इ महादुर BIDIEILII-IIIIIIEISEIIsla अप्यधावद् गृहीतुं तां रक्तक्रमकराम्बुजाम् / मदान्धः सिन्धुरः कश्चिद् जानन् जङ्गमपद्मिनीम् तस्या मृगेन्द्रमध्याया दृष्ट एवोदरे पुनः / तैरेव चरणैर्दूरं दुद्राव च स चीत्कृतैः सर्पबुद्ध्याभिसर्पन्तः कबरीदण्डखण्डने / तत्कर्णपाशमाशय नाचलंश्च कलापिनः इति स्वावयवैरेव रक्षितां तां न चिक्षिपुः / सत्त्वानि कानिचिद् विन्ध्यस्कन्धदुर्ललितान्यपि क्रमेण पथि गच्छन्ती दिग्मूढा कान्तचिन्तया / प्रज्ञेव संयम भैमी निपपात बनान्तरम् यत् सत्यं मृदुभिर्मुग्धैरसहायैरशम्बलैः / गर्भेश्वरैश्च तादृार्दुर्गमो निर्गमः स्वयम् तत्रापि सा पुनस्तस्थौ धृत्वा धैर्यावलम्बनम् / दुर्जरं देहिनां प्रायः साक्षाद् भयमनागतम् सुखवासाय देवेन स्ववधूं मां प्रहिण्वता / द्वयोरपि महादुःखं विहितं मम चात्मनः कथमेकाकिनी यस्मादहं यास्यामि कुण्डिनम् / भविष्यत्यार्यपुत्रो वा कथं निःपरिचारकः प्रियस्य पार्श्ववर्तिन्या दुःखेऽपि सुखं मम / दयितोऽपि हि नाज्ञास्यत् कष्टं मत्परिचर्यया किं मम स्वजनैः कार्य शरीरेण सुखेन वा ? / अद्य प्रियवियोगेन जीवन्त्यपि मृताऽस्म्यहम् कथं प्रियवियुक्ताया युक्ता राज्यस्थितिर्मम ? / आलवालकियालीला लूनाया इव वीरुधः वरं वनेषु नीवारमुष्टिम्पचतया स्थितिः। मम हि स्वामिनः पार्श्व शीर्णपर्णाशनेन वा जलेऽपि ज्वलनं तेषां सन्तप्तास्ते हिमेष्वपि / दह्यन्ते ये वियोगेन निर्दूमेन कृशानुना // 10 // // 11 // // 12 // // 13 // // 14 // // 15 // II IIIIII AIISile // 18 // // 19 // // 20 // ! // 21 // AII
Page #232
--------------------------------------------------------------------------
________________ पश्चमे नलविरहा नन्तरं . दमयन्त्या विलापः॥ सर्गः३ // 106 // आमा IIIIIIIII-IIIle अहो ! मे मन्दभाग्यायाः सेवायाः समयो हि यः / अहं तत्रैव देवेन निजपत्युर्वियोजिता धन्यं जन्म बलाकानां याः शाखिशिखरस्थितम् / पुष्णन्ति प्रियमात्मीयं प्रावृषि प्रतिवासरम् किं मृगीणां गुणं ब्रूमः सायकं लुब्धकस्य याः / स्वगात्रेण प्रतीच्छन्ति निपतन्तं प्रियं प्रति किं जीवन्मृतया कार्य मया हन्त ! हताशया ? / प्राणभृतो हि यः स्वामी स एव गमितो मया नूनं नरपतेस्तस्य लक्ष्मीललितलम्पटम् / वपुर्न सहते क्लेशान् सूर्यांशुमिव कैरवम् न पानमशनं काले न शय्या न च मञ्जनम् / न च संवाहना गात्रे कथं राजा भविष्यति ? प्राकृतोऽपि न शक्नोति वनवासव्यथां जनः / किं पुनः स नलो नाम्ना राजा सम्भोगसुन्दरः? तद् मे तथाविधं प्रातर्नूनं दुःस्वमदर्शनम् / कश्चिद् देहेऽपि देवस्य संसूचयति वैतिम् प्रियस्यादेशमाधातुं वहन्त्या निजजीवितम् / आशापाशनिबद्धं मे वक्षो न भवति द्विधा किं करिष्यामि गत्वाऽहं कि भविष्यत्यतः परम् : कथं वा लप्स्यते राजा तदिदं नहि वेश्यहम् अथवा किं विकल्पेन नूनं स विजयी नृपः। आकृतिस्तादृशी हि स्याद् न चिरं दुःखभागिनी क्षणं ग्रहणमर्कस्य भुवः कम्पोऽपि हि क्षणम् / न चिरस्थायिनी सत्यं सतां स्वप्नोपमा विपत् अहं पितृगृहं प्राप्य यतमाना दिवानिशम् / प्राप्स्यामि तत्प्रवृत्तिं च यत्नस्य किमगोचरम् ? तस्मिन् प्राप्ते च भूपाले तत्पूर्वमवनौ पुनः / आर्यावर्त्तस्य साम्राज्यं लीलयाऽपि भविष्यति // 22 // // 23 // // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // // 30 // DIIIIIIIIIII FIISile // 32 // // 33 // // 34 // | // 106 //
Page #233
--------------------------------------------------------------------------
________________ sle II II // 36 // // 37 // उदेत्यस्तमितो भास्वान् चन्द्रः क्षीणोऽपि वर्द्धते / सतामेव समायान्ति विपदः सम्पदोऽपि वा तदिह किमपरेण स्वस्तिमानस्तु राजा विदधतु भगवत्यो देवताः सन्निधानम् / मम हि मनसि धैर्य बान्धवाश्चानुकूलाः परिणतिरमणीयं सर्वथा भावि सर्वम् / इति वनभुवि कष्टं कान्तचिन्तोपतापं द्विगुणमिव वहन्ती सन्तताध्वश्रमेण / गिरितरुतलतल्पे निर्विकारा मृगाक्षी किमपि समयमात्र तत्र निद्रां चकार इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे तृतीयः सर्गः // 3 // // 38 // DIII IIIATI ATHI AIII पञ्चमे स्कन्धे चतुर्थः सर्गः / अथ तस्याः प्रसुप्तायास्तस्मिन् गिरिमहावने / व्योममध्यमतिक्रम्य ननाम शिरसो रविः सम्भाव्य महसां पत्युनिःप्रतापमिवातपम् / स्वैरं ववृतिरे हिंस्रास्तत्क्षणं तस्करा इव चान्द्रीमिव कलां राहुस्तिमिङ्गिल इवाब्जिनीम् / तदा त्वजगरः सुप्तां शीघ्र जग्राह भीमजाम् बभौ तन्मुखमध्यस्था वैदर्भी विह्वला भृशम् / सन्दंशेनेव पाश्चाली काञ्चनी वह्नितो हृता / वाहता हृता आनाभि तेन तु ग्रस्ता लब्धसंज्ञा ससाध्वसम् / हाहेति रुदती वेगाद् विनिर्गन्तुमियेष सा III ATHI ASIA ISII III AIII // 1 // // 3 // // 4 // // 5 //
Page #234
--------------------------------------------------------------------------
________________ le न श्री पञ्चमे स्कन्धे सर्गः४ अजगरेण ग्रस्ता . दमयन्ती॥ // 8 // // 107 // -IIGATIAl III तत्तुण्डकुहरक्रोडादुपग्रहगरीयसः / न लेभे निगमं तन्वी पवाद् गजवधृरिव तीव्रलालावलिप्साङ्गी सा तज्जठरकोटरे / साक्षादिवाप्रतिष्ठाने पतितं स्वमचिन्तयत् नम्मिन् पूर इवाकण्ठं पिदधाने वपुर्दूतम् / प्रकाशमभवत् तस्या वक्त्रमेव हि केवलम् ततः कण्ठगतप्राणा सा मत्वा मृत्युमागतम् / धर्मः शरणमित्युच्चैराचक्रन्द पुनः पुनः शिशुमारवशप्राप्तहंसीरसितपेशलम् / कश्चिद् वनचरस्तस्याः शुश्राव करुणध्वनिम् किमेतदिति साश्चर्य स पुमान् यावदाययौ / तावत्वजगरग्रस्तां मुखशेषां ददर्श ताम् स द्राक् परशुना तस्य पुच्छ चिच्छेद मर्मवित् / यतः पुच्छबलापेक्षं तस्य जातेः पलायनम् कुशल इव मांसस्य विवृतद्वारतां गतः / ततो विभेत्तुमारेभे किराततरुणेन सः अन्तःशोणं बहिः श्याम पालालमिव पावकम् / स तं विदारयन् प्राप समग्रामपि भीमजाम् तामक्षतां समाकृष्य प्रयत्नेन गरीयसा / हस्तावलम्बनं दत्वा निनाय नगनिम्नगाम् स व्याधस्तद्बसालिप्तं तप्तं तज्जठराग्निना / वपुर्निसियामास तदीयं सलिलोर्मिभिः सोऽपि तां दृक्पथै कुर्वन् व्याधस्तद्वृत्तिचिन्तया / आसन्न एव सर्वत्र भ्रान्त्वा सत्वरमाययौ अक्षौद्रपिण्ड-खर्जूर-प्रियाल-कदलीफलैः / चिञ्चा-पनस-नारङ्ग-धव-धात्रीफलैरपि / वीजैः कुमुदपत्राणां तथा बिसकसेरुकैः / अन्यैरपि महाखाद्यैबहुभिनिर्भरं भृतान् / // 10 // // 11 // // 12 // // 13 // // 14 // // 15 // FILAISHII.NIHIIIII // 17 // // 18 // // 19 // // 107 //
Page #235
--------------------------------------------------------------------------
________________ eliFIRSSIAN SINGI IIIIsle स मुमोच पुरस्तस्याः क्रमुकत्वपुरान् बहून् / स्थूलवंशनलस्थानि मधूनि विविधानि च // 20 // त्रिभिर्विशेषकम् / स्वीचक्रे भीमजातापि देवी तत् तस्य दौकनम् / अनुरोधेन बध्यन्ते प्रायशः प्रभवोऽपि हि . // 21 // विधाय भुक्तमाहारं तेभ्यः कैश्चिच्छुभैः फलैः / विहिताचमनां भूयः स वैदर्भीमुपाचरत् // 22 // चक्रे पद्मदलैर्वायु क्रमौ च समवाहयत् / ररक्ष पार्श्ववृक्षेषु पक्षिणामपि कूजितम् // 23 // तस्यैवमतिभक्तिं तां जानन्त्यपि निमित्तजाम् / पूर्वोपकारदाक्षिण्यात प्रणयं न रुरोध सा // 24 // तदित्यद्भूतमुद्दाम स्वमेऽप्यतिसुदुर्लभम् / एकतानोऽभवद् भिल्लः स्त्रीरत्नं परिभावयन् // 25 // निरुध्य साध्वसावेशं स मन्मथवशंवदः / स्वजातियोग्यया वाचा सप्रश्रयमुवाच च // 26 // रिपुभिः परिभृतस्य नूनं कस्यापि भूपतेः / धर्मदारान् वयं विनो युष्मानित्थं व्यवस्थितान् // 27 // तन्नूनं विन्ध्यवासिन्या कृतः सङ्गम एप नः / नो वा क्व भूभृतां पत्न्यः क वयं ते वनेचराः? // 28 // मुग्धत्व रसिकत्वं च भवतीषु व्यवस्थितम् / भावमन्तगतं यूयं जानीत किमतः परम् ? // 29 // तत् प्रसीदत किं भूना प्रणामाञ्जलिरेष नः / वेत्तु नागरिकं वृत्तं जनोऽयं पक्वणालयः // 30 // विविक्तोऽयं वनोद्देशः पद्मशय्या च कोमला / न विलम्बक्षमः कालः किं मन्दाक्षं निपेव्यते // 31 / / न चुकोप न जिहाय न च प्रत्युत्तरं ददौ / श्रुत्वा तद्वचनं देवी हृदि त्वेवमचिन्तयत् // 32 // अहह ! नलकलत्रं वीरसेनस्नुषाऽहं जगति दमनजामिर्मीमभूपालपुत्री / THILAISI 051418IISII IISISille
Page #236
--------------------------------------------------------------------------
________________ // 33 // पश्चमे स्कन्धे ISSISTRIK // 34 // सर्गः४॥ // 108 // अजगरोदरात् . किरातेन न निष्काशिता दमयन्ती कामेच्छु: किरातश्च // // 35 // किमपरमयि ! जातापात्रमेवंविधानां जयति तदिह कालः क्रूरता-कर्मणां च अयि ! यदि पितरं वा भ्रातरं वा सुतं वा तरुणमिममिदानीं नाहलं व्याहरामि / तदपि मयि रिंसा नास्य नाशं प्रयाति क्षिपति खलु विवेकं दीपवत् कामवायुः हृदयमपि विलजं नापमानाद् विरक्तिर्जनमभि दुरखापं लक्षसख्योऽभिलाषः / न भयमपि समन्तादैहिकामुष्मिकाभ्यां प्रकृतिरियमशेषा कामिनां नघुपाधिः प्रणयरचितचाटुर्जीवितव्योपकारी कथमिव हि मयाऽसौ कर्कशं भाषणीयः / अजगरजठराग्नौ किं न जीर्णा तदानीं किमिह महति कष्टे निष्ठुरे निष्टुतास्मि न गणयति हि कामी धर्मकर्मोपदेशं क्वचन वनचराणां पापशङ्का च न स्यात् / अपि भृशमुपकर्तुः कः प्रसङ्गोऽस्य तद् मे न भवति विषभक्षी कोऽपि दाक्षिण्यबद्धः वाहसं निहितवान् जिघांसया मां चकर्ष सहसा रिंसया / चाटु जल्पति च कामलम्पटः सर्वथापि शबरो न शोभनः शक्तिं करिष्यति न वेत्स्यति च स्वपथ्यं तथ्यं गमिष्यति च मृत्युमुखं वराकः। प्राप्तोऽधुना मम वशेन तदस्य मृत्युरित्युत्ससर्ज मृदु निःश्वसितं द्रुतं सा . इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे चतुर्थः सर्गः॥४॥ // 36 // 15II IIIIII-IIIIIIIIII's sile // 37 // BHILAIGITATAll-IIIII // 38 // // 39 // // 108 //
Page #237
--------------------------------------------------------------------------
________________ II II पञ्चमे स्कन्धे पञ्चमः सर्गः = // 2 // = // 4 // = = तां वीक्ष्य मुक्तनिःश्वासां मौनमुद्रावलम्बिनीम् / स्मरबाणव्यथाधीनो बभाण शबरः पुनः अयि ! कि मौनमाश्रित्य निश्वासीयते क्षणः / रतदुःखावहत्वं न चिन्तनीयं स्वचेतसि निःशङ्कमत्र कान्तारे तन्मया सह रम्यताम् / नैवास्मच्छङ्कितव्यं च बन्दिग्राहिमयं हृदि यावत् प्रसादमस्मासु स्वस्थासि नित्यमत्र वा / अनुव्रज ततोऽस्माकं वचस्त्वं द्रुतमेव वा इति प्रेमद्रवीभूतं गोष्ठस्थं गोष्ठलीलया / वदान्यमिव जल्पन्तं तमवोचत भीमजा महाभाग ! यथार्थ त्वं विनीतोऽसि किमुच्यते ? / न ग्रामनगरापेक्षा सदसत्संभवं प्रति युष्माकमिह सामर्थ्य विनिर्जेतुं नृपानपि / शिशुमारोऽपि गृह्णाति गजानपि जलस्थितः अनाथामवलां मूढां यत् त्वं नहि रुणसि माम् / तत तवैव हि सौजन्य किरातः कथमीदृशः नूनं सर्वत्र वर्तन्ते जगति त्रिविधा जनाः / भिल्लेष्वपि महाभागो दयालुः कथमन्यथा ? अस्मिन् रौद्रे महारण्ये महात्मा यत् त्वमीदृशः। क्षारवारिणि मिष्टाम्बु तदिदं दैवयोगतः नाहं कथञ्चिदानृण्यं यामि प्राणप्रदस्य ते / यतः प्राणाधिकं दातुं कस्य शक्तिर्जगत्यपि यदाद्यजगरग्रस्ता कृष्टा कालमुखात् त्वया / तदादि भवता दत्तं जीवितव्यमिदं मम DIFILAIIIIIIIIIIIIIIISIlle 9III III IIITHI-II = // 8 // // 10 // // 11 // // 12 //
Page #238
--------------------------------------------------------------------------
________________ SIla स्कन्धे सर्गः५ II SEle दमयन्ती किरातमुपदिशति॥ // 109 // II III A TRII RISHI ततोऽपि सरसाहारान् दत्त्वा जनमिमं प्रति / परोपकारवृक्षस्य जनिताऽऽयण मज्जरी असंस्तुतमसम्बद्धमकिञ्चित्करमागतम् / इत्थं परिचरेत् कश्चिद् यदि न स्यात् कृपा हृदि / // 14 // पितरं वा पितृव्यं वा भ्रातरं वा सहोदरम् / कमिव व्याहरामि त्वां एकयैव हि जिह्वया परोपकारशीलेन महात्मंश्चरितेन ते / तृणीकृतं महर्षीणां स्वकार्यकफलं तपः // 16 // निशूकाः कापगृभा ये परदारानुरागिणः / उन्धिपान भुजोरियाः क तेयो हीनतपः ? किमत्र सुकृतैः सर्वैः कृतं चेत् पारदारिकम् / अपि निःशेषपापानां मूलमब्रह्म केवलम् // 18 // निन्दामूलं घृणाहेतु मृत्युद्वारं त्रपास्पदम् / तथापि मूढचित्तानां प्रीतये पारदारिकम् // 19 // कथं स वित्तमात्मीयं चौरेभ्यो रक्षितुं क्षमः / अनङ्गेन हृतं चित्तं प्रत्यानेतुं न यः प्रभुः // 20 // रक्ता या भर्तृतो मृत्युर्विरक्ता हन्ति च स्वयम् / त्याज्या रक्ता विरक्ताऽपि परस्त्री सर्वथा नृणाम् // 21 / / लिप्यते पातकै क्त्वा रक्तामपि परस्त्रियम् / विरक्ता रन्तुकामस्य न पारो नरकार्णवात् // 22 // स्त्रीविषाग्निपयःशस्त्रैः क्रीडतां कुशलं कुतः ? / तदात्वमृत्युदायीनि वस्तून्येतानि दुर्धियाम् // 23 // विधाय वनितावेषं विश्वास्य रहसि स्थितम् / जघान तक्षकः शङ्ख शेषकान्तानुरागिणम् // 24 // विहिताराधनक्लेशं रिरंसारसविह्वलम् / शशाप शूद्रगं वीरं सन्तुष्टाऽपि सरस्वती - // 25 // अपि द्वादशसोपानकर्तारं नन्दिवर्द्धने / ऋषिदैत्यं निजग्राह श्रीमाता कामलम्पटम् . // 26 // डा.TRII IIIIIIIII // 109 //
Page #239
--------------------------------------------------------------------------
________________ BAI AIAINIK कृष्णेन पार्वतीहेतोरनुधावन् महेश्वरम् / मायामहिलया दैत्यो दुर्द्धरः सहसा हतः / // 27 // तदित्थं दारुणोदः कामः सर्वत्र कामिनाम् / लोकद्वयविरुद्धश्च गर्हितश्च महात्मनाम् . // 28 // ततो मयि निरीहायां भूत्वा त्वं जीवितप्रदः / महात्मंश्चित्तमात्मीयं न क्रूरं कर्तुमर्हसि // 29 // इदं हि मम सुप्रीतं भ्रातरीव मनस्त्वयि / मा भवेच्छीलविध्वंसरोषावेशविसंस्थुलम् तवोपकारजं पुण्यं कृतज्ञत्वगुणश्च मे / अखण्डं द्वयमप्यस्तु यावत् चन्द्रदिवाकरौ // 31 // इति सम्यक् समाकर्ण्य वचः सत्यं सतीमुखात् / त्रस्तोऽपि धाय॑मालम्ब्य प्रत्युवाच वनेचरः // 32 // अयि ! हन्त ! वृथा क्लेशः कोपदेशैर्विधीयते ? / स्थले जलमिवासाकं हृदि शीलं स्थिरं कियत् ? // 33 // इदं हि सुमहद् दुःखमस्माकं नरकादपि / त्वादृशं यत् करप्राप्तं स्त्रीरत्नं नोपयुज्यते इतोऽपि महती गर्दा काऽपि नः शूरसंसदि / क्लीबैरिव यदस्माभिभर्वती नोपभुज्यते // 35 // किमत्र वितथनासैरस्मान दूरं विधास्यसि ? / इहास्माकं बलात्कार को निवारयितुं प्रभुः / इयमालिङ्गथ सर्वाङ्गं स्वैरं विविधभक्तिभिः / तरसाऽपि सरोजाक्षि ! निःशङ्कमुपभुज्यसे // 37 // इति जल्पन् विमर्यादं कामान्धः सव्यपाणिना / स भीमदुहितुर्देव्याः केशग्रहमचिन्तयत् // 38 // हा! धिक कष्टं कः प्रमादस्तवायं मा मैवं भो मुश्च दूरे भवेति / सभ्रूभङ्गं मौलिभागं धुनाना तं प्रत्यूचे हस्तमुद्यम्य देवी // .39 // काजाIIIIII II IIIF Isle
Page #240
--------------------------------------------------------------------------
________________ पञ्चमे स्कन्धे सर्गः५ किरातस्य बलात्कार वासवेन च भस्मावशेषीकृतो किरातः॥ // 110 // निःशङ्कस्य व्युत्क्रमं कर्तुमिच्छोस्तस्यावेशं वीक्ष्य यूनस्तथापि / आः! पापेति व्याहरन्ती सरोषा तच्छिक्षार्थ वासवं साऽभिदध्यौ // 40 // यावत् तं वरदं हृदि स्मरति सा देवं हरिं तत्क्षणं तावद् दिक्कुहरोदरम्भरिरवः त्रासप्रदः प्राणिनाम् / स्वैरं निर्जलदाद् निपत्य नमसो वेगेन शुष्काशनिस्तं भस्मैकमयं विधाय सहसा भूयोऽन्तरिक्षं ययौ // 41 // भस्मावशेषं तमवेक्ष्य देवी पूर्वोपकारप्रवणं किरातम् / दयाभावा रुदती विरेजे तस्मै हि तोयाञ्जलिदायिनीव // 42 // यः कोऽपि संप्रति करोति ममोपकारं सोऽपि क्षयं व्रजति यद्वदसौ वराकः / दुष्कर्मणामुदयमीदृशमद्भुतं मे धिर धिक् तदेति सुचिरं हृदि सा शुशोच // 43 // इतिश्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे पञ्चमः सर्गः॥५॥ IIIIIIIIIIII-III NIFICATRIK IASHATII AIIIIIIIIII पञ्चमे स्कन्धे षष्ठः सर्गः / तदतीत्य महद् दुःखं विदर्भानभि सा पुनः / उपर्युपरि तत्पल्लीरूपविन्ध्येन निर्ययौ / // 1 // न श्रान्ता च न भीता च दीर्घे शून्येऽपि सा पथि / दृढीकरोति कालो हि वपुश्चित्तं च देहिनाम् // 2 // J // 11 //
Page #241
--------------------------------------------------------------------------
________________ .III III AIATSHIATFINISIAle यतः पत्युर्वियोगोऽभूद् व्यालविघ्नं महच्च तत् / भूयो विघ्नं प्रमोदं च सा चक्रे नैक वर्त्मनि // 3 // सस्मार हृदये मत्रं पश्चानां परमेष्ठिनाम् / सततं चरणौ पत्युः सा नलस्य च केवलम् . // 4 // नखिनः शृङ्गिणः सत्त्वाः करिणः फणिनोऽपि वा / केऽपि तां किमुत स्प्रष्टुं न द्रष्टुमपि सेहिरे // 5 // विषमं समतां याति सौजन्यं यान्ति दुर्जनाः / शक्तः सतीमयो ब्रह्मा कत्तुं सृष्टिविपर्ययम् // .6 // यत तस्मिन् तादृशे शून्ये तैस्तैस्तीक्ष्णैरुपद्रवैः / न भिन्ना भीमजा देवी शीलस्य कवचं हि तत् // 7 // इदं हृदि महद् दुःखं तस्याः परमजायत / यद् मदर्थ मृतो व्याधस्ताडितो यच्च वाहसः // 8 // इत्थं च पथि गच्छन्त्यास्तस्याः कालेन केनचित् / बभूव धनपूर्णस्य वणिक्सार्थस्य सङ्गमः // 9 // क्क यास्यथेति पृष्टास्ते कथश्चिद् भीमजातया / क्षत्रियां तां परिज्ञाय प्रत्यपद्यन्त नोत्तरम् // 10 // तथापि तैः समं मार्गे नलभार्या विनिर्ययौ / कार्यापेक्षव गुर्वी हि वस्तुचिन्ता न धीमताम् // 11 // भोजनान्ते तृणस्यापि विदधात्यञ्जलिं जनः / भस्मापि वन्द्यते चैत्रे समये सर्वमुत्तमम् // 12 // विसङ्कटतटोद्देशे दुरारोहे भयङ्करे / स तस्थौ पर्वताघाटे सार्थः प्रातर्यियासया // 13 // तत्र रात्रौ तमःश्यामा बृहद्वंहितसूचिताः / न्यपतन् जनतागन्धक्रोधान्धा वनसिन्धुराः // 14 // भन्नानि वस्तुभाण्डानि गोणीभाराश्च चूर्णिताः / त्रस्ताः केऽपि मृताः केऽपि मनुष्या वृषभा अपि // 15 // न कापि ददृशे कोऽपि नासीत् किश्चिद् व्यवस्थितम् / दृष्टनष्टः स सार्थोऽभूद् गन्धर्वपूरवत् क्षणात् // 16 // BIHAHI AAIFI AEIII-III काजल
Page #242
--------------------------------------------------------------------------
________________ वणिक्सा पश्चमे स्कन्धे थेन सह सर्गः 6 PIEFIIFISHIFIEHTE // 11 // तस्मिन् सार्थे तथा त्रस्ते निरालम्बा मनो दधौ / एकाकिनी स्थिता भूयः सचिन्ता भीमभूरभूत् // 17 // यैः समं पथि गच्छामि न तेऽपि कुशलास्पदाः / अहो ! मे दुर्दशापाक इत्यात्मानं निनिन्द सा // 18 // सा समुत्थाय खिन्नाऽपि कृत्वा धैर्यावलम्बनम् / गिरिशृङ्गमयं मार्गमारुरोह शनैः शनैः // 19 // निराशा विवशा व्यग्रा श्रान्ता भीता सवेपथुः / न कापि हृदयाधारं लेभे किमपि सुन्दरी // 20 // ततो दिनतशाखाग्रं रक्त रकान्तलोचना ! ग्राप पापहरं वृक्षपशोकं शोकविह्वला // 21 // दर्शनं स्पर्शनं वाऽपि वर्णनं स्मरणं च ते / सतां न कुशलं दत्ते किं किं किङ्किल्लिपादप! // 22 // इत्यशोकतरं स्तुत्वा यान्त्याः पर्वतवम॑नि / भीमभूमिपतेः पुत्र्याः परितोषो मनस्यभूत् // 23 / / युग्मम् // शीतो मन्दः सुरभिरभवत् पृष्ठवाही समीरः श्यामाः साक्षाद् भवविषयिणः पञ्च जाताः क्रमेण / दृष्टिं प्रापुर्जलदसुहृदः स्वस्तिकाख्याश्च तस्याः पस्पन्दे च प्रकटितमनः कामदं वामनेत्रम् तदिति बहुनिमित्तैः शोभनैः प्रीयमाणा किमिह मम फलं स्यादित्थमालोचयन्ती / गिरिशिरसि विशाले बालसारङ्गचक्षुर्लिखितमिव मुनीनां मण्डलं सा ददर्श // 25 // इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे षष्ठः सर्गः // 6 // II III AIFila II AISHI III ATTA गच्छन्ती दमयन्ती॥ वनसिन्धुरैश्च भिन्न सार्थः॥ मनत्रम् // 24 // IASHI AIAI // 11 //
Page #243
--------------------------------------------------------------------------
________________ पञ्चमे स्कन्धे सप्तमः सर्गः / // 2 // II-II ATTITHI-II काजाIsle तानुज्ज्वलतरशुक्लसूक्ष्मप्रावरणावृतान् / मृतिमद्भिरिवाश्लिष्टान् पटलैधर्मकर्मणाम शुचीन् सुमनसः सौम्यान महर्षीन् वीक्ष्य हर्षिता / भेभी पित्गृहं प्राप्तमिवात्मानममन्यत तेषां मध्यगतं धीरं धर्माचार्य महौजसम् / अनुजानीहि भगवन्नित्युक्त्वा प्रणणाम सा धर्मोऽभिवर्द्धतां भद्रे! सुप्रसन्न मनोऽस्तु ते / इहोपविश कल्याणि ! परिश्रान्ताऽसि भूयसा चारणश्रमणानस्मान् जानीहि त्वं शुचिस्मिते! | वैताढयपर्वतादेतत् तीर्थ वन्दितुमागतान पृथिव्यां पश्चमश्चक्री परमेष्ठी च षोडशः / शान्तिनामा यतः स्वामी संभविष्यत्यतःपरम् तस्यात्रभवतस्तिर्यगदेवासुरनराश्रितम् / समं ततोऽवसरणं चिरमत्र भविष्यति ततच तत्प्रसादेन पुनः सञ्जातजन्मिनाम् / साङ्केतिकात् परं ज्ञानमिहास्माकमुदेष्यति मुक्तिद्वारमिदं नाम्ना महातीर्थ मनस्विनि!! सम्प्रदायं विना प्रायः प्राकृतानामगोचरम् सुगृहीताभिधानेन गुरुणा भास्करेण हि / विनेयानामिदं तीर्थ कृपया नः प्रकाशितम् तदत्र सुकुमाराङ्गी मुग्धामविधवां सतीम् / एकाकिनी समायातां वीक्ष्य त्वां विस्मयो हि नः न त्वं लक्ष्मीन सावित्री न पौलोमी न पार्वती / सनिमेषा भवदृष्टिर्निनिमेषदृशो हि ताः BHILAIAHI 4 IIIIIIIISTEle // 10 // // 11 // // 12 //
Page #244
--------------------------------------------------------------------------
________________ पञ्चमे स्कन्धे सर्गः 7 चारणश्रमणान् . दमयन्ती पूर्वपरिचयं कारयति॥ // 112 // तत् त्वामायुष्मती विद्मश्चक्षुष्याकृतिमीदृशीम् / ऐश्वर्यरहितत्वेऽपि क्ष्मापालगृहिणीमिव // 13 // इत्युक्ता मुनिना भैमी स्थित्वा क्षणमधोमुखी / निगृह्य बलवद्वाष्पमुपविश्य व्यजिज्ञपत् // 14 // भगवन् ! भाग्यवत्यस्मि दुर्दशापतिताऽप्यहम् / यदेवमनुरूपन्ते भवन्तोऽपि भृशं मयि // 15 // सुकृतं दुष्कृतं वाऽपि सुखं वा दुःखमेव च / सर्व निवेद्य युष्मासु निःशल्यो जायते जनः // 16 // तत् किश्च बहुनोक्तेन युष्माकं विदुषां पुरः / एष तावत् परिच्छेदो मद्वार्ताविस्तरस्य यत् // 17 // पृथिव्यां विदितो विद्वान् निषङ्गी निषधेश्वरः / वीरसेनसुतो वीरः क्रौञ्चकर्णान्तकः कृती // 18 // देवदूतो दयायुक्तो बलवान् विनयी नयी / दशदिग्विजयी योद्धा महनीयो महाबलः // 19 // सत्यसन्धः सुधीः शान्तः शत्रुकालानलो नलः / पुण्यश्लोकः सुखी श्लाघ्यो भर्त्ता मे भूभृतां वरः // 20 // त्रिभिर्विशेषकम्। द्यूतेऽनुजेन निर्जित्य दैवाद् निर्विषयीकृतः / मयैवानुगतः पत्न्या भुजद्वन्दपरिच्छदः // 21 // भिल्लैः पथि पराभूतः खगैः शिमोनरन्छदः ! वनात् बनं वजन ग्रीष्मे सोढवातातपयश: !!22 // केनापि हेतुना शीघ्रं सत्त्वसौहृदवर्जितः / समादिश्य पितुर्गेहे गन्तुं लिपिमुखेन माम् // 23 // अनाथां मां परित्यज्य सुप्तामेकाकिनी वने / तथा कथञ्चिद् गतवान् यथा भूयो न वीक्षितः // 24 // युग्मम् // ग गिरिसरिद्घोरं पश्यन्त्याऽपि मया वनम् / न लब्धः स क्वचिद् भूयः सप्रभाव इव द्रुमः // 25 // निर्विण्णा तमनालोक्य श्रान्तसुप्ता महावने / यस्ता चाजगरेणास्मि मोचिता शबरेण च / // 26 // नामा IIFIER II II FIile // 112 //
Page #245
--------------------------------------------------------------------------
________________ sle I IA HII will विवेकविकलस्याहं पतिता तस्य पञ्जरे / नैवाधिजगाम क्षेमाद् निर्गमं यत्नवत्यपि // 27 // तं वराकमनात्मज्ञं स्वहस्ताङ्गारवर्षिणम् / सहसातिभयाच्चक्रे भस्मसाद् वरदो हरिः . // 28 // पुनः पथि मया प्राप्तो वणिकसार्थस्य सङ्गमः / स नक्तं दन्तिभिर्ध्वस्तः स्वेच्छावान् व्यसनैरिव // 29 // साऽहं पतिपरित्यक्ता नष्टध्वजपटेव नौः / दुर्दशावर्तगर्तेऽस्मिन् वर्णमानाऽस्मि दुर्द्धरे // 30 // विश्वविश्वम्भराधारधुरन्धरभुजो मम / दक्षिणस्या दिशः स्वामी भीमभूमिपतिः पिता // 31 // निजपत्युः समादेशाद् गच्छन्ती पितृमन्दिरे / अहं सम्यग् न जानामि तत्र यास्यामि वा नवा // 32 // तस्य राज्ञो हि चेत् किञ्चित् तत् क्व नौ सङ्गमः पुनः ? / मम वा किञ्चिदक्षेमं तत् क्व नौ सङ्गमः पुनः 1 // 33 // आशापाशः प्रसभमभितो जीवितं मे रुणद्धि प्राणत्यागो हठविरचितः श्रेयसे नोपदिष्टः / एकैकापि व्रजति घटिका कल्पकोटिप्रमाणा नो जानामि त्वरितमधुना यद् मया किं विधेयम् ? // 34 // अस्मिन् काले दश विजयते वर्षलक्षाणि देही तेषामेकं मम परिणतं पूर्णवर्षायुतोनम् / तेनेदानीं न विषयरसाश्चेतसो यान्ति शान्ति वर्षाकाले कथयति कथं मन्दतां वारिवेगः ? एकाकित्वं दयितविरहः काननं मार्गखेदः स्थानभ्रंशो विभवविगमः साध्वसं दुर्जनेभ्यः / इत्थं दुःखं निखिलमपि मे बालकालेऽपि जातं मन्ये नाभूदहमिव भवे दुःखिनी काऽपि नारी // 36 / / नन्वेतद् मे किमपि भगवन् ! वृत्तमामूलभृतं श्रुत्वा दुःखं सहृदयहृदय व कार्य भवद्भिः।। बामाSEEIGITIFIII-IIIlle BIII RISHI A
Page #246
--------------------------------------------------------------------------
________________ पञ्चमे // 37 // स्कन्धे दुष्कर्माख्यं क्वचिदपि भवे बीजमुप्तं मया यत् तस्यैवेदं फलमविकलं पाकमभ्यागतं मे इति निगदितवत्यास्तत्र भूपालपुच्या वचनमपरिहीणं पुण्यमाकर्ण्य सम्यक् / अविरलजलबिन्दुस्पन्दिभिर्नेत्रपत्रै-मुनिपरिषदशेषा वर्णभेदं प्रपेदे इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे सप्तमः सर्गः // 7 // सगे: 7 // 38 // चारणश्रमणान् दमयन्ती पूर्वपरिचयं कारयति॥ // 113 // पञ्चमे स्कन्धे अष्टमः सर्गः। II AISFII AISINSHII AISEII III TIKA जIIIII III AIII SAIFII IIEISIS अथ देव्या वचः श्रुत्वा विज्ञानप्रचयो मुनिः / उच्चस्य विकसदृष्टिः ससंभ्रममभाषत हन्त ! सा दमयन्ती त्वं हन्त ! स त्वत्पतिर्नलः / त्वदर्थ हि पुरा देवाः समायान्ति स हि क्षितौ // 2 // त्वां हि चक्रेश्वरी देवी सेवाहेवाकशालिने / भीमाय प्रथमापत्यं ददौ दमनको मुनिः // 3 // अहो ! बत महत् कष्टं किं ब्रूमः किमु कुर्महे ? / सार्वभौमावुभौ यस्याः पिताऽपि स पतिश्च सः // 4 // यां न पस्पर्श चण्डांशुवनेऽपि भुवनेऽपि च / यस्या न सदृशी कापि रूपेण विभवेन च // 5 // दानं मानं च या दत्ते पापं पुण्यं च वेत्ति या / शास्त्रे गीते च या दक्षा भक्ता देवे गुरौ च या * // 6 // नराणां च सुराणां च स्त्रीणां नृणां च सर्वथा / गृहिणां च यतीनां च या श्लाघ्या गुरुभिर्गुणैः // 7 // // 113 //
Page #247
--------------------------------------------------------------------------
________________ THI III AISHIIII AII NIHING साऽपि संप्रति संप्राप्ता दुर्दशामीदृशीं यदि / किं परेषां वराकाणां लोकानां तद् विचार्यते ॥८॥पञ्चभिः कुलकम् / आवयं सर्वगात्राणि पद्मिनीव दिवात्यये / सलज्जाधैयनिर्वेदं ददर्श विवशा भुवम् तामित्थं सुस्थितां देवीं निःश्वासविधुराधराम् / आश्वासयितुमारेभे करुणाईमना मुनिः // 10 // वत्से ! वैदर्भि ! दुर्भेद्या यद्यपि क्लेशभित्तयः / तथापि महतां सत्त्वं कुलिशादपि कर्कशम् // 11 // दैवात् प्रियपरित्यक्ता न त्वं शोचितुमर्हसि / त्वत्तोऽपि हि न सञ्जाता दु:खिनी किं शकुन्तला? // 12 / / त्वमद्यापि सुखस्थाने स्थानभ्रष्टेन धीमता / कालज्ञेन स्वयं पत्या प्रहिताऽसि पितुर्गृहे // 13 // वत्सलः स च ते तातः सर्व दास्यति वाञ्छितम् / कालमालम्ब्य भर्ताऽपि भूयस्त्वां पालयिष्यति // 14 // सुखे दुःखे च पश्यन्तं स्वस्मादप्यधिकाधिकान् / वैरिणौ हर्षशोकाख्यौ धीरं नहि निगृह्णतः // 15 // शृणु शाकुन्तलं वत्से ! त्वमाख्यानकमुत्तमम् / श्रुत्वा शिथिलशोकं ते हृदयं जायते यथा दुष्यन्तः पौरवो धन्वी राजा गजपुराधिपः ! मृगव्यविह्वलः कश्चिदन्वधावद् मृगं रथी // 17 // महारयरथावर्त्त सशराकृष्टकार्मुकम् / तमन्तरितसारङ्गाः प्रोचुर्मुनिकुमारकाः // 18 // न वध्योऽयं न वध्योऽयं देवाश्रममृगो हि नः / कथं क्षत्रियशस्त्रं ते निबर्हतु निरागसम् // 19 // सफली मालिनीतीरे निर्विघ्नं वीक्ष्य वो वनम् / राजन् ! निजभुजत्रातां कृतार्थय महीमिमाम् // 20 // स तथेति प्रतिश्रुत्य स्वकार्येषु विसृज्य तान् / एकाकी विरथः स्वैरं प्रविवेश तमाश्रमम् // 21 // BISAIIATII AIIIIIII AISIISISFITS
Page #248
--------------------------------------------------------------------------
________________ पश्चमे स्कन्धे सर्गः 8 चारणश्रमणराश्वासिता दमयन्ती॥ // 114 // BIHII II ATHIla THII AISI NAI IST विचरन् वृक्षमालासु स्फुरदक्षिणलोचनः / क्षुपसेकजुषां मध्ये कन्यानां काञ्चिदुत्तमाम् // 22 // प्रच्छन्नः स्वेच्छया पश्यन्नित्थमन्तरचिन्तयत / अहो ! पुरा वनं धन्यं कन्या यत्रेयमीदृशी // 23 // युग्मम् / / श्रमोदककणाक्लिन्ना सावश्यायेव पद्मिनी / वल्कं शिथिलयत्येषा सख्या निविडसंयमम् // 24 // लक्ष्मणाऽपि शशी हृद्यः शैवलेनापि वारि तत् / वल्कलेनापि रम्याऽसौ किं न वस्तुषु मण्डनम् ? // 25 // यद् ममार्यस्य रागोऽस्यां क्षत्रिया तदियं ध्रुवम् / सन्दिग्धेषु पदार्थेषु प्रमाणं हि सतां मनः // 26 // सिञ्चन्ती चूतसंयुक्तां पुष्पिता माधवीमियम् / त्वमपीत्थं भवेत्युच्चैर्युक्तमुक्ता वयस्यया // 27 // द्रागम्भः संभ्रमभ्रान्तो भृङ्गोऽस्या वक्त्रवारिजे / धन्योऽधरदलं पीत्वा रौति कर्णान्तनेत्रयोः // 28 // विवृत्तभ्रान्तहस्ताग्रा लोलाक्षी धुन्वती शिरः / मधुव्रतनटेनेयं निःसङ्गीतं हि नर्तिता // 29 // रक्ष रक्षालि ! रोलम्बादिति व्यक्तार्तगीरियम् / त्रातुमाह्वय दुष्यन्तमिति सख्योपहस्यते // 30 // तदेवं तावदित्यन्तः स्फुटप्रकटमभ्यधात् / आदिष्टोऽस्मि वनं वातुं राज्ञाऽऽसन्नविहारिणा // 31 // तत् कोऽयं पौरवे पृथ्वीं पाति दुर्वृत्तघातिनि / अन्यायमतिमुग्धासु मुनिकन्यासु चेष्टते ? // 32 // आर्य! कश्चिद् न विनोऽत्र विघ्नकृद् वा तथाविधः / नवरं भ्रमराद् भ्रान्ता सखीयं नः शकुन्तला // 33 // इयं कुलपतेः पुत्री गालवस्य महात्मनः / प्रियंवदानुसूयाख्ये सख्यावावामुमे अपि / // 34 // सोमतीर्थप्रयातस्य तातस्यादेशतः सताम् / आतिथेयं करोत्येषा तदार्यातिथ्यमस्तु से // 35 // DISII AISFII AMERI AIIIIII TRIISISHIK // 114 //
Page #249
--------------------------------------------------------------------------
________________ II-ISTIANSHI AISI AIIMSHIAile इत्युक्तो मुनिकन्याभ्यां मत्वा वाचैव तं विधिम् / नन्दिद्रुमतले ताभिः सह गोष्ठीमचीकरत् // 36 // नन्वदारः कुलपतिस्तत्पुत्री वः सखीति किम् / पालनाद् गालवस्तातो वप्ता स्यात् कौशिकः पुनः॥ 37 // तत्तपःखण्डनां कत्तु मेनका पूर्वमाययौ / तां दृष्ट्वा च परं यद्वा किमार्यस्य निवेद्यते ? // 38 // अस्तु ज्ञातं विशालाक्षी तदियं मेनकोद्भवा / अथ किं तत्परित्यक्ता प्राप्ता हि मुनिना वने // 39 // दिव्यप्रभावतस्तस्याः शुका वृचि वितेनिरे / शकुन्तैालिता पूर्व तेन नाम्ना शकुन्तला आसंप्रदानतः कार्यमनया तद् मुनिव्रतम् / सह वा सदृशाक्षीभिः कुरङ्गीभिनिर्विश्यति // 41 // इमां बराय कस्मेचिद् महर्षिर्दातुमिच्छति / अस्यास्तु हृदये नित्यं तपसि स्पृहयालुता // 42 // उपराजमिति श्रुत्वा प्रजल्पन्तीं प्रियंवदाम् / उत्थाय गन्तुमारेभे कुपितेव शकुन्तला // 43 // कथयिष्यामि गौतम्या इमामश्लीलवादिनीम् / इति पारिष्ठवं यान्तीमारुरोध प्रियंवदा // 44 // चण्डि ! किं लभ्यते गन्तुमधमर्णाऽसि मे यतः / वृक्षसेचनकद्वन्द्वं मम देयं तदर्पय // 45 // वस्त्रेण वलितां सख्या परिहासविदग्धया / तस्यास्तामनृणीकर्तुं स्वहारं नृपतिदेदो। // 46 // साऽऽशु तद्बहुमानेन निर्मुमोच मुधैव ताम् / अभृत् तेषां पुनर्गोष्ठी तत्तद्वार्तानुयायिनी // 47 // नृपतिरनुशकुन्तलं स कामी नृपमनुबद्धमतिः शकुन्तलाऽपि / तदुभयमपि पश्यतः स्म सख्यौ तदिति बभूव रतिश्चिरं चतुर्णाम् - // 48 // II AIII बाजाI AISISile
Page #250
--------------------------------------------------------------------------
________________ पञ्चमे स्कन्धे // 49 // सर्गः८ // 115 // समजनि रजनीमयं रजोभिर्नृपतिमनुव्रजतां ततोऽबलानाम् / क्षुभितमनुजनं वनं तदासीत् शिथिलितगोष्ठिचतुष्टयं च तासु निजबलमखिलं बहिर्विधातुं लघु ललितं प्रचचाल भूमिपालः / उटजमनु समन्विता सखीभ्यां स्मरभररुद्धगतिः शकुन्तलाऽपि न्यथं तस्थौ व्यथितचरणा दर्भसूच्या किलेति व्यावृचाक्षी पिटपपटितं पल्कलं येत्यपश्यत् / स प्रत्याशं वलितनयनं पश्यतस्तस्य राज्ञः शून्यं चक्रे कुलपतिसुता तेन चित्तं सुरावत् इतिश्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे अष्टमः सर्गः // 8 // // 50 // II IIAHI HIAHINIजाना // 51 // दमयन्त्या आश्वासनाय चारणश्रमणैः कथितं ला शाकुन्तला ख्यानकम्। BISHISHIFIEFITSHIFIGIBEIFIEI पञ्चमे स्कन्धे नवमः सर्गः / उटजं प्राप्य न प्राप रतिं क्वापि शकुन्तला / स्कन्धावारगतो राजा निद्रां निशि न लब्धवान् // 1 // शून्या नाचिन्तयत् किञ्चिद् नित्यकृत्यं मुनेः सुता / तद्वनासन्नमास्थाय नास्मरत् पौरवः पुरम् // 2 // उभौ लज्जानदीरुद्धावुभौ दुर्लभरागिणौ / सव्यापसव्यमुक्तेपुर्जघन्वान् तद् द्वयं स्मरः इत्थं तद्युग्ममारुह्य स्वैरं वदति मन्मथे / दैवाद् नक्तञ्चरैश्चक्रे मुनीनां यज्ञविप्लवः / // 4 // // 115 //
Page #251
--------------------------------------------------------------------------
________________ IIIIII-III-II जाड तदाऽभ्यर्थनया प्राप्तः स एकोऽपि नृपः स्वयम् / अग्रेऽपि नर्तकः सद्यः किं पुनस्तूर्यमाहतम् // 5 // तद्धनुर्ध्वनिनि तनक्तश्चरचये वने / कर्म कर्मठिनश्चक्रुर्वैतानं वीतसाध्वसाः एकत्र वनवासेऽपि वृषस्यन्तौ परस्परम् / द्वावासन्ननवां नीतौ व्यवस्था मदनेन तौ मालिनीतीरकुञ्जेषु सा निनाय स्मरज्वरम् / जगाम तत्र राजापि तद्विलोकनतत्परः ददर्श तत्र निश्चेष्टां दलस्रस्तरशायिनीम् / सखीभ्यामपि साश्रुभ्यां सेव्यमानां शकुन्तलाम् कथश्चिदपि पृच्छन्त्योरिं वारं द्वयोरपि / तयोर्भावज्ञयोर्भाव स्थित्वा स्थित्वा जजल्प सा // 10 // मुक्त्वा मां नास्ति मे बन्धुर्न गोप्यं किञ्चिदेव वाम् / किं भूयोऽपि तथा कार्य यथा स्यात् तत्कृपा मयि // 11 // ततः स्वीकृत्य कर्त्तव्यं सख्यौ श्लाघापुरस्सरम् / तां दुष्मन्ताय दातव्यं स्मरलेखमयाचताम् // 12 // तया च रचितं लेखं लिखितं केतकीदले / प्रस्तुतो वा नवेति द्वे पठतः स्म यथा किल // 13 // न जानामि तवावस्थां व प्रवेशः पराशय? / हन्ति तु वत्कृते काम कामो निर्दय / मः // 14 // इति श्रुत्वा स गाथार्थ शीघ्र जनितसंभ्रमः / प्रविश्य कलया वाचा प्रत्युवाच शकुन्तलाम् // 15 // युक्तं पर्यनुयुक्तोऽस्मि किन्तु मुग्धेऽवधारय / इदं प्रकोष्ठतः सस्तं किमर्थ वलयं मम ? // 16 // नूनं प्राकृतमद्वाधं बाधते त्वां मनोभवः / रविरर्दितमेवेन्दुमन्वर्दति च कौमुदीम् // 17 // इति जल्पस्तया सार्द्ध निषिण्णः खिन्नविग्रहः / अयाच्यत वयस्याभ्यां स्वीकर्तुं स शकुन्तलाम् * // 18 // BIFTII VIBEIFTHI FIIIIIIIIIe
Page #252
--------------------------------------------------------------------------
________________ पञ्चमे स्कन्धे सर्गः 9 // 116 // दमयन्त्या आश्वासनाय चारणश्रमणः कथितं ला शाकुन्तला ख्यानकम्। आजीवितान्तमात्मीयं वपुर्वित्तं तयोः पुरः / चक्र तदा तदायत्तं सत्यवादी स पार्थिवः ततः कृतार्थयोः सख्योाजपूर्व प्रयानयोः। दयितो रन्तुमारेभे कन्याविश्रम्भनागरः // 20 // तस्या धामस्वभावेन बालावस्थानुयायिना / स कामी दृष्टिरागोऽपि क्षणं पर्याकुलोऽभवत् / 21 / तेस्तैमृदुभिरक्लिष्टरुपायैः परिशीलयन / दुष्मन्तः स्वेच्छया रेमे वशीकृत्य शकुन्तलाम् // 22 // म पूर्वविरहव्यग्रां गच्छन्नापृच्छय वल्लभाम् / तस्या मनोविनोदार्थमित्यदादङ्गुलीयकम् // 23 // मन्नामवर्णमेवेकं त्वमत्र गणयान्वहम् / तदन्ते त्वां समानेतुं समेष्यति जनो मम // 24 // आशापाशनिबद्धेन हृदयेन वियोगिनी / साऽपि तद्गणनासक्ता कथञ्चिद् जीवितं दधौ // 25 // इत्योघसंज्ञया तस्याः कुर्वत्याः प्राणधारणम् / यावत् पर्याप्तकालोऽभूत् स वर्णगणनक्रमः // 26 // तावत् तदुटजद्वारि पाणिपात्रो दिगम्बरः / अशनायान्वितो मौनी दुर्वासा भिक्षुराययौ // 27 // महन्मुनिवरे तस्मिन् प्रमदरतया तया / बभूव स्खलितातिथ्या मिथ्यात्वरहिताऽपि सा // 28 // ततो मुनिमुखेनैव पूज्यातिक्रमकोपिनः / द्राक तिर्यग्जम्भका देवाः स्फुटमित्यशपन्त ताम् // 29 // स्मरन्तीयं न जानीपे ममाप्यतिथिमागतम् / मत्तवत् पूर्ववार्ता त्वां न स्मर्त्ता स्मारितोऽपि सः // 30 // श्रुत्वा तं शापमाप्ताभ्यां सखीम्यां स मुनिद्रुतम् / अनुव्रज्य पुरः स्थित्वा मुहुर्नत्वाऽन्वनीयत // 31 // दीनामशरणां शून्यां वाला विरहविह्वलाम् / शकुन्तलां च विज्ञाय प्रसेदुर्व्यन्तरामराः // 32 // FIIEISHINII-IIIIII-III-Ile वाताआता II // 11 //
Page #253
--------------------------------------------------------------------------
________________ // 33 // // 34 // // 35 // IIIIIIIFI - IIII-III ISIE अभिज्ञानात् पुनः स्मर्ता दत्तस्तैरित्यनुग्रहः / तयोश्च दृक्पथाद् दूरं चक्रे व्यवहितों मुनिः अभिज्ञानाय सङ्कल्प्य तद् नृपस्याङ्गुलीयकम् / सख्यौ दुःखभयात् शापं विदितं तेन चक्रतुः ततः शापाच निश्चिन्ते दुष्मन्ते पृथिवीपतौ / वर्णसङ्ख्याधिकं कालं न विषेहे शकुन्तला ईषदापनसत्त्वां तां किमेतदिति शङ्किताः / ददृशुस्तापसा वल्लीमकालललितामिव अवर्णवादमात्मीयं मत्वा तेषां विरक्तितः / मुखं सा दर्शयामास सखीभ्यामपि न स्फुटम् कथं पितरि संप्राप्ते भविष्याम्यहमीदृशी ? / इति त्रासाद् गतच्छायं स्त्रीरत्नं तद् बभूव च कालक्रमेण संप्राप्तस्तत्पिता गालवोऽपि सः। अभ्युत्थितमुनिव्याप्तं कुर्वन्नवमिवाश्रमम् तस्याग्निशरण सद्यः प्राप्तमात्रस्य यज्वनः / इति श्रुतिपथं प्रापदशरीरा सरस्वती दुष्मन्तेनाहितं वीय बिभ्रती भृतये भुवः / जानीहि तनयां ब्रह्मन् ! वह्निगर्दा शमीमिव तामाकर्ण्य मुनिर्वाचं प्रीतः पत्युहं प्रति / प्रगुणीकर्तुमारेभे प्रस्थानाय शकुन्तलाम् इति च स्वच्छवात्सल्यविह्वलेनान्तरात्मना / सशङ्कामङ्कमारोप्य लज्जमानामलालयत् किश्च स्वयं प्रणिहतेर्बटुभिस्तरुभ्यः प्राप्तानि सन्निधिवशाद् वनदेवतानाम् / दिव्यानि रत्नमणिमौक्तिकनिर्मितानि तस्यै ददौ स विविधानि विभूषणानि इत्यन्तरिक्षवचनात् पितरि प्रसन्ने पत्युर्गृहं प्रति शकुन्तलया प्रयातुम् / // 38 // // 39 // // 40 // // 41 // // 42 // // 43 // IIIIIIIIIIsle // 44 //
Page #254
--------------------------------------------------------------------------
________________ स्कन्धे सर्गः९ // 117 // आपृच्छय गद्गद्गिरा परिरभ्यमाणे तामचतुः सपदि शापमुपेक्ष्य सख्यौ . // 45 // स त्वां यदि स्मरति नैव कदापि राजा तस्याङ्गुलीयकमिदं हि तदार्पणीयम् / श्रुत्वा च तत् किमिति सापि पुनर्बुवाणा नन्वेवमेव किल मन्दमवादिताभ्याम् // 46 // श्लाघापरैरनुगता मुनिभिः प्रसन्नैरुद्भिन्नबाष्पजडदृष्टितया स्खलन्ती / पत्युगृहं प्रति चचाल शकुन्तलापि हल्लेखया सकलमाकुलया दधाना // 47 // साकं शारिवेण पृष्ठिविषये शारद्वतेनाग्रतो गौतम्या स समं विचित्रवचनालापैः प्रयान्त्याः पुरः / भूयासुस्तव पञ्चवर्णजलदप्रच्छन्नसूर्यातपाः पन्थानः सवितानराजभुवनप्रस्थाः पदार्था इव // 48 // इत्युक्त्वा कुलपतिना स्वयं विसृष्टा गङ्गायां सुखमतिवाह्य रात्रिमेकाम् / सोत्कण्ठं सपरिजना प्रगे प्रपेदे दुष्मन्तस्थितिगुरु हस्तिनापुरं सा // 49 // इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे नवमः सर्गः // 9 // पञ्चमे स्कन्धे दशमः सर्गः। तानागतवतः सर्वान् शीघ्रं विज्ञाप्य वेत्रभृत् / अन्तःप्रवेशयामास पुरोहितपुरस्सरः केऽमी किमर्थमत्रेति ? तेषु सर्वेषु पौरवः / असंस्तुतेष्विव क्षुब्ध्वा तत्क्षणं क्षिप्तवान् दृशः // 2 // IIIIIIIIIIIIIle दमयन्त्या आश्वास: नाय चारणश्रमणैः कथितं शाकुन्तलाख्यानकम्। IIतIAHI ताबा AISISTKE // 117 //
Page #255
--------------------------------------------------------------------------
________________ III TITI AISHITIANE शकुन्तला तु पश्यन्ती पतिमास्थानसंस्थितम् / प्रौढप्रेमोपसृष्टाऽपि चुक्षुभे मनसा भृशम् // 3 // तत्तस्या दक्षिणं चक्षुः स्पन्दमानं पुनः पुनः / चक्रे निरुद्धनिःश्वासनिष्पन्दमखिलं वपुः . // 4 // तेषां विरचिते राज्ञा कुशलप्रश्नकर्मणि / प्रणीतसमुदाचारः स्वस्थः शाङ्गरवोऽवदत् सर्वमव्याहतं राजन् ! वातं कुलपतेरपि / स त्वां तत्रभवानाह विजयाशीः पुरःसरम् स्वयं स्वीकृतवान् यत्वं धर्मरागिणि भूपतौ / स्थिते त्वयि वरे पुत्र्या कृतं निश्चिन्तया द्रुतम् // 7 // इयं कुलपताका नः प्रासादस्त्वं च जङ्गमः / विधाय युवयोर्योगं युक्तकारी स्थितो विधिः संप्रत्यापन्नसत्त्वेति तदियं प्रहिता त्वयि / ईदृशे न यतः कन्या पितुर्वेश्मनि शोभते इति तस्मिन् वदत्येव प्रत्युवाच द्रुतं नृपः / धिक् किमेतदुपन्यस्तमसमञ्जसमञ्जसा ? // 10 // ब्रह्मन् ! सम्यग् भवान् वेत्ति कस्मै का प्रहिता किल / इमां न परिणीतामप्यहं जानामि कुत्रचित् // 11 // तत् कथं व्यर्थसम्बन्यो मयि स्थानस्थितेऽपि वा / युक्तैव पटते सत्तु माननापि यतः सताम् / / 12 / / इत्याकर्ण्य नृपस्योक्तं सद्यः क्षोभं व्रजन्नपि / पुनः सधैर्यसंरम्भं प्रोचे शारद्वताग्रजः // 13 // प्रहिता त्वत्कृते राजन्नियं च त्वत्परिग्रहः / असत्यं न वयं ब्रूमः कोपेन प्रणयेन वा // 14 // सोमवंशविशुद्धस्य सत्यशौचान्वितस्य वा / विशेषेण विशांपत्युः पौरवस्य पुरस्तव // 15 // युग्मम्॥ न तु स्मरति ते राजन्नवधानं विनाऽधुना / नृणां हि चेतनाचक्षुः प्रमादपटलावृतम् . // 16 // BHIASHI ASIA III
Page #256
--------------------------------------------------------------------------
________________ पश्चमे स्कन्धे सर्गः१० // 118 // दमयन्त्या आश्वास-. -नाय चार णश्रमणैः कथितं शकुन्तले ! महाराजं भर्तारमवबोधय / स्वेच्छावान् राजधर्मोऽपि प्रायः स्मृतिपराङ्मुखः // 17 // इत्युक्ता गुरुशिष्येण ब्रीडावनतकन्धरा / सा विरेजे महादुःखात् प्रविविक्षुरिव क्षितिम् // 18 // तस्मिंस्तादृशि दुद्धषं प्रेम्णि प्राप्ते दशामिमाम् / मम वज्रमयाः प्राणाः प्रियस्य रसनाऽथवा परिणीतेऽपि सन्देहस्तद् वाच्यं किमतः परम् ? / हता हि सांप्रतं तावदाशा दूराधिरोहिणी // 20 // ततो दुष्मन्तकौशिक्योगौतम्याश्च परस्परम् / गम्भीरमुग्धशान्तोऽभूद् विवादः कोऽपि तत्क्षणम् // 21 // आर्यपुत्राथवा नैवं किञ्चित् पौरख ! ते क्षमम् / तदा तादृशमाख्याय संप्रत्याख्यातुमीदृशम् // 22 // यत् स्यात् किश्चिदभिज्ञानं तद् भवेत् प्रत्ययस्तव / बाढं दर्शय तच्छीघ्रं नीत्या को न प्रतीयते ? // 23 // तर्हि त्वया तदा दत्तं नामाङ्कितमलौकिकम् / तदेतदङ्गुलीयं ते व नु तद् देहि दृश्यताम् // 24 // हन्त ! नास्तिक तद् यातं आर्यगौतमि ! किन्त्विदम् / पश्य प्रज्ञेव सोद्वेगा शून्या मे कथमङ्गुली ? // 25 // बन्से ! तत् पतितं मन्ये गङ्गागागलीयकम् / रामावतारतीर्थस्य प्रणमन्त्या जलं तव // 26 // तानि प्रियंवदोक्तानि स्मर वा मालिनीतटे / भद्रे ! स्मृतं मया सर्व न स्मृतं च विरम्यताम् // 27 // ईशैः खलु नारीणां ललितस्निग्धशीतलैः / असत्यवाक्सुधासारैः प्लाव्यते विषयी जनः // 28 // हा हा मेवं महाभाग ! मुग्धात्मा कन्यकाजनः / अदृष्टव्यवहारश्च कथं मिथ्या भविष्यति? // 29 // ततः प्रकुपितश्चित्ते दुष्मन्तस्य तया गिरा / हस्तमुद्यम्य साक्षेपं क्षिप्रं शारिवोऽवदत् // 30 // IIIIIIIIIIIIIEIR ISI Isle शाकुन्तलाख्यानकम्। बाजाII-IIEIHIIFSI. IIIII // 118 //
Page #257
--------------------------------------------------------------------------
________________ 415ISIle का ISIAHI AII IIमाल भो भो भूपाल ! युक्तस्ते द्रोहः कुलपति प्रति / तस्करः कुलकन्याया येन पात्रीकृती भवान् // 31 // इयं शीलकुलोपेता रूपलक्षणसंयुता / न दीयते किमन्यस्मै यदि न त्वं वृतो भवेत् // 32 // प्रजिघाय कुलीनत्वादिमां कुलपतिस्त्वयि / दारत्यागमहापापं तत् किं कर्तुं त्वमर्हसि ? // 33 // नूनमैश्वर्यमत्तानाममी लक्ष्मीविकारजाः। भवन्त्येवंविधा भावा नितान्तमवशात्मनाम् // 34 // निगृह्य श्रुतिदृग्वाचस्ततो हरति चेतनाम् / समुद्रमथनोत्पन्ना लक्ष्मीविषसहोदरी // 35 // न पश्यति पुरःस्थं यद् विज्ञप्तं न शृणोति यत् / यद् न जल्पति लक्ष्मीवान् न च सरति संस्तुतम् // 36 // अथवा किं बहूक्तेन यत् सन्देशहरा वयम् / इयं कुलपतेर्वाचा मुक्ताऽसाभिर्नृप ! त्वयि // 37 // . इमां स्वीकुरु वामा वा सर्वत्रापि प्रभुभवान् / कृत्वा कुलपतेर्वाक्यममी प्रचलिता वयम् // 38 // इत्युत्थाय प्रयान्तं तमनुयान्ती शकुन्तलाम् / अवेक्ष्य रुदतीं दीनां गौतमी वाक्यमब्रवीत् // 39 // हा शाङ्गरव ! मा मैवं प्रतीक्षस्व ननु क्षणम / अनुगच्छति नौ दीना विलपन्ती शकुन्तला // 40 // इंदृक् निष्करुणे पत्यौ किं मे पुत्री करोतु वा / इत्युक्तः स वलद्रीवं क्रुद्धः शारिवोऽवदत् // 41 // ननु तिष्ठ प्रमत्ताऽसि भूयः किं हि तवाश्रमे ? / इत्थं दहति च प्रेम स्वच्छन्दमपरीक्षितुम् // 42 // यथा नृपस्त्वाह तथाऽसि चेत् त्वं ततः पितुर्नि:कलया त्वया किम् ? / निजं च जानामि शुचिव्रतं तत् पत्युहे दास्यमपि क्षमं ते * // 43 // BISHIAHI HI 4जाब
Page #258
--------------------------------------------------------------------------
________________ पश्चमे // 44 // सर्गः१० // 45 // // 119 // // 46 // DIDISHISHI VISI IIIEISFI II इति ब्रुवाणं मुनिपुत्रकं तं जातानुकम्पो नृपतिर्जगाद / भो भो महात्मन् ! मुनयो दयार्दा भवन्ति तत् किं त्यजसीदृशीं स्त्रियम् ! राजन् ! समग्रोऽपि जनः परस्मै धर्मोपदेष्टा न पुनर्निजस्य / यदीदृशस्त्वं सघृणोऽसि दारत्यागी भवानेव ततः किमेवम् ? सापत्यामपरिचितामिमामदृष्टां संपन्नामपि गुणसंपदा समन्तात् / सङ्गृह्य प्रणयितयाहमद्य दारत्यागी स्यामुत भण पारदारिको वा ? नो चेत् किं परिकरदुर्वहा ममेयं द्वेष्या वा मनसि लघुत्वभाजनं वा / न्यायेन स्वमपरिवादिनं वितन्वन्नित्यूचे तमनु मुनि जनाधिनाथः त्वं राजा वयमपि तापसाः प्रसिद्धा नारीयं त्रितयमिदं प्रभूतमत्र / त्वं त्राता वयमपि युक्तवृत्तिवाचः पाल्येयं तदिह कुरुष्व यत् क्षमं ते इत्युक्त्वा सपदि शकुन्तलां विहाय स्वच्छन्दं सपरिजने मुनौ प्रयाते / कौशिक्यामजनि जनो दयार्द्रचेताः स्वीकतुं नृपमपि तां मुहुर्ययाचे अथ कथमपि राजा तां गृहे नानुमेने मनसि परकलत्रं सर्वथा मन्यमानः / सदयहृदयभावस्तं पुरोधा बभाषे पुनरुचितविधिज्ञः प्रज्ञया वीक्षितार्थः . दमयन्त्या | आश्वास: नाय चारणश्रमणैः कथितं ला शाकुन्तला ख्यानकम्। // 47 // IIIIताबापताना // 48 // // 49 // // 50 // 9 //
Page #259
--------------------------------------------------------------------------
________________ IIIIIIIIIEISSISile यत् तावकस्य गणकैः प्रथमस्य सूनोः श्रीवत्सलाञ्छनमुरः कथितं किलास्ति / आस्तां तदा प्रसवकालमियं गृहे मे दृष्टे सुते समुचितं सकलं विधेयम् // 51 // तथेति राज्ञानुमतः पुरोधा यावद् गृहीत्वा स्वगृहे जगाम / श्वासाकुलस्तावदुपेत्य शीघ्रं सभासमक्षं सहसा जगाद // 52 // चित्रं चित्रमहो! गृहे मम गता सा मुक्तकण्ठं शुचा निन्दन्ती निजकर्म बाष्पसलिलं बालाऽऽशु तत्याज च। स्त्रीसंस्थानमुपेत्य तां च तिरयज्ज्योतिर्जवाद् यात्यदः प्रेक्ष्यन्ते महसोल्वणा दशदिशस्तेनाखिलाः पश्यत // 53 // ततो राज्यं सर्व बत किमिदमित्याकुलमभूद् भयं भेजे राजा न खलु मम दुश्चेष्टितमिति / वितेनुर्वैतानं द्विजवरगणाः शान्तिकविधि समन्तादानचुः कुलदुहितरो गोत्रजरतीः // 54 // मायां किन्नु किमिन्द्रजालमथवा चित्तभ्रमोऽभूद् ध्रुवं सा बाला नहि निनिमित्तमथवा प्राप्तेति चित्ते स्मरन् / तेनाश्चर्यरसेन शान्तकरुणाशृङ्गारगर्भात्मना किश्चित्कालमनन्यकौतुकरसो राजापि तस्थौ भृशम् // 55 // __इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे दशमः सर्गः // 10 // ISTIATI II II III
Page #260
--------------------------------------------------------------------------
________________ पञ्चमे स्कन्धे पञ्चमे स्कन्धे एकादशः सर्गः। सर्गः११ // 12 // दमयन्त्या आश्वास-. नाय चारणश्रमणैः कथितं शाकुन्तलाख्यानकम्। IIIIII-IIIIIIIIIsle अथैकदा पुरे तस्मिन् हविक्रयकारिणः / आरक्षकनराः प्रापुर्धीवरादङ्गुलीयकम् तस्याभरणमुख्यस्य राजनामाङ्कितस्य ते / पिनह्याधिगम वेगादपृच्छन् धीवरं रुषा // 2 // शक्रावतारतीर्थस्य जालाकृष्टस्य पाटनात् / ऊचे रोहितमत्स्यस्य तत् प्राप्तं जठरान्तरात् . अश्रद्धेयगिरं मत्वा कैवर्त दण्डपाशिकः / राज्ञोऽङ्गुलीयकं दत्त्वाऽपृच्छद् वध्यस्य निर्णयम् // 4 // मुद्रारत्नं तदुवीक्ष्य शान्तशापविषभ्रमः / उदश्रुरभवद् राजा सद्यः स्मृत्वा शकुन्तलाम् // 5 // उपपत्तिमती मत्वा तत्प्राप्ति गौतमीगिरा / अमोचयत् स कैवर्त कृत्वा दारिद्यवर्जितम् तदादि स महादुःखी दुष्मन्तः स्वममन्यत / जन्मस्मृतिमिव प्राप्तं सुप्तोत्थितमिवाथवा // 7 // ददाह हृदयं तस्या न तथा विरहानलः / स्वयं भग्नप्रियाशस्य पश्चातापो यथा भृशम् शयन-स्नान-ताम्बूल-विलेपनविवर्जितः / कारागारमिव प्राप्तः साम्राज्येऽपि बभूव सः लीलाललितनिर्मुक्तं गीतनृत्यादिवर्जितम् / बभूव सकलं राज्यं तहुःखेन निरुत्सवम् // 10 // विरहवेदनया भृशमाकुलः सहचरं परिगृह्य क्षमाधवः / प्रियतमाललितप्रतिबद्धया विहरति स्म वने रतिवार्त्तया // 11 // अहो ! दहति हन्त ! मे हृदि तदेव लीलावनं स एव च मधूत्सवः प्रलयकालकल्पस्थितः / HIHI-IIIEISITICISFIFIEle // 120 //
Page #261
--------------------------------------------------------------------------
________________ II GRIHIT AIRI RIHITEle प्रियाविरहवेदनाविवशचेतसः सर्वथा तदद्य परिवर्त्तते मम वयस्य ! विश्वं जगत् // 12 // कुलवति सुभगे जनेऽनुरागं कथमितरोऽपि जनः करिष्यतेऽद्य / इह खलु विषयेऽतिदुःखभाजां प्रथममुदाहरणं प्रिया समासीत् // 13 // ननु सखे ! भवता कथितस्तदा मुनिसुताधिगमः प्रथमं मम / अथ पुनः परिहास इति त्वया मयि गभीरतया प्रतिपादितः // 14 // भो राजन् ! यदि तावदत्रभवतीं त्वद्धर्मपत्नी ततस्तां शक्त्या खलु हर्तुमत्र विजयी नाखण्डलोऽपि क्षमः। तत् केनापहृता भवेत् प्रियसखी कुत्राथवा वर्त्तते / तस्याः कोऽपि हि दिव्यभूमिविषयी बन्धुः परिज्ञायते // 15 // जाने सख्यास्तव भगवती मेनका जन्मभूमिर्जातप्रीत्या सपदि च तया निश्चितं सापहृत्य / नीता दिव्यव्यतिकरमयं दुर्गमं भूमिभाग वैताळ्ये वा निवसति गिरौ सा वने नन्दने वा // 16 // अथवा न जीवति शकुन्तला ध्रुवं विषमापमानहतया तया मम / जननीकरादपि नभःस्थलान्तरे गिरिमूर्ध्नि कुत्रचन पातितं वपुः / // 17 // शान्तं पापममङ्गलं प्रतिहतं स्वस्त्यस्तु तस्यै सखे ! यत्नं तजननी हि तत्र कुरुते मृा ससक्त्वा च सा / प्रायः कान्तपराभवेऽपि महति स्वापत्यवात्सल्यतः स्वीकुर्वन्ति यदत्र मृत्युरभसं नापन्नसत्वाः खियः // 18 // प्रियवयस्य ! मया सदृशो जडस्त्रिभुवनेऽपि न कोऽपि किलाभवत् / 9II AISEII A
Page #262
--------------------------------------------------------------------------
________________ // 19 // पञ्चमे. स्कन्धे सर्गः११ // 12 // IAISI // 20 // // 21 // दमयन्त्या आश्वास-. नाय चारणश्रमणैः कथितं शाकुन्तलाख्यानकम्। // 22 // III 4. ISIA III THI - BEII II MISSIO प्रियतमा परिहृत्य शकुन्तला निजकुलक्रममूलहरोऽपि यः अयि वयस्य ! कदुष्णतरैरिमैरविरलैरपि लोचनवारिभिः / निरपराधवधूपरिहारभूरनुशयाग्निरयं न निगृह्यते यो यः स्वयं प्रियतमापरिहारकारी यो यः प्रयाति मरणं निरपत्य एव / आकल्पमेकवचनेन हि निर्विकल्पं दुष्मन्त नाम लभतां भुवि सोऽपि सोऽपि इत्युक्तः सन् हर्म्यभागे स यातो राजन् ! राजन् ! रक्ष रक्षेत्यरौषीत् / श्रुत्वाऽऽरावं तस्य राजाप्यधावद् नैवापश्यत् क्रन्दतस्तस्य मूर्तिम् रक्षां कर्तुं तस्य शब्दानुसारी यं यं राजा याति कक्षान्तरं च / तस्मात् तस्मादन्यमन्यं प्रवेशं गाढाक्रन्दः केन चित्रीयते सः रक्षोभूतप्रेतवेतालमुख्यः कोऽयं चित्ते वेत्ति नैव स्वसारम् / दृष्टस्तृप्तो जीवितस्य ध्रुवं स व्यक्तं यद् वा तस्य रुष्टः कृतान्तः क्रीडापात्रं ब्राह्मणं मे विनिघ्नन् मामुद्यम्य व्याहरत्येष धूर्तः। यत् तस्यैव व्योमभागं धुनानः क्ष्वेडानादः श्रूयतेऽसौ तथाहि नन्वेष मां मेषवत् कम्पमानं रुद्धा कण्ठं हन्मि शार्दूलवृत्त्या / // 23 // // 24 // MILAIAI A // 25 // // 12 //
Page #263
--------------------------------------------------------------------------
________________ = = बाजाIIIII-IIIIIIII ille आर्तत्राणव्यापृतः संप्रति द्राक् दुष्मन्तस्त्वां पातु धन्वी किलेति // 26 // रे रे रक्षस्तिष्ठ तिष्ठ क यासि ? छमच्छन्नस्त्वं न मे गोचरोऽसि / किन्तु द्वेषिस्कन्धरक्तारुणानां प्रत्यक्षस्त्वं पत्रिणां मामकानाम् // 27 // सभ्रूभङ्गं स ब्रुवाणस्तदित्थं चक्रे चापं सजगुञ्जद्गुणं च / त्यक्त्वा विप्रं मातलिस्तं च वेगात् प्रत्यक्षोऽभूत् सस्मितं भाषमाणः // 28 // अयि सखे ! विमुखं कुरु साधकं त्वमहनेव हि मे भव सन्मुखः / न तु सुहृत्सु सतां श्रवणस्पृशो विनिपतन्ति दृशो न शिलीमुखाः // 29 // किमपूर्वमेतदयि ! संविधानकं पुरुहूतसूत ! कुशलं कुतोऽधुना। इति तं जगाद परिरभ्य भूपतिः कटुभाषिणं स विनिवार्य माधवम् // 30 // आयुष्मतः सकरुणस्य रसान्तरायक्रीडाकृता भव नरेन्द्र ! तदद्य सद्यः। आदेशतः शतमखस्य कुरुष्व यात्रां वैताढयसीमनि निशाचरसूदनाय // 31 // इत्युक्त्वा तं मातलिः स्यन्दनाङ्के निःशङ्कानामेकधुयें निवेश्य / चक्राघातक्षुण्णपर्यस्तजालः कण्ठाभोगन्यस्तमालश्चचाल // 32 // इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे एकादशः सर्गः // 11 // DILABILAIFI AIII IIISIgle =
Page #264
--------------------------------------------------------------------------
________________ पञ्चमे स्कन्धे द्वादशः सर्गः। पश्चमे स्कन्धे सर्गः 12 // 122 // तलिसारथिम् / पुरता अपि प्रामाभित्रनिशाचरा कसा // 2 // दमयन्त्या आश्वास-. नाय चार| णश्रमणैः | कथितं ला शाकुन्तला ख्यानकम्। // 4 // III-IIIATIIIIIIIIIATRIK तस्मिन्नारुह्य संप्ताप्ते रथं मातलिसारथिम् / पुरेषु राक्षसेन्द्राणां समनह्यन्त सैनिकाः शब्दैः समरभेरीणां निर्भरं भरितेऽम्बरे / अनाहूता अपि प्रापुः स्वयमप्सरसो रसात् शतघ्नीशूलमुशलमुशण्डीमुद्गरादिभिः / पिधाय भास्करं चक्षुनिशामित्रनिशाचराः ततो दुष्मन्तसूर्यस्य दृष्टया नाराचरोचिषः / तमप्यमन्दमन्दारमालाभित्रिदिवौकसः कृत्वा निःशब्दसञ्चारं रणक्षेत्रमकण्टकम् / स समं सन्मुखैर्वृतैरुपतस्थे शतक्रतुः गीयमानगुणग्रामं गन्धर्वैधुतमूर्द्धभिः / तमर्द्धासनसन्मानभाजनं विदधे हरिः तैस्तैर्मृदुभिरालापैर्दत्वा दिव्यामृतं च तत् / आपृच्छन्तं सुनासीरः कथञ्चिद् विससर्ज तम् शशंस सस्मितं तस्मै विस्मयोत्फुल्लचक्षुषे / स्थानानि तानि दिव्यानि मातलिर्गगनाध्यनि अस्मिन् दशतया नित्यं दधाने फलसंपदः / कल्पवृक्षवने सन्ति परेलक्षा महर्षयः अत्र तत्रभवान् भव्यविद्याधरनमस्कृतः / स्वयमिन्द्रगुरुः स्वामी मरीचिस्तप्यते तपः इत्याकर्ण्य रथं मुक्त्वा दुष्मन्तो नन्तुमिच्छया / प्रैषीदवसरं ज्ञातुं मातलिं मुनिसन्निधौ तत्र तिष्ठन् समायान्तं स किश्चित् पञ्चवार्षिकम् / ददर्श बालकं स्त्रीभ्यामुभयाभ्यामनुद्रुतम् // 10 // // 11 // // 12 // // 13 // IIIIIII जाब // 122 //
Page #265
--------------------------------------------------------------------------
________________ // 14 // // 15 // SIDEIIIIIIII-IIIIIII 1959 तस्य पश्यत एव द्राक् स बालः सिंहशावकम् / मातुः स्तनन्धयं धृत्वा तलघातैरताडयत् विधेहि वदनं व्यात्तं दशनान् गणयामि ते / इति तन्मुखमङ्गुल्या बलाद् बालः स कर्षति स न सिंहीभयं धत्ते नासौ स्त्रीभ्यां निवारितः। तयोस्तमपकर्षन्त्योद॑ष्टं तद्वलयं करात् तद् भूमिपतितं ज्ञात्वा दधतुस्ते न तत्करे / तदर्थ च स चुक्रोश शिशुरुत्क्रोशवद् भृशम् / श्रीवत्सलाञ्छनं दृष्ट्वा तं बालं पुलकान्वितः / स्नेहादियेष दुष्यन्तः कत्तुं तद्वलयं तथा निनाय च यथास्थानं स सद्यस्तद्विभूषणम् / दत्त्वा पुत्रं च तं तस्मै युवती ते जजल्पतुः दिष्ट्या त्वमसि दुष्मन्तः सोमवंशविभूषणम् / तत् सर्वदमनो नाम्ना पुत्रोऽयं तव सर्वथा नूनं मरीचिना दत्तमौषधीवलयं ततः / इदमस्य कराद् भ्रष्टं न स्पष्टुमितरः क्षमः इदं पित्रोः परं दृष्ट्वा भस्मीभवति तत्क्षणात् / तत्किं नु बहुना तावत् सनाथाऽद्य शकुन्तला भृमण्डलविहारिण्या भानुमत्या मुखेन च / वेत्ति त्वद्विरहावस्था स्वयं सापि वियोगिनी तदद्य निलये मातुर्वसन्त्या अपि सोत्सवम् / तस्याः पूर्णोऽस्तु दृष्ट्वा त्वामेकवेणीव्रतावधिः मरीचिवन्दनं कर्तुं गच्छन्ती कमलेक्षणा / कल्याणी किश्च सैवेयमित एवाभिवर्तते तयोस्तदिति जल्पन्त्योः सहसैव ससंभ्रमम् / दूराद् ददृशतुर्व्यक्त्या दम्पती तौ परस्परम् गाम्भीर्यकरुणौत्सुक्यत्रपाहर्षतरङ्गितः / दृष्टिपातस्तयोरासीत् सखीभ्योऽपि स्पृहावहः // 17 // // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // // 24 // // 25 // // 26 // // 27 // OII II IIFISIFIEFIDIHIRISHA
Page #266
--------------------------------------------------------------------------
________________ पञ्चमे स्कन्ध सर्गः 12 दमयन्त्या आश्वास.. नाय चारणश्रमणैः कथित FIIIIIIIII AII IIIle हन्त ! दिष्ट्याद्य पुण्याहमार्यपुत्रो जयत्विति / जल्पन्तीमेव दुष्मन्तः प्रत्युवाच शकुन्तलाम् // 28 // यत् पुरा स्मृतिवैकल्यादपराद्धं मया त्वयि / तत् क्षमस्व प्रिय ! सर्व तवायं विहितोऽञ्जलिः // 29 // तदेव केवलं देवि ! महद् भाग्यं ममाभवत् / यत् पुत्रवत्सलत्वेन सन्यस्तं न त्वया वपुः // 30 // अद्याहं पुत्रवान् जातः पत्नीवांश्च कृशोदरि!। जीवन्ती त्वं मया लब्धा दुःखाद् जीवन् मृतापि यत् // 31 // कैवर्तकरसंप्रासाद् यतः स्मृतिरभृद् मम / तदेतदगुलीयं ते प्रामोतु पुनरगुलिम् // 32 // आकर्ण्य तदिदं किश्चिद् बाष्पोरेदं निगृह्णती / जगाद गद्गदं भक्ताऽभिदुष्मन्तं शकुन्तला // 33 // आर्यपुत्र ! किमर्थं हि देहत्यागं करोम्यहम् / क्व पुनदर्शनं नाथ ! मृताया मे त्वया सह ? // 34 // दैवात् स्मृतिपदं नाथ ! प्राप्तायास्तव दुर्लभम् / विश्वस्तघ्नमिदं कस्माद् दीयते मेऽङ्गुलीयकम् ? // 35 / / अद्याभूत पितृमान् वत्सस्तत् सर्वदमनो मम / अद्य भर्तृमती चाहं यत् प्रिय ! त्वं प्रसीदसि // 36 / / इत्थं मिथः प्रियालापं दम्पत्योः कुर्वतोस्तयोः / मातलिः समयं ज्ञात्वा संप्राप्तः स्फुटमुक्तवान् // 37 // दिष्ट्या विजयतां श्रीमान् चिरात् पत्न्या समन्वितः / पुत्रेण चानुरूपेण हृदयाब्जेन्दुना समम् // 38 / / आयुष्मन्नात्मनैव त्वां ज्ञात्वा ज्ञानादिह स्थितम् / सकुटुम्बमपि श्रीमान् मरीचिर्द्रष्टुमिच्छति // 39 // तत् त्वर्यतामिति श्रुत्वा पुत्रपत्नीसमन्वितः / स गत्वा सत्वरं विद्वान् ववन्दे चरणौ गुरोः // 40 // युग्मम् // विधाय प्रस्तुतालापं गुरुणाप्यभिनन्दितः / उवाच वचनं राजा दुष्मन्तः प्रश्रयाश्रयम् // 41 // शाकुन्तलाख्यानकम्। II IIIIIIII // 123 //
Page #267
--------------------------------------------------------------------------
________________ // 42 // // 43 // // 44 // // 45 // भगवंस्त्वत्प्रसादेन संयुक्तोऽहं गृहश्रिया / चिरादद्य कृतार्थोऽस्मि किन्तु प्रष्टव्यमेव.मे इयं तव वधूः पूर्व प्राप्तापि न मया स्मृता / किमङ्गुलीयकं दृष्ट्वा भूयोऽपि स्मृतिमाययौ ? इति पृष्टः स्वयं राज्ञा मरीचिमुनिसत्तमः। ऊचे दुर्वाससः शापं तं मुद्रादर्शनावधिम् तं सर्वदमनं चापि पुत्र प्रतिवरं ददौ / प्रजानां भरणादेष भरताख्यो भवत्विति . इत्थं मरीचिमुनिना विहितप्रसादो विद्याधरैः परिवृतः शतशः समेतैः। पुत्रान्वितः सह शकुन्तलया प्रतस्थे भूयः पुरन्दरपुरप्रतिमं पुरं सः तदेतदद्भुतमिह पूज्यपूजनं व्यतिक्रमव्यतिकरजं सुदारुणं / शकुन्तलाचरितमपेक्ष्य चेतसा न भीमजे! क्षममनुशोचितुं तव इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे द्वादशः सर्गः // 12 // // 46 // // 47 // III-IIII III II IIIF IEO पञ्चमे स्कन्धे त्रयोदशः सर्गः। इति भास्करशिष्यस्य मुखादाकर्ण्य तां कथाम् / वैदर्भी स्वमभिप्रायं प्रकाशितवती गिरा भगवन् ! सत्यमेवेदं दुःखं सेहे शकुन्तला / सूक्ष्मदृष्ट्या विमृष्टे तु ततः कष्टं ममाधिकम् // 2 //
Page #268
--------------------------------------------------------------------------
________________ पञ्चमे स्कन्धे सर्गः१३ // 124 // MISSII - IIIEITE IIIFE आजन्मतोऽपि साम्राज्यं वनवासो ममाधुना / पूर्वमारण्यकी सा तु वनवासाद् न यते // 3 // अथवा मा स्म भूद् विश्वे कस्याश्चित् कष्टमीदृशम् / अहमेव यतः पापा पापानामेकभाजनम् इति दुःखाग्निबाष्पौघं सृजन्तीं क्षितिभृद्भवम् / महामुनिपयोदस्तामभ्यवर्षेद्वचोऽमृतेः आयाति यद् यदा यस्य दुःखं किमपि देहिनः / अपि स्वल्पमनल्पं वा तत् तदा तस्य दुस्सहम् // 6 // अपि नाम कलावत्या यदि तावत् तथा स्थितम् / त्वमित्थं गतमात्मानं नैकं शोचितुमर्हसि // 7 // भृणु ते कथयिष्यामि कलावत्याः कथामहम् / यामाकर्ण्य त्वमात्मानं दुःखितं नैव मन्यसे // 8 // जावालपुरभूपालः शङ्खः सुखमहोदधिः / उदात्तधीरललितः कलावान् विनयी नयी रूपेण जितकामस्य विक्रमेण हतद्विषः / विद्वद्गोष्ट्या ययुस्तस्य निश्चिन्तस्यैव वासराः // 10 // अन्यदा पुरपर्यन्ते भ्रमतस्तस्य वाजिभिः / सैन्यस्येव रजोराशिः सनिःस्वानः पुरोऽभवत् // 11 // तद् विज्ञातुं तदादिष्टाः शीघ्र विज्ञाय सादिनः / व्यजिज्ञपद प्रसन्नामि रिभरञ्जलिमौलयः सार्थः स्वपुरवास्तव्यो देव ! देशान्तरादयम् / आदाय सारभाण्डानि कुशलेन समागतः / // 13 // इभ्यसाधुर्गजो नाम्ना सार्थनाथश्च पार्थिव ! / भवन्तं दृष्टुमभ्येति तदसावनुगृह्यताम् // 14 // इति श्रुत्वा तमाभाष्य नामग्रहणपूर्वकम् / सरस्तरुतलासीनस्तस्य सेवाक्षणं ददौ // 15 // स महाघ तदानीतं वस्तुजातमुपायनम् / स्वीकृत्य सुप्रसन्नः सन् तं निःशुल्कमचीकरत् // 16 // दमयन्त्या आश्वासनाय भास्करशिष्येण कथिता पड कलावत्याः कथा॥ // 124||
Page #269
--------------------------------------------------------------------------
________________ II SPEIRE II @IIIIIIIIIIIIIIIEIFIIssile ततः साधुः स पेटायाः पट्टकूलशतावृतम् / उद्घाट्य दर्शयामास तस्य चित्रपटं स्फुटम् तत्र चित्रपटे नारी रूपेणालौकिकेन सः / पश्यन् सुरवधूबुद्ध्या प्रणन्तुं प्रगुणोऽभवत् तं तथास्थितमुर्वीशं निवार्य स वणिग्वरः / ऊचे देवेन देवीयं तत्त्वमस्या निशम्यताम् इतो गत्वा दशाणेषु विदिशासन्निधौ मम / आवासितस्य कान्तारे सायं भृत्यैनिवेदितम् / यदत्राश्वोऽस्ति गुल्मौपलमपल्गानियत्रितः / निश्चेष्टः पतितः पृथव्यामश्ववारश्च सन्निधौ समानीय सहाश्वं तं ततोऽहं पटमण्डपे / उपचारपरै त्यः स्वस्थं कारितवान् द्रुतम् तस्यानुपदिकं सैन्यं प्रातर्विष्वक् समाययौ / राज्ञो विजयसेनस्य स हि राज्यधरः सुतः अश्वेनापहृतः प्राप केवलं तादृशी दशाम् / सुवर्णबाहुरित्याख्यां स बिभर्ति महाभुजः दशार्णपतिपुत्रेण तेन नीतः सहैव हि / प्रविष्टोऽस्मि पुरी देव ! बद्धध्वजपटावृताम् स प्रणम्य पितुः पादौ निषण्णः सन्निधौ सदि / अश्वापहरणोदन्तं पृच्छ्यमाणोऽवदद् मुदा अपहृत्य तुरङ्गेण प्रक्षिप्तो निर्जने वने / आरूढ एव निश्चेष्टस्तात ! जातोऽस्म्यहं श्रमात् गुल्मौघलग्नवल्गः सन् क्वापि तस्थौ स्वयं हरिः / निश्चेष्टः पतितः पृथ्व्यामहं विटपघट्टनात् तत्र मे नष्टचेष्टस्य सिंहव्याघ्राकुले वने / नन्वेष सन्निधौ साधुर्दैवादावासितोऽभवत् यद्यकारणबन्धुर्मे न तदा परिपालनम् / अकरिष्यदयं साधुस्ततो मे जीवितं कुतः // 17 // // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // ISIA III III & III
Page #270
--------------------------------------------------------------------------
________________ पञ्चमे. स्कन्धे सर्गः१३ न // 125 // 151HI AIIANEI VIजाle तात! तातवदाप्तेन महता साधुनाऽमुना / एप प्राणप्रदानेन क्रीतोऽस्मि मरणावधि: // 31 // इति तद्वचसा राज्ञा भ्रातरं प्रतिपद्य माम् / सामन्तपदवीं दचा नादाद् गन्तुं क्वचिद् मम // 32 // तत्र लब्धप्रतिष्ठस्य प्रतिपच्या तया मम / रम्येषु राजकार्येषु मुख्यता सकलेष्वभूत् / // 33 // तस्य चास्ति महीभर्तुः कलाकुलनिकेतनम् / स्वर्णवाहोरवरजा सुता नाम्ना कलावती // 34 // चतुष्टयं समस्यानां यः कश्चित् पूरयिष्यति / स मत्प्रिय इति व्यकं तया देव ! प्रतिश्रुतम् तदर्थं तत्र सर्वेषु हूयमानेषु राजसु / मयकापि हि देवस्य श्रुतः प्रज्ञागुणो भृशम् // 36 // ततः सह मया देवमामन्त्रयितुमुच्चकैः / दशार्णपतिना दूतः प्रहितो गरुडाभिधः // 37 // अहं च सार्थमादाय स्वदेशोन्मुखमञ्जसा / समं तेन प्रपन्नोऽस्मि प्रमाण परतः प्रभुः // 38 // छायामात्रमिदं तस्या रूपमालेख्यगं तथा / प्ररोचनार्थ देवस्य समानीतं स्वयं मया // 39 // इति तन्मुखचन्द्रोत्थं वाक्पीयूषं निपीय सः। द्रुतं संभावयामास तं दूतं तत्पुरस्सरम् // 40 // कलां कीर्ति कलावत्या लावण्यं च विचिन्त्य तत् / तत्र स्वयम्बरे यातुं सज्जतां विदधेऽधिकम् // 41 // कथं मम समस्यानां शक्तिः स्यात् परिपूरणे ? / इति सारस्वतं मन्त्रं लक्षमेकं जजाप सः // 42 // तं शक्तिप्रवणं शुभ्रं चापचक्रव्यवस्थितम् / सानुस्वारं सरन् देवीं स ददर्श सरस्वतीम् // 43 // मुक्तावलिवलक्षण कमण्डलुजलेन तम् / अभिषिच्य जगन्माता सान्तर्धानं पुनर्ययौ। // 44 // दमयन्त्या आश्वास-. नाय भास्करशिष्येण कथिता कलावत्याः कथा॥ SIATIATI4 // 125||
Page #271
--------------------------------------------------------------------------
________________ IIIIIIIIIIIII-IIIIsle तदनुग्रहसञ्जातपरमप्रतिभाबलः / पदवाक्यप्रमाणेषु स निष्प्रतिमतां ययौ ततो दूतं पुरः प्रेक्ष्य सहैव गजसाधुना / चचाल शङ्खभूपालः कलावत्याः स्वयम्बरे संनिवेशितसैन्यस्य तस्य रेवानदीतटे / द्रुतमन्तर्जलात् कश्चिदुन्ममज महागजः सैन्यद्विपघटाटोपं सहसा तस्य पश्यतः / सलिलस्नानधौतापि मदलक्ष्मीरदीप्यत तुरगैस्तुरगाद् निघ्नन् स्थैरास्फालयन् स्थान् / सकलं व्याकुलं चक्रे चमूचक्रं क्षणेन सः तमापतन्तमुभ्रान्तमन्तकप्रतिम गजम् / अवध्यमपि शिक्षार्थ शङ्कः किश्चिदताडयत स कुम्भपतितं बाणं शैलशृङ्गमिवोद्वहन् / प्राप दिव्यं वपुः सद्यः सैन्यविस्मितमीक्षितैः प्रभावोपनतैर्दिव्यैः कुसुमैरवकीर्य सः / उवाच मौक्तिकासारं वितन्वन् दन्तकान्तिभिः राजन् ! गन्धर्वराजस्य जानीहि जनवल्लभम् / प्रियदर्शनसज्ञस्य तनयं मां प्रियंवदम् निर्लजं रममाणेन दिव्यस्त्रीभिः सहाथ मे / मया पूर्वमवज्ञातो मतङ्गाख्यो महामुनिः क्रुधा तेनाभिशप्तोऽहं जातो मत्तमतङ्गजः / भूयस्तदानुनीतः सन् स मुनिर्मामभाषत यदा मद्रेश्वरो राजा शङ्खस्त्वां प्रहरिष्यति / तदा प्रपत्स्यते शीघ्रं पुराणी प्रकृति भवान् सोऽहं संप्रति संप्राप्तः शापमोक्षं मनीषितम् / उपकर्तुः प्रियं कत्तुं किश्चिद् वाञ्छामि ते नृप! अवं प्रस्वापनं नाम्ना गान्धर्व तद् गृहाण मे / अहिंसा विजयश्चैव यत्प्रयोक्तुः फलद्वयम् कु फलद्वयम् // 45 // // 46 // / / 47 // // 48 // // 49 // // 50 // // 51 // // 52 // // 53 // // 54 // DISIAISI ASIAFISIIIIIIle // 57 // // 58 //
Page #272
--------------------------------------------------------------------------
________________ II श्रा पञ्चमे स्कन्धे MAIS LA II सर्गः 13 // 126 // इत्थमभ्यर्थितस्तेन सानुरोधः क्षितीश्वरः / अस्त्रमन्त्रं स्वयं सम्यक् तन्मुखेन गृहीतवान् // 59 // एवं तयोविहितसौहृदयोर्वनान्ते गन्धर्वपार्थिवकुलोत्थितयोरकस्मात् / एको ययौ सपदि सौमनसप्रदेशानन्योऽपि निर्भरसमृद्धिजुषो दशार्णान् // 60 // तत्र स्वयं विजयसेननरेश्वरेण प्रत्युद्गतेन विधिवद्विहितातिथेयः। पृथ्वीपतिः स निवसन्नुपकारिकायां सोत्कण्ठ एव शयने रजनीं निनाय // 61 // साध्यं विधिं प्रातरुपास्य सम्यक माङ्गल्यवृत्त्या कृतयुक्तवेषः।। महार्हमश्चस्थितराजलोकं स्वयम्वरस्थानमवाप सद्यः // 62 // इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे त्रयोदशः सर्गः // 13 // दमयन्त्या आश्वासनाय भास्करशिष्येण कथिता एकलावत्याः कथा // AllIAIFI ATARIATII पञ्चमे स्कन्धे चतुर्दशः सर्गः / तस्य स्थितवतस्तत्र रत्नसिंहासनं महत् / पठत्सु बन्दिवृन्देषु ध्वनत्सु पटहेषु च मनुष्यवाह्यमारुह्य यानं कन्याशतावृतम् / स्वयम्बरसभामध्यं प्रविवेश कलावती अथ सानन्दमुद्यम्य हेमदण्डधरं करम् / इति तस्याः प्रतीहारी चकार किल घोषणाम् SIELL - 1981 1980 FLERE // 1 // // 2 // युग्मम् // // 126 //
Page #273
--------------------------------------------------------------------------
________________ IIISTIATIATI AIIIIIIile भो भोः शृणुत भूपालाः! राजपुत्र्याः प्रतिश्रुतम् / यः समस्याश्चतस्रो मे पिपर्ति स वरो मम // 4 // छिद्यमानोऽपि शस्त्रेण द्वेधा भवति न द्रुमः / किमत्र कारणं वाच्यं ? स्फुटीकुरुत पार्थिवाः! // 5 // अनाक्षिप्तोऽपि पग्रिन्या निःश्वासं विसृजत्यलिः / किमत्र कारणं वाच्यं ? स्फुटीकुरुत पार्थिवाः! // 6 // दिवापि चक्रवाकानां मिथुनैर्यद् विभज्यते / किमत्र कारणं वाच्यं ? स्फुटीकुरुत पार्थिवाः! // 7 // सलिलेनापि नापैति कुङ्कुमं यद्वधूमुखात् / किमत्र कारणं वाच्यं ? स्फुटीकुरुत पार्थिवाः! // 8 // इति प्रत्युत्तरं तत्र राज्ञामप्रतिपेदुषाम् / पपाठ शङ्खभृपालः समस्यास्ता यथान्वयम् // 9 // स हि च्छायामयो वृक्षो निःश्वासो विरहोष्मवान् / मुखं दर्पणसंस्थं च राहुग्रस्तश्च भास्करः // 10 // इति पूर्णासु सर्वासु समस्यासु यथा स्वयम् / वृणोति स्म द्रुतं शङ्ख सत्यसन्धा कलावती // 11 // तस्मिंस्तुल्यगुणे युग्मे स्तूयमाने मुदा जनैः / चक्रे हृदि नरेन्द्राणां प्रसरं मत्सरज्वरः // 12 // अन्तर्निविडरोषास्ते बहिर्दर्शितसम्मदाः / ययुर्दशार्णमापृच्छथ पथि शङ्ख रुरुत्सवः // 13 // विधि समाप्य वैवाह्य पथि कान्तासमन्वितम् / स्वदेशाभिमुखं शङ्ख व्यगृह्णन् वसुधाभुजः // 14 // तत्राजनि महायुद्धं रेणुरुद्धदिवाकरम् / शब्दस्पर्शपरिज्ञेयहस्त्यश्वरथसैनिकम् // 15 // पतद्भिर्वैरिणां विष्वम् विशिखैर्मर्मभेदिभिः / दिदीपे तस्य वीर्याग्निः समिद्भिरिव निर्भरम् // 16 // न तस्य ददृशे किश्चिद् व्याप्तस्य रिपुसायकैः / शलभैरवकीर्णस्य द्रुमस्येव महीयसः // 17 // IIIIIIIIIIIFIFI
Page #274
--------------------------------------------------------------------------
________________ पञ्चमे स्कन्धे सर्गः 14 // 127 // PISIIIIIII-III-15IESI IIIS ततः संमोहनं नाम्ना महावीर्य महाबलः / अस्त्रं मुक्त्वा स गान्धर्व शङ्गः शङ्खमपूरयत् // 18 // तस्मिन् मुक्तेऽरिसैन्यानां नयनानि निरन्तरम् / निद्रा निनाय सङ्कोचं कमलानीव यामिनी // 19 // दर्शयन् तान् शिशुग्राह्यानित्युवाच प्रियां नृपः / त्वमेभिर्मम हस्तस्था युद्धनानेन वाञ्छथसे // 20 // सा पत्युर्विजयभ्रान्त्या वहन्त्यस्मितमाननम् / लज्जानिविडिता कान्तं प्रशशंस सखीमुखैः // 21 // जीवितं कृपया लातं. गयो नः संहृतं मया ! गुरागैरलिखद् वर्णानिति राजा स केतुषु // 22 // ततो निर्वाहसामर्थ्य पुरं प्राप प्रियान्वितः। उपर्युपरि संभूतैरुत्सबरनयद् दिनान् // 23 // अभवत् परमप्रेम द्वयोरपि परस्परम् / नित्यं शङ्खकलावत्योयोनयनयोरिव // 24 // निर्व्याजं रममाणायाः शङ्खन सह रागिणा / गर्भोऽभवत् कलावत्या वपुषः पुष्टिमावहन् // 25 // तस्मिन्नवसरे तस्याः प्रहितः पितृमन्दिरात् / माङ्गल्यमाययौ कर्त्तमन्तःपुरवरो जनः // 26 // तदह्नि तत्प्रियो राजा गतोऽभूद् वनचर्यया / तत्रैव च विनोदेन निनाय सकलं दिनम् // 27 // दिनशेपे च संप्राप्तः पुरं वनविहारतः / अचिन्त्यदर्शनात् प्रीतिं प्रियायाः कर्तुमैहत // 28 // निभृतं निरुपानद्भ्यां चरणाभ्यां समं चरन् / सञ्ज्ञया वारयन् सर्व प्रविवेश प्रियागृहम् जमारहम् // 29 // तत्पृष्टिं प्राप्य हास्याय तस्या मीलयितुं दृशौ / पश्यन् जालान्तरे तस्थौ समं वायसमायया // 30 // कृत्वा पित्गृहात् प्राप्तं शृङ्गारं सुखमास्थिता। सख्या संभाष्यमाणासीत् तत्कालं सा कलावती // 31 // दमयन्त्या आश्वा-. सनाय भास्करशिष्यण कथिता कलावत्याः कथा॥ HI AISITI IIIEI THIS // 127 //
Page #275
--------------------------------------------------------------------------
________________ PISI IIIIIEI VIFI WIFILE ISIFIFIC यत् किल स्पृहणीयापि त्वमद्य द्यौरिवेन्दुना / अमुना सखि ! केयरद्वयेनैव विराजसे // 32 // किमन्यद् मणिमाणिक्यमुक्ताखचितयोर्द्वयोः / तावत्केयूरयोर्मूल्यं न शक्यं कर्तुमेतयोः // 33 // त्वमाभ्यामतिरागाभ्यां संसक्ताभ्यां सुनिर्भरम् / विभासि पुष्पदन्ताभ्यां गृहीता भुजयोरिव // 34 // तद् ब्रहि सखि ! कस्तुभ्यं केयूरद्वयमीदृशम् / प्राहिणोत् परमप्रेमपारायणपरायणः / // 35 // तदित्थमथ पृच्छन्त्यास्तस्या रहसि निर्भरम् / चकार हृदये राजा चिन्तामिति चमत्कृतः // 36 // अहो न हि मया दत्तं न च दृष्टं मया पुरा / अपूर्वमङ्गदद्वन्द्वमिदमस्याः कुतोऽधुना // 37 // ममैव संशयं हर्तुं मन्ये पृष्टेयमेतया / किमत्रार्थे समाधत्ते सावधानः शृणोमि तत् // 38 // इति दत्तावधानस्य रहः शङ्खस्य शृण्वतः / वैदग्ध्येनैव निर्व्याज व्याजहार कलावती // 39 // किमात्थ सखि ! केनेदं यत् किल प्रेषि भूषणम् / ननु कः प्रेषयेत् स्वल्पः स्वल्पप्रेमापि चेदृशम् // 40 // गग निनेदपुत्कीर्णा गश्च मे हृदि रोपितः / तेनैतद गदित गान सामान्येन केनचिन प्राप्य प्राणप्रियस्याद्य प्रसादीकृतमण्डनम् / संप्राप्तमिव सर्वाङ्गमालिङ्गनमिदं मया // 42 // न तथा महिमोत्कर्षों भर्ता दत्तोबूंदोऽपि मे / यथा तत्प्रहिता मह्यं दत्ते गुञ्जापि गौरवम् // 43 // कुतो मे मन्दभाग्याया भूयस्तदर्शनोत्सवः / ब्रुवाणैव सवाकस्तंभमित्यश्रृणि मुमोच सा // 44 // तत्तडित्पातसङ्घातदुःसहं दयितावचः। ददाह हृदये राज्ञः सपदि प्रेमपर्वतम् // 45 // IlASHI AISI AIबाजाIsle
Page #276
--------------------------------------------------------------------------
________________ HITSEK स्कन्धे सर्गः१४ // 128 // ISIA HIA ISI - THEI THI MISH न विवेद प्रियोक्तीनां पारंपर्य स पार्थिवः / तस्याः पित्गृहात् प्राप्तमुपायनमतर्कयत् // 46 // धिग् धिग् मलिनशीलायां प्रेमास्यां मम निर्भरम् / बहिर्मुखस्य दुर्बुद्धेर्मुधा रागान्धचेतसः / // 47 // आः पापे ! विकलीभावं कुलटात्वेन बिभ्रती / कलावतीति नाम स्वं वहन्ती नहि लजसे // 48 // भवतु प्रतिकारमेष सर्व द्रुतमस्याः सदृशं समाचरामि / स्थितिलविनि दुर्जने विलजे न मुहवं महतां मनोऽनुरागः // 49 // याभ्यां गर्वमियं विभर्ति भुजयोनिःपुण्यका पुंश्चली ताभ्यामेव भवत्विमां यदि नहि व्यापादयामि क्षणात् / नन्वस्याः सुतरां लघुर्यदि मया दत्तोबुंदोऽप्यस्ति यत् तद् लूनां महतीं ददामि सपदि स्वच्छायया जायते॥ 50 // इत्युद्दामक्रोधरुद्धः प्रवेशं नैवाकार्षीत् मन्दिरे स प्रियायाः। तस्याश्चोक्तं व्यत्ययेनेव मेने स्वादु द्रव्यं शुद्धपित्तज्वरीव // 51 // व्यावृत्य तद्धवनतः स्वमवाप्य हर्म्य दुःकर्मसाधनविधि रहसि प्रपश्य / देवीं कदर्थयितुमुल्वणचित्तवृत्तिः तं तं जनं विनियुजे स निजाननेन // 52 // इतिश्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे चतुर्दशः सर्गः॥१४॥ दमयन्त्या आश्वा- . सनाय भास्करशिष्येण कथिता कलावत्या: कथा॥ I II BIIIII // 128 // का
Page #277
--------------------------------------------------------------------------
________________ पञ्चमे स्कन्धे पञ्चदशः सर्गः / // 2 // बाजाISESIVISIIIIIIsle ततः कलावती देवी देवेन्द्रदयितोपमाम् / सायं सारथिरागत्य वभाषे रोषणाभिधः देवि ! पर्वतकान्तारे कृतावासः प्रभुः स्वयम् / त्वां दिदृक्षति वेगेन प्रस्थातुं प्रगुणीभव साप्यविज्ञातवृत्तान्ता द्रुतमुत्थातुमिच्छती / समासाद्य दशासङ्गं विलम्ब्य पुनरुद्ययौ समासाद्य पुरं तस्या यान्त्याः पथि पुरान् बहिः / तत्याज सहसा जिमः कर्मसाक्षी नभस्तलम् रोषणस्य नृपादेशाद् गहने तां जिहासतः / मनः प्रेरयितुं वाहान् शशंसे न पुनः करः न द्रष्टुमिव तद् दुःखं तमः कम्बलमालिते / देव्यौ द्यावापृथिव्यौ स्वं सद्यः पिदधतुर्मुखम् इत्थं मनसि निःशङ्के विविक्तासु स्थलीषु च / साध्वसादिव तच्चक्षुश्चकम्पे दक्षिणं भृशम् सा तेन दुनिमित्तेन द्यमानमना भृशम् / क्व रेऽद्यापि भाति पृच्छति स्म मुहुर्मुहुः तामिति व्याकुलां दीनां यन्तापि विजितत्रपः / कथश्चिदुक्तवान् जाड्यजिझजर्जरया गिरा येषां स्वामिकृते वध्यः पिता भ्राता सुतोऽपि वा / आयुष्मति ! तदस्माकं दग्धं जन्मानुजीविनाम् सुप्रसीद तदस्मासु पराधीनेषु जन्तुषु / दुर्भरस्योदरस्यार्थे सर्व कुर्वत्सु सर्वदा पूजनीया त्वमस्माकं मनोवचनकर्मभिः / तथापि श्रृणु मे वाक्यं कृत्वा वज्रमयं मनः BISTIAHIजI 4 जातानाle // 7 // // 8 // // 10 // // 11 // // 12 //
Page #278
--------------------------------------------------------------------------
________________ स्कन्ध // 13 // // 14 // // 15 // सर्गः१५ // 129 // ISIGISIT ISII-IIII-IIIFIE त्वामिह स्वामिनो वाचा प्रचण्डश्वापदे बने / अहं त्यक्त्वा गमिष्यामि घृणया सह संप्रति तस्य चाप्यवगच्छामि न तत् कल्याणि ! कारणम् / त्वयि साध्व्यां सगर्भायां विरुद्धं हृदयं यतः इतः शुष्कसरिद् सदस्याः कीकसककशम् / तदध्यास्व जितक्रूरनरकप्रस्तरं तटम् इहापि त्वां हि जीवन्ती दुर्दैवं तत् क्षमेत चेत् / त्रातयाप्यपरित्रातुं येनास्माकं त्वमर्पिता इति श्रुत्ला शिलापारापासपोरतरं यः सहसा गुप्काकण्ठोष्ठी सासीद सावसरवाद तां च सारथिरुत्वार्य पङ्कसङ्काशविग्रहाम् / मुमोच निम्नगातीरे शून्यस्थाने मृगीमिव ततस्तं सत्वरं गन्तुमापृच्छन्तं कृपापरम् / जगाद गुरु गांभीयगृहमन्युमनस्विनी न त्वं पुनरवस्था मे तात ! शोचितुमर्हसि / यस्याः संभावमाधातुं त्वादृशोऽभूत् कृपापरः इयता किञ्चन प्राप्तं जीवितव्यफलं मया / यद् मम प्राणनाशेन प्रियस्य प्रीयते मनः तद् गच्छ तावदार्य ! त्वं सत्वरं धृतिमुद्वहन् / परलोकविधौ यात्रां यावद् न मम पश्यसि इत्युक्तः स ययौ यन्ता मुञ्चन्नश्रुणि निर्भरम् / संभाव्य भावि तत् किश्चित् तस्या दुःखेन दुःखितः ततस्तस्मिन् गते तस्याः पश्यन्त्या निर्जनं जगत् / वक्षो विभेतुमारेभे मन्युभयसमन्वितः रुरोद मुक्तकण्ठं सा लुठन्ती तटिनीतटे / साक्षिणीमिव कुर्वाणा धरणिं करताडनैः हन्त हन्त न दुर्बोधा तवैकस्य गतिर्विधेः / राज्ञामपि गतिं वेत्तुं विद्वांसोऽपि जडाशयाः दमयन्त्या आश्वासनाय भास्करशिष्येण कथिता कलावत्याः कथा // // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // // 24 // // 25 // // 26 // // 129 //
Page #279
--------------------------------------------------------------------------
________________ // 27 // / / 28 // // 29 // // 30 // DISITIATTITHI AII तानाताल इयमात्मप्रतीतिमे विरुद्धाहं न यचयि / त्वमीदृशोऽपि मे नाथ ! भर्त्ता भूया भवे भवे . तद् युक्तं यद् मम प्राणाः प्राणेश्वर ! हतास्त्वया / धन्यानां खलु नारीणां भर्तुरथै विपत्तयः आसन्नमरणाया मे स्मरन्त्याश्चरणौ तव / विरौति खरकारूढा शिवा घोरस्वरा कथम् ? राज्ञा त्यक्ता ततो यस्माद् दुःशीलासीत् कलावती / इति मे दुर्यशो दीप्तं कीर्तिनं प्रभविष्यति / कुलपतिच्युतानां हि द्वेष्याणामयशस्विनाम् / यत् सत्यं नावकाशोऽस्ति दिवि देवसभास्वपि हा हा हा तात! हा मातर्जाता वां यजनिर्मम / तया कुलकलङ्कोऽयं कृतो वां निष्कलङ्कयोः अहो कर्षति वां ब्रीडा तिरस्कारश्च कान्तजः / इदं स्फुटति मे वक्षः सेयं व्रजति चेतना इति तां करुणक्षीणजर्जरातकलस्वराम् / चाण्डालीद्वयमागत्य विलपन्तीमतर्जयत आः पापे ! किं वृथारावैः कौँ बधिरयिष्यसि ? / तिष्ठ तिष्ठ न जानासि स्वकर्म स्मर बन्धुकि! नन्निदं मण्डनस्थाने खण्डनं प्रतिपाद्यते ! त्वां कुर्मः सुस्थितां पाऐ राजापगनिधागिनि इति निर्भसन्त्यौ ते दृष्ट्वा नर्तितकतिके / सद्यः कण्ठगतप्राणा मूर्छा प्राप कलावती तदा दशार्णराजस्य दुहितुः कंपसंप्लवात् / ससाधसरसावेशः शिथिलीकृतवान् वपुः कृन्तान्तकिङ्कराकारे कात्यायन्यौ च निःकृपे / मातङ्ग्यौ तदवस्थां तां यद् जवादुपसर्पतुः आकेयूरभरन्यासं छित्त्वा निःसन्धिबन्धनम् / नीत्वा ते तद्भुजद्वन्द्वं जग्मतुः शङ्खसन्निधौ // 32 // // 33 // // 34 // // 35 // = = // 37 // // 38 // // 39 // // 40 //
Page #280
--------------------------------------------------------------------------
________________ पञ्चमे स्कन्धे // 41 // सर्गः१५ तद्वेदनाधिकतया प्रतिपन्नसज्ञा छिन्नं भुजद्वयमतिव्यथया वहन्ती / कान्तस्य दारुणतया मरणोन्मुखी सा चक्रन्द मन्दकरुणस्वरकण्ठकुण्ठम् त्यक्ताशायाः कुवलयदृशः सर्वथा जीवितव्ये धमों धर्मः शरणमिति च व्याकुलं व्याहरन्त्याः / पृथ्वीपीठे कठिनविषमे निःसहं मुक्तगाच्या देवात् प्राप्य प्रसवमभवत् तत्क्षणं पुत्रजन्म दृष्ट्वा पूर्णमृगाङ्कमण्डलनिभं पुत्रस्य पुण्यं मुखं तद्वात्सल्यविशेषविस्मृतभुजच्छेदव्यथासंस्तवः / तस्मिनिर्भरभूरिभैरवरवे भूभृद्वने निर्जने माङ्गल्याय पतिव्रता स्मृतवती देवान् गुरून् भक्तितः इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे पञ्चदशः सर्गः // 15 // // 42 // FII SAIFI AEIII // 13 // दमयन्त्या आश्वासनाय . भास्करशिष्येण कथिता कलावत्याः कथा // // 43 // II ISIATIONSI-III IIIIII पञ्चमे स्कन्धे षोडशः सर्गः II A अथ तं पुत्रमात्मीयं रुदन्तं स्तन्यहेतवे / शशाक नेतुमुत्सङ्गे न कथश्चित कलावती भृशमुल्लाप्यमानोऽपि कलावत्या कलस्वरम् / तत्करस्पर्शमप्राप्य विरराम न बालकः ततस्तं दूरतः श्रुत्वा रुदन्तं करुणस्वरम् / सहसा सन्निधिं प्रापुः कृपया वनदेवताः विदित्वा तत्कलावत्या वृत्तान्तं प्रणिधानतः। ताः स्थलीनामधिष्टाव्यः प्रत्यवोचन् परस्परंम् // 2 // // 3 // // 4 // BII AAII // 130 //
Page #281
--------------------------------------------------------------------------
________________ 3 = = = IIIIIIIIIIIIIyle धिर धिग् राज्यमिदं राज्ञां चक्षुष्मन्तोऽपि यद्वशात् / अन्धा इव न पश्यन्ति कृत्याकृत्यं महीभुजः / जनोऽपि प्रसवादूर्ध्व छिनत्ति कदलीमपि / सगर्भापि हि शङ्खन हा विध्वस्ता कलावती एकस्यैवापराधोऽस्या यः शङ्ख वृतवान् करः। आकेयरात् करद्वन्द्वं कथं शङ्खन खण्डितम् ? स्त्रीहत्या भ्रूणहत्या वा न तेन गणिता यदि / तत् किं वज्रमयो राजा स प्रेम्णापि न पीडितः . // 8 // येनैकदापि दृष्टा स्यात् सोऽपि प्राणैरपि प्रियम् / कर्तुमिच्छति नन्वस्याः किं पुनर्यस्य वेश्मनि // 9 // द्विधाभविष्यदेवास्या वक्षो दुःखात्रताडितम् / अभविष्यद् न चेत् सद्यः स्यूतं सन्तानतन्तुना // 10 // कदर्थितापि सश्रीका दूनापि मृदुभाषिणी / अस्या हि सदृशी नारी न कापि क्वापि दृश्यते // 11 // शापेन सकलं राष्ट्रं भस्मीकतुं क्षमा यदि / न क्रुध्यति तथाप्येषा पतिं प्रति पतिव्रता // 12 // इयमस्मद्वने सत्यं त्यक्ता पत्या पतिव्रता / तदिमां पालयिष्यामः संबद्धा हि स्त्रियः स्त्रियाम् // 13 // नूनमस्मत्प्रमादोऽयं यदियं वनसीम्नि नः / जरजनङ्गमस्त्रीभ्यां साध्वी प्राप पराभवम् // 14 // इति तासां कृपालूनां जल्पन्तीनां परस्परम् / स्वबाललालनोत्कण्ठाविह्वलं विललाप सा पुत्र ! रोदिषि दुःखेन केन केन पदे पदे / दुःखं तदेव मौलिक्यं कुक्षौ मे यत्समागत: // 16 // पश्य पुत्र! न वार्तापि तल्पास्तरणवाससाम् / पाषाणविषमा सेयं सुखशय्या मही तव // 17 // क कथा स्नानकृत्यानां कवोष्णैर्गन्धवारिभिः / कृत्येव व्यात्तवक्त्रेयं शुष्का तुङ्गतटी सरित् // 18 //
Page #282
--------------------------------------------------------------------------
________________ पञ्चमे // 19 // // 20 // स्कन्धे सर्गः१६ // 11 // // 22 // IIFIFII-IIIIIIEISHI III क्रियते येन शुश्रूपा सर्वसाधारणं न मे / तद्धजद्वन्द्वमप्यस्ति दूरे परिजनः परः कथमित्थं व्यवस्थाहं धारयिष्यामि जीवितम् / कृत्ता पतिपरित्यक्ता निराशा निर्जने बने वृत्तिभ्रंशाद् व्यथा वेगात् श्वापदेभ्योऽथवाधुना / हा हा मयि विपन्नायां कथं बालो भविष्यति ? सङ्कल्पितशतैः प्राप्तः सौम्यः सर्वाङ्गसुन्दरः / इयानेव त्वदङ्गस्य वत्स ! मे दर्शनोत्सवः फिञ्चिद् मयि विपन्नायां पैरं त्याला पिता पर शारवान नपापेशानुगृनीत पान का यद् वा मयि सगर्भायां निःप्रेमा निष्कृपश्च यः / स कथं स्वीकरोति त्वां त्रैलोक्या यमसन्निभः हा हां अलमलं वत्स ! बाष्पं संघृणु संवृणु / त्वामहं पालयिष्यामि वनराज ! विरम्यताम् हन्त सम्यक् मया शीलं यद्यस्ति क्वापि पालितम् / तद् ममास्तु भुजद्वन्द्वं लालयामि सुतं यथा इति वात्सल्यवैधुर्यधैर्यगद्गद्या गिरा / वदन्त्यास्तत्क्षणं तस्याः सम्यक् शीलप्रभावतः दग्धस्मरमहावृक्षप्ररोहयुगलोपमम् / पूर्वाधिकतरश्रीकं प्रादुरास भुजद्वयम् यावद् भुजद्वयसमृद्धिमुदा हृदि स्वं पुत्रं निधाय निविडं परिरभ्य तस्थौ / तावद् ददर्श विशदं दिशि देवभर्तुविम्ब जगन्नयनहारि निशाकरस्य व्यवहितवृसिंहव्याघ्रसदिसचं फलकुसुमसमृद्धं शान्तदावानलं च / अपि च सपदि सैव स्वैरझात्कारबारिस्थगितपरिसरासीद् दुस्तरा शुष्कसिन्धुः दमयन्त्या आश्वासनाय भास्करशिष्येण कथिता कलावत्याः कथा / SITHING जाना जाता // 24 // // 25 // // 26 // // 27 // // 28 // युग्मम् / // 29 // / // 131 //
Page #283
--------------------------------------------------------------------------
________________ IIIIII-III RISHISE मुदितमुदितमीक्ष्य व्योम्नि चन्द्रं चकोरैरसमरसमयत्वं भेजिरे कैरवाणि / रुचिररुचिरयेण क्षिप्यमाणेऽन्धकारे रजनिरजनि रम्या यौवने कन्यकेव // 31 // इति वनदेवतातिशयनिर्मितरम्यतया मनसि दशार्णराजदुहिता पिहितातिरया / विरचितमञ्जना सरिति तीरतरुस्थगिते स्फटिकशिलातले समयमात्रमशेत सुखम् // 32 // निनिंद्रा पररात्रमात्रसमये पुत्रस्य चिन्तावशात् यावत् पश्यति पद्मपत्रनयना सोत्साहमभ्युत्थिता / तावत् तत्र ददर्श विस्मयरसादुत्कीर्णपश्चालिकावक्षोजश्रुतदुग्धपानतरलं पुत्रं निजं सा सती // 33 // तां मूर्तिमुत्तमतमा वनदेवताया मूर्धा प्रणम्य परमां मुदमुद्वहन्ती / आत्मानमित्थमवगम्य भृशं सनाथं न स्वर्णबाहुभगिनी विततान चिन्ताम् // 34 // यद् ब्रह्मणोऽपि विषमाजनि बाहुसृष्टिवृष्टिं विना यदजनिष्ट नदी च पूर्णा / धात्रीपदं च विततान यदश्मपुत्री नेतन् त्रयं भुवि परत्र कलावतीतः // 35 // इति श्रीमाणिक्यदेवमूरिकृते नलायने पञ्चमे स्कन्धे षोडशः सर्गः // 16 // IASHI II II Iाल 60
Page #284
--------------------------------------------------------------------------
________________ पश्चमे पञ्चमे स्कन्धे सप्तदशः सर्गः। ISISE स्कन्धे सर्गः१७ = // 132 // जा दमयन्त्या आंश्चासनाय भास्करशिष्येण कथिता कलावत्या: कथा॥ = DISHI ISHI II-IIIIII RISHII ISRIG = = इतश्च सारथिः शङ्ख स्वं तत्कृत्यमबोधयत् / तदनन्तरमागत्य मातङ्ग्यौ च निजां कृतिम् वातायनतलस्थस्य तस्य ते दूरतः स्थिते / दर्शयामासतुर्देव्याश्छिन्नं भुजलताद्वयम् // 2 // पश्यन् कृत्तलताप्रायं प्रियायास्तद् भुजद्वयम् / अनिर्णीतरहस्योऽपि चकम्पे कृपया नृपः // 3 // सत्यं सन्तोऽनुतप्यन्ते युक्तं कृत्वापि निग्रहम् / अप्यकृत्यशतं कृत्वा पापिनां न पुनस्रपा अथ स प्रत्यभिज्ञातुं ताभ्यां केयूरयोद्वयोः / ददर्श स्वयमादाय दयाहृदयोऽपि सन् अपश्यद् व्यक्तरूपाणि टोत्कीर्णानि पार्थिवः / स्वर्णबाहोः प्रियाभ्रातस्तत्र नामाक्षराणि च // 6 पपात च स निश्चेष्टो मूर्छा प्राप्य महीतले / शाखीव निम्नगोत्खातो वजाहत इवाचलः अवीजयन् जला;स्तं तालवृन्तैस्तटस्थिताः / समाश्वसिहि देवेति व्याहरन्तो मुहुर्मुहुः / // 8 // स संज्ञां प्राप्य भूपालः पश्यन् भूयोऽपि तां लिपिम् / पप्रच्छ दिनवृत्तान्तमन्तःपुरनियोगिनः / // 9 // व्यजिज्ञपन् ततस्तेऽपि यद् देव ! दिवसोदये / देव्याः पितृगृहात् प्राप्तः कूर्मो नामाद्यकञ्चकी // 10 // धात्री च सप्तला नाम्ना सह दासीशतैत्रिभिः / सहस्रेणाश्ववाराणां पत्तिभिश्च समन्विता // 11 // -ताभ्यां बन्धुजनादिष्टं वस्तु वाचिकमेव च / सप्रमोदं प्रतीच्छन्त्या देव्या दिनमिदं गतम् . // 12 // = IAISI नाना // 132 //
Page #285
--------------------------------------------------------------------------
________________ // 13 // // 14 // // 15 // // 16 // भAIFIAlaHIATRIIIIIIshle 'अयं च वनचर्यायां देवस्य दिवसोऽगमत् / प्रातर्देव्या समं देवस्तद् माङ्गल्यमवाप्स्यते . इति श्रुत्वा सहर्षेण सावहित्थं विसृज्य तान् / आचकर्ष रहः कोशात् कृपाणं पाणिना निजम् अयि भोः क्षत्रतामूल ! शौर्यद्रुमघनाधन ! / जयश्रीवरणाधारधारातीर्थ ! नमोऽस्तु ते शृणु त्वमपि जानासि स्वर्णबाहुस्वसा सती / सुता दशार्णराजस्य प्रिया मम कलावती इति व्यापारयन् कण्ठे कठोरं खड्गमात्मनः / भूयः करं श्लथीकुर्वन् स सनिर्वेदमुक्तवान् अहो निभृतपापस्य मम स्वं हन्तुमिच्छतः / यत् सत्यं मरणोत्कण्ठा खड्नेनापि न पूर्यते तिष्ठ तिष्ठ सखे खड्ग ! मा मात्मानं कलङ्कय / नहि प्रच्छन्नपापानां वधशुद्धिस्त्वयापि हि तदेष विदितं कृत्वा पृथिव्यां पापमात्मनः / प्रभुमाराधयिष्यामि धूमध्वजमुपव॒धम् कः कोत्र भो द्रुतं गत्वा प्रसिद्ध क्रियतामिदम् / यथा किल कलावत्या देव्याः कृत्वा वधं मुधा द्राक् शङ्खहतकः पापी सोऽयं श्रयति पावकम् / तत् क्षम्यतां जनाः सर्वे विरुद्धं यद् मया कृतम् इति तद्वदनाद् वाक्यं श्रुत्वा श्रवणदुस्सहम् / चुक्षमे सकलो लोकः क्षयक्षुभितवार्द्धिवत् तं साहसरसावेशात् प्रविशन्तं हुताशने / न बन्धुर्वा सखा वापि चक्षमे कोऽपि रक्षितुम् स कूर्मसप्तलामुख्यो देव्याः परिजनोऽपि हि / विहाय जीवितश्रद्धां चितानामुन्मुखोऽभवत् अहो निमेषमात्रेण किमिदं समुपस्थितम् ? / कोऽयमेकशिलापातः कथं राष्ट्रं भविष्यति ? // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // // 24 // // 25 // // 26 // IFII IIEIFII FIFINISHIFIES
Page #286
--------------------------------------------------------------------------
________________ स्कन्धे सर्गः१७ // 13 // नूनं निरुपमं प्रेम परिणामे न शोभनम् / यतो विघटमानेन द्वयं तेन विनश्यति प्रायो देव्याः कलावत्या वैदग्ध्यमधुरा गिरः / इदं राजापि जानाति तत्कोऽयमपरो विधिः धिग् धिक् परिजनं मुर्ख धिग धिक् सारथिमीदृशम् / न किं हि क्रियते भर्तुविरुद्धं बुद्धिवश्चितम् यद् वा न कस्यचिद् दोषो दैवस्यैकस्य दूषणम् / अभव्यं भव्यलोकेऽपि यस्य लज्जा न कुर्वतः इत्थं भृशमनाथानां जनानां जल्पतां शुचा / वसुभूतिः समागत्य मन्त्री राजानमब्रवीत्। देव ! प्रसीद बुध्यस्व नीतिदृष्ट्या विलोकय / कृत्वैकमपरित्रातमपरं मा पुनः कुरु नूनं सर्वस्वनाशेऽपि दुःखावेशेऽपि दारुणे / कथञ्चिद् नीतिकाराणां प्राणत्यागो न संमतः त्रिवर्गसाधनं राज्यं तद् मृतानां कुतः पुनः / यत्नाद् जीवं ततो रक्षेद् जीवद्भिः सर्वमाप्यते त्वयि स्वर्ग गते स्वामिन् ! कथं देवी निवर्त्तते / / इदं तु सकलं राष्ट्रं मूलाद् निम्नन्ति शत्रवः विमुश्च मरणश्रद्धां धैर्य भज शुचं त्यज / अद्याप्यापन्नसत्वाया देव्याः प्राप्तौ यतस्व च अन्तरं न किमप्यस्ति जीवन्ती सा भविष्यति / न हि प्राणहरं प्रायः सद्यस्तादृक् कदर्थनम् प्रियाप्राप्तौ कुरु प्रज्ञां मुधा किं मरणेन ते / सहसा जीवितत्यागः पशुधर्मो न पौरुषम इति सचिववचो विचार्य राजा त्वरिततरं दयिताविलोकनाय / पुरजनबलवाहनैः समग्रैगिरिगहनानि विगाहितुं प्रतस्थे . // 27 // // 28 // // 29 // // 30 // // 31 // // 32 // // 33 // // 34 // // 35 // // 36 // // 37 // // 38 // दमयन्त्या आश्वसनाय भास्करशिष्येण कथिता कलावत्याः कथा॥ // 39 // // 133 //
Page #287
--------------------------------------------------------------------------
________________ ना-ISHI ANITIATII IIIIFle रथनरकरिवाजिनां सहस्तिलतुषतुल्यतयापि वीक्ष्यमाणैः। कथमपि न कलावती प्रपन्ना दुरधिगम खलु वस्तु कार्यकाले // 40 // गिरितरुसरितामपूर्वभावं वहति वने वनदेवताप्रभावात् / समजनि हृदि रोषणादिकानामपि तदिदं न वनं किलेति मोहः // 41 // क्षितिपतिदुहितुः श्रुतिं जगाम द्रुतमतुलस्तुमुलो बलबजानाम् / तदपि न हृदयं पुनश्चकम्पे ननु रतिरेव हि भाविभाग्यदूती // 42 // सैवाग्रतः कलय शङ्ख ! कलावतीयं साक्षादिति त्वरितमेत्य ततः कुतोऽपि / आरुह्य दूरमुदयाचलचूलिकायां निर्दिष्टवानिव करप्रकरैः पतङ्गः // 43 // इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे सप्तदशः सर्गः // 17 // IASHIINIIIIIIIIIIIII पञ्चमे स्कन्धे अष्टादशः सर्गः / अथ तत्र जनैः प्रातः पुत्रहंसोपशोभिता / दृष्टा चलत्कराम्भोजा नलिनीव कलावती जितं जितमहो दिल्या देवी देवीयमग्रतः / अक्षता पुत्रयुक्ता च निषिण्णास्ति नदीतटे // 2 // .
Page #288
--------------------------------------------------------------------------
________________ पञ्चमे स्कन्धे सर्गः 18 दमयन्त्या आश्वस-. नाय II-IIIIIIII // 134 // किञ्च पाषाणपाश्चाली पुत्रं धात्रीव पाति यत् / अहो ! आश्चर्यमाश्चयं दृश्यतां दृश्यतामिदम् यत्पार्श्वे चास्ति सापत्या वानस्पत्यस्य तस्य च / सत्प्रतिज्ञेव हि च्छाया परिवृत्ता न वर्तते // 4 // अपूर्वमिव सञ्जातं तदा देव्याः समाश्रयात् / इदमुत्फल्लवल्लीकं फलस्फीतद्रुमं वनम् अस्याः संपर्कतः संप्रत्येषापि नगनिम्नगा / धिनोति धेनुवल्लोकं बत वष्कयणी पुरा साश्चर्यमिव जल्पन्तः क्षोणीमिलितमौलयः / प्रणेमुनिखिला लोकाः सतीतीर्थ यदद्भुतम् अच्छत्रचमराटोपं खिन्नं चरणचारिणम् | दृष्ट्वा च पतिमायान्तमभ्युत्तस्थौ कलावती // 8 // आर्यपुत्र ! स्वपुत्रेण स त्वं विजयवान् भव / यदञ्जिभक्तिरक्लिष्टारिष्टतातिर्ममान्वहम् इति लज्जानमद् मौले साश्रुनेत्रस्य भूभुजः। तां प्रियाणि प्रजल्पन्तीमुवाच सचिवाग्रणीः // 10 // मातः कलावति ! युक्तं यदात्थ तत् तथैव तत् / जितं देवेन यस्यासि यशः श्रीस्त्वं शरीरिणी // 11 // साधु साधु सती त्वं चेदित्थं किमपि साध्यते / चतुर्भजतया जाता यथामि त्वं कलावति ! क्वचिद् जलकणोद्गारी खल्वर्कश्चन्द्रचुम्बितः / त्वत्पुत्रमुखचन्द्रेण ग्रावस्त्री दुग्धवर्षिणी // 13 // गृह्णन्ति फलपुष्पाणि स्नान्ति वारिणि निर्मले / इह त्वदाश्रमे रम्ये जनाः कल्याणकाङ्क्षिणः // 14 // किश्चित् तदाभविष्यत् चेत् तत् क्व राजा व वा जनः / न विग्रस्त्वं महाराजो जनो वा भाग्यवानयम् // 15 // नास्त्येव हृदि ते पत्युळलीकं तु क्षमस्व च / दशार्णराजपुत्रि ! त्वं देवतासि न मानुषी . . // 16 // भास्करशिष्येण कथिता कलावत्याः कथा॥ BIII AIII जाता BIII AIII A // 134 //
Page #289
--------------------------------------------------------------------------
________________ llaTRII AIII WIFIIT ISITE आकल्पमपि तीर्थत्वं नीतं वनमिदं त्वया / तत् प्रसीद पुनर्मातः ! सनाथं नगरं कुरु . . इत्यमात्यगिरामन्ते प्रणम्य वनदेवताम् / आपृच्छय तद् वनं भेजे नरयानं कलावती समुत्क्षिप्तध्वजश्रेणिविक्षिप्तकुसुमोत्करः / तस्याः पुरप्रवेशोऽभूत् पाणिग्रहणतोऽधिकः तदाजनि तयोरैक्य नीरक्षीरात्मकं तथा / न हंसचञ्चवोऽप्यापुर्यथा तद्भेदवेदिताम् अन्यदा तत्र संप्राप्तः सुरासुरनरस्तुतः / छिन्नपातिचतुःकर्मा विश्वदर्शी महामुनिः सुदर्शनाभिधानं तं भगवन्तं विवन्दिषुः / ययौ भक्तिपरो राजा सान्तःपुरपरिच्छदः तत्परीष्टिपरामृष्टदुष्टपातकसञ्चयः / स हृष्टः पृष्टवान् काले कलत्रक्लेशकारणम् अथोवाच मुनिआनी राजन् ! जानीहि कारणम् / अस्ति वासवदिग्भागे कल्याणकटकं पुरम् तत्र बल्लोलभूपालमहामात्यस्य सात्यकः / पुत्री विद्युन्मुखी नाम्ना शुकक्रीडारताभवत् धत्ते नर्माकरं नाम्ना कीरं करतलेन सा / न विमुञ्चति कुत्रापि विना देवार्चनक्षणम् सोऽपि तत्पालनप्रीतः पतत्री तत्परोऽभवत् / परस्परं तयोरासन् रोषतोषादिकेलयः आदीश्वरं नमस्कत्तुं तया यान्त्या क्वचिद् दिने / पक्षी प्रार्थयमाणः सन् स नीतः सममात्मना तत्र देवाधिदेवस्य पश्यन् मूर्ति महेशितुः। नित्यं नित्यं नमस्कर्तुं निश्चयं नीतवान् खगः प्रायेण खलु कीराणां मर्त्यभाषाभिभाषिणाम् / न मांसभक्षिणीजातिर्भवेद् भावोऽपि भद्रकः // 17 // // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // // 30 // IATHII II IIIIIIIIle BISEll EIFI A
Page #290
--------------------------------------------------------------------------
________________ पञ्चमे स्कन्धे सर्गः१८ // 31 // // 32 // / / 33 // / / 34 // // 135||] III-IIIIIIII-IIIIIIIIC कृत्वा विद्युन्मुखीवृत्या यथादृष्टं स पूजनम् / शुकः सुकृतलोभेन धन्यम्मन्यो मनस्यभृत् परेद्यवि पुनस्तेन पूर्ववत् प्रार्थितापि सा / नतु तं तत्र जग्राह तत्पारिप्लवताभयात् एकाकिन्यपि मा गत्वा नत्वा देवं समाययौ / भोजनावसरे सोऽपि समाकृष्टश्च पञरात् स देवभुवने गच्छन् मुक्त्वा भोजनभाजनम् / समाप्य नियमं भूयः समयेन समाययौ विद्युन्मती तु भव्यापि तं प्राप्य पुनुरागतम् / स्त्रीस्वभावभवं क्षोमं सपदि प्रत्यपधत आवालकालतः क्लेशर्मया लालितपालितः / अहो भ्रमति मां मुक्त्वा सोऽयं संप्रति निर्भयः कदाचिद् यदि कुत्रापि परहस्तं प्रपद्यते / तद् मे हृदयदाहस्य न भिषक नैव भेषजम् अस्त्येव श्येनमार्जारगृध्रादिभ्यः पराभवः / इत्थं च सञ्चरन् स्वैरं भवेद् वनचरोऽपि वा तद्वरं सर्वथा नाशादर्द्धनाशः स्वयं कृतः / करिष्यामि तथा भूयो यथा याति न कुत्रचित् इति सश्चिन्त्य सा धृत्वा तस्य दीनस्य पक्षिणः / मा मेति जल्पतः पक्षी मुख्यौ चिच्छेद खेदतः स छिन्नपक्षतिः पक्षी दुःखातः साश्रुलोचनः / मन्युगद्गदमित्युच्चैरूचे विद्युन्मती प्रति न मया समयो भिन्नस्त्वन्मध्ये भोक्तु मास्थितः / कथं निरपराधस्य मम पक्षौ त्वया क्षतौ ? स्वयं पालितपूर्वस्य त्वत्परस्य प्रियस्य च / साधु स्वाधीनदीनस्य शौर्य तब ममोपरि इत्थं निरनुरोधत्वं यत् न्वया मयि दर्शितम् / तत्पानमशनं भूयश्चेत् कुर्यात् तत् खगो नहिं . HILAIIIIIIIIIIIIle दमयन्त्या आश्वा- . सनाय भास्कर शिष्येण कथिता कलावत्या: कथा / // 38 // / / 39 / / // 40 // // 41 // // 42 // // 43 // . // 44 // // 135 //
Page #291
--------------------------------------------------------------------------
________________ III-III ATHIlATHII ATHII III NISHITA इत्युक्त्वा स दधौ मौनं कृतानशननिश्चयः / सस्मार केवलं चित्ते देवमादीश्वरं तु सः . // 45 // विद्युन्मती च तद्वाक्यैर्दिग्धैरिव हृदि क्षता / अति सानुशया कीरमनुनिन्ये मुहुर्मुहुः // 46 // रुरोद पुरतस्तस्य निनिन्द स्वं निरुत्सवा / निनाय च तमुत्सङ्गे शशंस च तथा तथा // 47 // यदा गाढग्रहग्रन्थि हारं स गृहीतवान् / तदा तस्य पुरश्चक्रे सा प्रतिज्ञां मनस्विनी // 48 // यद् मम त्वं व्यलीकेन मृत्यु स्वीकृतवान् शुक! / तद् मे त्वया समं मृत्युरेकैव गतिरावयोः // 49 // इत्युक्त्वा पक्षिणं सापि त्यक्तपानाशनक्रिया / यथायोग्यक्रम सर्व कालकृत्यमचीकरत् // 50 // सा सर्वलक्षणोपेता मन्त्रिपुत्री मनोहरा / वरयोग्या वरारोहा कुमारी सुविचक्षणा तस्यास्तु मरणोत्साहं दधानाया मृगीदृशः / दुःखाकुलेषु पौरेषु विलपत्सु च बन्धुषु // 52 // सहस्रैरप्युपायानां शतैरपि मनीषिणाम् / नाशक्यत मनो हत्तुं दुर्वारा भवितव्यता // 53 // युग्मम् / तृतीयदिवसाध्वं नीत्वा कालगतं शुकम् / सा प्रविश्य चितां वेगाद् पहिसाद् विदधे वपुः सेयं दशार्णराजस्य पुत्री जाता कलावती / बभूव च शुकः सोऽपि त्वं शङ्खपृथिवीपतिः तत्पक्षच्छेदसंबद्धं फलं दुष्कृतपाकजम् / संप्राप्तमनया त्वत्तस्तथा भुजनिकृन्तनात् इति निगदितत्वे ज्ञानसिन्धौ मुनीन्द्रे लिखितमिव पुरस्तात् पूर्वजन्म स्मरन्तौ / क्षणमविकृतमूर्छा प्राप्य निद्रामिव द्राक् पुनरधिगतवन्तौ चेतना दम्पती तौ // 57 // . IIIIIIIII AISle
Page #292
--------------------------------------------------------------------------
________________ पञ्चमें // 58 // स्कन्धे सर्गः१९ // 136 // SI AISHI AISISFIE ऋषिसदसि तदादि स्वीकृतप्राणिरक्षानियमनिरुपम तौ चारु निर्वाह्य राज्यम् चरमवयसि दत्त्वा मुख्यपुत्राय लक्ष्मीविमलतरतपोभिः प्रापतुः स्वर्गभोगान् इति स्फुटप्रकटितकर्मवैभवं कलावतीचरितमिदं मदाननात् / निशम्य सम्यगपि विचार्य चेतसा विदर्भजे ! भज निजदुःखलाघवम् इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे अष्टादशः सर्गः॥१८॥ जाना // 59 // दमयन्त्या आश्वासनाय भास्करशिष्येण कथिता कलावत्याः कथा // DISII-III AI पञ्चमे स्कन्धे एकोनविंशतितमः सर्गः / अनन्तरमनन्ताख्यं मुनि प्रति मनस्विनी / उवाच वश्चितक्लेशा दमयन्ती दमान्विता भगवन् ! भवतो वाक्यैदृदृदृष्टान्तशालिभिः ! दुःखोस्थितमपि क्षिप्रं सावष्टम्भं कृतं मनः तत् प्रयच्छ ममादेशं दिशं दर्शय कामपि / किं करोमि ? क्क गच्छामि ? क्क तिष्ठामि ? स्मरामि किम् ? // 3 // ततोऽवोचद् मुनिभैमी वत्से ! पृच्छसि साधु माम् / शृणु तावदिहैव त्वं तिष्ठ कल्याणि ! संप्रति // 4 // अद्यापि तव पश्यामि चिराद् बन्धुसमागमम् / वर्षा च शिरसि प्राप्ता भावी मार्गोऽपि दुर्गमः // 5 // त्वमिह प्रतिमां शान्तेर्विधेहि सिकतामयीम् / तदाराधनयुक्तिं ते कथयामि शुमे ! यथा // 6 // BIASILEII IIIIII // 136 //
Page #293
--------------------------------------------------------------------------
________________ BISHI II AISHI AII IIite * ततस्तया कृतां मूर्ति मन्त्रन्यासदृढीकृताम् / समर्पयन् मुनिर्वाग्मी स जगाद महासतीम् . ' // 7 // त्वमिमा प्रतिमा शान्तराचाम्लव्रततत्परा / तावदाराधयागत्य न यावत् कोऽपि याचते // 8 // शान्तिप्रभावादिह शान्तसत्वे गिरौ वसन्त्यास्तव राजपुत्रि!। न वाङ्मनःकायविकारकारी संपत्स्यते विघ्नकणोऽपि कश्चित् // 9 // तस्येदृशीं चेतसि बद्धमूलां विधाय शिक्षामपनीतदुःखाम् / उवाच देवी प्रणिपत्य हृष्टा दिल्या कृतार्था भगवन् ! कृतास्मि // 10 // अयं स च त्वं च मुनीन्द्र ! सर्वे क्षमाभृतां मुख्यतमास्त्रयोऽपि / त्वदाज्ञया तद्विरहे तदत्र स्थास्यामि शान्ति प्रभुमर्चयन्ती // 11 // इत्युक्तवन्तीं मुनयस्ततस्तां आपृच्छय शीघ्रं गगनेन जग्मुः। सा तत्र तस्थौ गिरिकन्दरायामुदारशीलाभिहितव्रता च // 12 // इतिश्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे एकोनविंशतितमः सर्गः // 19 // BHISHIFIERIFII-IISHIFile
Page #294
--------------------------------------------------------------------------
________________ पञ्चमे स्कन्धे विंशतितमः सर्गः / स्कन्धे सर्गः२० مه = | मुनेर्वचनाद् दमय: न्त्या कृता शान्ति प्रभोला राराधना। // 2 // // 137 // له وانه = یه =3 III II AIITHI AIIIIII अथ तत्र समारेमे शान्त्याराधनलक्षणम् / नलस्य विरहे देव्या दमयन्त्या महत् तपः त्रिसन्ध्यं कृतनिर्माल्या वैयावृत्यपरायणा / निराशा तु मुनीशस्य सा तद् बिम्बमसेवत पुष्पगन्धाम्बुनैवेद्यधूपदीपफलाक्षतेः / विदधे विविधा पूजा वनचर्यानुयायिनी आचाम्लव्रतयोगेन दुर्बलाङ्गलतापि सा / पुण्योपचयवीर्येण न विवेद परिश्रमम् क्रमेण तपसः शक्त्या प्रीताभिः प्रतिवासरम् / विदधे वनदेवीभिः सान्निध्यं दमनस्वसुः इत्थं तपः तपस्यन्त्यास्तत्र भीमभुवस्तदा / ययुः पश्चशतान्यह्वामेकवासरलीलया न विद्मः सा कथं तस्थौ तस्मिन्नेकाकिनी वने ? / अचिन्त्यमथवा सर्व चरित्रं हि महात्मनाम् अथ तारापथस्कन्धाद् निपतन्तं पतङ्गवत् / देवी सशिष्य मैक्षिष्ट विवर्णवदनं मुनिम् स तया विहितातिथ्यस्तथ्यवादी विदग्धया / कल्याणि ! का कथं चात्र त्वमेकैवेति ? पृष्टवान् / तथा पतिपरिभ्रष्ठां शान्तिभक्तां गुरोगिरा / सापि स्वं तत्पुरो भैमी नलपत्नीमचीकथत अदर्शयच्च तां मृत्ति तस्मै विस्मितचेतसे / अपृच्छच्च सती तस्य मुखवैवर्ण्यकारणम् सोऽप्यभाषत बैदी वक्ष्ये वैवर्ण्यकारणम् / इदं पुनरभृद् भव्यं यद् दृष्टासि महासति!.. AIIMSHII III SI IITile // 10 // // 11 // . // 12 // // 137 //
Page #295
--------------------------------------------------------------------------
________________ IIIFle 'विहिता त्वदवस्थेयमनागतमियं च मे / भविष्यति च ते भव्ये ! भूयोऽपि नलसङ्गमः / शृणु चैतद् यथा वेदि तदत्र कथयामि ते / चारणश्रमणस्ताबदई कामचरः सदा पुराहमेकदा वर्ती नगरे रथनूपुरे / तत्र विद्याधराधीशो रौहिणेयो वृहद्रथः वैरोट्यागोत्रमुख्येन खेचरेन्द्रेण खङ्गिना / तस्याजनिष्ट केशिन्याः कन्यायाः कारणे रणः तस्मिन् महारणे घोरे खड्गी विद्यामदोद्धतः / वृहद्रथबलं चक्रे सस्त्रैिरतिविह्वलम् रोहन्ति रोहिणेयानां प्रहाराः खलु विद्यया / अनभ्यस्तचरः प्रायस्तेषां तु विषनिग्रहः अथ चक्रेश्वरेयाणां खेचराणां प्रभोले / पुत्रं महाबलं नाम्ना गरुत्मद्वरगर्वितम् आनीय केशिनीं दत्त्वा कृत्वा जामातरं निजम् / खड़िना प्रतिमल्लत्वे सेनान्यं विदधे बुधः दृष्टमात्रविषघ्नानि स्ववस्त्राभरणानि सः। तायदत्तानि बिभ्राणः सर्पास्वाणि वृथाकरोत् महावलपरित्राणाद् रणे संहृत्य खङ्गिगम् / जग्राह सकलं राज्यं जितकासी वृहद्रथः खङ्गिनश्च सुतः पार्थो राज्यभ्रष्टः परिभ्रमन् / महाबलवधस्याथै विद्योपास्ति विनिर्ममे तस्याराधनराद्धान्तविदग्धस्य महौजसः / एकपुवातिनं देवी नागपाशं ददौ मुदा तं च कर्कोटकं नाम्ना पाशं छलबलाधिकम् / बिभ्रद्वनविहारस्थं स रुरोध महाबलम् तदा हि तार्क्ष्यदत्तं तं शृङ्गारं केशिनीकरे / न्यासीकृत्य भ्रमन्नासीत् स्वच्छन्दं वनसीम्नि सः // 13 // // 14 // // 15 // // 16 // // 17 // // 18 // // 19 // // 20 // युग्मम् // // 21 // !! 22 // // 23 // // 24 // // 25 // IASIATEFIIIIII
Page #296
--------------------------------------------------------------------------
________________ पञ्चमे सर्गः२० दमयन्त्यग्रे चारणश्रमणेण . कथितं निजमुख // 138 // DISII IIIIIIIIIIIIIII तयोस्तत्राभवद् युद्धं मत्सरारुणचक्षुषोः / बबन्ध नागपाशेन पाशमन्त्रमहाबलम् // 27 // जवेनैव ययौ नंष्वा स तद्भटभयेन च / विवरान्वेषिणः सर्पाः नश्यन्ति तत्कथं नहि // 28 // यावद्विल्वसमुद्गस्थं शृङ्गारं गारुडं निजम् / परिधातुं जवाद् याति प्रियापार्श्व महाबलः // 29 // तावद् दिवा प्रसुप्तायाः केशिन्या उपधानतः / छलाद् बिल्वसमुद् तत् हृत्वा कर्कोटको ययौ // 30 // युग्मम् // ततः कर्कोटकावेशात् सर्वगात्रनियन्त्रितः / आसीन सपदि निष्पन्दः सकलोऽपि महाबलः // 31 // तं चित्रलिखितप्रायं निश्चेष्टं काष्टसन्निभम् / दीर्घ रुरोद पश्यन्ती केशिनी शोकविह्वला // 32 // अपश्यन्ती च सर्वत्र यत्नाद् बिल्वसमुद्गकम् / न तु लेमे वराकी सा ताडयन्ती शिरः शुचा // 33 // सर्पापवर्तगर्त्तस्थे जामातरि निमजति / जानननाथमात्मानं विललाप वृहद्रथः // 34 // निनिन्द केशिनी पुत्रीं भूयो भूयः प्रमादिनीम् / स्वकीयानामभाग्यानां व्याचख्यो दृढतां च सः // 35 // निशम्य पुत्रदुःखं तत् बलिरप्याकुलः शुचा / तत्रागत्य रुदन दीर्घ दैवं भृशमर्जयत् // 36 // त्यक्तपानाशनारम्भमज्ञातरजनीदिनम् / नरेश्वरकुलद्वन्द्वं दुःखाग्नी निममज तत् // 37 // तस्मिन् वैरिकृते डिम्बे कस्यचिद् विदुषोऽपि हि / निरुपायतया नासीदिति कर्त्तव्यनिश्चयः // 38 // अथ तत्रागतं दैवाद् दृष्टिवादविदं मुनिम् / महाबलहितस्यार्थे वृत्तं पप्रच्छतुर्नुपौ // 39 // .स बभाषे ऋषिः श्रीमानयं वीरो महाबलः / भवेदिति हि नोल्लाघः शृङ्गार गारुडं विना / // 40 // IASTIIIIIIIIIIIIIIK वैवर्ण्यकारणम् // // 138 //
Page #297
--------------------------------------------------------------------------
________________ 9II II III-IIIII-III तस्य चाधिगमो भूयः श्रूयतां जायते यथा / विहाय यदि वैताढ्यं याम्यायां याति केशिनी तत्र खेचरलोकस्य यातायातविवर्जिता। सुता च यदि भीमस्य दासीत्वेनोपतिष्ठति सा हि स्वयम्बरे वीरं नलं वृत्वा पतिव्रता / निषधायां समं पत्या सुचिरं विहरिष्यति द्यूतापहृतराज्येन तेन त्यक्ता महावने / गमिष्यति च कष्टेन कुण्डिनं पितृमन्दिरम् तत्र तस्या यदा भूयो भविता नळसङ्गमः / शृङ्गारं गारुडं तं च लप्स्यते केशिनी तदा कुर्याच केशिनी तत्र यावद् दास्यं दमस्वसुः / तावद् महाबलस्यापि दुःखमल्पं भविष्यति वहन्त्यो हि व्रतं कष्टं पत्युरर्थे पतिव्रताः / योजयन्ति सुखैः कान्तं समाकृष्टैर्बलादिव इति श्रुत्वा हितं पत्युर्वन्धूनापृच्छय केशिनी / क्रीडाकिन्नरयुग्मेन सहिता दक्षिणां ययौ सा तद्गीतप्रसन्नेन राज्ञा वनविहारिणा / भीमेनोक्ता ययाचे च दासीत्वं दमनस्वसुः तामनुव्रज्य संप्राप्तैर्भूयोऽपि स्थनू पुरे / इति विद्याधरैस्तस्या वार्ता च विदिताऽभवत् तदित्थं पूर्वसम्बन्ध विचार्य वचनेन मे / वैदर्भि! विदुषी हि त्वं प्रसनं हृदयं कुरु यदि सत्याः सतां वाचः सतीनां सत्वमस्ति चेत् / अमोघाः खेचरेन्द्राणामाशाः सम्यग् दृशा यदि यदि ते लक्षणान्यते यदि सोऽपि कृती नृपः। तद् मिलिष्यति ते भर्ता यातायाः कुण्डिने ध्रुवम् तद् गच्छ कुण्डिनं सौम्ये ! समाप्य नियम निजम् / समर्पय च मे शान्तां श्रीशान्तेः प्रतिमामिमाम् // 41 // // 42 // // 43 // // 44 // // 45 // // 46 // // 47 // // 48 // // 49 // // 50 // II IIIIIIIIISING // 52 // // 53 // युग्मम् // // 54 // . काAII
Page #298
--------------------------------------------------------------------------
________________ पश्चमे स्कन्धे सर्गः 20 // 57 // // 58 // दमयन्त्यग्रे चारण- . श्रमणेण कथितं निजमुख // 139 // // 6 // वैवर्ण्य HINDIFILAIFII-IIISERIES मम हि स्वगुरुं नन्तुं रत्नशैलं यियासतः / अत्राजनि गतिभ्रंशस्तीर्थोल्लङ्घनसंभवः त्वया ह्याराध्यमानस्य बिम्बस्यास्य महौजसः / प्रसादादि विना चिह्नं न मे संभावनाभवत् पतितस्तदहं व्योम्नः पक्षिवत् छिन्नपक्षतिः / न शक्नोम्यधुना गन्तुं प्रायश्चित्तं कृतं विना तदिदं मम कल्याणि ! मुखवैवर्ण्यकारणम् / प्रसन्नमुखरागोऽस्मि भूयस्त्वद्दर्शनात् पुनः इयं यावद् यथा युक्त्या मूत्र्तिराराविता त्वया / तावत् तथा मयाराध्या नास्ति मे हितमन्यथा अयं हि भगवान् शान्तिराश्लिष्टो मुक्तिरामया / तत् कदाचिददद्रीचो भवन्ति ननु रामया अमुं विभाव्य निःसङ्गं विस्मरन्तः स्मरं ततः / प्रयतन्ते न विद्वांसो विभवाय भवाय च मुनिमित्युक्तवन्तं तं नत्वावोचद् विदर्भजा / गृहाण भगवद्विम्बं कुरुष्व स्वमनीषितम् कृतमादिष्टमादिष्टं यत् सर्व गुरुणा पुरा / सांप्रतं सांप्रतं गन्तुं केवलं कुण्डिनं मम संवदन्ति हि ते वाचस्तास्ता विद्याधराश्रयाः। अस्ति सा केशिनी नाम्ना सखी विद्याधरी मम पश्यामि तामहं नित्यं येष्टां हि भगिनीमिव / मत्पुत्रं पाति निर्दिष्टा साद्य तिष्ठति कुण्डिने शतशः सा मया पृष्टा सेवायाः कारणं पुरा / केवलं समये सर्वमाख्यास्यामीति भाषते कार्यकाले च सा दत्तान् वरान् राज्ञाथवा मया / अत्यर्थ प्रार्यमाणापि न्यासीकृत्यैव तिष्ठति तदत्र कारणं मन्ये भगवंस्तव भाषितम् / अन्यथा भूस्पृशां सेवां कुयोद् विधाधरी कथम् IITHI STI AIIIIIIIshle कारणम्। / / 62 // // 64 // // 66 // // 68 // // 139 //
Page #299
--------------------------------------------------------------------------
________________ // 69 // तदभिलषितसिद्ध्या केशिनी सा सुहृष्टा मम च भवतु भूयः सङ्गमस्तस्य राज्ञः / प्रतिपदमपि वाचः सन्तु सत्या मुनीनां परिणमतु समन्ताद् दिव्यसेवाफलं च इति वचनविरामे बिम्बमभ्ययं भक्त्या गिरितरुसरिदाद्यं सर्वमेव प्रणम्य / मुनिममृतकराख्यं हृष्टमापृच्छय तं च स्वयमथ दमयन्ती कुण्डिनाय प्रतस्थे इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे विंशः सर्गः // 20 // // 70 // BIIIIIIIIII AIFI NIIIlla पञ्चमे स्कन्धे एकविंशः सर्गः / कदाचित् पथि सार्थेऽभूत् तस्याः क्वापि पुरो व्रजन् / घृतादिविक्रयाकासी ग्रामीणजरतीजन: तत्र कापि तया पृष्टा मार्ग कुण्डिनगामिनम् / किं नामा पिहितद्वारा पुरीयं दृश्यते पुरः 1 इतश्च दूरमासन्नं नगरं किश्चिदस्ति यत् / यत्र कुण्डिनलोकानां नित्यं बहु गतागतम् साक्षाद् दक्षिणचम्पाख्या पुरीयं पुत्रि! कथ्यते / यदत्र पिहितद्वारं तदाकर्णय कारणम् इदमुत्तरदिगद्वारमस्यास्तिष्ठति संवृतम् / त्रिषु द्वारेषु शेषेषु यातायातपरो जनः अस्यां हि भिक्षुभक्तस्य सङ्घगुप्ताङ्गजन्मनः / धनदत्तस्य भार्यासीत् सुभद्रा परमाईती // 4 //
Page #300
--------------------------------------------------------------------------
________________ PAN कुण्डिनं प्रति . गच्छन्ती न दमयन्ती। सर्गः२१ // 14 // IIIIIIII VIIIII-IIIile सा तेनोत्तरचंपायां वाणिज्यार्थ गतेन हि / इभ्यपुत्री महास्नेहाढा यत्नशतैरभूत तद्रागादार्हतं धर्म तथा सोऽप्यन्ववर्त्तत / प्रवर्त्तयति हि स्नेहो मनःप्रियमनीषिते वैधर्मिकस्त्वमित्युच्चैरनिन्धत स बन्धुभिः / अमुच्यत सपत्नीकः पितृभ्यां च पृथग् गृहे अश्लीलवचनैः श्वश्रूः सुभद्रां चाभिभाषते / अन्वहं दुर्विनीता च तस्याश्छिद्राणि पश्यति // 10 // असतीयमनार्येयमकुलीनेयमित्यपि / नित्यं जुगुप्समानां तां सुभद्रा चानुरुध्यते इह स्थितमिवायातमिहोक्तमिह वीक्षितम् / इदं हृतमिदं दत्तमिदं भग्नमिदं कृतम् // 12 // इति तद्वृत्तसंबद्धवृथा कर्णविषैः सुतम् / आदाय च रहः श्वश्रूविभिनत्ति दिवानिशम् // 13 // युग्मम् // अन्यदा क्वापि मध्याह्ने तगृहद्वारसीमनि / भ्रमन् भिक्षार्थमायासीद् वनवासी महामुनिः // 14 // कारयन्ती च सा तस्य पाणिपात्रस्य पारणम् / इक्षाश्चक्रे तृण नेत्रे मुनेनि:प्रतिकर्मणः // 15 // तत्पीडाकेकरं तस्य भक्तियत्नवती च सा | लिहन्ती जिह्वया नेत्रमपनीतवती तृणम् // 16 // तं च सङ्घट्टकं तस्याः पत्युः श्वश्रूरदर्शयत् / अन्यथा हि सतां चित्तमन्यथा कुधियां भ्रमः // 17 // दोषं स्पृष्टकमात्रं तं मत्वा दीर्घायतिं हृदि / ततस्तां सोऽप्यगीतार्थः कटुवाक्यैरभाषत // 18 // दुःशीले ! न ममासि त्वं इति तस्मिन् प्रजल्पति / अन्येऽप्याचुक्रुशुः क्रोधाद् माभूत् कस्यापि लाघवम् // 19 // ततः कुलकलङ्कं च निन्दां प्रवचनस्य च / अवेक्ष्य हृदये खिन्ना सुभद्रा वाक्यमब्रवीत् / // 20 // IFTII-IIIIIII-IIIIFIIte // 14 //
Page #301
--------------------------------------------------------------------------
________________ IIIIIIIIIIIIIIIEIFil: ISHIK धिर धिर वो बौद्धगन्धान्धान् युक्तायुक्तमपश्यतः / अर्हत्समयविद्विष्टान् सुधात्यागान् विषाकुलान् यथा हि महतां वृत्तं तथा न खलु लौकिकाः / बहिर्मुखतया ते हि पश्यन्त्यखिलमात्मवत् का सङ्घट्टमयी चर्चा तीर्थभूतेषु साधुषु / इदं वृत्तमनार्याणां यत् तत्रापि विचारणा तीर्थोदकमिव स्पृष्टं साधूनां शुद्धये वपुः / असतामपि हि व्यक्तं तत् कथं न पुनः सताम् ? . नन्वकारणबन्धूनां परिचर्या तपस्विनाम् / भवस्नेहकृतामातृपितृशुश्रूषणाधिका कचिद् गुणोऽपि दोषाय दोषोऽपि गुणहेतवे / इत्थमागममार्गाणां वैषम्यं मूर्खदुर्गमम् मनोवचनकायानां योगशुद्ध्या सुसाधुषु / न्यासीकृताद् मनोभव्यान् कः कलङ्कयितुं क्षमः? मया तावद् मुनि स्पृष्ट्वा नेत्रपीडा निवारिता / यादृशी तादृशी वाहं भवेयं तेन कर्मणा. प्रातरात्मीयशीलस्य शुद्धिं तावद् ददाम्यहम् / पश्चाद् वः कामचारो मे हेयोपादेयताविधी इत्युक्त्वा मौनमास्थाय स्थितां प्रतिमया निशि / ऊचे शासनदेवी तां प्रत्यक्षीभूय दुःखिताम् यदर्थ दुन्दुभिः प्रातर्वत्से ! रथ्यासु ताडयते / तमर्थमुररीकृत्य कर्तासि त्वं प्रभावनाम् इत्युक्त्वान्तर्दधे सा च प्रादुरास च भास्करः। चतुर्णा गोपुराणां च कपाटा नान्तरं ददुः सहस्रैरप्युपायानां न तान् वज्रमयानिव / समुद्घाटयित केचिद् लक्षशोऽप्यभवन् क्षमाः तेन निःस्वानचक्रेण पुररोधेन सवेतः / सबालवृद्धमप्यासीद् नगरं तत् समाकुलम् // 21 // // 22 // // 23 // // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // // 30 // // 31 // // 32 // // 33 // // 34 // . II IIIIIIII AIII
Page #302
--------------------------------------------------------------------------
________________ पञ्चमे. // 35 // II स्कन्धे कुण्डिनं प्रति . गच्छन्ती दमयन्ती॥ सर्गः 21 191 // // 37 // / / 38 // II AAINARIA || तृणकाटजलादीनां न प्रवेशः कुतोऽप्यभूत् / गोमहिष्यश्वमुख्याश्च निर्गमं नैव लेभिरे कस्यचिद् वद्धते सत्वं बन्दिमोक्षं करोति यः / इति राजाज्ञया विष्वक् ततो दध्वान दुन्दुभिः श्वश्रृमुख्येषु सर्वेषु सुभद्राथ हसत्स्वपि / तमर्थमुररीकृत्य चचाल सहिता जनैः यदि मे विमलं शीलं यदि मे शुचि शासनम् / कर्मजालमिवाभिद्यं पुरद्वारं विभिद्यताम् इत्युक्त्वा विदधे त्रीणि द्वाराणि विकृतानि सा। चतुर्थार्थ पुनर्वाक्यमिति माह महासती यदि बौद्धेषु कोऽप्यस्ति सती वा सात्विकोऽपि वा / स सत्चनिकपेऽमुष्मिन् करोतु स्वपरीक्षणम् अथ राजादिभिः सर्वैः श्वश्रूमुख्यैश्च बन्धुभिः / सा स्तूयत यथायोग्यं पत्या च स्वीकृता मुदा अथ सत्याः सुभद्रायास्तदिदं मूर्तिमद् यशः / यदेतदुत्तरद्वारं चंपायाः पिहितं सदा अस्ति कुण्डिनलोकानामिहापि हि गतागतम् / विशेषात् पञ्चभिः क्रोशेरितः श्रीवर्द्धने पुरे भीमभूपालभार्यायाः कनिष्टा भगिनी यतः / तत्र चन्द्रावतंसस्य राज्ञश्चन्द्रमती प्रिया तदत्र मम यातायाः शीघ्रं च कुण्डिनं प्रति / सार्थः सञ्जायते कोऽपि तत्तीर्णोमार्गसागरः इति श्रुत्वा तदा देवी निदध्यौ हृदये मुदा / नूनं मातृष्वसा सा मे मातुः पार्श्वे कलाभवत् अहो मे भजतः क्षोभमितः प्रभृति हि क्रमौ / स्वस्थानसन्निधौ पन्था वितस्तियोजनायते कथं नु प्रियही नाहं बन्धून् द्रक्ष्यामि हीदृशी? / इति मे कुण्डिनं यान्त्यावपया न स्फुटं मनः // 40 // // 41 // // 42 // / / 43 // // 44 // // 45 // // 46 // // 47 // // 48 // IIIIIIIIIII // 14 // I
Page #303
--------------------------------------------------------------------------
________________ FIlle IISEle II BIPI IIISTRIGATHI AIII अथवा मन्दभाग्याहं वक्ष्यामि कियती हियम् / शासनं प्राणनाथस्य कर्त्तव्यं सर्वथा मया. // 49 // इदं मातृष्वसुस्तावद् मदीयायाः पुरं पुरः / न चात्राप्यमुकी साहमित्याचक्षितुमुत्सहे / / 50 // अत्र विश्रम्य कस्यापि सामान्यस्य गृहे क्वचित् / साथै प्राप्य दिनैः कैश्चिद् यास्यामि पितृमन्दिरम् // 51 / / इत्थं विचिन्तयन्ती सा पुरद्वारललाटिकाम् / प्राप वापी नवा पीनस्तनस्वीजनमण्डिताम् // 52 // शुशुभे सा तदा वापी गवाक्षस्थितया तया / पूर्वाचलविजृम्भिण्या ज्योत्स्नयेव विभावरी // 53 // मार्गश्रमश्लथाङ्गी सा यावद् विश्राम्यति क्षणम् / तावत् तच्चरणाङ्गुष्ठं गोधा जग्राह वेगतः // 54 // व्याप्यमाना सत्सीत्कारं किञ्चित् हा हेति सा जगौ / अधावन् जलहारिण्यः श्रुत्वा च करुणध्वनिम् // 55 // तस्याः मातृष्वसुस्तासु जलक्रीडाथेमागताः / दास्यस्तद्रूपविस्मेरा गोधां व्यद्रावयन् द्रुतम् प्रक्षाल्य चरणौ तस्याः प्रमृज्य वसनैनिजेः / चुचुम्बुस्ता रसावेशाद् निदधुश्चापि मृर्द्धसु // 57 // एकाभिस्तासु देव्यै च चन्द्रवत्यै निवेदितम् / यथा वीरत्नमप्येकं यत् न दृष्टं न च श्रुतम् बिनयाधिकमभ्यर्थ्य शीघ्रमानीयतामिह / अस्तु नेत्रोत्सवोऽस्माकमिति देवी समादिशत् // 59 // प्रसीद कुरु नो वाक्यमागच्छ नृपमन्दिरम् / ननु चन्द्रमती देवी प्रीत्या त्वां द्रष्टुमिच्छति // 60 // इत्थमर्थयमाणाभिस्ताभिश्च परिवारिता / स्नात्वा शुद्धोदकैर्देवी ययौ मातृष्वसुगृहम // 61 // अजानत्यपि तां देवीं भागिनेयीं नृपप्रिया / बभूव सहसा हर्पादभ्युत्थातुं समुत्सुका / / 62 / / . BIPII AREII ARIA II
Page #304
--------------------------------------------------------------------------
________________ पञ्चमे स्कन्धे जा II // 63 // // 64 // सर्गः 21 कुण्डिनं प्रति गच्छन्ती न दमयन्ती। // 142 // IIVISIBIDEIR ISI ||sle चित्तं चरति सामर्थ्यात् पिहितेष्वपि वस्तुषु / पयोदान्तरितेऽपीन्दौ नन्दन्ति कुमुदाकराः सामान्यक्षत्रियामात्रं विदधाना तु संस्तवम् / रुरोध रभसं तस्या भैमी विनयवृत्तिभिः तां मातुरपरां मूर्ति दृष्ट्वाप्यजनि न श्लथम् / दुःखार्त्तमपि तच्चेतो लज्जारज्जुनियत्रितम् आसन्नासनदानेन सस्मितालोकनेन च / दर्शिताद्भुतवात्सल्यात् तां च मातृष्वसावदत दिष्ट्या त्वमिह कल्याणि ! यद् दृष्टासि विलोचनैः / इयता सफलं मन्ये जीवितं किमतः परम् निमेषेणैव मानुष्यं केवलं तव सूच्यते / तिरस्करोषि पद्माक्षि ! प्रभया तु सुरानपि इत्थमद्भुतसद्भावा का त्वं ? कस्य परिग्रहः ? | इति नन्वनुयोक्तुं त्वामुत्कण्ठा नुदतीय माम् ननु त्वं तनयातुल्या तवेदं पुत्रि! मन्दिरम् / प्राणैरपि प्रियं कत्तं तव वाञ्छामि सुन्दरि ! यदि नैव स्वतन्त्रासि यदि कार्योन्मुखासि वा / तथापि मम तोपाय किश्चिदत्र स्थिरीभव यात्राभिमुखचित्तां त्वां वरयानेन सत्वरम् / अहमेव प्रहेष्यामि यथाभिमतसिद्धये एवमुक्तावदद् भैमी देवि ! धन्यासि सर्वथा / यदित्थं मयि निर्व्याजं ममत्वं तव वर्तते पति निषधावासी क्षत्रियः सुभगो युवा / द्यूतापहृतसर्वस्वः स त्यक्त्वा मां क्वचिद् ययौ तत् संप्रति यियासन्ती कुण्डिनं पितृमन्दिरम् / अहमत्र तवादेशात् स्थितास्मि त्वद्यदृच्छया न मे भोजनसंपर्क व्यापारं पुरुषेषु वा / कश्चिदर्हति निर्देष्टुं इति स्थातुं पणो मम / // 67 // // 68 // // 69 // // 70 // // 71 // // 72 // // 73 // // 74 // // 75 // // 76 // IIIIIIIIIII ASHI AISille // 142 //
Page #305
--------------------------------------------------------------------------
________________ BIEAll AIIAFIlAHILAINIISile ततस्तथेति प्रतिपन्नवत्या मातृष्वसुर्वेश्मनि सा वसन्ती / . सुनन्दया तत्सुतयाज़माणा निनाय निगूढतया दिनानि // 77 // तत् तत् तस्या नृपकुलकलाकौशलं शीलयन्ती तत् सौभाग्यं तमुपशममप्यन्वहं शोभयन्ती। अत्याश्चर्यग्रहिलहृदया तत्र मातृष्वसुः सा पुत्री हस्तात् क्षणमपि न तां भीमपुत्रीं मुमोच // 78 // प्रियप्रवृत्तिव्यतिपनन्हेतवे श्रमार्चवैदेशिकदानदायिनी। निरन्तरं सा विरहव्रतस्थिता नवेन्दुमुवीक्ष्य जगाद कर्हि चित् // 79 // अहो ! दशाया मम वैपरीत्याद् वर्णैरपि प्रापि विपर्ययः किम् ? / राकापि कारापदवीं बिभात धवस्मृतिर्याति वधस्मृतित्वम् // 8 // तदिति कार्तिकतो नवमं गलन बहलवाष्पतया दधतीव सा / सपदि मासमुमासमवैभवामितमुदीर्य दधे दृढतां पुनः // 81 // एतत् किमप्यनवमं नवमङ्गलात चक्रे तदत्र वटगच्छनभोमृगाङ्कः / तस्यार्यकर्णनलिनस्य नलायनस्य स्कन्धः प्रपञ्चचतुरोऽजनि पञ्चमोऽयम् // 82 // इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे एकविंशतितमः सर्गः // 21 // समाप्तोऽयं पञ्चमः स्कन्धः /
Page #306
--------------------------------------------------------------------------
________________ षष्ठः स्कन्धः भीमभूपतिना. स्कन्धे सर्गः१ बIIIIIlle श्रुतो // 14 // नल वैदयों लानियोगः॥ IIIIHIM ISHI IIIIIIHIE षष्ठे सूचानाम्नि स्कन्धे प्रथमः सर्गः। अथैवं नलवैदयोः कलिच्छलविभिन्नयोः / चिरादाकर्ण्य वृत्तान्तममर्छद् भीमभूपतिः हा महाराज! हा वत्से ! किमेतद्वामुपस्थितम् ? / धिग् धिग् दैवमकायज्ञमित्यातः प्रललाप सः // 2 // तदुदन्तोपलम्भाय स मां सगिरिसागराम् / चरैर्विचेतुमारेभे भास्करः किरणैरिव तयोश्च चिन्तया नित्यं निशि निद्रानिवारितः / स बभौ प्रतिपन्नस्य यामिकत्वं भजन्निव // 4 // हृदि प्रियङ्गुमञ्जर्यास्तनया दुःखनिर्भरे / सुप्तिर्निरवकाशेव न प्राप प्रसरं कचित् अनुत्सवमताम्बूलमशृङ्गारमसङ्कथम् / दुःखव्रतपरं सर्व तद्राजकुलमप्यभृत् वैदर्भीगर्भसंभूते मिथुने केशिनीसखे / दमयन्तीगतस्नेहस्तदासीत् केवलं स्थितः // 7 // नष्टजन्मैव तद् वृत्तं दमयन्त्या नलस्य च / न कोऽपि प्रकटं चक्रे नवांशकुशलोऽपि हि // 8 // इत्थं व्यतिकरे तस्मिन् गहने चरचक्षुषाम् / नाभवद् नलवैदयोः कस्यचित् प्राणनिश्चयः // 9 // वन्ध्याद्रिद्रोणकोणेषु निषधस्कन्धभूमिषु / घोषपक्कणभीमासु सर्वत्र प्रासरन् यशाः // 10 // III AISEII III 4 // 143 //
Page #307
--------------------------------------------------------------------------
________________ IIA HII IIHle वेषभाषाविभेदोक्त्या चित्तार्थग्राहिणोऽपि ते / पश्यन्तोऽपि प्रयत्नेन नलभैम्यौ न.लेभिरे - // 11 // ततः सुदेवशाण्डिल्यौ नाम्ना वीरौ वचोहरौ / तत्रैवाजग्मतुर्दैवात् वैदर्भी यत्र वर्त्तते // 12 // तत्र श्रीभीमभूभर्तुः सभार्याय महीपतेः / तस्मै तौ नलवैदोरत्याहितमशंसताम् . // 13 // तच्छ्रुत्वा सोऽपि शोकातः स्वसंबद्धासु भूमिषु / यत्नेन नलवैदोरन्वेषणमचीकरत् // 14 // स्वयं सुदेवशाण्डिल्यौ पश्यतः स्म च सर्वतः / तत्र स्त्रियं पुमांसं वा सर्व युक्त्या तया तया // 15 // स्थापितो तेन तौ राज्ञा तत्रैवाफाल्गुनोत्सवम् / स दासमपि भीमस्य भृत्यं हि बहु मन्यते // 16 // तदा ताभ्यां सुनन्दायाः कुर्वत्याः पितृमङ्गलम् / ददृशेऽनुचरी भैमी पूर्णपात्रकरा सखी प्रत्यभिज्ञाय तौ तस्याः सगृह्य चरणौ जवात् / दत्तार्याविव बाष्पौधैरिति चक्रन्दतुः शुचा // 18 // यस्यास्तव हि जानन्ति जगन्ति त्रीणि वैभवम् / सा देवि दमयन्ति ! त्वं कथमित्थं व्यवस्थिता? // 19 // अद्य त्रपाकुलः स्वर्गः पातालं च शुचाकुलम् / मुरामुरगणस्तुल्या यदि त्वं भैमि ! वनसे // 20 // त्वमात्मा भोजवंशस्य त्वं निधिनैषधायुषः / उत्साहस्त्वं महर्षीणां लक्ष्मीस्त्वमनुजीविनाम् // 21 // अथवा किं बहूक्तेन के वयं त्वद्गुणस्तुतौ ? / वेत्ति चेत् तव माहात्म्यं स्वयं देवी सरस्वती // 22 // प्रसीद त्यज गूढत्वं चर्येयं तव कीदृशी ? / कृतार्थय शुचा नां बन्धूनां देवि! जीवितम् // 23 // भवन्तुत्वन्मुखालोकरसास्वादप्रसेदुषः। अद्य देवस्य भीमस्य निःश्वासानां समाप्तयः // 24 // elyIAHIAILAINIASISEle III A
Page #308
--------------------------------------------------------------------------
________________ भीम स्कन्ध दूताभ्यां . सर्गः१ शोधिता दमयन्ती॥ // 144 // BHI119/IAllIA IIIIIIIE इति तद्वाक्यमन्त्रेण प्रकाशीभूतमग्रतः / परिवत्रुपाद्यास्ते सर्वे भैमीमयं निधिम् एतैः सर्वैः पृच्छथमाना त्रपावनतकन्धरा / सा ददर्श भुवं देवी महिम्ना स्वसखीमिव // 26 // तस्यास्त्रिभुवनख्यातं परीक्षार्थ मलाविलम् / पिप्लुमुद्योतयामास सुनन्दा गन्धिवारिभिः // 27 // इयं सा दमयन्तीति सर्वेभ्योऽपि निरक्षरम् / स एव कथयामास मूकदूत इव स्फुरन् // 28 // अहो चित्रमहो ! देवी दमयन्ती यमीतालम् / ततः कलकलः कोऽपि बभूव भुवनान्तरे // 29 // हा हातिकठिने ! भैमि ! स्नेहनीरैर्न भिद्यसे / इत्यार्यान् यदि यत् कालं इत्थमस्मानमूमुहः // 30 // मूर्तिः सुवर्णवर्णा ते वक्षो वज्रमयं पुनः / स्थाने तदीदृशं दुःखं सहमाना न खिद्यसे // 31 // धिगस्मान् पशुवद् मूढान् धिगस्मान् कूटमानिनः / मातिितविभूषायां त्वयि दुर्दैवचेष्टितम् / // 32 // इत्यादि बहु जल्पन्तस्तामालिङ्ग्य नताननाम् / हर्षाश्रुमिश्रितैरौर्मातृष्वस्रादयोऽरुदन् // 33 // मुवर्णमणिमाणिक्यैर्दुकुलफलचन्दनैः / सर्वे सुदेवशाण्डिल्यौ निर्भर पिदधुश्च तौ // 34 // भूयो भूयोऽभवन् भैम्या माङ्गल्यानि सहस्रशः / मुमोच न च तां देवीमङ्काद् मातृष्वसा क्षणम् // 35 // अधावन् करभैरश्वैश्चरणैश्च सहस्रशः / कुण्डिने तद्विवक्षार्थमहंपूर्विकया जनाः // 36 // शंसन्तस्ते सुतां लब्धां सभायां भीमभूभुजः / तथा रुक्मैरपूर्यन्त ददुर्दानं यथार्थिनाम् // 37 // दमो दमनदातौ च स्वसुरानयनोत्सुकाः। प्रापुः श्रीवर्द्धनं वेगादक्षौहिण्या गिरा पितुः // 38 // PISIIIIIIIIFTHI II IIFIEIG // 144 //
Page #309
--------------------------------------------------------------------------
________________ TERI AIISISile IIIIIIIIIIIEIB ISIS प्रणम्य शिरसा ज्येष्ठां जामि तां मातृसन्निभाम् / भ्रातरस्ते त्रयो भक्त्या प्रस्थानार्थ व्यजिज्ञपन्॥३९॥ ततो मातृष्वसारं तां तत्पतिं नृपतिं च तम् / सुनन्दापरिवारं च गन्तुमापृच्छति स्म सा // 40 // कथञ्चित् तदनुज्ञाता रथमारुह्य भीमजा / तैरनुव्रज्यमाना च प्रतस्थे कुण्डिनं प्रति // 41 // अहोरात्रत्रयादूर्ध्व प्रयत्नादपवर्य तान् / सप्ताहात् प्राप सोत्कण्ठा भेमी जन्मभुवं निजाम् . // 42 // प्रत्युद्गच्छति तां राज्ञि भीमे पितरि संभ्रमात् / यद्यप्रत्युद्गतान्यासन् कुण्डिनौकांसि केवलम् पताकोच्छ्यमुख्यं च विस्वरं विनिवार्य सा | प्रस्तुतेनैव वैदर्भी विधिना प्राविशत् पुरम् // 44 // प्रणम्य कुलदेवीभ्यः पित्रोश्च चरणौ क्रमात् / अध्युवासेन्द्रसेनस्य हयं रम्य विभूतिभिः // 45 // मातः क्व मात इत्युच्चैः पृच्छन्तं साश्रुलोचना / तत्रेन्द्रसेनमालिङ्ग्य भामिन्यायुक्तमालपत् // 46 // अथ राजा द्वितीयेऽह्नि सभार्यः प्राप्य तद्गृहम् / पृच्छन् तत् सर्वमामूलात् विज्ञप्यते तनूजया // 47 // तावत् तात ! पुरा पुर्यां निपधायां समंततः / धर्मकर्मसु पुष्टेषु सुस्थितासु प्रजासु च // 48 // इन्द्रसेनस्य संवृत्ते वर्षग्रन्थौ च पञ्चमे / बभूव तव जामाता दुर्दैवात् द्यूतकौतुकी // 49 // इयं तावत् समीपेऽस्ति केशिनी तात ! पृच्छयताम् / स तु निवारितो राजा मया नानाविधैः क्रमैः॥५०॥ तत्र दुष्टायति मत्वा केशिन्या वाक्यतस्ततः। इहैवागमसंयुक्तं प्रेषिकोशबलादिकम् राज्यभ्रष्ट इहायातुं वने राजा मयार्थितः / लिपि लिखन् पटं छित्त्वा सुप्तां त्यक्त्वा तु मां ययौ // 52 // . I I // 51 // SIEFIIAISI
Page #310
--------------------------------------------------------------------------
________________ स्कन्धे सर्गः१ कुण्डिनपुरं गता . दमयन्ती निवेदित च तया // 145 // सर्व IIIIII-III-II ISIS तदा च व्यन्तरावेशस्तस्यासीत् कश्चिदद्भुतः / न ज्ञायते ततो राजा विवशः कथमप्यभृत् // 53 // तदिदं पुरतः क्षौम सा चेयं वर्णपद्धतिः / ततोऽहं मुनिवाक्येन तपः कृतवती गिरौ // 54 // क्रमाद् मातृष्वसुर्वेश्म वसन्ती सुखमन्वहम् / निगूढेव स्थिता तात ! लज्जया दैन्यजन्मना इहापि न ममागन्तुं स्पृहासीत् दशयानया / कीदृग्मे जीवितं तात ! वीरसेनसुतं विना // 56 // संवत्सरस्तु जातोऽगं न न तस्ग कथापि हि ! विलीनपिन नागापि निःपुत्रस्येन तस्यनिद / / 57 // इति बाप्पौघनिस्यन्दमन्यूत्पीडजडाक्षरम् / निरीक्ष्य रुदतीं पुत्री राजा वचनमब्रवीत् // 58 // वत्से ! विसृज बाप्पौधं प्रिये ! पुत्री निवार्यताम् / पुत्रि ! भ्रातृसु तिष्ठत्सु कीदृशी दीनता तब // 59 / / आर्यावर्तः सकाश्मीरः सान्तर्वेदिः सकौशलः / अयं मयेन्द्रसेनाय दौहित्राय निवेदितः // 50 // दमयन्त्यद्य पत्रिंशदक्षौहिणीमहार्णवे / कस्य शक्तिः पुरःस्थातुं दमे दिग्विजयोद्यते // 61 // स चापि पुत्रि ! जामाता दुर्दैवाद् व्यन्तरातुरः / अमुत्रास्तीति विज्ञातुं विलम्बः क इवास्ति मे // 62 // कियान् पश्यैप भूगोलः प्रेक्षितारस्तु कोटिशः / प्राप्तमेव शृणोपि त्वं न चिरात् तमरिन्दमम् // 63 // संप्रेषय निजं तस्मै दूतचक्रेण वाचिकम् / स त्वां विज्ञाय जीवन्तीं यथा स्यात् कुण्डिनोन्मुखः // 64 // प्रतिबन्धो हि भार्यायाः प्रायः पुंसः पशोरपि / विकलोऽपि नलश्चापद् नल एव भविष्यति // 65 // तस्यापि चेङ्गिताकारकलापूर्वप्रघट्टकान् / त्वं निवेदय दुतेभ्यो यथा जानन्ति तेऽपि तम् // 66 // II IITHI THIS ISHI THISile वृत्तान्तम् // // 145 //
Page #311
--------------------------------------------------------------------------
________________ // 68 // अद्य प्रभृति मे यत्नो जामातुः प्राप्तिकारणे / दशदिग्विजयं कर्तुं चरप्रेषणकर्मणि. लब्धया हि त्वया पुत्रि ! भर्तुर्व्यसनदीनया / सहस्रगुण एवाद्य मम तद्दर्शनोद्यमः विसृज विसृज दुःखं दीनता कीदृशी ते भुजविजयिनरेन्द्रा भ्रातरो हि त्वदीयाः। भुवनवलयवर्ती दुर्लभो नास्ति भर्त्ता विरम विरम मोहात् सौमनस्यं भजस्व इति विपुलमतीनामत्युदारद्युतीनामतिललितमतीनामत्युदप्रस्थितीनाम् / सततमपरिहीणः क्षत्रियाणां धुरीणः सुमुखि ! भवदधीनस्तावकीनः स भर्त्ता प्रतिजनपदमेषा जायते वीरचर्या सनगरगिरिगर्त वीक्ष्यते विश्वमेतत् / अयमधिगत एव श्रीनलो वैरसेनिः कुरु मनसि पितुर्मे भाषितं पुत्रि! सम्यक् इति वचनमुदीर्य धैर्ययुक्तं प्रमुदितमाशु विधाय चित्तमस्याः / नरपतिरुदतिष्ठदिष्टधर्मा सपदि यथाविहितक्रियानिमित्तम् इति श्रीमाणिक्यदेवसूरिकृते नलायने षष्ठे स्कन्धे प्रथमः सर्गः // 1 // // 70 // नाSHIAHILIAllIमाजाल // 71 // BISTIAHIATRI ताबाजाISile // 72 //
Page #312
--------------------------------------------------------------------------
________________ षष्ठे स्कन्धे द्वितीयः सर्गः। नलशोधने आश्वासनम् // सगे:२ // // 146 // // 4 // I ISIIIIIIIIIIFle अथाक्षिपटलोद्दिष्टा राजादेशेन कोशतः / लेभिरे भूरि पाथेयं चाराश्चिरनिवृत्तये गोसहस्रं प्रदास्यामि नलवृत्तान्तवादिने / इति प्रियङ्गुमचर्या देव्या चासीत् प्रतिश्रुतम् नलसङ्केतसंबद्धाः सरसाः क्षोभकारिणीः / इति गाथाः स्वयं तिस्रो वैदर्भी च शशास तान् " पटं छित्त्वा प्रनष्टोऽसि वने सुप्तां विहाय माम् / हृदयाद् यदि मे यासि तद् वेमि तव पौरुषम् तव पुत्रे कलत्रे च मित्रे च ममता गता / स्थितो योगीव नीरागस्त्वं देव ! द्यूतदीक्षया अदृशीकरणं पूर्व देवकार्ये त्वया कृतम् / इदानीं ते तदस्त्येकं कार्य किश्चित् पुनर्नहि" इत्थं गाथात्रयार्थेन प्रबन्धान विविधांश्च ते / कृत्वा सर्वेषु लोकेषु जगुर्जङ्गमडिण्डिमाः ततः प्रववृते पृथ्व्यां शतधा तद् नलायनम् / उत्कण्ठाकारि सर्वेषामसङ्केतजुषामपि अथास्मिन् चारसञ्चारे ब्रजन्तौ राजशासनात् / देवी सुदेवशाण्डिल्यौ विशेषज्ञाभ्यभाषत तावत् सुदेवशाण्डिल्यौ वृत्तेयं प्रणधिक्रिया / तथापि मम कार्येऽस्मिन् मनो नायाति निश्चयम् तथाहि विपुले विश्वे पुरुषाणां च कोटिषु / अत्रामुक इति ज्ञातुं स्थानभ्रष्टः क शक्यते ? संवदन्ति च कुत्रापि नामवर्णगुणा अपि / नामाकरेष्वपि प्रायः साम्यं मुक्ताफलेषु यत् . = = = orm Fr = = = IIIIIIIIEIIIIIIIIile = // 8 // // 11 // // 12 // // 146 //
Page #313
--------------------------------------------------------------------------
________________ // 13 // // 14 // DISTIANEFITSIIIIIIAle कथं नु खलु मृढानामेकमार्गानुगामिनाम् / नृणां बहिर्मुखानां च सुपरिच्छेद्यमन्तरम् ततो निःसंशयं ज्ञानं तमेकं पुरुषं प्रति / अहं विद्येव दास्यामि युवयोरप्रमत्तयोः स हि मायामयः कुर्वन् नानारूपाणि सर्ववित् / विचरन् सर्वभावेषु प्रमत्तानां न गोचरः यत् सत्यं युष्मदीयं मे वैदग्ध्यं प्रतिनिश्चयः / दक्षावनुप्रवेशज्ञौ युवामन्तर्मुखौ यतः . तदत्र तस्य राजर्षीरसेनाङ्गजन्मनः / वीरस्य निषधाभ स्तत्त्वं सम्यक निशम्यताम् स नाश्नाति विना स्नानं दिनकृत्यं न लुम्पति / न कथश्चिद् दिवा शेते न जल्पति विना स्मितम् कीर्त्या वहति नोत्कर्ष श्रिया न भजते मदम् / शुचा वहति न म्लानि रुषा त्यजति नाश्रितम् तुष्यन्ति क्रियया सन्तः स्विद्यन्ति सुदृशो दृशः।त्रुट्यन्त्यान्दोलनः खगाःक्षुभ्यन्ति क्ष्वेडया गजाः इति तद्गुणलक्षानां सङ्ख्या कत्तुं न शक्यते / अद्वितीयास्तु सन्त्येके तस्य लोकोत्तरा गुणाः सर्वाश्वहृदयज्ञस्य वीथीषु कृतकर्मणः / न तस्य सदृशः सादी सारथिर्वा महीतले अन्तरेण तमकं लब्धवह्निवरोजिताम् / सूर्यपाकां न जानाति नरो रसवतीं परः आलेख्यलिखितस्यापि मद्रूपस्य च दर्शनात् / वपुत्रपुषवत् तस्य स्फुरमुत्कण्टकं भवेत् नखमांसमयं प्रेम यस्यासीद् मयि तादृशम् / स इदृग् विरहे घोरे जीवन संभाव्यते कथम् हा नाथ ! जीवलोकं त्वं शून्यं कृत्वा क मे गतः ? / अहमद्यापि जीवामि हताशा जीवितप्रिया // 16 // // 17 // // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // // 24 // // 25 // // 26 // . II ASSIAHIN TERI AAI AISEle
Page #314
--------------------------------------------------------------------------
________________ नलशोधने आश्वा-. सगे:२ सनम् // // 147 // नानाजाIANI ATHI VISISEle त्वदवाप्तौ कथं जाता वृथा वाचः सतामपि / विसंवदति वा सर्व भागधेयविपर्यये // 27 // यदि जीवन् भवेद् राजा तद्वार्ता श्रूयते न किम् ? / न हि व्यवहितस्यापि प्रभा भानोः पिधीयते // 28 // प्रवहणमपि वाद्धौं याति वातानुवृत्त्या भ्रमणमपि खगस्य व्योम्नि वृक्षानुयायि / तदधिकतररूपं प्राणनाथस्य जातं गगनमिदमदेशं निनिमित्तोदयं च // 29 // इह कथमपि तस्य ज्ञायते दिक दशा वा कथयतु कतमस्तं नास्ति जीवन् स नूनम् / लिपिरियमपि मिथ्या चारणोक्तं मृषा तत् जनयति हि फलाशां कीदृशीं छिन्नवृक्षः // 30 // 'सुखमास्स्व मुदेव सर्वथा त्यज शाण्डिल्य ! चिरप्रवासिताम् / ननु मद्व्यसनस्य कारणे किमिदं वां कदनं निरर्थकम् // 31 // अप्येकैकं व्रजति हि दिनं वर्पकल्पं विदेशे कार्योद्घातस्तदपि गहनो गूढगर्भानुकारः। सर्वस्यापि स्वगृहविषयाः कोटिशः सन्ति चिन्त्या राजादेशः कतिथ समयं राजयक्ष्मेव याप्यः // 32 // इति श्रीमाणिक्यदेवसूरिकृते नलायने षष्ठे स्कन्धे द्वितीयः सर्गः // 2 // ISISSIFIEETE ISIFIEFICISI FISHI // 147 //
Page #315
--------------------------------------------------------------------------
________________ षष्ठे स्कन्धे तृतीयः सर्गः। بر سه // 4 // ه م NHI ISIASTI ASHISHIsle ततस्तस्या निराशायाः प्रोत्साहनविधित्सया / सहस्रगुणमारम्भं वहन्तौ तावभाषताम् क्लेशं नौ तस्य राजर्वीक्षणे किमपेक्षसे / ययोर्मुख्यमिदं कार्य गौणस्वगृहकृत्ययोः राजादेशादिमं देहं क्षिपावो वारिधावपि / केयं चरणचारैकमात्रसाध्या वसुन्धरा यत् तवार्थे नृपादेशात् पुण्यश्लोको विलोक्यते / तदिदं नौ त्रिधा श्लाध्यं भाग्येन पदमागतम् शृणु देवि ! स ते भर्ता नापाच्यां किल मन्यते / यादीच्या प्रतीच्यां वा प्राच्यां वापि यदस्थितः ब्राह्मणं क्षत्रियं वैश्यं शूद्रं वा वर्णमाश्रितः / त्यक्त्वा वा रूपमात्मीयं प्राप्तो रूपान्तरं नवम् विवशश्चेष्टते ग्रामग गिरिगुहासु वा / हस्त्यश्वरथसंयुक्ते स्वामित्वे वर्त्ततेऽथवा यत्र तत्र वसन्नेव तिष्ठन्नेव यथा तथा। येन केनाप्युपायेन तैस्तै वर्गवासरैः तथापि तमसंभाव्य न निवर्तावहे ध्रुवम् / स्वदेहमिदमावाभ्यामस्मिन्नर्थे निवेदितम् तं च जीवन्तमेव त्वं विद्धि पार्थिवपुङ्गवम् / यस्य लक्षणवद्गात्रं यश्च सत्याः पतिस्तव पश्य किं न समारब्धत्रिपुरारिपराभवम् / रतिर्भूयोऽपि हि प्राप भस्मीभृतमपि प्रियम् अत्रार्थे च कथामन्यां कथ्यमानां नु चिन्तय / यथासातं तु सन्तानस्तव सन्धीयते पुनः DISHI AISHI AAI AIIIIIIle م و = = می // 10 // // 11 // // 12 //
Page #316
--------------------------------------------------------------------------
________________ स्कन्ध // 13 // // 14 // // 15 // नलशोधने तिलकमञ्जर्या उदाहरणम्। सर्गः३ * // 148 // II RISHIATIGATIAHINIATEK धूर्तः सिंहलकः कान्त्यां नरदत्ता गृहाङ्गणे / द्यूते हारितसर्वस्वस्तन्मृत्ति भक्तमुद्यतः विशूकं पापिनं देवी कितवं तमबोधयत् / स्वयं पञ्चशतद्रव्यमूल्यां गाथां समर्प्य सा मूर्खस्तद्विक्रयाकाली स भ्रमन् पत्रिकाकरः। अमुच्यत मृषा सर्वैः स गाथार्थावधीरणम् देवदत्तात्मजो विद्वान् तां गाथां मन्मथाभिधः / यथामूल्येन जग्राह गाथा सा चेयमीदृशी “यदत्र लिखितं धात्रा न तत्परिणतिवृथा / इति मत्वा ध्रुवं धीरा विधुरेऽपि न कातराः" स धृथार्थव्ययक्रोधात् पित्रा निर्वासितो गृहात् / पुरान् बहिः सरस्तीरे तस्थौ देशान्तरोन्मुखः तत्र नक्तं मृगभ्रान्त्या तं व्याधशरताडितम् / रक्तगन्धेन भारुंडो वार्धिद्वीपे गृहीतवान् तत्र मुक्तो दयाण लब्धसञ्ज्ञः स पक्षिणा / ददर्श केवलं व्योम वारिधिं च दुरुत्तरम् स्मरन् गाथार्थमेवैकमेकाकी स वणिग्वरः / नालिकेरादिभिर्वृत्ति वितन्वन्ननयद् दिनान् प्रवालमौक्तिकादीनां विष्वक कूटानकल्पयत् / स्वर्णमिश्रेष्टिकायुग्मान्याख्यागर्भाणि चाकरोत अथ सांयात्रिकेशस्य भृत्याः शाल्वस्य वारिणे / संस्थाप्य जलधौ पोतं तत्र द्वीपे समाययुः मर्मज्ञः सोऽपि तैः पृष्टः स्वनिस्तारं विचारयन् / पोतेशघटनापूर्व वार्याख्यातुममन्यत ततः पोतपतिः प्रीत्या तस्य सिद्धप्रयोजनः / कूपे तद्धनलोभान्धस्तं तटस्थमपातयत् तम्य सर्वस्वमादाय सांयात्रिकपतौ गते / स कूपपतितोऽप्यन्तर्गाथार्थंकपरोऽभवत् / // 17 // // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // // 24 // // 25 // . // 26 // . // 148 //
Page #317
--------------------------------------------------------------------------
________________ II-IIASIATII गातानाile ददर्श तस्य कूपस्य मध्ये पश्यन् वणिग्वरः / पातालगामिनी तिर्यग्व्यक्तां सोपानपद्धतिम् // 27 // तया प्रविश्य पातालं प्रपेदे विस्मयाकुलः / भुवं गिरिसरिद्वक्षक्षेत्रचैत्यादिभूषिताम् // 28 // तत्र भ्रमन् महारम्यमारामाभ्यन्तरस्थितम् / प्रौढं प्रासादमासाद्य वैरोव्यामृतिमैक्षत // 29 // स्वनिस्ताराभिलाषेण तदाराधनतत्परः / आससाद निशि स्वप्ने स तदादेशमीदृशम . // 30 // जलाग्निविषरक्षोरुगरक्षादक्षाणि तत्क्षणम् / गृहीत्वा पञ्चरत्नानि प्रातर्मच्चरणाग्रतः // 31 // व्रणरोहिणीं चैव नीत्वा मत्तोरणोद्गताम् / पुरो गर्भपुरं प्राप्य सुखं वत्स ! प्रपत्स्यसे // 32 // युग्मम् // इत्यादिष्टः स निनिद्रः प्रातः सर्वमवाप्य तत् / छित्त्वोरं व्रणरोहिण्या ययौ रूढवणः क्षणात् // 33 // प्राप गर्भपुरं तच्च नृपक्षिपशुवर्जितम् / विचित्रधनधान्याढ्यम_लिहगृहव्रजम् // 34 // अदर्शि भ्रमतानेन दोलापर्यङ्कशायिनी / सौधसप्तमभूमीस्था कन्या कापि मनोरमा // 35 // स तया विहितातिथ्यः पृच्छंस्तत्त्वमभाषत / आसीद् वेलातटं नाम्ना त्रिदशस्पर्द्धिपत्तनम् तत्र राजा सुकेत्वाख्यः शक्तिमानपि दैवतः / रुद्धो रिपुचमूचक्रैः किंकर्तव्यजडोऽभवत् // 37 // तं कश्चित् प्राग्भवप्रेम्णा ज्ञात्वा देवस्तथागतम् / वार्धिमध्ये सुगुप्ताख्यं पुरं कृत्वा विमुक्तवान् // 38 // कृपसोपानमार्गेण पातालतलगामिना / चक्रे गर्मपुरं चेदं स राज्ञो हितकाम्यया सुगुप्ते च चिरं राज्ञो निःशकं तस्य तस्थुषः। प्राप्तः कुतोऽपि दुर्दैवाद् मांसभक्षी निशाचरः // 40 // . IIIIIIIIIIIIIIIII
Page #318
--------------------------------------------------------------------------
________________ नलशोधने तिलक-. सगे:३ मञ्जर्या = // 149 // उदाहरणम्। = ना जाना II AIनIताबाद भक्ष्यमाणेषु लोकेषु राक्षसेन दुरात्मना / द्रुतं गर्भपुरं राजा प्राप्तो बन्धुजनैः समम् // 41 // क्रव्यादोऽपि जनं कृत्स्नं व्यापाद्य पुरवासिनम् / कूपसोपानमार्गेण कालादत्राप्युपेतवान् // 42 // स हत्वा बन्धुभिः सार्द्ध राजानं पितरं मम / ररक्ष केवलं कन्यां मामेकां दारकर्मणा // 43 // इतो दिनत्रयावं तस्मिन् मां वोढुमिच्छति / मनसा शरणं देवीं वैरोठ्या स्मृतवत्यहम् // 44 // सोऽपि स्वमप्रसन्ना मे ददौ रक्षोधनं वरम् / तच्च सत्यमिवाभाति भीष्मेऽत्र त्वं कुतोऽन्यथा // 45 // तद् नीत्वा मत्पितुः खड्गमितो गुप्तो भव क्षणम् / मृगया विनिवृत्तोऽयं नूनमायाति राक्षस: // 46 // तद्विद्याराधनध्यानं कुर्वन्नेष निहन्यताम् / न दुर्लभा हि धीराणां जयश्री छलयोधिनाम् // 47 // तथेति तद्वचः कुर्वन् सोऽपि संप्राप्य तत्क्षणम् / जघान राक्षसं वीरो वैरोट्यावरगर्वितः // 48 // परिणीय च तां भूयस्ततो निर्गन्तुमुत्सुकः / स सिषेवे वटद्वारं प्रियावित्तसमन्वितः // 49 // कदाचित पूर्ववत कैश्चित संप्राप्तः सलिलार्थिभिः / स कृष्ट्वा पोतनाथेन कारितः सह सङ्गमम् // 50 // पोतेशस्तद्वधूलुब्धः क्षिप्त्वा प्रवहणे निजे / रजन्यां जलधेमध्ये तं प्रमत्तमपातयत स पतन गिलितः शीघ्रं महामत्स्येन वारिधौ / दधौ जठरमध्येऽपि धैर्य गाथार्थचिन्तया // 52 // वाडौं तं क्षिप्तमाख्याय सार्थेशेनापि तत्प्रिया / अर्थिता रतिमातीर्थ ययाचे नियमावधि // 53 // सोऽपि तं वेलया क्षिप्तं दारयद्भिस्तिमिङ्गिलम् / कान्तीशस्यैव कैवर्तः संप्राप्य प्रांभृतीकृतः . // 54 // IAFI II II IIIIre. J // 149 //
Page #319
--------------------------------------------------------------------------
________________ तं मत्स्योदर इत्याख्यां दत्वा राजा कुतूहलात् / ललिताकारमालोक्य चकार स्थगिताधरम् ज्ञात्वापि सहवासं स्वमात्मानं निजुगूह सः। यत् किश्चिदाख्याय जनं पृच्छन्तं विप्रतारयन् अथ प्रथमपोतेशः प्राप्तस्तद्धनसंयुतः / राज्ञा स मानितस्तत्र तिष्ठन् तं वीक्ष्य नीतवान् मत्स्योदरोऽपि कालज्ञो नारेभे सहसैव तम् / सोऽपि भीतोऽस्य जग्राह पारंपयं जनाननात् ततस्तत्प्रेरिता मत्ता मातङ्गा गानतत्पराः / नृपवेश्मनि तं शीघ्रमालिङ्ग्य रुरुदुर्यथा अहो सहोदरोऽस्माकमयं रुष्ट्वा गतोऽभवत् / दिष्ट्या चिराच्च दृष्टोऽद्य तेनोक्तं वा रुणद्धि नः तछत्वा स क्रुधा पृष्टः किमेतदिति भूभुजा / मत्स्योदरोऽवद् देव ! सर्व सत्यमिदं ध्रुवम् अहमेषां कनिष्ठोऽस्मि ज्येष्ठाः सर्वेऽपि खल्वमी / केवलं पञ्च रत्नानि ममोरौ निदधे पिता एषां कक्षाशिरःस्कन्धकुकुन्दरकरादिषु / सर्वत्र निदधे तानि तेन नष्ट्वा गतोऽभवत् इत्युक्त्वा दर्शयामास रत्नान्यरुं विदार्य सः / प्रत्युत्पन्नमतेरन्यः कथं राज्येषु नन्दति इमान् विदार्य दृश्यन्तां रत्नानीति नृपाज्ञया / प्रारब्धास्तेऽप्यभाषन्त भ्रातायं सर्वथा न नः पोतेशप्रेरितैरेतद् मिथ्यास्माभिः प्रजल्पितम् / रक्ष रक्ष महाराज! न मृषा ब्रूमहे पुनः कुपितेन ततो राज्ञा सांयात्रिकपतौ धृते / सर्व स्ववृत्तमाचख्यौ राज्ञे मत्स्योदरो रहा ज्ञात्वा राज्ञापि पृष्टः सन् सार्थवाहोऽथ मर्मवित् / द्रव्याभिज्ञानसंबन्धे प्रत्यपद्यत नोत्तरम् // 55 // // 56 // // 57 // // 58 // // 59 // // 60 // // 61 // IIIIIIIIIIIIIIyle IIIIIIIIIIIISe // 63 // // 66 // // 67 // // 68 // // 69 //
Page #320
--------------------------------------------------------------------------
________________ नलशोधने स्कन्धे तिलक.. मञ्जर्या सर्गः३ उदाहरणम्। . // 15 // III-IIII-III गर्भनामाङ्कितं सर्व द्रव्यं तस्याथ पार्थिवः। ददौ मत्स्योदरायैव न्यायमूला हि भूभुजः // 7 // मत्स्योदरोऽपि तं राज्ञा वध्यमानममोचयत् / असाधुष्वपि साधुत्वं दर्शयन्ति हि साधवः // 71 // इत्थं ब्रजति काले च प्राप्तः पोतपतिः परः / तत्सन्मुखगतो राजा वार्बुिद्वीपे स्थितोऽभवत् // 72 // मत्स्योदरप्रिया तत्र नृपं तिलकमञ्जरी / व्यजिज्ञपद् यथा तेन देव ! बन्दीकृतास्म्यहम् // 73 // हत्वा मम प्रियं पापी सोऽयं मां हन्तुमुद्यतः / त्यक्ष्याम्यहं ततः प्राणान् तथाप्येष निगृह्यताम् // 74 // ततो राजावदत् प्राणान् रक्ष रक्ष मनस्विनि!। कदापि हि भवेद् दैवाद् मुग्धे जीवन् तव प्रियः // 75 // अश्रद्धेयं तु कान्तस्य विचिन्त्य हृदि जीवितम् / रुरोद मुक्तकण्ठं सा सर्वैराश्वासितापि हि // 76 // मत्स्योदरो नृपतिना कृतपूर्ववार्तस्तां प्रत्ययप्रमुदितां स्वगृहं निनाय / तं चाततायिनमपि क्षितिपालदण्डादात्मीयबन्धुमिव पोतपतिं ररक्ष // 77 // वैरोट्या दत्तरत्नक्षितभुजगविषां जीवयामास राज्ञः पुत्रीं दृष्टां कदापि स्वयमवनिभुजा सापि तस्मै प्रदत्ता / एवं स स्फीतभाग्यः प्रकटितचरितः शोकसिन्धौ निमग्नं पित्रोरानन्दकन्दव्यतिकरतरलं नन्दयामास चेतः // 78 // यथा तिलकमञ्जरी निजपतिं तमित्थं पुरा पयोनिधिनिमग्नमप्यधिजगाम भयोऽपि हि / / तथा तव विदर्भजे निषधभूभुजः सङ्गमो विदेशमधितस्थुषः कथमपेक्ष्यते दुर्लभः // 79 // इति श्रीमाणिक्यदेवसूरिकृते नलायने षष्ठे स्कन्धे तृतीयः सर्गः // 3 // SHIFIFIEFINITISIFIFIE | // 150 //
Page #321
--------------------------------------------------------------------------
________________ षष्ठे स्कन्धे चतुर्थः सर्गः। . SHI RISHI AISHING THII - III III THEIG इति ताभ्यां कृतोच्छ्वासा वैदर्भी धैर्यनिर्भरम् / सन्मानदानपूर्वेण विधिना विससर्ज तौ // 1 // नलस्यान्वेषणं कतुं पथि प्रस्थितयोस्तयोः। साहाय्यमिव पृष्टस्थो बभार मलयानिलः / // 2 // केऽप्यर्द्धाव्यनिवर्तन्त केऽपि तस्थुः क्वचित् सुखम् / कुण्ठप्रज्ञाः परेऽभूवन् चारा ज्ञातुं नलस्थितिम् // 3 // तौ तु ग्रामेषु पल्लीषु पत्तनेषु पुरीषु च / प्रपावापीषु कूपेषु मठेषु सुरसद्मसु वनेषु सत्रशालासु प्रतोलीषु सभासु च / राजमार्गेषु गोष्ठेषु गर्रागिरिगुहासु च ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रान् कारून् जनङ्गमान् / वानप्रस्थाश्च मिझूश्च विविधानितरानपि // 6 // वेषभाषापरावरिङ्गितग्रहणादिमिः / अनुप्रविश्य विश्रम्भं जनयन्तौ यथा तथा सायं प्रातर्दिवानक्तं वृष्टिशीतातपेष्वपि / विचिन्वन्तौ नलं दैवादयोध्यां प्रापतुः पुरीम् // 8 // पञ्चभिः कुलकम्।। तदा च स महीपालः कुब्जरूपधरो नलः / राजमान्यतया तत्र महत्या संपदाभवत् वैदर्भीविरहव्याधिविद्धगात्रस्य तस्य च / न यात्यति गते रात्रिन च रात्रौ पुनर्दिनम् // 10 // न स्वल्पपरिवारेण तस्मिन्नति पुरान् बहिः। कत्तुं प्राभातिकं कृत्यं सरोवरमुपाययौ गवां भम्भारवर्गोष्ठं तरुखण्डं खगारवैः / भृङ्गशब्दैः सरः साब्ज मुखरं सर्वमप्यभूत // 12 // . IIIIIIIIEII IIIIsle
Page #322
--------------------------------------------------------------------------
________________ MBAI नलशोधनम् // स्कन्धे सर्गः४ // 15 // ISHI VII IIFI IRIE इति व्यतिकरं रम्यं पश्यन् विरहविह्वलः / कार्यकुब्जाकृतिर्दध्यौ निषधानामधीश्वरः // 13 // प्रहरन्ति हन्त हृदयं विदर्भजाविरहाकुलं भृशमिमा ममाधुना / बत कीरकेकिकलविङ्ककोकिलाकिकिदीधिकोककुलसङ्कला भुवः // 14 // कुवलयवनवाताः कूजितं कोकिलानां किशलयशयनीयं कौतुकस्थानकानि / इति हि मम समस्तं संप्रति व्यर्थमासीद् विमलमपि कवित्वं सन्निधौ दुर्जनस्य // 15 // तादृक् प्रेम्णि स्वयमपि तथा तत्र सुप्तोज्झिताया दूरे देव्याः पुनरधिगमः संशयो जीवितेऽपि / तद्वा पिवचन न पुनर्नाममात्रापि जाता धिग् जीवामि स्फुटति बत मे वज्रतुल्यं न वक्षः // 16 // वपुर्वलति विह्वलं विरहयातना याप्यते न मृत्युरधिगम्यते मरणवासना मर्छति / न वेनि गहनामिमां परिणतिं निजस्यात्मनोन कोऽपि हि मया समः क्षितितलेऽस्ति दुःखी नलः / / 17 // हा प्रिये ! परिहतासि सर्वथा भीमजे ! कथमसि व्यवस्थिता / इन्द्रसेनजननि ! क वर्तसे देहि देहि दमयन्ति दर्शनम् // 18 // इति प्रकामं विलपन् स राजा वैदेशिकौ तौ कलयाञ्चकार / अभूद् मिथः कार्यवशंवदानां तेषां त्रयाणामनुयोगयोगः // 19 // को युवां कुत इहागमनं वां ? कुण्डिनेन्द्रनिलयौ कथको स्तः / / III-IIIIIIIIIIIIIE // 15 //
Page #323
--------------------------------------------------------------------------
________________ // 20 // बाजा IISIl * // 21 // // 22 // अत्र चित्रफलके किमिदं वां साधु पृच्छसि शृणु श्रुतियोग्यम् / यद् वपुः कमठपृष्टिकठोरं यस्य वज्रकठिनं हृदयं च / तस्य निर्मलममुत्र चरित्रं भृभुजः कमलकोमलवाचः इत्यनेकगुणगौरवगौरः कस्य नाम स कुले किल राजा। वीरसेनतनयः सुखवैरी नैषधो ननु दुरोदरवीरः तद् विचिन्त्य वचनं चमत्कृतःप्रेयसी चरितलन्धिलालसः। आतिथेयसमयाय मायया तौ निनाय निलये नलः स्वयम् तादृगूरूपे निखिलजनतादृग्विषे कुब्जकत्वे त्यागं भोगं विनयपरतां वाग्मितां वैभवं च / साश्चर्याभ्यां निरुपमतमं तस्य संभाविताभ्यां निन्दापात्रं सपदि विदधे रत्नदृषी कृतान्तः इतिश्री माणिक्यदेवसूरिकृते नलायने षष्ठे स्कन्धे चतुर्थः सर्गः // 4 // // 23 // जा IIIII-IIIFISHIs Isile // 24 // II 4 DISTIAHII
Page #324
--------------------------------------------------------------------------
________________ षष्ठे स्कन्धे पञ्चमः सर्गः। नल शोधने सर्गः समागमः॥ // 152 // II AISING TII AIII कानाब ISIK अथ तौ दयितादतौ कुजवेषधरो नलः / प्रसङ्गादिव चित्तस्थं प्राज्ञः प्रष्टुमुपाददे // 1 // दिष्ट्या कविवरो दृष्ट्वा भवन्तौ मम संप्रति / फलं नयनयोर्जातं विश्रामो हृदयस्य च // 2 // अहं हि कुब्जको विप्रौ ! विप्रयुक्तोऽस्मि दैवतः / शरीरमपरं राज्ञो नलस्य निषधेशितुः नलेन वसता पूर्व राज्यं चूतन हारितम् / राज्यभ्रष्टस्ततः सोऽहं विदेशपतितोऽधुना // 4 // 'दमयन्त्या समं देव्या विदेशप्रस्थितस्य च / अत्रास्तीति पुनस्तस्य न हि वा पि वर्तते तद् युवां कुण्डिनायातावहं पृच्छामि यत् किल / राजा स विजयी भीमस्तत्पुत्राश्च दमादयः // 6 // अन्यत् किं दमयन्ती सा देवी तत्रास्ति वा न चा / तदा कूबरपाद्येऽपि नहि स्थितवती यतः // 7 // यञ्च चित्रपटे वृत्तं नलस्यास्तीति जल्पतः / तद् नृपस्यापि किं वार्ता विदिता काचिदस्ति वाम् // 8 // तमित्थमथ जल्पन्तं द्विजवयौँ जजल्पतुः / दीर्घायुभव भद्रं ते हृष्टौ स्वस्त्वां विलोक्य च . // 9 // आकर्णय सकर्ण! त्वं यत् पृच्छसि तदुत्तरम् / कुशलं भीमभूभर्तुः कुमारा जयिनश्च ते // 10 // विरहव्याधिनाया रुदितोच्छूनचक्षुषः / देव्या दमस्वसुस्तत्र प्राप्ताया हायनं स्थितम् // 11 // वने सुप्ता परित्यक्ता राज्ञा रात्रौ नलेन यत् / तद् न जानाति सा देवी तं भर्तारं कचिद् गतम् // 12 // III AIIIIIIIIIIII IIISTRIKE . // 152 // SIII
Page #325
--------------------------------------------------------------------------
________________ IISite II RIBEII A MEING THII AISI WIKIIT Isile बना यथा पतिपरित्यक्ता निनाय च दिनानि यत् / अस्त्यत्र चित्रफलके लिखितं निखिलं हि तत् // 13 // सर्वैराश्वास्यमानापि वियोगज्वरजर्जरा / नित्यमित्येव जल्पन्ती सा तिष्ठति दिवानिशम् // 14 // पटं छित्त्वां प्रनष्टोऽसि बने सुप्तां विधाय माम् / हृदयाद् यदि मे यासि तद् वेमि तव पौरुषम् // 15 // तव पुत्रे कलत्रे वा मित्रे वा ममता गता / स्थितो योगीव नीरागस्त्वं देव ! द्यूतदीक्षया . // 16 // अदृश्यीकरणं पूर्व देवकार्ये त्वया कृतम् / इदानीं ते तदस्त्येव कार्य किञ्चित पुनर्नहि // 17 // इत्थं नलव्यलीकेन तस्यास्तप्तमहर्निशम् / बभूव तुहिनप्पृष्टपङ्कजप्रमितं वपुः / // 18 // तथा पिता तथा माता तथा सर्वे सहोदराः / तदद्य निखिलं राज्यं देव्या दुःखेन दुःखितम् // 19 // .न तस्यास्तादृशं दुःखं पुरासीद् निर्जने वने / यथाद्य विवृतद्वारं बन्धुवर्गसमागमे // 20 // सारण्यकोपसर्गेभ्यः कथञ्चिदपि जीविता / तामद्य नु वियोगाग्निर्नादग्ध्वा विनिवर्त्तते // 21 // प्रियामनुसृतां साध्वी सलजां क्लेशहारिणीम् / इत्थं परिहरेत् कश्चित् किं ब्रूमः स पुनर्नलः // 22 // न तेन गणिता प्रीतिः पापशङ्का त्रपा कृपा / ऐश्वर्यबलमालम्ब्य सर्व चक्रे स केवलम् // 23 // राज्ञस्ततो वरं भिल्लाः पशवः पक्षिणोऽपि वा / साहचर्यमपि त्यक्तं येन साध्वीं प्रियां प्रति // 24 // अपहस्तितदिक्पालं यत् तस्मिन् प्रेम तादृशम् / वैदास्तस्य हि प्रेम्णा तेन भुक्तमिदं कृतम् // 25 // कथं भवतु साधर्म्य निम्बस्य च नलस्य च / विपाके मधुरो निम्बः कटुरेव पुनर्नलः // 26 // . II बना OTHI AII
Page #326
--------------------------------------------------------------------------
________________ IS स्कन्ध II सर्गः५ लम्भः // // 153 // प्रजाISTII-IIIIIIIIIII किमत्र राजशब्देन विश्वातिशयवर्तिना / नरनामापि नामोति दारत्यागीस दुर्मतिः // 27 // विहाय सह सत्वेन स निःसत्त्वः सधर्मिणीम् / तिष्ठन् कथमपि क्वापि जीवन्नपि मृतोपमः // 28 // किं तस्य जीवितव्येन नष्टनाम्नो दुरात्मनः / दमयन्त्यां विपन्नायां देव्यां विरहवाहिना // 29 // किं दुर्वहमभूत तस्य कुतो वाप्यभवद् भयम् / यदेवं स परित्यज्य प्रनष्टः परमोषिवत् // 30 // यदि गन्ता भवेत् तत् किं तामापृच्छ्य न गच्छति / इति निर्दिष्टदेशस्थः कथं देवीमतापयत् // 31 // राजाऽभविष्यद् भूयोऽपि प्राप्तः श्वसुरवेश्मनि / उभयोः प्राणसन्देहस्तेनेत्थं गच्छता कृतः // 32 // वञ्चयित्वा प्रियां पत्नी वनेऽपि स्रस्तशायिनीम् / चातुर्य दर्शितं तेन सामर्थ्यमपि चात्मनः // 33 // राज्यभ्रष्टस्य चेत् तस्य त्रपा श्वसुरवेश्मनि / न लज्जा तस्य लजालोस्तदित्थं त्यजति प्रियाम् // 34 // दारत्यागमयं तस्य सामर्थ्याख्यं महद् यशः / आवां चित्रपटारूढां स्फुटं सर्वत्र कुर्वहे // 35 // राज्ञा सभासु सर्वासु धिक्कारकलुषीकृतः। वीरसेनसुतः स्नातु न विद्मः केन वारिणा तदद्य ऋतुपर्णेऽपि तद् वृत्तं चित्रगोचरम् / शृण्वत्यस्मङ्मुखोद्गीर्ण शृणोतु स भवानपि. // 37 // यतस्त्वमसि वै साक्षात् कुब्जरूपः परो नलः / सम्बन्धस्योपचारेण राजा राजपुमानपि // 38 // इति श्रुत्वा कथां ताभ्यां कथ्यमानां प्रियाश्रयाम् / निषधाधिपतिर्भावैर्बहुभिर्व्याकुलोऽभवत् // 39 // दिष्ट्या जीवति मे कान्ता तिष्ठन्ती मम चिन्तया / तद् दुःखदायिनं दुष्टं धिग् घिम् मां गूढचेष्टितम् // 40 // BEIN AMEII NISEII IIIIII // 153 //
Page #327
--------------------------------------------------------------------------
________________ IASTIC DIII AISHI AISIlATHII AI अहो ! पुनः कथं तस्या दर्शयिष्याम्यहं मुखम् / किं नाम तद् दिनं भावि यत्र सा में मिलिष्यति // 41 // नूनं चेत् सुगमा देवी तद्वन्धुभ्यस्त्रपा पुनः / मयि तत्र गते खिन्नाः किं वक्ष्यन्ति दमादयः१ // 42 // अधुनैव निजं वृत्तं कथयाम्यनयोः पुरः / नष्टराज्योऽथवाद्यापि स्पष्टीभृय करोमि किम् ? // 43 // यद् वा तदेव मे राज्यं यद् देव्या सह सङ्गमः / केन संभाविता ह्यासीत् जीवन्ती प्राणवल्लभा // 44 // तद् गत्वा दुःखदीनां तां कान्तां संभावयाम्यहम् / अनित्ये जीवलोकेऽस्मिन् दुर्लभः खलु सङ्गमः॥४५॥ तां विहाय वियुक्तोऽहं जीविष्यामि चिरं कियत् / परित्यज्य नदीं नीतो महामत्स्य इव स्थले // 46 // स्पष्टीभूतस्य मे सर्व वशवर्ति महीतलम् / किमशक्तिर्ममाद्यापि जेतुं सर्वान् महीभुजः // 47 // ततस्त्यागात् परं वृत्तं तस्याः श्रुत्वाऽनयोर्मुखात् / चिढविदितमात्मानं करिष्यामि तदाशये // 48 // उच्चस्तरां स्वमथ कुब्जमयोऽपि मेने नीचैस्तरां विहरति स तयोः समीपे / भृयस्तरां विततराज्य इवाजनिष्ट प्राणेश्वरीकुशलजीवितवार्तया सः // 49 // सायन्तनावसरसीमनि तौ च तेने भृमीभुजः सदसि दर्शनमानपूर्वम् / आज्ञापितं तदतुलं नलभीमपुज्योश्चित्रस्थितं चरितमुच्चरतः स्म सम्यक // 50 // इति श्रीमाणिक्यदेवमूरिकृते नलायने षष्ठे स्कन्धे पञ्चमः सर्गः॥ 5 // DISKILATERII III III SAIII AURIISElle
Page #328
--------------------------------------------------------------------------
________________ षष्ठे स्कन्धे षष्ठः सर्गः। स्कन्ध सगे:६ व्याकुलो नलः॥ // 154|| बाजाII III IIFII ISHIE ततः प्रववृते तत्र तदपूर्व नलायनम् / मूर्छन्निव जनो जज्ञे यदाकर्ण्य विलोक्य च द्यूतहारितसर्वस्वं घोरधर्माकुले पथि / यतश्चरणचारेण वैदर्भी नलमन्वगात // 2 // अस्तोकशोकसंतप्तां तटाकतटसंस्थिताम् / यथा च ललितैर्वाक्यैस्तां समाश्वासयनलः प्रियामेकाकिनी सुप्तां निशि विश्वस्तशायिनीम् / स खड्गखण्डितक्षौमः परित्यज्य यथा ययौ // 4 // तत् तत् सर्व सुदेवोक्तं शृण्वन्तश्चित्रगोचरम् / हाहारावमुखाः सर्वे शोषं प्रापुः सभासदः भो भो भृपालशार्दूल! नल ! युक्तमिदं तव / मा मैवमिति तं धत्तुं ऋतुपर्णोऽपि तवरे प्रातर्नलमनालोक्य विलपन्ती विसंस्थुलाम् / तां वीक्ष्य पतितां भृमौ जनः सर्वोऽप्यभाषत // 7 // निहतः किं न दिक्पालैः किं न वज्रेण ताडितः / किं न कालाहिना दष्टः किं न दग्धो दवाग्निना // 8 // न किं कवलितः पृथ्व्या विपनः किं न वा स्वयम् / स्त्रीघातपातकं कृत्वा जिजीव स कथं नलः // 9 // युग्मम् // इति लोकापवादाग्निज्वालापटलपीडितः। कर्कोटकविषार्तोऽपि नलः कुब्जः सुखं ययौ // 10 // असावजगरेणात्र अस्यते नलवल्लभा / अहो कश्चिदपि त्राता वर्त्तते साहसी नरः // 11 // इति जल्पति शाण्डिल्ये भूत्वा पात्रावतारवत् / निजं.विस्मृतकुब्जत्वं जजल्प निषधांधिपः // 12 // HIAHINI HISHI HIातात // 154 //
Page #329
--------------------------------------------------------------------------
________________ CIII 4. IBHI AISFlla THII - III NISHIIC ISITE मम भर्जुनलस्य त्वं व्यलीकेन च यत् पुनः / हा प्राप्तासि कथं देवि ! दमयन्ति ! दशामिमाम् // 13 // त्यज त्यज भयं भीरु ! भृत्ये संनिहिते मयि / अतः परं हि संबंहि भूयः किं करवाणि ते? // 14 // मार्जयामि दृशोर्बाष्पं वपुः प्रक्षालयामि ते / प्रसीद मृदुभिवृत्ति विधेहि विविधैः फलैः // 15 // इति तास्तस्य निःशङ्काः प्रत्यासन्नभ्रमा गिरः / परैरप्रत्यभिज्ञाता विप्राभ्यामभिजज्ञिरे . // 16 // किरातकृतवैदर्भीकेशामर्शक्षणे पुनः / शोकेनैव परे रुद्धा हीरोपाभ्यां स केवलम् / // 17 // व्यतीतवृत्तचित्रेऽस्मिन् कुब्ज! कोऽयं भ्रमस्तव ? / इति जग्राह तं राजा विनितासिमुद्यतम् // 18 // गिरिगह्वरमध्यस्थां दुस्तरे तपसि स्थिताम् / सहसा स प्रियां प्रेक्ष्य रुरोद सदसि स्थितः // 19 // गृहे मातृष्वसुर्दास्यं दमयन्त्या दधानया / नलस्य विदधे चित्ते कुब्जत्वं युक्तमात्मनः // 20 // पुनः पितृगृहे देवीं सुस्थितां तस्य पश्यतः / इन्द्रसेनगत प्रेम सहस्रगुणतां दधे . // 21 // इत्थं सुदेवशाण्डिल्यौ तत्रोद्गीर्णप्रघट्टको / दत्तप्रसाधनौ राज्ञा निन्ये कुब्जःपुनर्गृहम // 22 // स्वयं स्थालीषु निक्षिप्य भक्षजातं चतुर्विधम् / चक्रे रसवती रम्यां सूर्यपाका तयोः कृते // 23 // न धूमध्यामले दृष्टी न मषीमलिनौ करौ / न श्रमाम्बुजडं गात्रं न फूत्कारक्रमक्लमः // 24 // स्फारत्वं सुकुमारत्वं शुचितातिसुगन्धता / विच्छित्तिरविलम्बश्च देशकालादिरूपता // 25 // इत्यलौकिकमुद्दाम सूपकारस्य तस्य तौ / विप्रो रसवतीकर्म तदपूर्वमपश्यताम् // 26 // युग्मम् // IIIASII III AISIIIsile
Page #330
--------------------------------------------------------------------------
________________ अयमेव सर्गः६ इति दूतयोः // 155 // llIIATERII NIFils IITO प्रतीतिः॥ बुभुजाते यथाशक्ति भक्त्या तत्परिवेषिणम् / न सेहे तद्रसज्ञा तु कर्नु तद्रसनिर्णयम् // 27 // ततः सरस्वतीपूजा नैवेद्यास्वादनादिना / नलोऽयमिति निःशङ्क प्रतीतिरभवत् तयोः // 28 // ऊचतुश्च यथा कुब्ज! त्वं महात्मा महीतले / नूनं स नलभूपालस्त्वयि जीवति जीवति // 29 // भोजनादमृतास्वादस्तीर्थयात्रा च दर्शनात् / अदारियं महादानात त्वया नौ प्रतिपादितम् // 30 // किं न प्रयोजनं सिद्धमानयोस्ता दर्शनात् / केवलं नलभूभनुर्वार्ता लब्धा नहि क्वचित् // 31 // तदस्तु स्वस्ति ते कुब्ज ! बजामो बत साम्प्रतम् / कुण्डिनस्य हि मुक्तस्य बहवो वासरा गताः // 32 // इतो गताभ्यामावाभ्यां विज्ञप्ता भीमनन्दिनी / अप्राप्तनलवृत्तान्ता न विद्मः किं करिष्यति // 33 // तयोस्तद् वचनं श्रुत्वा बभाषे कुब्जनैषधः। विप्रौ! यदि हि गन्तव्यं प्रेषयिष्याम्यहं ततः // 34 // दिष्ट्या युष्मत्प्रसङ्गेन जीवन्ती भीमजा श्रुता / दिष्ट्या तस्य च भूभर्तुर्भीमस्य कुशलं श्रुतम् // 35 // तत् तस्याः प्रणतिर्वाच्या दमयन्त्याश्च मामकी / सर्वस्वं च शरीरं च देव्या एवैतदिष्यताम् // 36 // तस्यां हि किल जीवन्त्यां क्वापि राजापि संभवेत् / इन्द्रसेनोऽथवा राज्यं निजं नेतुं भवेत् प्रभुः // 37 // ममापि भवति स्थान विदेशपतितस्य च / न विना निषधां क्वापि मुहूर्तमपि मे रतिः // 38 // तद् गच्छतं द्विजवरौ पुनरागमाय कल्याणमस्तु युवयोर्विषमेऽपि मार्गे। स्मर्त्तव्य एष निजदेशमपि प्रपन्नः स्वल्पोऽपि हि व्यतिकरः कथनं किमन्यत् // 39 // DIIIIIIIIIIIIIIIIIIIIIIII II A-III A // 155 //
Page #331
--------------------------------------------------------------------------
________________ III AIATRII AIII NIFICATIO इत्युक्त्या तरलतुरन्यानदानप्रीतौ तौ विततवितीर्णवित्तवस्त्रौ। . विप्रेन्द्रौ कृतदयितामनः प्रवेशः स्वं देशं प्रति विसराज भूमिपालः // 40 // तत्र निर्गतवति द्विजयुग्मे तिग्मभानुखि दुःसहदीप्तिः / किं किलात्र भवितेति नितान्तं भूभृतां पतिरचिन्त यदन्तः . // 41 // नगरगिरिसरिदुमौघसर्ग कथमपि मार्गमतीत्य दाक्षिणात्यम् / पुनरधिगतकुण्डिनौ द्विजौ तौ नृपतिगृहं प्रतिजग्मतुः क्षणेन तत्रासङ्ख्यविदेशदेशसरसं कुब्जस्य योग तथा तास्तास्तस्य कथाः स विभ्रमभरस्तत् तत् कलाकौशलम् / तदू दानं तमुदन्तमव्यतिकरं भीमस्य राज्ञः पुरो देव्याश्चापि दमस्वसुः क्रमगतं ताभ्यां बभाषे रहः // 43 // इतिश्रीमाणिक्यदेवसूरिकृते नलायने षष्ठे स्कन्धे षष्ठः सर्गः // 6 // . षष्ठे स्कन्धे सप्तमः सर्गः / // 42 // IIIIIIIIIISTIIIIIIIIMa तमथाकर्ण्य वृत्तान्तमद्भुतं भीमभूपतिः / इदमेतदिति ज्ञातुं प्राज्ञोऽपि हि न चक्षमे उवाच दमयन्ती च देवी विस्मितमानसा / पूर्व न नाम नो राज्ये कुब्जोऽभूत् कोऽपि तादृशः // 2 //
Page #332
--------------------------------------------------------------------------
________________ षष्ठ स्कन्धे सर्गः७ // 156 // कुण्डिनपुरे दूतयोः प्रत्या -. गमनं नलवृत्तान्तकथनश्च // III RELATHIGATPSI ATHI WITHILE न च मुक्त्वा नरेन्द्रं तममुष्मिन् पृथिवीतले / कश्चिद् रसवतीं वेत्ति सूर्यपाको नरः परः // 3 // दारियघातकं दानं बलं गजविजित्वरम् / मयि चात्यन्तिकी प्रीतिस्तस्येति किमसंस्तुतम् // 4 // पश्य राजा नलः श्रीमान् पुण्यश्लोकः स धीनिधिः / कथं परगृहे सेव्यं कुर्वाणो घटते क्वचित् // 5 // तत् तादृग् दृग्विषं शोच्यं प्रायः स्वपरविप्रियम् / निनिमित्तं समुत्पन्नं कुब्जत्वं तस्य वा कुतः // 6 // तथा च त्वां परित्यज्य निर्जने यो विनिर्ययौ ! स त्वां संभावयन भृगः कथं गुणिनि गण्यते ? // 7!! तत् सर्वथा च स नलः कुब्जकोऽपि स निश्चितम् / नलेनैव च सा विद्या तस्य दत्ता भविष्यति // 8 // भवन्ति हि नरेन्द्राणां स्वयमक्लेशकारिणाम् / केचिद् विश्वासपात्राणि येषु सर्व निधीयते दानिनो बलवन्तश्च किं न स्युनृपसेवकाः / स्वामिभक्ततया प्रीतिस्त्वयि तस्य च नान्यथा // 10 // तदित्थं कथमस्माकं योग्यः संभावनाय सः / स्वार्थमेव पुरस्कृत्य महत्त्वं न विमुच्यते // 11 // तद् मुश्च विभ्रमं वत्से ! माभूद् लोकस्य हास्यता / यदि जीवति रक्तो वा तदायातु नलो नवा // 12 // अत्र तिष्ठ सुखं पुत्रि! सर्व राज्यमिदं तव / आनेष्यते नलः सम्यग् यदि स ज्ञास्यते क्वचित् // 13 // इति श्रुत्वा पितुर्वाचं व्याकुलापि नलप्रिया / तथेति शिरसा नत्वा जगाम निजमन्दिरम् न जजल्प न सुष्वाप न ममज ववल्ग न / न जहास न चिक्रीड न बभ्राम भ्रमेण सा // 15 // ततः प्रियङ्गमञ्जर्या मातुः संप्राप्य सन्निधिम् / रुरोद गद्गदं तन्वी बाप्पक्लिन्नपयोधरा // 16 // | // 156 //
Page #333
--------------------------------------------------------------------------
________________ IIIIIIIIIIIIIIshe परिरभ्य तया गाढं सा समाश्वासिता सती / जगाद मृदुमिर्वाक्यैर्दुःखदग्धेन चेबसा // 17 // कस्मादहमिह प्राप्ता किं मे पितृगृहेण वा ? / कार्य किमिन्द्रसेनेन किं पुत्र्या किं सुखेन वा ? // 18 // वरं न रहितारण्ये वरं हिंझैन भक्षिता / वरं न विहितो मृत्युस्तषसानशनेन वा // 19 // राज्यभ्रष्टस्य मूढस्य छलितस्य वियोगिनः / कुलीनस्य महाबाहोर्बलिनो बहुमानिनः // 20 // दूरदेशान्तरस्थस्य गुप्तरूपस्य कारणात् / ज्ञात्वापि निजया बुद्ध्या भर्तुश्चिन्तां करोमि न // 21 // युग्मम् / / अहमद्यापि जीवामि जल्पामि निरपत्रपा / धिग् धिग् मामसती पापां निःसच्चा भर्तृवैरिणीम् // 22 // अस्ति नूनं विनीतायां कुब्जरूपेण मे प्रियः। ददानो मयि संदेशान् लज्जाविनयनिर्भरान् // 23 // यदि मे कश्चिदत्र स्यात् पिता माता परोऽपि वा / तत् किमित्थमिदं कार्य मदीयं खिलतां व्रजेत् // 24 // आकाशात् पतिता साहं धरित्या स्वीकृताऽथवा / निलपामि बने शून्ये को मे दुःखेन गृह्यताम् // 25 // कुब्जः परगृहे दास्यं करोति स कथं नलः 1 / इत्यमी पूर्वपक्षा मे बन्धूनां कुधियामिव // 26 // अस्मिन् महति संसारे नानाश्चर्यसमाकुले / प्राणिनामत्यसंभाव्यमपि संभाव्यते न किम् ? // 27 // ययातिर्जरठो जने नहुषः सर्पतां ययौ / कुष्ठी सनत्कुमारोऽभूत् स्त्रीर्बभूव नरायणः // 28 // गर्दभास्योऽभवद् ब्रह्मा षण्ढश्वासीद् महेश्वरः / इन्द्रः सहस्रनेत्रोऽभूदेकाक्षोऽजनि भार्गवः // 29 // AISHIFII-III- IIFile
Page #334
--------------------------------------------------------------------------
________________ स्कन्धे सर्गः 7 // 157 // WISTELIGII-IIIIIIII IISSILE विश्वामित्रवशिष्ठौ च बकाडी समजायताम् / कोऽयं नलस्य कुब्जत्वे मतिमोहो महात्मनाम् // 30 // कुब्जरूपस्य तारलोचनया चैतत् कथं ज्ञानमभूत् क्वचित् / राज्यभ्रष्टः पतिर्यद् मे म्लेच्छदास्यं करिष्यति // 31 // नलस्य . पूर्व दुर्वाससः शापात् निःस्वीकोऽभूद् न वासवः / नासन् कति तथा दुःस्थाः पार्थिवाः सुरथादयः // 32 // | संदेशान् कस्येयं किल कल्लोलसहसंवासवर्द्धिता / श्रान्तापि तनया वाधैर्दधाति निलये पदम् // 33 // ज्ञात्वा अद्यापि स तु मे भर्ता राज्ञो मित्रतया स्थितः / दाता भोक्ता शुचिः श्रीमान् धर्मात्मा वत्सलो बली // 34 // विलपन्ती तेन कारणगर्भो न विविधव्यङ्गयभङ्गिभिः / प्रकाशीकृत एवात्मा न परं लोकवर्मना // 35 // ला दमयन्ती॥ . मम जन्मनि तद् वाक्यं सा च स्तम्भेऽक्षरावली / ते ते च शकुनाः स्वमास्तास्ताश्च ज्ञानिनां गिरः // 36 // प्रतीतिमिव कुवन्त्यों नित्यं पार्थस्थिता इव / कथयन्त्येव मे भर्तुर्भरतार्द्धस्य संपदम् // 37 // युग्मम् / / | पत्रमुख्यफलोपेतमुत्तुङ्गं कलकोकिलम् / अद्य स्वमे समारूढा सहकारमहं किल // 38 // तत् संप्रति विनीतायां जानन्त्यपि निजप्रियम् / किं करोमिक गच्छामि कस्य वा कथयाम्यहम् // 39 // इति तां रुदतीं पुत्रीं बाष्पाविलविलोचनाम् / आश्वासयितुमारेमे जननी घननीतिवत् // 40 // वत्से ! बिभृहि गाम्भीर्य दैन्यं त्यज धृति भज / त्वामित्थं वीक्ष्य वक्षो मे दलतीव हि भामिनि ! // 41 // श्रुत्वापि कुन्जवृत्तान्तं यच्वं तातेन वारिता / तदत्र कारणं वत्से ! विदत्यपि न वेत्सि किम् ? // 42 // // 157 // IIIIIII ASHISHI
Page #335
--------------------------------------------------------------------------
________________ IIISHING BIGII II ARIA III - II III A FIle ईदृक् सांशयिक कार्य बाह्योऽप्यारभते कथम् ? / किं पुनर्जगतीमुख्या महात्मानो महाभुजाः // 43 // ममाप्यनुमतं चैतद् वक्तुं कर्तुं च सर्वथा / तथापि तव वात्सल्याद् मत्रोऽयं क्रियते मया // 44 // सूर्यपाकादभिज्ञानात् कुब्जः किल नलः स चेत् / तत्र तत् प्रेक्षतां दूतो नृपतेः शासनादिव // 45 // म वक्ष्यति मृषावादी कृतकामन्त्रणोद्यतः / ऋतुपर्ण सभासीनं राजानमिति यत् किल // 46 // विमुक्तनलशोकाया दमयन्त्याः पितुगिरा / प्रातः स्वयम्वरः सम्यग् भूयोऽपि हि भविष्यति // 47 // इति श्रुत्वा स कुब्जोऽपि धाविष्यति नलो यदि / निपतन्ति प्रियाा हि व्योम्नः पारापता अपि // 48 // एकेन्द्रियोऽपि यां यान्तीमनुधावति पारदः / तामन्वेष्टुं समीहन्ते पक्षौ कर्तुं हि मानवाः // 49 // ततोऽश्वहृदयज्ञत्वाद् दूरदेशान्तरादिह / यद् यायास्यति वेगेन तद् नूनं नल एव सः // 50 // तदनु तमिति मातुर्मन्त्रमाकर्ण्य सम्यक् गलितहृदयदुःखा तत्क्षणं राजपुत्री / अतिकितवादारं चारुषं विशेषात् कुरुबकमिति नाम्ना प्रेषयामास दूतम् साकेताधिपतेनिमन्त्रणमिषादामन्त्रितो नैषधः स्वार्थेनात्र स नैषधेन नृपतिनं समानेष्यते / नामाप्यत्र न च स्वयम्बरविधिर्मिथ्याभियोगावुभौ प्राप्तस्त्वत्र कथं भविष्यति हहा! मार्गश्चरोनिष्फलः // 52 // भव्यं भवं जगति मानवमङ्गलब्धा मा कश्चिदस्तु विरही यदहं तथापि / एवंविधानि कपटानि करोमि मोहादित्यात्मनैव सुचिरं हृदि सा ललन्ज // 53 / / . OFILAIII NIFII AIIII
Page #336
--------------------------------------------------------------------------
________________ सप्तमे स्कन्चे सर्गः१ // 54 // एतत् किमप्यनवमं नवमङ्गलावं यद् निर्ममे कितवचक्रशिरोऽवतंसः। तस्यार्यकर्णनलिनस्य नलायनस्य स्कन्धो जगाम गुहमस्तकसङ्घय एषः इति श्रीमाणिक्यदेवसूरिकृते नलायने षष्ठे स्कन्धे सप्तमः सर्गः // 7 // समाप्तोऽयं षष्ठः स्कन्धः / प्राप्त्यर्थ भीम // 158 // सप्तमे स्कन्धे प्रथमः सर्गः / BIFilola IIIIIIII RISHII-IIFle III AIII NIA HIII IIIIIle भूपतिना आराधितः स्वयम्वरविधिः॥ ततः प्रहित्य तं दूतं वैदर्भी कूटगर्भितम् / आत्मानं मनसा मेने मनाग दुर्ललितामिव सोऽपि संप्राप्य साकेतं कितवः कृत्यविद्वरः / नत्वा धर्मासनासीनं ऋतुपर्ण व्यजिज्ञपत् स्वामिन् ! भीमनृपः पुत्र्या दमयन्त्याः स्वयम्बरे / आमन्त्रयति हृष्टस्त्वां शीघ्रमागम्यतामिति किन्तु गन्तुमितो राजन् ! अद्यैव प्रगुणो भव / प्रातरेव शचीपूजा यतस्तत्र भविष्यति प्रहितस्य ममाभूवन बहवो देव ! वासराः। वर्त्मनि ज्वरवैकल्याद् विलम्बोऽयमभूत् पुनः अद्यापि हि समागत्य राजकार्य मया कृतम् / कालक्षेपापराधं मे वैधुर्यात् क्षन्तुमर्हसि .मा स्म भूद् विस्मयोऽयं यद् भैमी भूयः पतिम्बरा / या परित्यज्य दिक्पालान् नलं वृतवती किल . // 7 // // 158 //
Page #337
--------------------------------------------------------------------------
________________ // 8 // . II II AFTIIATI VISle // 10 // // 11 // // 12 // // 13 // // 14 // 'नले मृते पितुर्वाचा कल्याणी नवयौवना / कथं मा स्म करोद् देवी भरिमितरं किल . यदि पूर्वपतिर्दैवाद् भाग्यहीनो विपद्यते / तत् कथं राजकन्यानां विफलं यातु यौवनम् इति तद्वागूविषावेगबद्धरोमाञ्चकञ्चुका / बभूव विस्मयौत्सुक्यक्षोभमूढेव सा सभा अहो ! कालस्य माहात्म्यं हन्त भोः किं न दृश्यते / कष्टं न कश्चिदप्युच्चैधिग् धिग् दुर्बोधतां विथेः इति जल्पत्सु लोकेषु विस्मयस्थगिते नृपे / मुकेषु बन्दिवृन्देषु गायनेष्वपि मौनिषु लीनासु वारनारीषु द्वास्येषु निभृतेषु च / स्थितेषु कार्यवादेषु दूते वदति निस्तुषम् तदपूर्वमसंभाव्यमत्यासन्नमरुन्तुदम् / श्रृण्वन् निरुद्धनिःश्वासनिष्पन्दोऽजनि नैषधः विससर्ज सभां राजा यियासा तरलाशयः / कारयन् तस्य दूतस्य सदृशं पारितोषिकम् कुब्जेनापि स्वयं गत्वा स पृष्टः क्लिष्टचेतसा / उवाच कितवो वाक्यं धुन्वन् कुरुबकः शिरः भूत एव स वैदा निःसन्देहं स्वयम्वरः / इयता तत्र संप्राप्ताः कोटयः पृथिवीभुजाम् यो न याति स निर्भाग्यो यो गच्छति स भाग्यवान् / कथं मुखमपि द्रष्टुं वैदा लभ्यते क्वचित् पाशं मनोभवस्येव सत्यङ्कारमिवात्मनः / न विद्मः कस्य कण्ठे सा वरमालां निधास्यति इति जल्पितवाग्वात्या स मूलोन्मूलितोऽपि सन् / चकम्पे वृक्षवत् कुब्जः स्थैर्याद् यदि पपात न तस्य चिन्तयतः सम्यग् दमयन्त्या विपर्ययम् / क्रोधशोकस्मरोन्मादकिर्मीरितमभूद् मनः II SAIFII IIIsle // 17 // // 18 // // 19 // // 20 // // 21 // IIIALI4
Page #338
--------------------------------------------------------------------------
________________ @ ile सप्तमे. II S सर्गः 1 // 15 // दूतमुखात् भीमजाया: |स्वयम्वरं ज्ञात्वा चलितः कुब्जः // | || GISSILE ISII II II-III II अद्याप्युदेति धर्मांशुरद्याप्युदयते शशी / अद्यापि वाति वातोऽपि ज्वलत्यद्यापि पावकः // 22 // अद्यापि वारिदो वर्षत्यद्याप्युप्तं प्ररोहति / अद्यापि जलधिः स्थाने स्थिराद्यापि वसुन्धरा // 23 // युग्मम् // तत् कथं नाम विश्वेऽस्मिन् यथास्थानस्थितोऽपि हि / श्रूयते भीमजाताया देव्याश्चित्तविपर्ययः / // 24 // सुरासुरसमक्षं मां वृत्वा पूर्व स्वयम्बरे / इदं संप्रति कुर्वन्त्या भैम्या वज्रमयं वपुः कार्ट हृदय ! हा कष्टं यन्मन्मथदवानलः / ददाह सलिलं शीतं गङ्गाया भीमजन्मनः अहो ! मृत इति व्यक्तं मां विज्ञाय दुरात्मना / भीमेन श्रेयसे चक्रे सत्राकारः स्वयम्बरः // 27 // नूनं मयि स्थिते तेन काकानामिव भूभुजाम् / विषलिप्तमिदं भक्ष्यं दमयन्तीति कल्पितम् // 28 // श्मश्रुकेसरभाराद्यैरश्रुधाराभिघातिभिः / संप्रत्येव करोम्यद्य मुखाब्जैः पूजनं भुवः // 29 // नृसिंहस्य सटाभारं तक्षकस्य फणामणिम् / प्रियां च मे सत्ववतो जीवतः को जिघृक्षति ? // 30 // इति ध्यायन स भूयोऽपि जगाम नृपमन्दिरम् / अत्यन्तकार्यतप्तानां कुतः शुद्धिं विना रतिः // 31 // तमुवाच स्वयं राजा वयस्य ! स्वागतं तव / तद् योजय कथश्चिद् मे भग्नमेकं मनोरथम् // 32 // बेहि प्रातः पुरे तस्मिन् दमयन्त्याः स्वयम्बरे / एकेनापि रथेनाशु कथं कथय गम्यते अनुगच्छतु सैन्यं नस्तावत्कालान्तरेऽपि हि / स्वयम्वरक्षणे तस्मिन् तत्र गन्तुं मम स्पृहा // 34 // इह तावत् कथं क्वापि नलो नाविर्भविष्यति / इति मे कौतुकावेशः स्थातुमत्र ददाति न // 35 / / III II म् ||159 // )
Page #339
--------------------------------------------------------------------------
________________ II ANTISTING II कुब्जोऽप्युवाच राजेन्द्र ! यदात्थ न तदन्यथा / दमयन्तीकृते मूर्खा मृषा ताम्यन्ति भूभुजः एकाकी कृपणः क्लीबः कुणिः कुब्जोऽथवापि सन् / न दास्यति नलो जीवन् ग्रहीतुं निजवल्लभाम् यस्तदर्थे मृतोऽप्येति भस्मीभूतोऽपि जीवति / परहस्तगतां पत्नी नलः किं स तितिक्षते ततो यदि तवोत्कण्ठा द्रष्टुमेतत् प्रघट्टकम् / तत् त्वरस्व महीपाल ! कालक्षेपो विमुच्यताम् ममाश्वहृदयज्ञस्य तिष्ठतो नलसारथेः। योग्ययुग्ययुयुप्राप्त्या किश्चिद् दूरं न भूतले अनभ्युदितवत्यर्के वाद्यमानासु भेरिषु / ममारोप्यरथेन त्वां नेतुं शक्तिः स्वयम्बरे इति श्रुत्वा स्वयं राजा कुब्जं कुर्वन् स्वयं करे / मन्दुरासु दुरासाद्यान् दर्शयामास वाजिनः नानाक्षेत्राः पृथग्वर्णाः सुरक्षितसुशिक्षिताः / न ते रुरुचिरे तस्मै तुरङ्गास्तरुणा अपि किमर्कशलभप्रायैर्यवकक्षदवाग्निभिः / अमीभिर्नाथहारिभिर्हरिभिः पशुभिर्भवेत् इति नुवन स सर्वत्र पश्यन् सर्वान् विशारदः / स्वीचके नैकमप्यश्वं हयानामपि कोटिषु ततो हेपास्वैः शूचां कुर्वन्तौ दूरतोऽपि हि / प्रतिपदे नलः कौचित् सामान्यावेव वाजिनौ आश्चर्यपरिपूर्णस्य ऋतुपर्णस्य पश्यतः / युयोज स रथं ताभ्यां पाणौ प्रवयणं दधत् उभे चामरधारिण्यौ छत्रभृत् स्थगिकाधरः / राजा कुब्ज इति स्वैरं निषेदुस्तत्र पट् रथे भग्ने भानौ जलनिधिजले सान्द्रसन्ध्याङ्गरागं दिनारीषु स्फुटतमतमो लोचकप्रावृतासु / // 36 // // 37 // . // 38 // // 39 // // 40 // // 41 // // 42 // // 43 // // 44 // II AISHI DIHI IIATillaIFII ATHII // 46 // // 47 // // 48 // DISHILA SII 4
Page #340
--------------------------------------------------------------------------
________________ // 49 // स्कन्ध सर्गः२ // 50 // पश्यत्युच्चैनलविलसितं व्योम्नि नक्षत्रनेत्रैर्मन्दं मन्दं पूरपरिसरं प्राप सस्यन्दनोऽपि निःशङ्करकषु निरकुशकौशिकेषु निःकूजपक्षिषु निरन्तरपादपेषु / निस्तन्द्रचन्द्रकियनेषु वनेषु तेषां मिष्टा रथोदरजुषामजनिष्ट गोष्ठी अद्याप्यस्ति प्रथमरजनीयातमेकं मुहूर्त वर्त्तन्तेऽमी शिरसि बहलाः सान्द्रचन्द्रातपा भूः। शीतो वायुः सुरभिरभितो धेनवः पिङ्गलानां यातुः श्रेष्ठं तदिति जगदुस्ते मिथः स्यन्दनस्थाः इति श्रीमाणिक्यदेवसूरिकृते नलायने सप्तमे स्कन्धे प्रथमः सर्गः // 1 // तमुखात् मीमजाया स्वयम्वरं ज्ञात्वा चलितः // 16 // // 51 // कुब्जः // III-SHII-IIIIIIIIIG सप्तमे स्कन्धे द्वितीयः सर्गः। बाI II II III FISIK // 2 // अथोवाच नृपः कुब्ज नोदयाश्वान् द्रुतं द्रुतम् / न गम्यं लीलया सार्द्ध योजनानां शतद्वयम् कुब्जोऽप्युवाच मा राजन् ! विषीद मयि यन्तरि / मम प्रेरयतो वाहानसौ करतलं मही कियत् तत् कुण्डिनं नाम यत्र यामेन गम्यते / अनास्थ्यमूल एवायं प्रमादः प्रेरणे मम तदाश्व ! प्रगुणीभूय पूरयामि रतिं तव / इति स पाजनोत्क्षेपं मुक्तरश्मिरनोदयत् •तलो न गिरयो गर्ता न कम्पो न च वालुका / न नद्यो न नदोद्देशा न तृणानि न वीरुधः . // 4 // // 5 // // 160||
Page #341
--------------------------------------------------------------------------
________________ ISING IIIIIIIIIIIIIIIIIslile 'न स्थलं न जलं किञ्चिद् न किञ्चिद् विषमं समम् / वातस्थ इव पर्जन्यः स ययौ सर्वथा रथः॥ 6 // युग्मम् // भ्रमतीह महीचक्रमायान्तीव पुरो दिशः। व्योम विस्तरतीव द्राक संक्षिप्यन्त इवाद्रयः // 7 // न पोतः स्थलसञ्चारी न बाणा यान्ति दूरतः / न निर्दिष्टगतिर्वायुर्न सुप्तितरलं मनः . // 8 // अपूर्वः कश्चिदेतस्य स्यन्दनस्य पुनर्जवः / दृष्टः श्रुतोऽथवास्माभिनियन्ता कश्चिदीदृशः इति चिन्तयतो राज्ञस्तीव्रवेगापकर्षितम् / पपात सहसा मूर्ध्नश्चिन्तया सह वेष्टनम् // 10 // तदर्थ राज्ञि रुन्धाने स्मित्वा कुब्जोऽप्यभाषत / योजनैः पञ्चविंशत्या पश्चात् तन्मूर्द्धवेष्टनम् // 11 // वाञ्छिता यदि वाहाः स्युस्ततोऽपि द्विगुणं भवेत् / तद् विमुश्च तदा क्षेपं विदर्भाः पुरतोऽधुना // 12 // तदुपश्रुत्य राजापि सस्मितं विस्मितोऽवदत् / तवापि वलतः किश्चिद् दर्शयिष्यामि कौतुकम् // 13 // अहं सर्वपदार्थानां सङ्ख्यां जानामि लीलया / अधुना तत्परीक्षायां कालक्षेपो भवेत् पुनः . // 14 // तस्य तद् वचनं श्रुत्वा विद्यार्थी तत् क्षणं नलः / कालक्षेपभयं मुक्त्वा सत्वरोऽभूत् परीक्षितुम् // 15 // ततस्तत्प्रेरितो राजाप्यक्षवृक्षस्य कस्यचित् / एकपष्टिसहस्राणि फलसङ्ख्यां समादिशत् रथादुत्तीर्य कुब्जोऽपि पादघातेन पादपम् / ताडयन् पातयामास फलानि सकलान्यपि // 17 // तदा तदेहमध्याच्च कश्चिद् घोराकृतिर्नरः / प्रादुरास दुरालोक्यो दुर्गन्धो दुर्भगः कृशः // 18 // स पूर्व दीर्घकायोऽपि इस्वहस्वतरीभवन् / स्थित्वा रत्निप्रमाणाङ्कः प्राञ्जलिस्तत्पुरोऽभवत् // 19 // IFILATEII II 4 जा
Page #342
--------------------------------------------------------------------------
________________ सप्तमे. स्कन्धे // 20 // // 21 // // 22 // // 23 // सर्गः२ कुजरूपात् . नलदेहाद निर्गतः कालः॥ अहो कस्त्वमिति क्रोधात् स पृष्टो वैरसेनिना / कथञ्चिद् विनमद् मूर्द्धा प्रत्युवाचस गद्गदम् देव ! दीनोऽस्मि मा कोपं कृपापर ! कुरुष्व तत् / पुण्यश्लोक ! सशोकं मां सौम्यदृष्ट्या विलोकय येन तेऽपहृतं राज्यं येन छूते मतिः कृता / यः प्रियात्यागहेतुस्ते येनेत्थं त्वं विडम्बितः स दुरात्मा दुराचारः करालः कलिरस्म्यहम् / समक्षं सर्वदेवानां प्राप्तोऽभूवं भवद्वधे त्वदीयं देहमास्थाय तस्थुपापि चिरं मया / दूरेऽस्तु प्राणनाशस्ते न धैर्यमपि नाशितम् सत्यमेव सतां धैर्य दुर्जनैर्न विहन्यते / ज्वलन्नप्यनिशं कुर्यात् किमब्धौ वडवानलः राज्यभ्रंशमपि प्राप्य व्यामूढेनापि हि त्वया / न क्वचिद् भापितं दैन्यं न लुप्तश्च विधिः क्वचित् तितिक्षात्यागशीलेन सत्यसन्तोषवृत्तिना / परद्रव्यनिरीहेण वाहिता दिवसास्त्वया अनाकासमनीर्ष्यालुमहिंसकमनिन्दकम् / समर्थमपि दुःखेषु नाद्राक्षं त्वामिवापरम् यद् दहन्ति न मार्तण्डा न क्षुभ्यन्ति यदब्धयः / यच्च शक्त्या तितिक्षन्ते तेनेदं वर्तते जगत् न शक्तं सर्वथा राजन् ! कत्तुं किञ्चिद् मया त्वयि / केवलं देव ! दग्धोऽस्मि वैदर्भीशापवह्निना . तदित्थं यातनालक्षैः प्रापितः प्राणसंशयम् / एष त्यक्त्वा भवद्गात्रं निर्गतोऽस्मि जिजीविषुः क्षमस्व मे महाराज ! दुर्विनीतस्य दुष्कृतम् / अगोचरचरित्रस्त्वं वीरसेनकुलोद्वह ! नास्ति भग्नप्रतिज्ञस्य दिवि देवेषु मे स्थितिः / तद्विभीतक एवायं शरणं सर्वथा मम // 25 // // 26 // // 27 // // 28 // // 29 // // 30 // // 31 // // 32 // // 33 // DILAIIIIIIIIII NISElle // 16 //
Page #343
--------------------------------------------------------------------------
________________ ISTEIL // 33 // // 35 // . // 36 // // 37 // // 38 // // 39 // // 40 // ISIIIIIIIIIIIIII यः कश्चिदक्षवृक्षस्य छायामस्य श्रयिष्यति / श्रेयस्तस्य हरिष्यामि मुक्त्वा त्वन्नामवादिनः किमन्यद् यत्र कुत्रापि तव नाम भविष्यति / तस्मात् स्थानात् ब्रजिष्यामि शार्दूलः पावकादिव इति ब्रुवाण एव द्राक् स तत्रान्तरधीयत / राजास्ये हृदये गाढं तस्थौ मुदितविस्मितः तत्क्षणादेव चोत्पन्नप्रज्ञापौरुषपाटवः / मुक्तभारमिवात्मीयं मेने लघुतरं वपुः तदा स निजहस्ताभ्यामभ्यासरभसा भृशम् / फलानि गणयन् सद्यः प्राप सङ्ख्यां यथोदिताम् तमक्षहृदयं मत्रं ऋतुपर्णादयाचत / सोऽप्यश्वहृदयं तस्य पणीकृत्य प्रदत्तवान् मिथः साधितमत्रौ तौ सद्यः प्रत्ययविस्मितौ / जवेन प्रापतुः प्रातः कुण्डिनस्यातिसनिधिम् नृपतियुगलमेतत् स्यन्दनस्थं तदुचैरतिविरचितचित्रं वीक्ष्य तं विश्वचक्षुः। निजरथमधिरुह्य स्वेच्छयैव प्रपेदे भिदुरतमतमिश्राद् दुर्दिनं व्योममार्गम् उत्सवव्यतिकरप्रतिकूलं वीक्ष्य तत्परिसरं तु समन्तात् / व्याकुलो भृशमभूदृतुपर्णो वैरसेनिरजनिष्ट च हृष्टः नहि परिसरभूमौ पार्थिवानां निवेशा नगरमपि मृदङ्गध्वानधीरं न तावत् / न किमपि रमणीयं नैव किश्चिद् विरूपं पुरमिदमविकारं वर्त्तते तु प्रकृत्या तदिह सकथमुच्चैरुत्सवो जातपूर्वः कथमथ भविता वा दूरकालान्तरेण / // 41 // // 42 // FIFIIIIIIIIFIFle // 43 //
Page #344
--------------------------------------------------------------------------
________________ I सप्तमे // 44 // कुण्डिनपुरमागतो नलः॥ सर्म:२ // 45 // // 162 // कितवजनवचोभिर्विप्रलब्धा वयं वा बत समजनि कोऽयं हास्यकारी प्रयासः किमिह ननु विधेयं दुःपरिच्छेद्यमेतद् जनमितरमिहाथै लज्जते प्रष्टुकामः। किमपरमिह साक्षादागतैर्भूयते वा भवतु सपदि राजद्वारमेवाश्रयावः इति वदति नरेन्द्र नैषधः कुब्जरूपः स्फुटविघटितकेतुः प्राक्प्रतोली प्रविश्य / सरभसमुपसर्पन् बोधयामास सद्यः तमतिरथमुपेतं कोशलानामधीशम् इति श्री माणिक्यदेवसूरिकृते नलायने सप्तमे स्कन्धे द्वितीयः सर्गः // 2 // - -- -- सप्तमे स्कन्धे तृतीयः सर्गः / // 46 // @ IIIIIIIIIIIIIEISFITS ISSIK I-III FIIIIIIIIIIIII आकण्यकरथेनैव तमतर्कितमागतम् / किमेतदिति वैदर्भः सहसा विस्मितोऽभवत उद्दाममहिमाम्भोधिः स्वभावसरलाशयः / न सम्यक् तमसम्भाव्यं स्त्रीप्रपञ्च विवेद सः // 2 // कथं रिपुभिरुत्क्षिप्तः किं वादिविजयोद्यतः ? / अनामचित एवायं न महानुपतिष्ठति भवतु ज्ञास्यते तावदिति चित्तेऽवधार्य सः। दिदेश तत्प्रवेशाय दमनं सपरोधसम् // 4 // यथावद् विहितातिथ्यं प्रविशन्तं विशांपतिम् / प्रत्युजगाम तं भीमः श्रीमान् मानप्रदः सताम्. // 5 // // 162 //
Page #345
--------------------------------------------------------------------------
________________ ile SIHITSIATIGATHIAHIN प्रणमन्तं तमाश्लिष्य युक्तिसंपादितासनम् / कुशलप्रश्नपूर्वेण विधिना पर्युपाचरत् // 6 // क्षणाद् भीमविसृष्टोऽसौ निर्दिष्टं तन्नियोगिभिः / अध्युवास विशामीशः प्रशस्यामुपकारिकाम् // 7 // तं तत्र कृतविश्रामं सावहित्थमकद्वदम् / समागत्य महामात्यः सप्रणामं व्यजिज्ञपत् // 8 // दिष्ट्या सुचरितार्थाः स्म दिष्ट्या धन्यमिदं दिनम् / सूर्यवंशावतंसस्त्वं नरेन्द्रो यदुपस्थितः // 9 // त्वत्समागमनेनाद्य विदर्भाणामधीश्वरः। न केवलं प्रहृष्टोऽभूद् जातः सुकृतवानपि // 10 // न कस्य कुरुते चित्रं चिह्नमात्रपरिच्छदः / रात्रियात्रानिमित्तोऽयं तव प्रातः समागमः // 11 // न चास्ति दैवदुर्योगदौर्मनस्य कथापि हि / तद् वदत्येव ते लक्ष्मीलताकाननमाननम् // 12 // तत् किश्चिदपरं कार्य येनासि स्वयमागतः / दूतसाध्येषु कृत्येषु न राज्ञां स्वयमुद्यमः // 13 // तत् समादिश निःशङ्क सूर्यवंश्याय भूभुजे / अभीष्टातिथये तुभ्यं किमातिथ्यं विधीयताम् // 14 // ततः कुब्जमुखं पश्यन् स नृपः प्रत्युवाच तम् / अहो सर्व प्रकृत्यापि परायत्तं महात्मनाम् // 15 // अमात्य ! कुरु सन्तोषं न किश्चिद् न्यूनमस्ति मे / महाराजस्य चैवायं प्रसादो मम मूर्द्धनि आधिव्याधिविमुक्तोऽहमुत्कण्ठातरलाशयः / प्रणन्तुमेव संप्राप्तः केवलं कुण्डिनेश्वरम् // 17 // इयं विजयतां दिष्ट्या द्वयोर्वां पृथिवीभुजोः / अविसंवादिनी प्रीतिर्धनदेश्वरयोरिख // 18 // नूनमादक्षिणाम्भोघेराहिमाद्रिमियं मही / एकशृङ्खलितेवास्तु गतायातैः परस्परम् . // 19 // DIEFINISH - HIFISHINIHIRISHIFSle
Page #346
--------------------------------------------------------------------------
________________ सप्तम. स्कन्के सर्गः३ कुब्जरूपधारिणे नले विभ्रमः // MIII-III-IIIIIsle इत्युक्त्वा लब्धताम्बूलः प्रणम्य स विनिर्ययौ / प्रपेदे तेन विततां प्रीति भीमरथोऽपि हि // 20 // तं तथागतमाकर्ण्य सकुब्जं नृपमागतम् / दमयन्ती दधौ चित्ते जनन्या सह विस्मयम् // 21 // जामातैव ध्रुवं चाम्ब ! निविलम्बमयं तव / दृतोक्तदिवसाचं रात्रिरेवान्तरे गता // 22 // न कश्चिद् वेत्ति तं मुक्त्वा खेचरस्वामिनं विना / तुरङ्गहृदयं मन्त्र ऋतुपर्णः परोऽपि वा // 23 // वत्से ! वदामि तत् सत्यं प्राप्नो मे दुहितुः पतिः / नथापि कुब्जरूपस्य निर्णगोरग विधीयताम् / / 2 / / तमद्य हस्तसंप्राप्तमृतुपर्णस्य सेवकम् / प्रविश्य विविधोपायैर्वितर्कयतु केशिनी * इति ताभ्यां समादिष्टा केशिनी मर्मवेदिनी / ययौ कारणदामी मा तत्र विद्याधराङ्गना * स्फुरन्पक्ष्मपुटद्वन्द्वं तच्चक्षुर्दक्षिणेतरम् / लोलत्वेऽपि नलप्राप्तौ चकार स्थिरनिश्चयम् // 27 // महिनामिन्द्रसेनेन कराङ्गुलिविलम्बिना / तां ददर्श समायान्ती साभिप्रायतया नलः 1 // 28 // नूनं सुदैवतः श्रुत्वा मूदं मां सूपपाकिनम् / छद्मस्वयम्वरोदन्तो दमयन्त्या प्रपश्चिन: // 29 // छलितो राजपुत्र्याहं ऋतुपर्णश्च पार्थिवः / ममाश्वहृदयज्ञत्वं प्रियया प्रकटीकृतम् . ऋतुपणों वृथोत्कण्ठो वृथारोषः स्थितोऽस्म्यहम् / तस्या हास्यावुभौ जातौ शाखाभ्रष्टौ कपी इव / / 31 // इयं च प्रहिता देव्या नूनमायाति केशिनी / इन्द्रसेनं च दृष्ट्वा मे जाते बाष्पाकुले दृशौ // 32 // धिग् वज्रहृदयं घोरं दुर्भेयं मां नगधमम् / पुत्रदर्शनयोगेऽपि यम्य न स्निग्धता हृदि // 33 // 9IIIII-IIIEIFIERIFIFIE IS
Page #347
--------------------------------------------------------------------------
________________ SISIIIII-III II ISIG इति चिन्तयतस्तस्य समुपागत्य केशिनी / ऋतुपर्णग्रणाम द्राक् इन्द्रसेनमकारयत्। // 34 // कस्यायमिति ? तेनोक्ता केशिनी वाक्यमब्रवीत् / राजन् ! पितास्य भूपालः शत्रुकालानलो नलः // 35 // ऋतुपर्णस्ततः प्रेम्णा बालमालिङ्गथ निर्भरम् / उत्तार्य निजगात्रेम्यो भूषणैस्तमभूषयत् // 36 // अयं हि स्वामिनः मूनुरिति कुब्जोऽपि हि ब्रुवन् / आश्लिष्य वक्षसा बालं दृढं मूर्ध्नि चुचुम्ब च // 37 / / ततः शस्यानि शाकानि दुग्धानि च दधीनि च / ते तेषामेव मुख्याश्च वेसवाराः पृथग्विधाः // 38 // रसवत्या व्यतिकरा ऋतुपर्णस्य भृभुजः / भीमपौरोगवैस्तत्र प्रगुणीचक्रिरे तदा // 39 // कः कोऽत्र सूपकारोऽस्तीत्युक्तैस्तैः स्वयमेव सः / दर्शयन् मूदतां कुब्जः पाकाय प्रगुणोऽभवत् // 40 // केशिन्या सज्ञया शीघ्र बारिते निखिले जने / जलाग्निसमिधस्तस्मै न तु कश्चिदढौकयत् // 41 // त्वं हि देव्या सुदेवोक्त्या नलः कुब्ज इति श्रुतः / विदिता तब साप्यत्र सूयंपाकप्रवीणता // 42 // कशं न कुरुणे कुब्ज़ ! नशा ग्यवतीमिह ?! न त्वदर्शनोत्कण्ठा विरादस्माकमप्यभूत कोशलाधिपते : प्राप्तप्रसङ्गादिह संप्रति | कथयिष्याम्यहं देव्यास्त्वामप्यत्र समागतम् // 44 // इति स्वजनसंबन्धबुद्धिपूर्व विदग्धया / केशिन्याभिहितः कुब्जः प्रारेभे दिव्यमदताम् // 45 // स वारुणवरानीतैर्वारिभिर्विहितद्रवः / धर्मांशुरश्मिसङ्क्रान्तकृशानुः पाकमादधे // 46 // इदं त्वपितुरन्यस्य न कम्याप्यभवन पुरा / इन्द्रसेन ! नतः किश्चिद् भुक्ष्वेत्यूचेऽथ केशिनी // 47 // HIAHINISTIATISTIATISile
Page #348
--------------------------------------------------------------------------
________________ सप्तम नल परीक्षा // सर्गः३ // 164 // AHATIAHITI AHIकताबाद इस्युक्त पत्रपात्र्यां तत् कुब्जेन परिवेषितम् / अन्नं तत् किश्चिदादाय देव्याः पार्श्व जगाम सा // 48 // पुत्रवात्सल्यमुख्यं तत् कुब्जवृत्तं निवेद्य सा / तदन्नं पुरतो देव्याः सविस्मयमदर्शयत् // 49 // ततोऽनुभूतपूर्व तत् भोज्यमास्वाद्य सावदत् / अनेन कर्मणा नूनं सर्वथा नल एव सः // 50 // द्वितीयो यदि मेरुः स्यात् तृतीयः पक्ष एव वा / हव्यवाहश्चतुर्थो वा वेदो वा यदि पञ्चमः // 51 // षष्ठत्रिदशवृक्षो वा ऋतुर्वा यदि सप्तमः / स्वरः स्यादष्टमो यद् वा नवमो वा कुलाचलः // 52 // रसो वा दशमोऽप्यत्रैकादशो वा दिगीश्वरः / द्वादशो यदि वा रुद्रः सूर्यो वापि त्रयोदशः / // 53 // चतुर्दशो यक्षराजः पूर्वाणि दशपश्च च / निधिः षोडशसंख्यां का परमा धार्मिकाथवा // 54 // कला सप्तदशा वा स्यात् सुवर्णकाधिकं च चेत् / अष्टादशविधं मक्षजा वा एकोनविंशति // 55 // नलवर्ज परः पृथ्व्यां तद् भवेत् सूर्यपाकवित् / वैरसेनिरयं नूनं किमुक्तैर्बहुभिर्मम // 56 // चतुर्भिः कलापकं / तमित्युक्तवतीं पुत्री माता सोत्साहमत्रवीत् / वत्से ! नलोऽयमित्युच्चैः कुब्जे चेत् तव निश्चयः // 57 // तदयं त्वत्समीपेऽपि तावदानेष्यतेऽधुना / पश्चाद् यथा तथा वा त्वं तद् व्यक्तिं कर्तुमर्हसि // 58 // युग्मम् // इति पटुतरमुक्त्वा भोजनानन्तरं सा विपुलमतिरनुज्ञां भीमराज्ञो गृहीत्वा / नरपतिमुपनेतु कुब्जरूपं नलं तं विनयनयसुशीलान सौविदल्लान् दिदेश // 59 // भर्तुर्नलस्य ननु कुब्जमिमं प्रपत्रं वात्सल्यतः किल दिक्षति राजपुत्री.] IIIतIतातIIISEle // 16 //
Page #349
--------------------------------------------------------------------------
________________ All AIIATIGATHI ATHI NIHITENA तत्प्रेष्यतामिति च कोशलभर्तुरग्रे विज्ञप्य तं सपदि कञ्चुकिनोऽपि निन्युः // 6 // अपरमपरमस्वरूपधारी वपुरिव चारु निजं नियन्त्रितारिः / अविशदविशदारविन्दनेत्रः प्रमदयिता दयितागृहं स वीरः . // 61 // इति श्रीमाणिक्यदेवसूरिकृते नलायने सप्तमे स्कन्धे तृतीय सर्गः // 3 // . सप्तमे स्कन्धे चतुर्थः सर्गः / रत्नसिंहासनासीनां चलच्चामखी जिताम् / ददर्श सहसा देवी दमयन्तीं प्रियां नलः तां समाकलयन् देवी नलः प्रबलसंभ्रमः / न सेहे सहसा रोद्धं प्रेम पारिप्लवङ्गमम् ददर्श कुब्जमपि तं महाभक्त्या दमस्वसा / स्वयमासनदानादि प्रतिपत्ति वितन्वती आस्तामलमलं देवि ! संभ्रमेण महीयसा / आस्यतामुपविष्टोऽस्मि कच्चिद् गात्रमनामयम् ? दिष्ट्याद्य सुप्रभातं मे यद् दृष्टासि विदर्भजे!। त्वं हि प्राणप्रिया देवि ! नलस्य स्वामिनो मम तस्यापि यदि सा राज्ञः संप्राप्ता तादृशी दशा / कः परेषां वराकाणां तद् दैवं प्रति विक्रमः स्वयि वैदर्भि ! जीवन्त्यां साक्षाद् राजा स जीवति / त्वदीयो महिमा नूनं मनुष्याणामगोचरः श्रुतमेव मया वृत्तं त्वदीयं च सविस्तरम् / यथा त्वमसि निस्तीर्णा दुस्तरं कष्टसागरम् BIHSIA III A IIFI AII ASEANI SENS = = = =F .
Page #350
--------------------------------------------------------------------------
________________ सप्तमे म्कन्धे. सर्गः४ // 165 // दमयन्त्योविवादः॥ II III TIGATIA FII IIMa जजल्प मा चिराद् वाचं माचीकृतविलोचना / मनोहरपदन्यासस्पष्ट प्रणय पूर्वकम् अद्यापि मम भाग्यानि मन्ये सन्ति कियन्न्यपि / यदेतावदपि प्रेम त्वदीयं मयि वत्तते इत्थं गुप्तशरीरोऽपि दूरस्थोऽपि नरेश्वरः / परिज्ञातो मयासि त्वं समाकृष्टश्च वर्तसे // 11 // न संप्रत्यपि सुप्तास्मि न चात्रापि हि तद् वनम् / कुरुष्व गमनोपायं कथं यास्यसि नैषध ! // 12 // अकुलीनां विरूपांना निमियां नाणि नेतसि ! स्वामिन् ! दासीनमात्रेण मामङ्गीकर्तुमर्हसि कुरुष्व नाथ ! कारुण्यं त्यज काठिन्यमीदृशम् / स्फुटीकुरु निजं रूपं मुश्च कुब्जत्वमान्मनः // 14 // क ते मन्मथजिद्रपं! क च कुब्जत्वमीदृशम् ? / क चान्यगृहभृत्यत्वं ? क्क सम्राट शतसेव्यता ? त्वयि प्रकटरूपेऽद्य सनाथो भूभृतां वरः / स्वयमेवेन्द्रसेनोऽपि कर्ता दिग्विजयश्रमम् इयं चरणयोदेव ! प्रणतास्मि त्वदीययोः / प्रसीद पालय स्वामिन ! विषीदन्तमिमं जनम् इति निर्भत्सना पूर्व प्रेमकारुण्यनिर्भरम् / नां समाकर्ण्य जल्पन्ती कुब्जः पुनरभाषत देवि ! कोऽयं महामोहः कोऽहमित्यवधारय / मयि कुब्जे निजे भृत्ये युक्तमुक्तं न हि त्वया . // 19 / / क्क सूर्यः क्व च खद्योतः? क्क मेरुः क्व च मर्षपः?। क शृगालः कशाला ? व पयोधिः क गोष्पदम् // 20 // क कल्पद्रुः क्व किंपाकः ? व लोष्ठः क्व च काञ्चनम् ? / क्व गरुत्मान क्व मशकः ? क्व दुकूलं क्व कम्बलः // 21 // कृ मे दृष्टिविषं रूपं क्व च मूर्तः म्मरो नलः ? / मम तस्य च गजर्षदर्भि ! महदन्तरम् // 22 // त्रिभिर्विशेषकम् IASHITI III II | // 165 //
Page #351
--------------------------------------------------------------------------
________________ TIII MSSIBIIIIIIII-III-FIle राज्यभ्रंशेऽपि मोहेऽपि न स्यात् किं क्वचिंदीदृशः। न भग्नपतितो वापि हारो विषधरायते // 23 // तद् मुश्च दुरभिप्रायं प्रसीद भज सौम्यताम् / वैदर्भि! तव भृत्योऽस्मि मा मयि भ्रान्ति मा कृथाः // 24 // इति तस्य वचः श्रुत्वा वैदर्भी दम्भगर्भितम् / प्रत्यभाषत पीयूषकल्लोलकलया गिरा . // 25 // यदि त्वं कुब्जमात्रोऽसि न नलः परमार्थतः / तत् कुतः सूर्यपाकस्ते क्रियतां किश्चिदुत्तरम् // 26 // कृष्णः काणः कुणिः कुष्ठी कुब्जो वा भव नैषध ! / यादृशस्तादृशो वापि मया ज्ञातोऽसि सर्वथा // 27 // एष लब्धोऽसि किं भूम्ना न यासि पुरतो मम / ननु सिंह इवात्र त्वं पतितः खड्गपञ्जरे // 28 // प्रसीद कुरु कारुण्यं किं करोपि कदर्थनाम् ? / पुनः प्रकटमात्मानं तनुष्व निषधेश्वर ! // 29 // इति कलिकलिताभिः प्रेमकर्मीरिताभिविनयविचुलिताभिर्वाग्भिरिन्दीवराक्ष्या: निषधनृपतिरन्तर्भिद्यमानोऽपि भेजे गिरिरिव दृढभावं सिन्धुवेलावयस्यः / / 30 // अविरलकलिकोपक्रीडितबीडितस्य प्रवलितपुनरुत्थप्रीतिनीतिक्रमस्य / मनसि निषधभर्तुर्भाववैचित्र्यरूपं कविभिरपि न सेहे वर्णितुं तत्त्ववृत्त्या // 31 // निर्व्याजमद्भूतमनगलमत्युदारं जानन्नपि प्रणयमात्मनि राजपुत्र्याः / पूर्वापराधपरमत्रपया न सेहे सद्यः स दर्शयितुमात्ममुखं सुमुख्याः // 32 // इति श्रीमाणिक्यदेवमूरिकृते नलायने सप्तमे स्कन्धे चतुर्थः सर्गः॥४॥ ISIRISHI IIFINI
Page #352
--------------------------------------------------------------------------
________________ सप्तमे स्कन्धे सप्तमे स्कन्धे पञ्चमः सर्गः / सर्गः 5 दमय न्योविवादः॥ // 166 // IIIIII-III II-II5195 इति देव्याः वचः श्रुत्वा देवराजद्युतिनलः / प्रत्युवाच पुनर्वाचं वैचित्र्यचतुरान्तरः अयं ते विभ्रमो भैमि ! भूमिवाग्देवते ! वृथा / यदश्वहृदयादिभ्यो मयि कुब्जे नलभ्रमः नन्वहं तस्य राजमहद्विवाराभाजनम् ! मयि न्यासीकृतास्तेन ग्रीतेन सकलाः कलाः दृष्टश्चास्मि त्वया पूर्व ननु स्मरसि संप्रति / कियती प्राकृती लोके प्रभृणां भवति स्मृतिः * // 4 // त्वमत्र सुस्थितां ज्ञात्वा स्वामिभक्तिवशंवदः / अहं देवि ! समायातः तव सेवाविधित्सया ऋतुपर्णमनुज्ञाप्य स्वस्वामिन्या मनस्विनि ! / अहं तव करिष्यामि सेवां सर्वाङ्गसुन्दरि ! इत्थं वदति राजौ देवी दुर्वारविभ्रमा / विलोक्य केशिनीमुख्याः सखीः साश्रुरभाषत यदि च स्वकुटुम्बेन तव नास्ति प्रयोजनम् / कण्ठशोषफलस्तर्हि को विवादस्त्वया सह ? एष सम्यग् गृहीतोऽपि हस्ताग्रात् किं वियुज्यसे? / कुतो वा मन्दभाग्यानां गृहे चिन्तामणिः स्थिरः // 9 // त्वयि वज्रमये राजन्नसत्यं मयि तन्वति / उपायाः सकला जाता मदीयाः सर्वथा वृथा // 10 // इयन्तमवधिं यावजीवितास्मि त्वदाशया / अधुना जीवितव्येन मम नास्ति प्रयोजनम् // 11 // * यदि न त्वं नलो राजा कुब्जोऽसि परमार्थतः / न तद् विद्वन् मदीयेन हत्यापापेन लिप्यसे . // 12 // बाजाI III HIात 66 //
Page #353
--------------------------------------------------------------------------
________________ IIIजIनIAFII बाजाबाद * एषा चतुर्विधाहारप्रत्याख्यानं करोम्यहम् / अपि जीवितसत्तायां पर्याप्तोऽयं भवो ममः इत्युक्त्वा नियम कत्तुं प्रगुणत्वं बभार सा / चक्रन्द सहसा शोकव्याकुलस्तत्सखीजनः तत् पश्यन् विधुराद्वैतं बालस्तत्कालमुन्मुखः / इन्द्रसेनः सह स्वस्रा रुरोद करुणस्वरम् तत्यजुः शिरसः पुष्पं ताम्बूलं मुखपङ्कजात् / विभूषणानि गात्रेभ्यस्तदा तत्परिचारिकाः इति तद् व्याकुलीभूतं दृष्ट्वा राजकुलं द्रुतम् / ऊचे ससाध्वसावेशा केशिनी पेशलोक्तिभिः हा हा धिक् ! देवि ! दुर्दैवं किं ब्रूमः किमु कुर्महे / ईदृग् निर्याणभागस्ते किं तवापि तनूदरि ! धिक शीलं धिक् कुलोत्पत्ति धिग् रूपं धिग यशो महत् / यदित्थमभिसंप्राप्ता भीमपुत्री विपद्यते अन लक्ष्म्या जगच्छ्न्यमद्य भूयः स्मरो मृतः / अद्याशा मन्दभाग्यानां मादृशीनां क्षयं गता कष्टं भोः ! कष्टमुद्दामं त्रिलोकीविदितं च यत् / दमयन्तीमयं तेजस्तदिदं हा प्रलीयते सदाफला सदाच्छाया न कृता यदि वेधसा / किं संसारालवालेऽसौ प्ररूढामृतकन्दली जीवितेशः स्फुरं देव्या दमयन्त्या नलो नृपः। प्रथमं प्रियरूपेण यमरूपेण संप्रति महाभाग ! भवान् प्राप्तः सह कोशलभूभुजा / सूर्यपाकादिकास्तास्ताः कलाश्च सकलास्त्वयि त्वं च नैषध इत्युक्ति बुवाणैरपि लज्यते / तथापि विकलीभूतैः किं किं नहि वितळते यश्च कश्चिदभिव्यक्तस्तत्त्वमेवाधिगच्छसि / तथापि वाक्यमाकर्ण्य मदीयं सदयो भव // 13 // // 14 // // 15 // . // 16 // // 17 // // 18 // // 19 // // 20 // * // 21 // // 22 // // 23 // // 24 // // 25 // // 26 // बताया जाताबाI III
Page #354
--------------------------------------------------------------------------
________________ कुब्ज सप्तमे स्कन्धे. सर्गः 5 दमयन्त्यो विवादः॥ // 167 // III-FI II II II IFIE नल इत्येव यः सम्यक् त्वां प्रसादयितुं मतिः / प्रसीद गर्भदासी ते तद् विलध्या न केशिनी पर्यन्तावसरः सोऽयं न विलम्बः क्षमोऽधुना / इयमद्य भवन्मूला विपत्तिर्भीमजन्मनः पश्चादपि प्रियाशोकं हृदयेन करिष्यसि / तद् भज प्रकटीभावं राजासि स नलो यदि एवमुक्तः स केशिन्या दयितामृत्युशङ्कितः / निळलीकमिवात्मानं कर्तुं नलतयावदव भर्तारमपरं भैमी भूयोऽपि हि भजिष्यति / इति देशान्तरे वार्ताप्रकाशोऽभृद् गृहे गृहे किमन्यदिदमाकर्ण्य मनसा विस्मयाकुलः / इह स्वयमयं दैवादयोध्यापतिरागतः इदं मत्कारणेनैव कृतं वा स्वेच्छयानया / इति न ज्ञायते सम्यक् विश्वासः स्त्रीषु कीदृशः एकाकिनी सुरूपा च युवतिर्विगतत्रपा / केन नाक्रम्यते पुंसा कं वा न भजते स्वयम् भजतां ऋतुपर्ण वा कुरुतां वा स्वयम्वरम् / ममानुमतमेतस्याः कामवृत्तिरतः परम् इति भीमभुवा देव्या श्रूयमाणा सबाष्पया / गिरं वदति भूपाले ब्योम्नि वागभवद् द्रुतम् राजन् राजन् ! नलमलमिदं युज्यते नैव वक्तुं पुण्यश्लोकस्त्वमसि भुवने सच्चदुग्धाम्बुराशिः। . वैदर्भीयं युवतिषु सतीचक्रचूडामणिश्च त्रैलोक्येऽस्मिन् क इव युवयोर्वेत्ति माहात्म्यपारम् राज्यभ्रंशं विरहविपदं दौर्मनस्यं समन्तादेतत्पापः सकलमकरोत् क्रूरकर्मा कलिर्वाम् / युष्मत्पुण्यैः पुनरपि जितः स प्रनष्टो दुरात्मा श्रेयः कालः पुनरुपनवः साम्प्रतं क्षेममस्तु : // 27 // . // 28 // // 29 // // 30 // // 31 // 1 // 32 // // 33 // // 34 // // 35 // // 38 // म् // 167 //
Page #355
--------------------------------------------------------------------------
________________ IIIEIAHINSEII A एते व्योम्नि स्थगितवपुषो लोकापाला वदन्ति प्रीतश्च त्वां क्षितिप ! भगवानादिशत्येष शंकः।। लोकातीतेऽप्यशिवसमये शीललीलाविशेषैर्दीर्घोत्तीर्ण कनकमिव हि स्वीकुरु स्वं कलत्रम् // 39 // सुरपतिवचनेन निःकलङ्का मम दयितेनि तुतोष भूमिपालः। कलिकृतमिति च प्रियव्यलीकं नृपतिसुतापरिहारजं विषहे॥४०॥ ततः क्लेशप्राप्तप्रियविरहकालासहतया सखीभिर्वेदाश्चरणपतिताभिस्तरलितः / स्वयं बिल्वद्वन्द्वं तदथ विघटय्य क्षितिपतिर्दधौ वेषं कर्कोटकभुजगदत्तं दृढभुजः राजा राजा स खलु विजयी नैषधो नैषधोऽयं दिष्ट्या दिष्ट्या बत जितमहो मङ्गल मङ्गलं नः / इत्यानन्दव्यतिकरजुषां लोककोलाहलेन व्याप्तं सद्यः सकलमभवद् व्याकुलं राजवेश्म / / 42 // .तदनु जय जयेति प्रस्तुतोचारपूर्व सुरभिकुसुमवर्षानन्तरं दत्तहर्षाः / जलमुच इव लक्षा दध्वनुर्दुन्दुभीनां दिवि भुवि च समन्ताद् निर्जराणां नृणां च // 43 // आनन्दाश्रुप्रकररचितस्फारमुक्ताफलौषक्लृप्तातिथ्यः सह गहवरी कोटिभिर्भीमपुत्र्याः भेजे राजा कनकरचितं रत्नवद् भद्रपीठं देवः साक्षादिव सुरगिरेः शृङ्गमम्भोजिनीशः // 44 // भर्तुषं नयनविषयं केशिनी वीक्ष्य रेमे स्वं भर्तारं करतलगतं प्राप्य भैमी मुमोद / क्रोडीचक्रे पितरमचिरादिन्द्रसेनः सजामिनत्वा तस्थौ परिवृतिपरः पार्श्वतो भृत्यवर्गः // 45 // इति श्रीमाणिक्यदेवसूरिकृते नलायने सप्तमे स्कन्धे पञ्चमः सर्गः॥५॥ IASHI ATHI AIIEII II
Page #356
--------------------------------------------------------------------------
________________ सप्तमें सप्तमे स्कन्धे षष्ठः सर्गः। स्कन्धे सर्गः६ निजरूपं प्राप्तो नलः॥ // 168 // // 4 // छESI IISFITHIVISIIEI ISSIBRATE ततश्चरणचारेण तत्र त्वरितमागतः / प्रणिपत्य प्रतीहारपदं भेजे विदर्भराद् दमो दमनदान्तौ च बद्धरोमाञ्चकञ्चुकाः / त्रयोऽपि हि कुमारास्तं प्रणम्य परिरेभिरे समागत्य लुठन् भूमौ भीमेनोत्थापितः स्वयम् / ऋतुपर्णनरेन्द्ररतं प्रणणाम कृताञ्जलिः ततो द्रविडचोडादिदेशानां पृथिवीभुजः / मौलिभिनमितोत्तंसर्दूरात्तमुपतस्थिरे सामन्तशतसङ्कीर्ण पौरजानपदाकुलम् / आकीर्णमभवत् सर्व तदङ्गणमुपायनैः दधानश्चारुशृङ्गार गारुत्मतमतन्द्रितः / बभूव भुवनस्यापि नैषधो दृग्विपापहः दधार दमनश्छत्रं दमदान्तौ च चामरे / ऋतुपणों नृपस्तस्य बभूव स्थगिकाधरः अशोभत सभामध्ये स नृपैः परिवारितः। काञ्चनश्रियमातन्वन् मेरुः कल्पद्रुमैरिव दातरि त्रातरि स्वीये पितरि भ्रातरीय वा / तस्मिन् चकमिरे पौराः कत्तुं प्राणैरपि प्रियम् तस्मै वीराय सर्वाङ्गसमर्पणविधित्सया / महीव दमयन्ती च सोच्छ्वासमवहद् वपुः अमिलन् तद्गुणाकृष्टास्तस्य सेवाविधित्सया / दिने दिने दिगन्तेभ्यः स्वागतज्ञा महीभुजः अप्यल्पपरिवारेण तस्य सेवां वितन्वता / परेभ्योऽधिकसन्मानं लेभे कोशलभूभुजा BAISI ASHISHI THISजाल // 7 // // 9 // // 10 // // 11 // // 12 // | // 168 //
Page #357
--------------------------------------------------------------------------
________________ सर्वसाधारणत्वेन तस्य विस्मयकारिणः / उवाह महदाश्चर्य ऋतुपर्णस्तथापि हि : // 13 // पार्थिवैः प्रेरितः सर्वैर्निजभक्त्या च शुद्धया / व्यजिज्ञपत् कदाचित् तं भार्गसूरिरधीश्वरम् // 14 // देव ! दिष्टया जगद्भाग्यैक्सुधादानदायिभिः / हत्वा कलितमःस्तोमं त्वमिन्दुरुदितः पुनः . // 15 // समानेष्वपि सर्वेषां त्वत्प्रसादेषु पार्थिव ! / सर्वशेषमिवात्मानं मन्ये सुकृतिनं पुनः रसातलं बलिर्नीतो वामनत्वेऽनुरागिणा / त्वयाहं कुब्जरूपेण विश्वस्योपरि दर्शितः // 17 // दत्से यथा तथा वा त्वं भृत्येभ्यो देव ! गौरवम् / सर्वत्र ललिता वृत्तिरचिन्त्यचरितस्य ते // 18 // * प्रायः प्राकाम्यशक्त्या त्वमित्थं क्रीडसि निर्भरम् / दर्शयन् सर्वभावेषु सर्वत्र त्वमिवात्मनः // 19 // नास्त्येव तव विद्वेषो विरुद्धेष्वपि केषुचित् / स्वतन्त्रतैकपात्रेषु स्ववयस्येषु किं पुनः // 20 // नूनमज्ञानभावेन न दोषः कोऽपि कस्यचित् / स्वामिन्ननुनयत्येष तथापि त्वामयं जनः - // 21 // प्रसीद कुरु वेगेन देव ! दिग्विजयश्रमम् / नृपा विज्ञपयन्ति त्वामहं च त्वत्पुरःसरः // 22 // वहन्तु त्वबलाश्वीयखुरक्षुभितपांशुभिः / अकालफाल्गुनक्रीडाविभ्रमं दिकपुरन्ध्रयः // 23 // सन्तु त्वदर्शनानन्दबाष्पनिष्पन्दवृष्टिभिः / आर्यावर्त्तस्य लोकानां प्रदेशा देवमातृकाः // 24 // इति विज्ञापितस्तेन स्तनयित्नुजिता गिरा / गिरिवद् विदधे धीरं प्रतिशब्द धराधिपः // 25 // अयोध्याधिपते ! सर्वमिदं कर्त्तव्यमेव मे / श्रुतशीलः समागच्छन् केवलं प्रतिपाल्यते // 26 // IIAHIIIIIIdle
Page #358
--------------------------------------------------------------------------
________________ नल सप्तमे म्कन्धे सर्गः६ / / 169 // दमयन्त्यो विवादः II IIIII-IIIIIII तन्यागतवतः शीघ्र सचिवस्य महात्मनः / संपत्स्यते समग्रोऽयं मुहृदो में मनोरथः // 27 // . इत्युक्त्वा स विनीतात्मा विनीताधिपतिं प्रति / प्रविवेश विशामीशश्चतुःशाल दमस्वसु: // 28 // भरिभूतभवद्भाविवार्ताव्यतिकरो तदा / भैमी नलाप वृत्तान्त केशिन्यास्तमचीकथन तेन श्रुतेन राजपिविस्मितः स्मितपूर्वकम् / ऊचे परोपकारकव्यापारपरया धिया अहो! सानभू यूदं रागभंशोऽपि सानभूद ! बने पसंप्रम भापता दशोऽरिम भोमिना / / 21 / / नो चेत् किमन्यथा सर्पविपज्वालाजलाञ्जलिः / अभविष्यदयं दिव्यो वेपः करगतो मम // 32 ॥.युग्मम् / / * तदयं दीयते तस्यै शृङ्गारो गारुडो मया / युज्यतां स महाबाहुर्भूयः स्वबलसंपदा // 33 // * इति जल्पन् प्रियां प्राप्य केशिन्याः सन्निधौ नृपः / तं यथावस्थितं वेपं ददौ बिलसमुद्गकम् // 34 // केशिनी साञ्जलिम्रा शिरसा प्रतिगृह्यताम् / जजल्पाश्रुकणक्लिन्नकण्ठाध्वस्फुरदक्षरम् // 35 // स्वामी भर्ता पिता माता भ्राता वा कोऽपि कस्यचित् / सर्वस्थाने युवामेव केवलं मम भूतले // 36 / / दयितस्य व्यथा हत्तुं वैताढ्यं प्रति संप्रति / सत्वरौ चरणौ गन्तुं मनः पुनरिह स्थितम् . // 37 // आश्रितान् पूरयेच्छक्या वियुक्तान योजयेद् मिथः। बद्धान् विमोचयेद् जन्तून् एष धर्मः सनातनः // 38 // तत् किमत्र बहुक्तेन न मे जिह्वाशतं मुखे / मन एव हि जानाति मदीयं युवयोः कृतम् तदियं याति वैताढ्यं प्रयोक्तुं युवयोर्यशः / विद्याधरपरित्राणात् स्वस्ति वामभयप्रदौ // 40 // // 169 //
Page #359
--------------------------------------------------------------------------
________________ II AISIIIIISite इह मे मुख्यदासीत्वं न तावत् कश्चिदंर्हति / युष्मदासेन संसक्ता यावदायाम्यहं पुनः केशिन्यथ स्वयं दत्त्वा दम्पत्योर्विजयाशिषम् / उत्पपात वलद्रीवं पश्यन्ती केशिनी भुवम् क्षणेन प्राप्य वैताढ्यं वेगेन जितवायुना / ददर्श स्वजनान् सर्वान् पितृश्वसुरवर्गयोः सर्वेषां पश्यतां तेषां हर्षाश्रुकणवर्षिणाम् / दत्त्वा गारुत्मतं वेषं निर्विषं विदधे पतिम् विषोपरागनिर्मुक्त तस्मिन् शीताताविव / उत्सवः कोऽप्यभृदुच्चैरन्तनगरमद्भूतः पृच्छथमाना च सा पत्या शृङ्गारप्राप्तिविस्तरम् / सर्वेषां शृण्वतां सर्व यथातथमचीकथत् विद्याधरसुतः श्रीमान् सुकृतज्ञो महाबलः / वीरश्चचाल तत्कालं नलसेवासमुत्सुक: पिता च श्वसुरश्चैव ज्ञातयः स्वस्य चापरे / वीरसेनसुतं द्रष्टुं सौहृदाय प्रतस्थिरे विकसितकनकारविन्दवृन्दद्युतिजितचण्डमरीचिभिर्विमानैः। दुततरमपि कुण्डिनं प्रपेदे तदथ नभश्ररराजनक्रवालम् विद्याधरेश्वरसमूहसमागमं द्राक् तं केशिनी स्वयमुपेत्य शशंस पूर्वम् / उत्कण्ठितः सकलराजकमध्यवर्ती तस्थौ नलोऽपि हि समाजयितुं सभायाम् तत्राययौ सपदि सोऽपि सपत्नहन्ता मन्त्रीश्वरः श्रुतनिधिः श्रुतशीलनामा / शक्तित्रयेण कलितो नृपतिर्विरेजे वीर: स तक्षक इव स्वफणात्रयेण // 41 // // 42 // // 43 // // 44 // // 45 // // 46 // // 47 // // 48 // // 49 // जा II I // 50 // // 51 // .
Page #360
--------------------------------------------------------------------------
________________ सप्तम // 52 // प्रातः कुबेरनवमङ्गलयुक् दिनं ते यात्राक्षम मिथुनराशितिथिप्रपन्नम् / इत्थं महागणकदत्तमुहुर्त्तकालः सजीवभूव भुवनैकजयाय वीरः एतत् किमप्यनवमं नवमङ्गलाई यद् निर्ममेऽनुभवसारविधिविधिज्ञः / तस्यार्यकर्णनलिनस्य नलायनस्य स्कन्धः समाप्त इह सप्तमसङ्ख्ययायम् इति श्रीमाणिक्यदेवसूरिकृते नलायने सप्तमे स्कन्धे षष्ठः स्कन्धः॥६॥ समाप्तोऽयं सप्तमः स्कन्धः। सभामध्ये नलस्य आममनम्॥ समें 6 // 17 // // 53 // AIFI ATHI AISITIATRII NIKA अष्टमः स्कन्धः। अष्टम स्कन्धे प्रथमः सर्गः / / श्रूयते स्म ततः सर्वदिक्निकुञ्जोदरम्भरिः / प्रतिध्वनितविन्ध्याद्रिप्रस्थः प्रस्थानडिण्डिमः . तं यात्राभिमुखं वीरं विजयश्रीवधूवरम् / कृतनीराजनं लाजावकीर्ण तुष्टुवुः स्त्रियः ततस्तत्कालमुत्तालतुरङ्गलहरीमये / तस्य सैन्यमहाम्भोधौ निममञ्ज महीतलम् चतुरङ्गचलच्चण्डचमूचरणरेणुना / प्रतापेनेव शूरोऽपि रेणुना पिदधे रविः : // 1 // // 2 // // 170 //
Page #361
--------------------------------------------------------------------------
________________ IIIIII-IIIFIFIIIyle नासीरसीम्नि काकुत्स्थः पृष्टतो भीमनन्दनः / व्योम्नि विद्याधराधीशाः प्रतापः-सर्वतोऽप्यभृत् // 5 // दिव्यास्त्रैकमहायोद्धा पुरापि निषधेश्वरः / किं पुनः सहितः शूरैर्विद्याधरनरेश्वरैः यथा कवचितः सिंहः सपक्षः पन्नगो यथा / यथा वायुसखो वह्विर्यथा ज्येष्ठायुतो रविः // 7 // तथा विद्याधराधीशैरधिष्ठितमहाबलम् / असह्यं मेनिरे वीरं वीरसेनसुतं नृपः // 8 // युग्मम् // | प्रभुः सप्ततिलक्षाणां दक्षिणापथनायकः / यस्य भीमः स्वयं वेत्री स किं जयति दक्षिणाम् ? // 9 // अतः सिंहलभूपालप्रमुखैः सहितो नृपैः / प्रतस्थे पश्चिमा जेतुं स मायामिव संयमी // 10 // सेनानीभिरपि प्रायस्तस्य साध्या महीभुजः / चचाल केवलं देशान् विलोकयितुमेव सः // 11 // न भग्ना नरसम्बन्धा न च्छिन्ना वनराजयः। न पातितानि चैत्यानि न लूनाः सस्यसंपदः // 12 // गोकुलानि न नीतानि ज्वालितानि पुराणि न / मूषितः कोऽपि न क्वापि धृतः कोऽपि न कुत्रचित् / / 13 // तथापि दुर्गदेशस्था बलिनो मानिनोऽपि हि / निःशेषविश्वविख्याताः क्षितिपालाः क्षवारयः // 14 // सुवर्णैर्मणिभिः क्षोमैः कन्याभिस्तुरगैर्गजैः / तैस्तैरनुपमै रम्यैरनुरूपैरुपायनैः // 15 // सानुरोधाः सशङ्काश्च सान्तःपुरपरिच्छदाः। शान्ताः साञ्जलयः सम्यक सविशेष सिषेविरे // 16 // त्रिभिर्विशेषकम् // कुर्वद्भिश्च क्रमोपास्ति तस्य सुनृतवादिनः / सत्संसर्गवशादात्मा कृतार्थस्तैरमन्यत // 17 // जित्वा स पश्चिमां पाप नृपतिर्दिशमुत्तराम् / अतीत्य शैशवावस्थां नरस्तरुणतामिव // 18 // BIIIIIIIIIIIजाल
Page #362
--------------------------------------------------------------------------
________________ FIla अष्टमे स्कन्धे सर्गः१ // 17 // नलस्य गङ्गातंटगमनम् // PIEII AISIT ASIATHI ATHI WIFI आकर्ण्य तच्चमूभूरिभेरीभाङ्कारनिःस्खनम् / द्रुतमुत्कर्णतां प्रापुः कर्णप्रावरणा अपि // 19 // . स्कन्धे कुमारमाधाय तत्सेवार्थ समाययौ / न रोमकम्बलश्चक्रे कम्बलस्य परिग्रहम् // 20 // निन्येऽश्वमुखमुख्यानां किन्नराणां न किश्चन / तेभ्यः स एव तद्गीतः प्रीतः प्रत्युत दत्तवान् // 21 // ततः सोऽनुययौ गङ्गां पूर्वसागरगामिनीम् / अभिषेणयितुं पूर्वां पुरस्ताद् विहितामिव // 22 // अन नीतिनिदः सर्वे नृपाश्चम्पाधिपादयः / नलं गुणिवायातं विनयेनोपतरिथरे इति दिग्विजयं कृत्वा पुरन्दरपराक्रमः / आर्यावर्त्तजनं प्रापदार्यावर्तक्रमेण सः // 24 // जय नृपवर ! वीरसेनसूनो ! जय जनरञ्जन ! मन्मथावतार! / जय जय कलिकालकाल ! नित्यं जय जय दुर्जय ! देव देवदत! // 25 // अक्षनिग्रहवशेन लीलया विश्वविश्वविजयं वितन्वतः। द्यूतकार ! तव कौतुकवादा कापि वृत्तिरपरैन गम्यते क्रीडाकुब्जः क्रौञ्चकर्णान्तकारी पुण्यश्लोको नैषधो देवदूतः। भैमीमत वैरसेनिः कलिनः स्तम्भोन्माथी केशिनीदुःखहर्ता . // 27 // श्रेयस्कारी वाजिचित्तैकवेत्ता काकुत्स्थश्रीवर्द्धनो द्यूतकारी / सम्राटमुख्यः सूर्यपाकप्रवीणः कस्याः कीर्नासि पात्रं नल! त्वं . . // 28 // HILAIIIIIIIIIII AIISIO // 171 //
Page #363
--------------------------------------------------------------------------
________________ जय जय जय शत्रून् मङ्गलं मङ्गलं ते पुनरपि निजदेशे सुप्रवेशस्तवास्तु / : इति कलकलवृन्दैवन्दिना सूचितोऽभूत् पृथुकटकनिवेशस्तस्य गङ्गातटेषु // 29 // इति श्रीमाणिक्यदेवसूरिकृते नलायने अष्टमे स्कन्धे प्रथमः सर्गः॥१॥ . अष्टमे स्कन्धे द्वितीयः सर्गः। - // 2 // . // 3 // // 4 // तमागतमुपश्रुत्य कृतदिग्विजयं नृपम् / न पुष्करनृपस्यासीत् मनःक्षोभो मनागपि समर्थोऽपि नलस्तस्मिन् न च दण्डमधारयत् / क्व नु संबधबद्धानां प्रहत्तुं प्रगुणाः कराः प्रजिघाय ततो दूतं नलस्तस्मै वचोहरम् / परचित्तमहाकूपे स हि प्रथमसङ्क्रमः स तत्वकलया वाचा सदाचारविदाम्वरः। अभाषत सभासीनमदीनं पुष्करं प्रति दिष्ट्या त्वं वर्द्धसे राजन् ! जयेन विजयेन च / दशदिग्विजयं कृत्वा न च भ्राता समागतः अद्य भूमिभृतः सर्वान् नले कुर्वति किङ्करान् / वीरसेनकुलं कान्त्या जित्वा मेरुमपि स्थितम् सर्वे शिरसि सानन्दं वहन्ति नलशासनम् / अग्रजत्वेन ते पूज्यः स तु राजा विशेषतः तस्मिन्निह समायाते जिगीषौ ज्येष्ठबान्धवे / स्वागताचारवन्ध्यस्त्वं किं मूढ इव तिष्ठसि ? IIII-IIIEIGIIFIFII-IIIHIG // 7 //
Page #364
--------------------------------------------------------------------------
________________ अष्टमे स्कन्धे श्री पुष्करं प्रति | दूतस्य गमनम् // सर्गः२ // 172 // विहाय कारणं सर्व तस्मिन् विमलया धिया / अकार्पण्येन सर्वाङ्गसमर्पणपरो भव तत्प्रसादेन ते किञ्चिद् न हि न्यून भविष्यति / तवैव तस्य साम्राज्यं युवयोः का विभिन्नता // 10 // पुष्करोऽप्यवदद् विद्वन्निदं साधु त्वयेरितम् / किमन्यत् पूजनीयेन शत्रुकालानलो नलः // 11 // यत् सत्यं स मम ज्येष्ठः कुलस्य च विभूषणम् / धन्यता महती तस्मिन् मम भक्ति वितन्वतः // 12 // कस्तेन सह वीरेण विरोधं कर्तुमिच्छति ? / यस्य सैन्यरजःपञ्ज निमञ्जन्ति महीभुजः // 13 // किन्तु वक्तव्यमस्त्येकं तदाकर्णय मन्मुखात् / नलभृत्य इति त्वं मे विश्वासस्यापि भाजनम् // 14 // •न राज्यं पितृदत्तं मे न च दीर्घार्जितं मया / प्राप्तं द्यूतप्रसादेन दैवस्यैव प्रभावतः // 15 // तत् कथं स स्वयं राजा राज्यं मे हर्तुमर्हति / क इव द्यूतकाराणां रणेन सह वैभवः // 16 // द्यूतेन स जितं राज्य पुनर्गृह्णातु मत्करात् / यथा दत्तं तथा ग्राह्यं नीतिरेषा महात्मनाम् // 17 // शक्त्या भक्तिपरं राजा भ्रातरं न्यायवादिनम् / यदि वाञ्छति जेतुं मां किं न लब्धं तदा मया // 18 // मम वाक्यानुसारेण गत्वा त्वं ब्रूहि सत्वरम् / स्वयमेव ततो राजा यथौचित्यं करोतु सः. // 19 // इत्युक्त्वा बहुसन्मानदानशृङ्गारपूर्वकम् / विससर्ज गुणस्यूतं नलदतं महामतिः // 20 // तन्मुखेन नृपः श्रुत्वा पुष्करस्य मनीषितम् / चकार चतुरो मन्त्रं सह तैस्तैर्विशेषिभिः // 21 // तत्र भीमकुमारास्ते विद्याधरनृपाश्च ते / पुष्करं हन्तुमिच्छन्तो युद्धमेवानुमेनिरे : HTAIIATIIII AISHA - // 22 // // 17 //
Page #365
--------------------------------------------------------------------------
________________ SIHRITHI+II-IIIIIIIshle श्रुतशीलः पुनस्तस्मै देशार्द्धस्य प्रदानतः / गृहीतुं कूलराज्यं तत् निर्दोषमतिरन्वशात् // 23 // ऋतुपर्णस्ततस्तस्मिन् वान्धवे जितकासिनि / द्वयोर्मन्त्रे निराचक्रे निर्व्याजं व्याजहार च // 24 // देव ! भ्रामरिकं युद्धं विभागः कितवे च कः ? / तदुरोदरमेवैकं प्रतीकारोऽत्र युज्यते // 25 // अहं ते कथयिष्यामि तत् किश्चिद् द्यूतमुत्तमम् / पुष्करं येन जित्वा त्वं राज्यं प्रत्याहरिष्यसि // 26 // पूर्व सर्वाङ्गशालिन्या मालिन्या सह कान्तया / प्राप्तोऽभूवमहं राजन् ! प्रणन्तुं परमेष्ठिनम् // 27 // तदीयभुवनद्वारि रक्तचन्दनचर्चितः। अदृश्यत ज्वलन्नेत्रः क्षेत्रपालो भयङ्करः // 28 // तं रक्तकणवीरस्रकशृङ्गारस्फारवक्षसम् / कटीतटनटद्धीरवीरघण्टाविराजितम् // 29 // रभसोत्तालवेतालनृत्यन्मृत्युकुशीलवम् / खड्गखेटकखाट्कारक्षुभितक्षुद्रखेचरम् // 30 // वीक्ष्य विक्षिप्तचित्ता सा समासादितसंभ्रमा / सुभ्रूरुवाच सावज्ञं विनिद्रकमलानना // 31 // त्रिभिर्विशेषकम् // अहो दिगम्बरः खेटशिरोहस्तः श्ववाहनः / क्षेत्रपालः त्रपालस्य घृणासौभाग्यवर्जितः // 32 // असावपि हि देवेषु प्रामोति गणनापदम् / महावृक्षोऽपि वा याति जात्या किं न दुमक्रमम् // 33 // इति तस्याः प्रजल्पन्त्याः सद्यस्तन्मृतिमध्यतः / निर्जगाम स्फुटा वाणी सिंहनादसहोदरा // 34 // आः पापे ! यन्महामोहादुपहासं करोसि मे / तदागामिचतुर्दश्यां करिष्यामि वधं तव // 35 // दुःश्रवं तद् वचः श्रुत्वा मालिनी सहिता मया / प्रसादयितुमारेभे भैरवं भक्तितत्परा // 36 // IIIIIIIIIIIIIIIsle
Page #366
--------------------------------------------------------------------------
________________ अष्टमे क्षेत्रपालदर्शनम् // स्कन्धे सर्गः२ सरक्ष महावीर : गतास्मि शरणं तब / तयाम्मि किङ्करी स्वामिन ! देहि मे देव ! जीवितम् // 37 // . दनि स्तुनिजुपस्तम्यास्त्रासक्षुभिनचेतमः / बभूव वचनं भूयो भैरवतिनोद्भवम् न हन्मि नबद्धानां चणकानां क्रमेण नद / एकद्वित्रिचतुझया दरसे मुध्ययुतं नम // 35 / / च नान गणवेन कथित देवाच लय में। चतुयानाधिस्तेषां कालो दानस्य कर्मणि // 4 // मचा कालक्रमातीतं यहि किश्चिद भविष्यति / तद् रिष्यामि भारथियामि निश्चितम् / / 1 / / चीचके गापि न वाक्यं माता स्तिकाविणः / दुकरे अपि कार्येर कालोपो महान गुणाः / / 2 / / * वनः प्रागम्य देवशं विशयान परमेष्टिनम् / प्राप्तः सौधन सजन ! जातस्तदुःखदुःखितः * किल भवंदना मुष्टिदान सदाकम अहो निग्नुगेधित्व भरवस्य धिनीरशम् हा कट भयि नापि प्रिया मन विपन्म्यने / इति मृहाय नेत्री शसंत मुनिमागतम् // 49 / / सामानहरः श्रीमानाचार्गः काविद्याः कृतातिथ्यो समापन विच्छागमन कारणम् // 46 // पयाप कथितं तरम निजदुःखं नावणमयोप्ययोचदन वानः कुमणं मां कृपापरः // 45 // अम पूर्व राजन प्रणीत स्वाभिः / पूजयाम्यक्ष पद विवसल्याविचक्षणः // 48 // समानद्रव्यापाणां मृष्टिसंस्थाननीयया / मन्या सहदयज्ञानु गल्यते गील्या यतः मनहदयं मन्त्र बदतः गुगु मन्मृग्वान / इन्युक्या रहनि श्रीमान सरिमामुपदिष्टवान् 11173 //
Page #367
--------------------------------------------------------------------------
________________ BITIATI AISFla II AISHI ANIHITS * सापि कान्ता मया दिष्टा तेन मन्त्रेण तत्क्षणम् / मुष्टिदानं कलत्रस्य क्षेत्रपालः सुनिर्ममे // 51 // कर्मणा तेन सुप्रीतः कलत्रभैरवोऽभवत् / गणप्रस्तारभङ्गेन गरुत्मानिव पिङ्गले' / // 52 // स च मन्त्रस्त्वया नीतः कुण्डिनाध्वनि मन्मुखात् / कृत्वा तद् विषयं द्यूतं देव ! दिव्यदिवानिशम् // 53 // मुष्टितत्वं जवाद् जानन राजन् ! स्वस्य परस्य च / केनापि जेष्यसे तत्त्वं सर्वदानविशारदः // 54 // पुष्करं लीलया जित्वा निःकलङ्केन वर्मना / भज दिग्विजयश्रान्तः कुलराज्यं कुलोद्वहम् इति तत्ककुत्स्थकुलजस्य वाङ्मयं नृपतिर्निपीय परमामृतं रहः / ' उदतिष्ठदष्टकुलशैलपीठिकाकुरलीखलैकतममल्लपुङ्गवः // 56 // तस्याज्ञया नवदुरोदरमल्लयुद्धक्रीडारसव्यसनिनः शशिशुभ्रकीर्तेः / मन्था बभूवुरभितः क्षुभितं सृजन्त श्चित्तं जनस्य रचनागुणगौरवेण // 57 // सिंहासनस्थितनिरन्तरभूमिपाल व्यालोलमौलिमणितारकितान्तरीक्षा / दूरं दुरोदरसभा शुशुभे शुभाभिः संभाविता विततवीतकलाकथाभिः // 58 // अविरलवरवन्दिवृन्दविद्यं कविकुलकेलिकलाकलापलिप्तम् / सदसदशिवकृत्वदाशु मेजे भुजविजितारिबलो नलो नरेन्द्रः // 59 // उच्चारुचारुभिरभङ्गुरशीललीलरामन्त्रितः सपदि वासवदततैः /
Page #368
--------------------------------------------------------------------------
________________ अष्टमे // 6 // पुनरपि स्कन्में धूत // 6 // क्रीडनम् / सर्गः३ // 17 // तत्राययौ युयुसहस्रयुजा रथेन श्रीमान् स पुष्करनृपोऽपि हि पुष्कराक्षः त्वं देव! धूर्तः कितवाधिराजः प्रस्तूयसे पुष्कर ! पार्थिवोऽपि / द्रष्टुं द्वयो तमतिस्पृहा नस्तत्रेत्यवोचऋतुपर्णमुख्याः इतिश्रीमाणिक्यदेवसूरिकृते नलायने अष्टमे स्कन्धे द्वितीयः सर्गः // 2 // अष्टमे स्कन्धे तृतीयः सर्गः। IIIIIIIIIIIIFIFII II मनाAII II II II Sle ततः प्रववृते तत्र द्यूतमक्षमयं महत् / एकद्वित्रिचतुर्मुख्यैश्चतुर्भिर्दायकैः समम् स्वदायको जयं कुर्यात् हानिकृत्परदायकः / हानिर्जयोऽपि वा भृयादुपढौकनसङ्ख्यया // 2 // आकृष्टिमुष्टिसङ्ख्यायाश्चतुर्भिर्भागमाहरेत् / शेषे न दायकव्यक्तिरेकद्वित्रिचतुर्मयी नन्धेकेन द्विको द्वाभ्यां त्रिकस्त्रिभिरुदाहृतः / चतुर्भिर्जायते पूर्णो दायकव्यक्तिरीदृशी .. // 4 // यत् किश्चिद् लभ्यते वस्तु तद् विद्यादक्षसङ्ख्यया / शतलक्षगुणं वापि तद् भूयो भाषितं भवेत् // 5 // तत्र द्वित्रिचतुर्वर्ज द्यूतकारो न वर्त्तते / उपर्युपरि दिव्यन्ति बहवोऽपि हिं तद् गताः तेन छूतेन रम्येण रेमाते नलकूबरौ / साक्षिणामिव सर्वेषां पश्यतां पृथिवीभुजाम् // 7 // // 174 //
Page #369
--------------------------------------------------------------------------
________________ BIT ISIT ATHII-IIIIII ISIT ISING जानंन्नपि नलो मुष्टिं क्रीडारसविवृद्धये / परदायकमारेमे किञ्चिदप्यन्तरान्तरा: . // 8 // जयः पराजयश्चासीद् यावदल्पोऽभवत् पणः / महाद्यूतभरे लेभे स्वदायं नैव कूबरः // 9 // ततः पराजयक्षोभात् प्रभूतमुपढौकयन् / क्षेमेणापि नलेनोचे मुष्टिः सङ्क्षिप्यतामिति . // 10 // जीयमानेऽमुना तस्मिन् बुम्बारवपरायणान् / दृशैव क्रौञ्चकर्णारिदमनादीनवारयत् // 11 // हस्त्यश्वरथदुर्गाणि ग्रामाकरपुराणि च / हेलया हारयामास नले पुष्करपार्थिवः // 12 // मुद्रया सहिते कोशे कोष्ठागारे च हारिते / अपि शृङ्गारमात्मीयमुपढौंकयति स्म सः // 13 // किमत्र बहुना राज्ञा नलेन स तथा जितः / यथा तेन पुरा राजा नल एव जितोऽभवत् // 14 / / केन हि स्वीकृतं द्रव्यं कस्य द्यूतं वशंवदम् / कस्मिन् पण्याङ्गना रक्ता कं लक्ष्मीन विमुश्चति // 15 / / यस्मिन् पुत्रः कलत्रं च नासाकणं च हार्यते / न हि द्यूतस्य तस्यास्ति तुलया व्यसनं परम् . // 16 // अस्ति पापात्मकं सौख्यं व्यसनेष्वपि केचित् / हानौ निःशेषसौख्यानां यूतमेकं व्यवस्थितम् // 17 // अकारानिलयं बन्धं प्रजागरमनुत्सवम् / विभवभ्रंशमस्तेनं अपर्जु करघर्षणम् // 18 // व्यामोहमसुरापाणं विषयत्यागमनतम् / वितनोति मनुष्याणां दुरन्तं हि दुरोदरम् // 19 // युग्मम् // जितमर्थमनिर्गम्य कितवस्य कुतः सुखम् / न स्वस्था स्यादसृक् पीतमवान्त्वा जलसर्पिणी // 20 // प्रविवेश समं सर्वैः पार्थिवैर्निषधो नृपः / उत्तुङ्गतोरणस्तम्भा राजधानी निजां नलः // 21 // IIFILE FIIEISII-II ISFIF Ille
Page #370
--------------------------------------------------------------------------
________________ अष्टमे निजां राजधानी स्कन्धे सर्गः३ प्राप्तो HIT GATEII A LHI THIS ISIS नलः॥ // 175 // पुण्यपुण्यजनाकीर्णा सकर्णहृदयङ्गमा / विमानयोम्नि सञ्जाता जङ्गमेवापरा पुरी // 22 // अयं गुरुः पिता माता भर्त्ता मित्रं च भूपतिः / यद् वा सर्वस्वमस्माकं वीरसेनसुतो नल: // 23 // इत्यानन्दस्खलत्कण्ठैः प्रवदद्भिः परस्परम् / दृश्यमानः पुरीलोकैः प्राप राजपथं नृपः // 24 // युग्मम् // अस्तूयत स सानन्दं बन्दिवृन्दैरमन्दधीः / उत्तंसितभुजस्तम्भैरम्भोजासनसन्निभः // 25 // जय द्विजनिपेपित ! द्विजनिरस्तमुक्ताफलविरेफसुननास्रजां द्विरसनाधिनायोपम: द्विपाधिपसमभ्रम ! द्विजपतिस्वरूपानन ! द्विपत्कटककाननक्षयदवानल! त्वं नल ! // 26 / / अर्कतप्ततरुमूलवारिभिर्लङ्घनेन गिरिकन्दरीजुपाम् / नितस्तनुपु सर्ववैरिणां वैरसेनिभिषजा मदज्वरः / / 27 / / अलिरिव कमलिन्यां नर्मदायामिवेभः मर इव ललनायां धिष्ण्यपत्यामिवेन्दुः / रस इव कवितायां मन्त्रशक्तयामिवार्थः प्रविश निजनगर्यां सुप्रवेशस्तवास्तु // 28 // इत्थं पठद्विविधमागधवर्णनाढ्यं प्रीतः प्रविश्य कुलराजगृहं स राजा / आस्थानसीमनि सुवर्णमयेऽधितस्थौ सिंहासने समदसिंहसमानसत्वः // 29 // तत्र प्रणीतघनरत्नसुवर्णवर्षाहाकुलाः सकलभूमिभुजः प्रणेमुः / तं स्वोचितेन विधिना भुवनाधिनाथं तत्प्रीणिताः प्रकृतयोऽपि यथाक्रमेण . // 30 // ननृतुरननृताभिर्भङ्गिभिरवृध्वो जगदुरगदमुख्यं मङ्गलं गोत्रवृद्धाः। ... II NIFI SATHI TE II - // 175|| IBHII
Page #371
--------------------------------------------------------------------------
________________ RI सपदि भरतभर्तुस्तस्य राज्याभिषेके जहषुरपि पितृणां देवतानां च सङ्घाः इतिश्री माणिक्यदेवसूरिकृते नलायने अष्टम स्कन्धे तृतीयः सर्गः // 3 // // 31 // DIEII III A TRIGATI AIIIIIII अष्टमे स्कन्धे चतुर्थः सर्गः। ततः प्रववृते पृथ्व्यामखण्डं नलशासनम् / अखिलक्ष्माभृतां मृर्द्धनि रवैरिव महन्महः तांश्च विद्याधराधीशान् वैताढ्याचलवासिनः / स विश्वविजयी राजा विससर्ज कथञ्चन // 2 // महाबलस्तु तत्रैव तस्थौ तद्भक्तिवाञ्छया / भीमजादेशवर्त्तिन्या केशिन्या सह सर्वदा निर्जितः पुष्करो राजा निर्ययौ न निजालयात् / तस्मिन् स वैकृतं पूर्व तस्मिन् मनसि लज्जितः . // 4 // ईशे क्रौञ्चकर्णारिदेवी च दमनस्वसा / अभिगम्य गृहं संभावयामासतुराशु तम् वत्स! किं हृदये दुःखं दधासि बहुधा मुधा / त्वयि ह्येवंविधे बन्धौ मम सौस्थ्येन को गुणः // 6 // अहं च त्वं च मेदिन्यां वीरसेनसुतावुभौ / एकस्त्वं देवरो देव्या दमयन्त्या ममानुजः व्यवसायः समग्रोऽयं कुटुम्बस्य कृते नृणाम् / तदेव यस्य नात्मीयं तस्य क्लेशो निरर्थक: येषां कुलजने दुःस्थे परेषु धनपोषणम् / बहिःसारा हि ते लोका विशालाः फलसन्निभाः FII-III FIHI FIFII - IIFII Ille
Page #372
--------------------------------------------------------------------------
________________ अष्टमे स्कन्धे पुष्कराय सर्गः४ राज्याई ददाति नलः॥ // 176 // धन्याः स्वदोषवक्तारो धन्याः स्वगुणलजिताः / धन्याः स्वकार्यनिश्चिन्ता धन्याः स्वजातिपोषकाः // 10 // तद् विमुञ्च मनःखेदमावाभ्यां सांप्रतं जितम् / विभिन्नं सूतवद्भूयः कुटुम्बं मिलितं हि नः // 11 / / इत्युक्त्वा गाढमालिङ्ग्य समाघ्राय च मूर्द्धनि / अर्द्धराज्यधरं चक्रे पुष्करं कलिनाशनः // 12 / / त्रिखण्डभरतैश्वर्यं तस्यैवं कुर्वतः सतः / जज्ञे नहुपनाभागमुख्यानां जर्जरं यशः // 13 // पुण्यहानिकृतः स्वर्गाद पुण्यक्षेत्रे महीतले / तस्य सौराज्यतः पुंसां सविशेषस्दामवद / / 14!! श्रुतशीलमहामात्यं कृत्वा राज्यधुरन्धरम् / सिषेवे केवलं नित्यं धर्मकामौ स पार्थिवः // 15 // कदाचिदपि केशिन्या विरहोद्वेगवर्णनैः / कदाचितुपर्णेन समं कुब्जत्ववार्तया // 16 // इत्थमन्यैरपि क्रीडाविनोदैनन्दयन् जगत् / समयं गमयामास सदासुखमयं नलः // 17 // युग्मम् // अन्यदा सहितो देव्या कल्याणिकमहोत्सवे / ययौ तमोपहे तीर्थे प्रणन्तुं परमेष्ठिनम् // 18 // तत्र तद्भुवनं दृष्ट्वा कुर्वन् चरणचारिताम् / भेजे बैनयिकं वेषं सावधानेन चेतसा // 19 // ततो धर्मद्रुमस्यास्य दृढभक्त्यावनीपतिः / प्रदक्षिणक्रमव्याजादालवालमचीकरत् // 20 // सालङ्कारैश्च शब्दार्थैः स्तुत्वा स परमेष्ठिनम् / तद्भक्तौ विदधे भूमि सकलां दृष्टिगोचराम् // 21 // सहर्षेण महर्षीणां कृत्वा चरणपूजनम् / कृतार्थां नृपतिमैने मनसा निजसंपदम् // 22 // इत्थमक्लिष्टमष्टाहमाराध्य परमेष्ठिनम् / सभार्यो विषधः स्कन्धात् सम्राडवततार सः // 23 // काना IIIIIIEISSIF ISIFIFIF III // 176 //
Page #373
--------------------------------------------------------------------------
________________ आता याSEle . STEII IIFI WIFII-IIIIIIFIEII B Ille तस्याचलस्थलीसीम्नि वहतः सह सेनया / सप्तसप्तिनभोमार्गमुल्लङ्घ्य जलधिं ययौ ततः प्रादोषिकध्वान्तं सान्द्रं कर्तुमिवोद्यताः। रभसा धूतधूलीकाः प्रचण्डा मरुतो ववुः पिण्डीकृत्य दिशः सर्वाः सरेणौ वाति मारुते / एकवर्ण जगच्चक्रे रुद्धदृष्टिपथं तमः अनुच्चनीचविज्ञाना दिग्मूढा रुद्धदृक्पथा / अवलम्ब्य ययौ सेना सा सकामेव कामिनी . तस्थौ च तत्क्षणं खिन्नः मेनया सह पार्थिवः / भूपालाः कालवेत्तारो विशेषेण च तादृशः अत्रान्तरे रजाक्लेशात् विरते पृतनारवे / लिखितेष्विव सर्वेषु सीदत्सु नृगजादिषु गहने तत्र कान्तारे निषधस्कन्धसन्निधौ / भूरिभ्रमरझङ्कारं शुश्राव कलिनाशनः किमत्र कमलं पुष्पं ? करटी कीचकोऽपि वा ? | तिष्ठतीति महान् तस्य हृदये संशयोऽभवत् ततस्तद् वीक्षितुं राजा कौतुकोत्तरलाशयः / ऊचे जवनिकामध्ये नरयानस्थितां प्रियाम् प्रकटीभव वैदर्भि! प्रतिसीरामपावृणु / त्वद्भालतिलकज्योत्स्ना तिमिरं हर्तुमर्हतु एवमुक्त्वा प्रकाशाभूत् सहसा दमनवसा / जज्ञे च गहने कस्मिन् प्रदेशे जर्जरं तमः शीघ्रं तमः पुरःस्थित्या विविक्ते विहिते जनः / ददतुर्भुङ्गझङ्कारानुसारं प्रति तौ दृशः तत्राद्धतासमसमाधिसमृद्धिमुद्रानिस्पन्दमीशमिव लेप्यमयं मुनीन्द्रम् / तौ पश्यतः स्म करिराजकपोलकाषसङ्क्रान्तदानमिलितालिकुलाद्यमानम् // 25 // // 26 // // 27 // // 28 // // 29 // // 30 // // 31 / / . // 32 // // 34 // // 35 // मजा // 36 //
Page #374
--------------------------------------------------------------------------
________________ अष्टमे स्कन्वे | 4 ||FIISEle कल्याणिक जमहोत्सवे गतो नलः॥ सर्गः४ // 177 / / AIIMILAN TRI-IIIII-III IIFI तं वीक्ष्य विक्षिप्तमना मुनीन्द्रं महीमहेन्द्रः सहितः सुदत्या / अहो! तपः कष्टमहो दृढत्वमहो! मुमुक्षेति भृशं शशंस // 37 // पार्श्वस्थया च परिचारिकयेव देव्या सजीकृतोपकरणः करणं तदीयम् / भक्त्या स्वयं च समवाहयदाशु यत्नादुत्कीलितभ्रमरकण्टककोटिभागः // 38 // मुनिवरवरिवस्यावश्यवृत्ति वितन्वन् नृपतिरपि तदानीमात्मना सौख्यमाप / स च सपदि समन्ताच्चण्डवातः शशाम प्रकटितरुचिरुचैरिन्दुरप्युजगाम * // 39 // दृढतरमपि जित्वा दुष्टसत्त्वोपसर्ग स्वयमपि मुनिसिंहः संहृतध्यानमुद्रः। पदमिव मुदितायां भव्यसत्त्वे विधातुं प्रशमपुलकिताभ्यां लोचनाभ्यामपश्यत् // 40 // अनुसृतानव मङ्गलमस्तु ते जय मुनीश ! निशाकरनिर्मल!। अभिननन्द तमिन्दुमुखः स्वयं नृपतिरित्थमुतथ्यसमानधीः // 41 // एतत् किमप्यनवमङ्गलमङ्गलाङ्कं यत् कौतुकैकरसिकः सुकविश्वकार / तस्यार्यकर्णनलिनस्य नलायनस्य स्कन्धो महाभरतयाभवदष्टमोऽयम् . // 42 // इति श्री माणिक्यदेवसूरिकृते नलायने अष्टमे स्कन्धे चतुर्थः सर्गः // 4 // समाप्तोऽयं अष्टमः स्कन्धः। IASIATEII RISHI SI // 177 //
Page #375
--------------------------------------------------------------------------
________________ काजल नवमः स्कन्धः। नवमे स्कन्धे प्रथमः सर्गः। // 1 // // 2 // IIIIIIIIIIIIIII-IIlle // 4 // अथ नत्वा सपत्नीके नृपतौ पुरतः स्थिते / उवाच विशदां वाचं वाचंयमशिरोमणिः राजन् ! स्वभावभव्यस्य भवतो धर्मदेशनाः / दीयमाना विराजन्ते कपूरे पुष्पवासवत् राज्यं विभवसंपूर्ण भार्या भक्तिपरायणा / धर्मश्रद्धाचितं चेतश्चिन्त्यते किमतः परम् राजन् ! दमनकस्याहं सतीर्थ्यस्तथ्यवाग् मुनिः / अर्थानुगामिना नाम्ना विश्रुतः श्रुतसागरः तत् किमत्र बहूक्तेन ममाशीयुवयोरियम् / त्वमिवान्योऽपि सर्वोऽस्तु नृपतिधर्मतत्परः तमेवं वादिनं विद्वान् शत्रुकालानलो नलः / व्याजहार हरन् चित्तं साञ्जलिर्जलजाननः भगवन् ! धन्य एवास्मि सर्वथापि जितं मया / यमेवमनुरुध्यन्ते निर्ममास्त्वादृशा अपि कलिर्जितः प्रिया प्राप्ता साधिता भरतावनी / करोति न तथा हर्ष यथा युष्मत्कृपा मयि भगवन् ! सर्वसामान्ये मानुष्येऽपि हि तिष्ठति / अलौकिकमिदं देव्या ललाटतिलकं कुतः ? कथं च विरहो देव्याः कश्चित् कालमभृद् मम / त्रिखण्डभरतैश्वर्य कथं वाधिगतं मया BIIIIIIIIIIIII // 8 // // 9 // // 10 //
Page #376
--------------------------------------------------------------------------
________________ नवमे स्कन्ध्र श्रुतसागरेण दत्ता सर्गः१ धर्म // 178 // देशना // TERI |||| - IIIEITE ISISTERIE इति पृच्छन्तमुर्वीशं समुवाच महामुनिः / शृणु ते कंथयिष्यामि सर्वमेतद् यथातथम् // 11 // परमावधिभेदेन केवलज्ञानरूपिणा / मम नाविदितं किश्चिद् लोकालोकेऽपि वर्तते // 12 // पुराभूद् मम्मणो राजा नाम्ना भुवमधीश्वरः / प्रचण्डचरितः श्रीमान् वीरो वीरमतीप्रियः // 13 // केवलं बलवान् दाता युवा धीरोद्धतश्च सः / अनार्यदेशजातत्वात् सम्यग् धर्म विवेद न // 14 // कदापि स हयारूढः कण्ठार्पितशरासनः / पापर्द्धिरसिकः स्वैरं बभ्राम वनभृमिषु इत्युग्रमृगयाभूतग्रहव्यग्रे महीपतौ / अवदत् तीर्थयात्रार्थी सार्थोऽष्टापदवर्त्मनि तत्र चित्रपरीधाना नानायानस्थिता नराः / अभूवन बहवो भव्याः स्तोतव्या राजबन्दिनाम् // 17 // तान् दानदायिनो मुक्त्वा तेषां मध्ये स्थितं मुनिम् / अनीतितटिनीग्राहः स जग्राह महामुनिम् // 18 // न कश्चिदपि तत्रासीत् तस्य रक्षाक्षमो जनः / शक्तिरुक्ता समानेषु को बली बलवत्तरे ? // 19 // बलाद् निर्वास्य तं सार्थ सामर्थ्येन महीभुजा / चिरं स ददृशे क्रुद्धदृशा विषदृशाकृतिः // 20 // तस्य पश्यन् महीशय्या विरुक्षपरुषं वपुः / अहो ! बीभत्स इत्युक्त्वा मुमोच नृपतिः शुनः // 21 // स दन्तैः सारमेयाणां वज्रसारमयैरिव / मुनि विभेत्तुमारेमे कुठारैरिव पादपम् // 22 // स वज्रर्षभनाराचदृढसंहननो मुनिः / विषेहे तद् यथा वेगं शान्तिशीतेनं चेतसा // 23 // शापे हतिं हतौ मृत्यु मृत्यौ संयमरक्षणम् / गणयन्तस्तितिक्षन्ते लाभमेव हि साधकाः .. // 24 // OISISTEII-IIIIIIII-IIIF ISI // 178 //
Page #377
--------------------------------------------------------------------------
________________ AllISHITRI MIHI115IRIFIIssile सोऽपि मुक्त्वा शुमस्तस्मिन् मुनौ मनुजवन्दिते / राजा तरुतलासन्नमध्यास्त पदमण्डपम् .. // 25 // तदा तत्र प्रिया तस्य राज्ञी वीरमती स्वयम् / अनेकलक्ष्यहस्ताभिः समं मेरीभिराययौ // 26 // ततो भूभुजि भुञ्जाने खञ्जनाक्षी निषेदुषी / ददर्श तदवस्थं तं मुनि नयनयोः पुरः . // 27 // तं वीक्ष्य मक्षु मुपितेव विभिन्नचित्ता सा शीघ्रमुत्थितवती शुनकानपास्य / . गाढं शुशोच सुचिरं शुचिशीललीलाकीलालमालितसमस्ततर्नु मुनि तम् // 28 // केयं मनुष्यमृगया धिगहो प्रमादं हा देव ! कोऽयमतिदुष्टमतिप्रपञ्चः / कल्पद्रुमः परशुचिः शकलीकृतोऽयं चिन्तामणिविंदलितः कठिनोपलेन // 29 // शापं कदापि कुपितस्तव चेददास्यत् तत् का गतिः समभविष्यदिह क्षणेन ? / एहि क्षमापरममुं भगवन्तमन्तर्वन्दस्व विश्वजनवन्धमनिन्द्यकीर्तिम् . // 30 // इति हिमगिरिराजा बोधितो वीरमत्या तमनु मुनिवरेन्द्र भूयसा भक्तियुक्तः। भषणगणकृतानां तस्य दन्तव्रणानां रुजमुरुमपहर्तुं सप्रयत्नो बभूव // 31 // इति श्री माणिक्यदेवसूरिकृते नलायने नवमे स्कन्धे प्रथमः सर्गः // 1 //
Page #378
--------------------------------------------------------------------------
________________ नवमे स्कन्धे द्वितीयः सर्गः / FIISTENE नवमे %E स्कन्धे सर्गः२ देशनान्तरे नलस्य पूर्वभवकथनम् / / // 179 // III.IIIATElla TII - IF || NEIGHTINE अथ नत्वा नृपं शान्तं विदधे लब्धिलीलया / निजनिष्ठीवनेनैव यथावस्थं वपुर्मुनेः तमालोक्य तदाश्चर्य विस्मितो मनसा नृपः / शुशोच मृढमात्मानं मम्मणः स्वेन कर्मणा ऊचे स विलपन्नुच्चनिमाहेन महात्मना / मा विपीद महाराज ! निराबाधोऽस्मि पश्य माम् // 3 // यत् पुनस्त्वादृशो राजा फलं मानुष्यशाखिनः / सम्यग् धर्म न जानाति केवलं तद् दुनोति माम् // 4 // धर्मावाप्तिमहर्षिभ्यः सर्वेषामपि जायते / कष्टं स्वकर्मणानेन मत्तः पापं त्वयार्जितम् // 5 // अन्तःपुरं पुरं चापि किं राज्ञां स्वपदैः कृतम् / विनापराधं तत् तेषां बाधामाधाय का गतिः ? // 6 // दन्तैस्तृणानि गृह्णन्तं न नन्ति रिपुमप्यहो ! / तृष्णाशिनः कथं जीवा हन्यन्ते विविधायुधैः // 7 // अराजकमहो विश्वं ही नो निःशरणं जगत् / दुर्बलो बलिभिः कस्मात् हन्यते वालिशैः पशुः // 8 // कलावतीप्रभृतिभिर्मित्रानन्दादिभिस्तथा / अल्पया हिंसया प्राप्तं दुःखं सागरदुस्तरम् . // 9 // कपालपुटके भिक्षां कुर्वन् दीनो दिगम्बरः / चिरं ब्रह्मशिरच्छेदहत्यया नटितो हरः // 10 // किं न सन्त्यन्यभक्ष्याणि कथं वातेन जीव्यते ? / जीवद्रोहेण विषयान् गृह्णतो जीवितेन किम् ? // 11 // लब्ध्वा मानुष्यकं रम्यं दुर्लभं भवकोटिभिः / न यस्य विषयत्यागो नौ निषण्णः स मजति . // 12 // FII A FILATFII A THIS // 179 //
Page #379
--------------------------------------------------------------------------
________________ II AIISH II IIIIIIIII AISII ISISTEle इत्येवमादिभिर्वाक्यैर्व्यक्तनाम्नो महामुनेः / मम्मणो मोहमुत्सृज्य सम्यग् धर्मममन्यत // 13 // प्रतिपद्य सभार्योऽपि गृहिधर्म स शुद्धधीः / प्रणम्य चरणौ पश्चात् कृताञ्जलिरभाषत // 14 // क्षमस्व भगवन्नेषु दुर्बुद्धिषु दुरात्मसु / अनार्यदेशजातेषु मादृशेषु कुजन्तुषु तद् ब्रूहि भगवन् ! कुत्र यात्रां कुर्वन् वनान्तरात् / चिरं खिलीकृतोऽसि त्वं मयका मूढबुद्धिना . // 16 / / मुनिरप्युक्तवान् वाक्यं महाभाग ! निशम्यताम् / गिरिमष्टापदं नाम्ना जानामि विदितं भुवि // 17 // तस्यास्ति शिखरे रम्ये भरतेश्वरकारितम् / चैत्यं सिंहनिषद्याख्यं मूर्तिभियुक्तमहताम् // 18 // अशक्यः स मनुष्याणामारोढुं सांप्रत गिरिः / प्रत्येकं योजनोच्छायैः सोपानः सहितोऽष्टभिः // 19 // नृणामैदंयुगीनानां केवलं कालयोगतः / तत्तटस्पर्शमात्रेण तीर्थयात्राफलं भवेत् // 20 // यः पुनर्वन्दते गत्वा प्रतिमाः श्रीमदहताम् / अन्तर्भवाष्टकं सम्यक् स प्रामोति परं पदम् // 21 // तच शासनदेवीनां विरलस्य हि कस्यचित् / आराधनप्रसन्नानां सानिध्येनोपपद्यते // 22 // तदहं गन्तुमिच्छामि राजन् ! तं पर्वतं प्रति / न प्रारब्धमनिर्वाह्य सन्तुष्यति हि मानसम् // 23 // एप यात्रान्तरायोऽपि सफलो मेऽभवत् पुनः। यत् तव प्रतिबोधेन महान् धर्मों मयार्जितः // 24 // इत्युक्त्वा तीर्थयात्रार्थ ज्ञात्वा जिगमिषु मुनिम् / पुरः सार्थविलम्बाथं स प्रैपीद् निजमानुषान् // 25 // स्वयं च तमनुव्रज्य महाभक्त्या महीपतिः / सार्थेन सह संयोज्य नत्वा च विनिवृत्तवान् // 26 // II SIDEII AEI
Page #380
--------------------------------------------------------------------------
________________ नवमे // 27 // धर्म स्कन्ये सर्गः२ // 28 // // 18 // ISI ALIINIII तदादि सहितो देव्या गीतार्थान् परिशीलयन् / मम्मणो धर्मकर्माणि चक्रे चक्रधरोपमः देवीव वीचिभिरभीक्ष्णमनुव्रतादि धर्माम्भसां हि मितवान्मनसाङ्गभागा / अष्टापदाद्रिशिखरस्थितचैत्यमूर्वी सुश्रद्धधे किमपि वीरमती प्रणन्तुम् विज्ञाय च व्यतिकरं हृदि सा तदर्थसामर्थ्यवाहनसहायवतामसाध्यम् / सानिध्यतः किमपि शासनदेवतायाः पूर्ण मनीषितमियेष निजं विधातुम् तदा तदाराधनसाधनाय तदीयमूर्ति विधिवद् विधाय / अपूजयत् प्राज्यसमाधिवन्धा हिमाद्रिभूपालचमूत्रिसन्ध्यम् इति श्रीमाणिक्यदेवसूरिकृते नलायने नवमे स्कन्धे द्वितीयः सर्गः // 2 // देशनान्तरे नलस्य पूर्वभवकथनम् // // 29 // FITH // 30 // नवमे स्कन्धे तृतीयः सर्गः। II A इति तस्या वितन्वत्याः प्रीतां शासनदेवताम् / कुशस्त्रस्तरशायिन्या दिनानि कतिचिद् ययुः सा जागरणमष्टम्यां पूर्णिमायां च कुर्वती / निनाय कलगीतायैरात्रीरारात्रिकादिभिः // 1 // // 2 // HI IIIFISHIE // 18 // SIFII
Page #381
--------------------------------------------------------------------------
________________ // 3 // // 4 // . शम् // 8 // ByIIIIIIII-III Ila सहस्रशः कुमारीणां वस्त्रालङ्करणैः समम् / महर्षिदानमुख्यानि भक्तपानानि सा ददौ स्वयं विखण्डितक्लेशा षड्भागोनामखण्डधीः / चक्रे मासोपवासानां प्रयता पश्चविंशतिम् ततस्तत्तपसा तेन प्रीता प्रत्यक्षतां गता / उवाच विशदं वाक्यं स्वयं शासनदेवता वत्से ! कमलपत्रेण लोहमारः समुद्धतः / तपसः क्षमतां नीतं वपुर्यदिदमीदृशम् वशीकृतास्मि साहं ते तन्वनि ! तपसामुना / चन्दनद्रुमकन्दल्याः सौरम्येणेव पन्नगी इदं ते पूर्यते शीघ्र कमलाक्षि ! मनीषितम् / कृतं कालविलम्बेन सजीभव कृशोदर ! इति तां प्रगुणीभूतां शंसन्ती शासनामरी / विमाने स्वयमारोप्य निनायाष्टापदे गिरौ तमष्टयोजनोच्छ्रायमष्टदिग्भागविश्रुतम् / सा वन्दते स्म साष्टाङ्गमष्टापदमहागिरिम् नूनं स भरतो राजा मनुष्य इति नेष्यते / दिव्यं यस्येदमद्यापि कीर्तनं भुवि वर्त्तते इत्यन्तश्चिन्तयन्ती सा प्रासादे तत्र सुन्दरे / प्रविवेश विशालाक्षी देव्याः सान्निध्ययोगतः द्विदशाष्टचतुर्भेदविभक्तान् भक्तितत्परा / स्तम्भस्थितान् ववन्दे सा चतुर्विंशतिमर्हतः तेषां च विधिवत् पुष्पैः पूजां विदधती सती / सफलं सा निजं मेने जीवितव्यं च जन्म च प्रत्येकमपि मूर्तीनां नानारत्नमयानि सा / तिलकानि ललाटेषु रचयामास भाविनी स्थित्वा च जानुयुग्मेन मुक्ताशुक्तिकमुद्रया / ततः स्तुतिमिमां चक्रे महा● मोहवर्जिताम् // 10 // - // 11 // // 12 // IIIIIIIIIII-III Isile // 14 // // 15 // // 16 //
Page #382
--------------------------------------------------------------------------
________________ नवमे // 17 // . // 18 // // 19 // धर्मदेशनान्तरे स्कन्धे. सर्गः३ नलस्य . // 18 // नमः परेभ्योऽपि परापरेभ्योऽपि नमो नमः / परापरपरेभ्योऽपि सर्वविद्भ्यो नमो नमः इति नत्वा च नुत्वा च मासं पूर्णमनोरथा / अमुच्यत द्रुतं देव्या समानीय स्वमन्दिरे सापि तत्र विचित्राङ्गी देवयात्रासमाश्रयम् / शशंस सकलं वृत्तं प्रीता प्रातः पतिं प्रति अजनि तदनु रम्यं देवयात्रागमार्थ जनपदजनभोज्यं वर्षमेकं महीयः / अविरलकलगीतिस्पीतिमन्तः समन्तादनिशमपि नितान्तं दध्वनुर्वाद्यभेदाः धर्मप्रतीतिप्रतिपन्नचित्तौ जायापती तौ घनदत्तवित्तौ / ___ वर्षाणि शेषाण्यपि पुण्यकृत्यैरुल्लङ्घयामासतुरप्रमत्तौ इति श्रीमाणिक्यदेवसूरिकृते नलायने नवमे स्कन्धे तृतीयः सर्गः // 3 // // 20 // पूर्वभवकथनम् // IIIIIIIIII-II IS // 21 // HI AISINI RISHISHITISTS नवमे स्कन्धे चतुर्थः सर्गः। भूयो भवे तृतीयेऽस्मिन् नगरे पोतानाभिधे / तौ धन्यो धूसरी चेति दम्पती समजायताम् // 1 // पाशुपाल्यसमृद्धौ तौ भद्रकौ च स्वभावतः / अभूतां परमप्रेमप्रतिबद्धौ परस्परम् न कोऽपि व्यथितो वाचा न किश्चित् कस्यचिद् हृतम् / न क्वापि खण्डितं शीलं ताभ्यामात्मीयजन्मनि // 3 // // 181 //
Page #383
--------------------------------------------------------------------------
________________ IIIIIIIII-IIIEFIFIERIFIEI क्षुधितस्य क्षुधा भग्नां तृषितस्य तृषा हृता / श्रान्तस्यं च श्रमश्छिन्नः स्वशक्त्या प्रतिवासरम् / // 4 // अन्यदा प्रथमप्रावृट्समये समुपागते / सजीवधनमात्मीयं द्रष्टुं धन्यो बहिर्ययो. वर्णावयवसम्बद्धदरादाहूय नामभिः / अलालयद् यथौचित्यं स धेनुमहिषीनिजाः तदा च कश्चिदप्येकः कायोत्सर्गस्थितो मुनिः / तत्र पापरित्राणमात्रवस्त्रावृतोऽभवत् // 7 // स वृष्टिसकलक्लिष्टशरीरस्य महामुनेः / तस्य मृर्द्धनि धन्यः स्वं तत्र च्छत्रमधारयत् मुनिस्तस्येत्थमासन्ध्यमवन्ध्यपरिचर्यया / वायुवृष्टिव्यथावेगं निस्ततार सुदुस्तरम् अपृच्छच्च मुनि धन्यो नत्वा मधुरया गिरा / कुतः क्व गन्तुकामोऽसि ? कथ्यतां भगवन्निति // 10 // मुनिरप्यूचिवान् पाण्ड्यदेशात् लङ्कापुरीं प्रति / नतये गुरुपादानां एप गच्छन् किलाभवम् इमं तु सांप्रतं वीक्ष्य वर्षासमयमागतम् / इहैव स्थातुकामोऽस्मि जन्तुबाहुल्यतो भुवः // 12 // इदमाकर्ण्य वन्योऽपि तं नेतुं निजमन्दिरे / ददौ महिसमारोटुं पङ्कसङ्करशङ्कया योग्यं न यानमस्माकमित्युक्त्वा श्रमणाग्रणीः / पद्भ्यामेव पुरस्यान्तः समं तेन समाययौ // 14 // तत्र पीयूषतुल्येन पयसा भक्तितत्परः / अकारयद् मुनि धन्यः पारणं पुण्यकारणम् सोऽपि तस्मै सभार्याय कुर्वन् धर्मानुशासनम् / प्रतिपाल्य मुनिः कल्पं जगाम गुरुसन्निधौ // 16 // तदादि धर्मसंपच्या धूसरीधन्ययोस्तयोः / वहतोश्चारु गार्हस्थ्यं जज्ञे परिणतं वयः // 17 // .
Page #384
--------------------------------------------------------------------------
________________ नवमे सर्गः 4 धर्मदेशनान्तरे नलस्य पूर्वभवकथनम् / / // 18 // 19 -II ASIATI IAle सर्वसङ्गपरित्यागं प्रान्तकाले विधाय तौ / महाव्रतधरौ धीरौ शरीरं विससर्जतुः - // 18 // ततः सततसौख्याढये स्वर्गे साधर्म्यवाहिनि / उभौ हैमवते क्षेत्रे जातौ मिथुनधर्मिणौ // 19 // यत्र हेममयी भूमिः पक्षिणो मधुरस्वराः / अच्छशीतानि तोयानि वायवोऽतिसुखावहाः / // 20 // पर्यन्ते युग्ममेवैकं तदपत्यं प्रजायते / एकोनाशीत्यहः पश्चात् तद् मुक्ता यान्ति ते दिवम् // 21 // वस्त्रपात्रनिकेतनकाय्याभोज्यासनादिकम् / तेषां कल्पद्रुमा एव सर्व यच्छन्ति वाञ्छितम् // 22 // इति वर्षमयीं चर्या संपूर्णामनुभृय तौ / महेन्द्रत्रिदिवेऽभूतां देवी दाम्पत्यशालिनी . // 23 // क्षीरडिण्डीरनामानौ वहन्तौ तैजसं वपुः / परस्परमपि प्रेम प्रकाम भजतः स्म तौ // 24 // तत्र पल्याधिकं स्थित्वा सागरोपमसप्तकम् / च्युत्वा च नलभैम्याख्यौ सञ्जातौ दम्पती युवाम् // 25 // तदित्थं यत् त्वया पूर्व मुनिः सार्थाद् वियोजितः / तवापि प्रियया साकं तद्वियोग इहाभवत् // 26 // क्षमितः स त्वया तर्हि नाभविष्यद् मुनिर्यदि / व्यरमिष्यत् तदद्यापि तब किं विरहानलः ? // 27 / / यच्च धन्यभवे दधे छत्रं मुनिवरोपरि / एकच्छत्रमिदं राज्यं तव राजन् ! ततोऽभवत् . // 28 // यदर्हद्धिम्बभालेषु तिलकानि ततान च / सञ्जाता तेन देवीयं भास्वत्तिलकलाञ्छिता // 29 / / यच्च पश्चभवान् यावद् दाम्पत्यमजनिष्ट वाम् / तद्भवान्तरसंस्काराद् युवंयोः प्रीतिरद्भता // 30 // तद् वाक्यमिति शृण्वन्तावन्तश्चिन्तापरायणौ / उपपन्नवपुःकम्पो दम्पती तौ मुमूर्च्छतुः . // 31 // IASIAHINITIताल // 182 //
Page #385
--------------------------------------------------------------------------
________________ ITI - AEII VIII ISIS प्रतिविम्बमिवादशैं स्वमे वीक्ष्यं भवान्तरान् / मृच्छानिद्रां परित्यज्य पुनः स्वस्थौ बभूवतुः . // 3 अनुभवरमणीयं ज्ञानिनस्तस्य वाक्यं, त्रिभुवनजनलीलासाक्षिणः संस्तुवन्तौ / तदधिकपरिचर्यावर्ययातीत्य रात्रिं, दिवसवदनसीम्नि स्वं गृहं प्रापतुस्तौ . // 33 // पुष्पावचायजलकेलिकलाविलासैर्दोलाधिरोहशशिवर्णनसंप्रयोगैः। सङ्गीतकैश्च समयं गमयाम्बभूव तत् सर्वथा मिथुनमव्यथितार्थधर्मः // 34 // विरहजानवमं गललग्नया हृदयदुःखचयान् सुतनु ! त्वया / इति परं परिरभ्य सुनिर्भर रहसि भीमसुतामवदद् नलः // 35 // एतत् किमप्यनवमं नवमङ्गलाई यत् पश्चनाटककविर्विततान नव्यम् / तस्यार्यकर्णनलिनस्य नलायनस्य स्कन्धो जगाम नवमो रमणीय एषः // 36 // इति श्रीमाणिक्यदेवसूरिकृते नलायने नवमे स्कन्धे चतुर्थः स्कन्धः // 4 // समाप्तोऽयं नवमः स्कन्धः / IIIIIIIIIIII-IIIsle जा जा
Page #386
--------------------------------------------------------------------------
________________ दशमे स्कन्धे. सर्यः१ दशमः स्कन्धः दशमे स्कन्धे प्रथमः सर्गः / नलस्य भवान्तरप्रेक्षणम् // // 183 / / IASIA II III ISite // 4 तयोर्निबिडसंसारक्रीडासरणिसारणिः / अनवस्थितसन्ताना न कापि तुष्टिमाययौ सुरूपं प्रियकान्तत्वं साम्राज्यं रोगहीनता / इत्यमी हेतवः सर्वे स्मराग्निसमिधः स्मृताः 'सातिरेकाणि वर्षाणां लक्षणि नवतिर्ययुः / नित्यं नवनवस्तस्य तथापि मदनोत्सवः 'सौन्दर्यविजितेन्द्रस्य साधर्मिकतया तनोः / आनुगुण्यमिव प्राप नैषधस्य मनोभवः तमन्यदा सभासीनं प्रतिहारनिवेदितः / ऊचे कुशीलवाचार्यः कश्चित् प्रेक्षाणकक्षणे बहवोऽपि त्वया दृष्टाः पृथिव्यां देव ! नर्तकाः / पुनर्नर्तकमेकं मे नृत्यंन्वमवधारय इति प्रश्रावितं तेन क्षिप्त्वा जवनिका जवात् / प्रविवेश भ्रमन् रङ्गमण्डपे ग्रामशूकरः धीरमञ्जीरझात्कारं हारकेयूरमालिनम् / सुकण्टमुकुटाटोपं वल्गत्कनककुण्डलम् विचित्रकरणोपेतैरङ्गहारैर्मनोहरैः / नृत्यन्तं वीक्ष्य तं भेजे विस्मयं सकला सभा तालमानलयैस्तस्य घण्टालीनादिभिः शुभैः। चित्रचित्रतरैश्चित्तं चकृषे विदुषामपि . // . // 8 // ॥युग्मम् // 9 // . // 10 // // 183 //
Page #387
--------------------------------------------------------------------------
________________ OSI IIIIII IIFI II II IFlle * नैषधोऽपि विशेषज्ञः स्तुवन् शिक्षासमर्थताम् / प्रसन्नस्तदुपाध्यायं हेमलक्षरयोजयत् . . // 11 // तं च नृत्यस्य विरतौ प्रस्विन्नं ग्रामशूकरम् / चन्दनागरुंकर्पूरैर्लिप्तगात्रमकारयत् // 12 // तथा सुगन्धिलिप्तोऽपि राज्ञः पश्यत एव सः। स्नानप्रणालकुल्याया विश्रं पङ्कमगाहत . // 13 // अहो ! कष्टमहो ! कष्टं कलावानयमीदृशः / इदं च कुत्सितं कर्म किमप्येतस्य दृश्यते / // 14 // इत्युक्त्वा वैरसेनिस्तं पुनः पूतमकारयत् / लुलोठ तत्क्षणं गत्वा स भूयस्तत्र कर्दमे // 15 // ततस्तं कुत्सितासक्तं निःशूकं ग्रामशूकरम् / निनिन्द निर्भरं राजा कुर्वन् मुखविकूणिकाम् // 16 // तदानीं तदुपाध्यायः स्मित्वा साक्षेपमब्रवीत् / राजन् ! जनाः स्वभावेन परदोषकदर्शिनः तथाहि त्वमिमं पङ्के हससि ग्रामशूकरम् / किन्तु निन्दसि नात्मानं मग्नं मदनकर्दमे // 18 // 'इत्युक्त्वान्तर्दधे शीघ्रं सह प्रेक्षणकेन सः / अश्रूयत च सुव्यक्ता व्योम्नि वागशरीरिणी . // 19 // वीरसेनः पिताहं ते त्वां बोधयितुमागतः / त्यज वत्स! महामोहं भज निर्वाणपद्धतिम् // 20 // तदाकर्ण्य नलो राजा सहसैव चमत्कृतः / सुप्तोत्थित इवाकाले निनिन्द स्वं प्रमादिनम् // 21 // अहो ! मम विमूढस्य विषयान्धस्य दुर्धियः। यदेव कृत्यमात्मीयं तदेव किल विस्मृतम् // 22 // अनादिभवसंस्कारः कारणं तत्र मन्यते / भूयो भूयोऽनुभूतेषु विषयेष्वेव यद् भ्रमः // 23 // अहो ! मोहबलं याता निवृत्तियत् प्रवृत्तितः / अनित्यं जीवितं मत्वा यद् जना विषयार्थिनः // 24 // . OII AIII जाबाजाIsle
Page #388
--------------------------------------------------------------------------
________________ // 25 // दशमे स्कन्चे सर्गः१ नलस्य वैराग्य // 26 // भावना। // 984 // // 27 // // 28 // HTTEFINITII VIIII-IIING कष्टं वैदग्ध्यमप्यत्र मत्तानां मोहवृत्तये / न तथा पशवो दवा मनुष्या मैथुने यथा सन्ध्यादिवारात्रिघटीसमेते जनायुरम्भःपरिशोषणाय / आदित्यचन्द्रौ वृषभौ बलिष्ठौ कालारघट्टे परिवर्तयेताम् . यौवनं जलतरणचञ्चलं जीवितं जलदजालसन्निभम् / सङ्गमाः कपटनाटकोपमा हन्त दुस्तरतरो भवोदधिः निगृह्य केशेषु निपात्य दन्तान् बाधिर्यमाधाय विधाय चान्ध्यम् / कामान् बलादेव जरा हिनस्ति स्वेनैव नो मुञ्चति पूर्वमेव तारुण्यरत्नं पतितं व तद् मे हतोऽस्मि हा दैव ! कथं करोमि ? इतीव नम्रः किल मन्दमन्दं पश्यन् प्रयाति स्थविरो वराकः करौ शिरो वापि मुहुर्धनानं मृत्योर्भयात् कम्पितसर्वगात्रम् / निषेधचेष्टाविधुरोऽपि वृद्धं गृह्णाति हा हन्त ततः कृतान्तः अतः परित्यज्य जवेन राज्यं तपोवने यामि विनीतमोहः / न पूर्वजैमें जरठस्वभावे सौधेषु पर्यङ्कयुतैः प्रसुप्तम् / . पूर्वकर्मनिपुणा दिवानिशं भीमजापि तपसेऽनुशास्ति माम् / HEHI AISIN II IIIIIrle // 29 // // 30 // // 31 // // 184 //
Page #389
--------------------------------------------------------------------------
________________ // 32 // दर्भरस्य हि ममैव केवलं दुस्त्यजो विषयवासनाभरः . .. . इति मनसि तदीये चारुचारित्ररत्नग्रहणमतिरतीव स्र्थयभावं गता च / मुनिरपि हि सुदामा नाम धाम श्रुतीनां वनभुवि वनपालस्थाननेन श्रुतश्च . इति माणिक्यदेवसूरिकृते नलायने दशमे स्कन्धे प्रथमः सर्गः // 1 // // 33 // दशमे स्कन्धे द्वितीयः सर्गः / DISHI AIIANSI-II जाना // 1 // अथ श्रुत्वा भवभ्रान्ति शान्तिमान् मुनिसेवया / पवित्रयितुमात्मानं ययौ भैम्या समं नलः नत्वा स विधितस्तस्य मुनिकेसरिणः पुरः। विवेश विवशीकुर्वन् महामोहामतङ्गजम् तस्य मुक्तिलतामूलं वैराग्यं वाक्यवृष्टिमिः / सिषेच हृदयवापव्यापकं मुनिवारिदः राजन् ! विश्वैकवीराणां पथि प्रस्थितवानसि / यद् विनिर्जित्य बाह्यारीनन्तरङ्गान् जिगीषसि लीलया दुर्जया ह्येते विनिर्जितसुरासुराः / अनात्मवत्तया पुंसां सकृदुद्यममात्रतः क्षणिकं खलु वैराग्यं रागान्धमनसां नृणाम् / तद् दुःखं मोहगर्भ च सञ्जातमपि निष्फलम् ज्ञानगर्भ तु वैराग्यं यत् किश्चिदविनश्वरम् / तत्कार्यकरमत्रैकं वापि कुत्रापि कस्यचित् III-IIIFII-II-IIIsle // 3 // // 4 // // 6 // // 7 //
Page #390
--------------------------------------------------------------------------
________________ इन्द्रसेनस्य राज्या भिषेकः॥ NIIIIIII ASHISH न कथञ्चिद् विरज्यन्ते जन्तवः सिद्धसाध्वसाः / मधुबिन्दुनरप्रायाः प्रायः कृपणवृत्तयः // 8 // . धर्मादग्निवलति जलदो वर्तते वाति वातः / चन्द्रादित्यौ भृशमुदयतः सागरः पाति सीमाम् / त्राता दाता शरणमचलो धर्म एकः किमन्यत् / निर्धर्माणां नरककुहरकोडवासः सदैव // 9 // ज्ञात्वापि धर्म मुनिभिः प्रणीतं क्रियापरो युक्तिमुपैति नान्यः / मासाहसप्रायगिरो वराका हस्तस्थदीपाः प्रपतन्ति कूपे // 10 // प्रपित्सुना मुक्तिपदं भवाब्धेः सदैव भव्येन गुरुनिषेव्यः / दवाग्निरुद्धेऽध्वनि पछुमन्धः स्कन्धेन धत्ते नहि निर्गमाय // 11 // इति निरुपमरम्यनिर्मलैः सूरिभर्तुर्वचनरसतरङ्गैधौतमिथ्यात्वपङ्कः। सपदि सपरिवारो वैरसेनिर्विरक्तः कृतमतिरुदतिष्ठद् विष्टपव्यापिकीतिः // 12 // इति श्रीमाणिक्यदेवसूरिकृते नलायने दशमे स्कन्धे द्वितीयः सर्गः॥२॥ HIAHINI बाजाI HIT दशमे स्कन्धे तृतीयः सर्गः। अथ प्राप्य पुरं श्रीमान् मनीषी निषधेश्वरः / राज्याभिषेकसंस्कारमिन्द्रसेनस्य निर्ममे नलं दीक्षोन्मुखं ज्ञात्वा तत्सुतं च पदस्थितम् / समहर्षविषादानां जनानां काप्यभूद् दशा . 3 // 185 //
Page #391
--------------------------------------------------------------------------
________________ Fre // 3 // // 4 // / / 5 / / // 6 // // 7 // युरमम् / / I यथा पाणिग्रहारम्भो यथा दिग्विजयोद्यमः / तथा तस्याभवत् कोऽपि संयमग्रहणोंत्सक अर्चयन् सर्वचैत्यानि प्रयच्छन दानमर्थिनाम् / अन्वितः स पुरीलोकनिययौ नंगराद् बहिः अनुज्ञाप्य जनं सर्व तत्र विश्लपकातरम् / प्रविवेश महारण्यं गभायो भूभुजां वरः श्रुतशीलो महामन्त्री बाहुकश्च महाबलः / महाबलो महाबाहुः केशिनी च कुशाग्रधीः . ऋतुपर्णश्च भूपालः पुष्कराद्याश्च पार्थिवाः / तदा विहाय गाहस्थ्यं वनवासं प्रपेदिरे मध्ये गीतार्थसार्थानां तत्वं ज्ञात्वा गुरोमुखात / महाव्रतधरो धीरः म' चकार महत् तपः अथ क्रमादनातङ्कमकलङ्कमसङ्करम् / अनागाधमनाबाधमनूमिपरिवारितम् असंहननसंस्थानमलिङ्गमगुणत्रयम् / विवेश विशदं राजा मद्यः स ब्रह्मसागरम् तपस्तपस्यतस्तस्य तथ्यमित्थं तपोवने / स्वराज्यहरणाशङ्की शक्रोऽपि हृदि चुक्षुभे ततस्तस्य तपोविघ्नं कर्तुं कीर्तिपयोनिधेः / आययुर्वासवादिष्टा भुवमप्सरसो दिवः न सेहिरे समाधिस्थैमुनिभिनिभृतैरपि / बलात् पुलकदायिन्यो मलयाचलबीचयः चक्रे कर्णकुरङ्गाणां बन्धनं गुणवन्धुरा / देवगानमयी काचिद् वागुरा दूरविस्तृता तथापि हि तमक्षोभ्यं राजर्षिमपकर्षितुम् / न कथञ्चित् सुरखीणां स्वीचक्रे साहसं मम ततः किमपि केशिन्या सम्यक साम्यं दधानया। बभूव छद्मवैदर्भी रम्भा मेनकया सह ददर्श क्रियमाणां तां नलः कलविलापिनीम् / घोरराक्षसवेपेण चित्रं चित्ररथेन खे / / 10 / / युग्मम् / / IASIAFI GALSHI-I काजाISII 4151141HISGIN THISISlie // 13 //
Page #392
--------------------------------------------------------------------------
________________ दशमे स्कम् नलस्य दीक्षा, सर्गः३ // 186 // शीलादीनां 卐 वनवासश्च। IIIIII-IIIIII-III महाराज ! महाराज ! परित्रायस्व मामितः / क्रौञ्चकर्णानुजेनाहं नीये किर्मीरमालिना // 18 // अरण्येऽपि हृता पूर्व न त्वत्पादप्रसादतः / पश्यतोऽपि तवेदानीं हाहा ! हरति राक्षसः // 19 // क्व तत् ते सहजं तेजः ? क्व तद् दिव्याखवैभवम् ? / त्रातुमा प्रियां साध्वी प्रसीद सदयो भव // 20 // प्रियापहरणेऽप्युरुदासीनं नरेश्वरम् / धिग् धिक् कुर्वन्ति हन्त त्वां पश्य पश्य दिवौकसः // 21 // माभूत् तब मयि म्नेहो माभूद् द्वेषोऽपि विद्रिषि / तथाप्यातपरित्राणं विधातुं न विरुध्यसे // 22 // तव राजन् ! विरोधेन ह्रियमाणा विरोधिना | कमन्यमधुना याचे शरणं त्वयि तिष्ठति // 23 // इति शृण्वन् तदाक्रन्दान् अट्टहासांश्च रक्षसः / आशु चुक्षोभ राजर्षिविस्मृतात्मलयो नलः // 24 // उत्पाद्य निकटस्थं द्राक द्रुमं स नरकुञ्जरः / बभाषे भीमदोस्तम्भः साभिमानमिदं वचः // 25 // माभीर्भीमोद्भवे ! माभी रेरे तिष्ठ निशाचर ! / दुरात्मन् ! मामनिर्जित्य चौरवत् किं पलायसे? // 26 // इति राजर्षिणाक्षिप्तः स मायामयराक्षसः / विहाय छद्मवेदी युद्धायाभिमुखोऽभवत् // 27 // द्वयोः प्रववृते युद्धं प्रकम्पितधराधवम् / क्ष्वेडानादभुजास्फोटबधिरीकृतदिग्मुखम् // 28 // परस्परप्रहाराणां तौ प्रशंसापरौ मिथः / युयुधाते चिरं योधावुत्तरोत्तरविक्रमम् // 29 // ततो राजर्षिणा रोषात् मुट्या मूर्द्धनि ताडितः / पलायते स्म साक्रन्दं सं पलादः पुलाकया // 30 // उत्फुल्लवदनाम्भोज़ा सस्मितं विस्मितेव सा / द्राकू छादमयन्ती तमालिलिङ्ग च निर्भरम् .. // 31 //
Page #393
--------------------------------------------------------------------------
________________ DISII A-BHI AIII THI - III IIIT ISle तदकपालिसंभूतपुलकः शुशुभे मुनिः / अकालजलवृष्ट्येव कदम्बः स्फुटकोरकः .. : . // 32 // ततो विकृतिमात्मीयां संवृण्वन् स्मृतसंयमः / स देवेन कृतां मायां विवेद च निनिन्द च // 33 // जवादन्तर्दधे रम्भा संभ्रमेण मुनीशितुः / कितवः कृतकर्त्तव्यो न छुपायेन तिष्ठति . . // 34 // मुनीन्द्रोऽपि तदात्मीयं शीलदर्पणलाञ्छनम् / ततक्ष सुतरां तीक्ष्णैस्तपःशाणैरनेकशः // 35 // रूपं ममापि च तथैव विकृत्य कृत्यैः शक्राज्ञया यदमरै'छलितो नरेन्द्रः। तेनास्म्यहं तदुपसर्गनिमित्तभूता मत्वेति भीमतनयापि तपस्ततान // 36 // नानाशनैरनशनैर्लपिताङ्गयष्टिः स्वाध्यायसंयमसमाधिषु बद्धकक्षः। श्रीमान् मुनिः क्षपितकर्मनलोऽमलोऽपि भाग्यैरभूदुपरि सर्वमहामुनीनाम् // 37 // तस्मिन् गते नृपऋषौ अवनान्तरेण सम्यक् समाधिपरिणामपरायणे च / साध्वीशिरोमणिरसङ्ख्यगुणकभूमिर्मीमोद्भवापि समपद्यत काळधर्मम् // 38 // इति श्रीमाणिक्यदेवसूरिकृते नलायने दशमे स्कन्धे तृतीयः सर्गः // 3 // MSRILAIII ABRII IIIII IIISISite
Page #394
--------------------------------------------------------------------------
________________ TTE दशमे साध्वी सर्गः४ शिरोमणिदमयन्त्याः कालधर्मा // 1871 . // 4 // THI AISHITATHI AII दशमे स्कन्धे चतुर्थः सर्गः। अथ सत्कर्मसम्बन्धान भोक्तुं भोगफलात्मनः / पुण्यश्लोकः स राजर्षिरासीदुत्तरदिक्पतिः सार्द्धषोडशवर्षीयः पुरुषाकृतिमुद्वहन् / उत्तस्थौ रत्नपर्यङ्कात् स विक्षिप्तोत्तरच्छदः ततो जय जयेत्युचैनन्द नन्देति चोचकैः / भद्रं भद्रमिति व्यक्तं व्याजहुखिदिवौकसः चमरालङ्कतां बिभ्रद् गदामुद्दामविग्रहः / प्राप देशप्ररोहस्य स श्रियं वटशाखिनः कमपि प्रियमुद्दाममपुष्यत् पुष्यकं तदा / स्वामिनाधिष्ठितं तेन विरिश्चिनेव वारिजम् पुरातनतनूत्पत्या तस्यैव दयितास्थितौ / भीमोद्भवापि सा देवी तत्रैव समजायत महाबलः समं पत्न्या ऋतुपर्णः स पुष्करः / तस्यैव भृत्यभावेन समजायत तत्क्षणम् जानतामवधिज्ञानात् तेषां प्राग्भवमात्मनः / जज्ञेऽनुस्यूतसन्धाना सर्वेषां प्रेमशृङ्खला धनाधिपतिमुत्पन्नं नूतनं तमवेक्षितुम् / उत्कण्ठिताः समाजग्मुस्तत्र शक्रादयः सुराः . तस्याभिषेकसंस्कार कत्तुं प्रगुणपाणयः / तिष्ठन्ति स्म महेन्द्राद्या महता संभ्रमेण ते ततः परमया भक्त्या ललाटघटिताञ्जलिः / प्रणम्य वेत्रपाणिस्तं वजिवीर्य व्यजिज्ञपत् दिल्या देव ! यदेतेषां सर्वेषामनुजीविनाम् / भागधेयस्त्वमस्माकमुत्पन्नोऽसि धनेश्वरी हाजा-IIIEIHIFIFIFIE // 8 // // 9 // // 11 // // 12 // //
Page #395
--------------------------------------------------------------------------
________________ - II-II AE HI AISEII NIHIsle तिष्ठत्स्वपि हि सर्वेषु देवेषु वरुणादिषु / कुबेर ! तब तुल्या श्रीः कस्येह किल वर्चते. .. // 13 // क्रीडावनानि वनकल्पमहीरुहाणां चिन्तामणिस्थलभुवो भवतः समस्ताः। त्वं कामधेनुनिकटव्रजकोटिनाथस्त्वत्सन्निभो न विभवेन भवेऽस्ति कश्चित . // 14 // इति प्रतीहारगिरं निशम्य सुरः प्रयोगाय सुमङ्गलाय। सजीभवन्नर्हदुपास्ति पूर्व सुशाश्वतं चैत्यगृहं विवेश . // 15 // तत्र प्रणम्य भगवन्तमनन्तमन्तःसन्तापसन्ततिहरं परमेष्ठिनं सः। / अभ्यर्च्य तत् तदुपचारभरैश्च भक्क्या चक्रे विचारचतुरः स्तुतिमित्थमर्थ्याम् // 16 // परमया रमया परिशीलितं शमितया मितया विजितक्रुधः / विभवदं भवदङ्घिसरोरुहं सुकृतिनः कृतिनः परिचिन्वते * // 17 // तव पादपद्मयुगमत्र सतां शरणं विधाय चिरमत्रसताम् / विषयार्णवेऽपि न भयं पततां वियतीव पक्षियुगलं पतताम् // 18 // त्वं दर्शनादपि ददासि समीहितार्थान् त्वच्चिन्तनादपि विनश्यति विघ्नवर्गः / यत्नेन नाथ ! विहिता तव पर्युपास्तिव्यात्मनां बहु भवभ्रमणं रुणद्धि // 19 // अपाराय साराय शश्वद् नमस्ते प्रकृष्टाय शिष्टाय दिष्ट्या नमस्ते /
Page #396
--------------------------------------------------------------------------
________________ दशमे // 20 // प्रशस्विः // सर्वः४ II A TRITIK // 21 // l288 IITFIIHI|| IIT CATIK अनन्ताय नित्याय नित्यं नमस्ते नमस्ते नमस्ते नमस्ते नमस्ते स्तवनमवनतः स तथ्यमित्थं नवनवमङ्गलकारि चारु कृत्वा / अभदजभिजनाभिधानधन्यं धनदपदं त्रिंदशेश्वराभिषिक्तः एतत् किमप्यनवमं नवमङ्गलाई साहित्यसारविदुषा कविना कृतं यत् / तस्यार्यकर्णनलिनस्य नलायनस्य स्कन्धो जगाम दशमः शमसंभृतोऽयम् उत्पत्तिदौत्यवरविड्वरशीलसूचासंयोगराज्यभवनिर्वहणाभिधेयाः। स्कन्धा भवन्ति दश यस्य नलायनस्य पूर्ण तदेतदधुना धनदप्रसादात् इति श्रीमाणिक्यदेवसूरिकृते नलायने दशमे स्कन्धे चतुर्थः सर्गः // 4 // // 22 // // 23 // समाप्तं चेदं नलायनं 1 कुबेरपुराणं 2 शुकपाठ 3 इत्यपरनामकम् / HIA FII ASIA III 4-15II के संपूर्णोऽयं ग्रन्थः। // 18 //
Page #397
--------------------------------------------------------------------------
________________ शुद्धिपत्रकम् / पृष्ठे श्लोकः / पृष्ठे . MRI ISHITATISFIGHI AISHII NIFICATEKO शुद्धम् . मुंञ्चेद् -केसराढ्यैः तद्वाष्प किं न तव अशुद्धम् शुद्धम् -मीक्षते -मीक्ष्यते इत्यादि वादिनौ इत्यादिवादिनौ / देवाकर्णयशं प्रति देवाकर्णय संप्रति -मस्मामि- -मस्माभिवीर शून्या वीरशून्या यदामूर्ख- यदा मूर्खआद्यार्चनं अद्यार्चनं -र्म धुरैरपि -मधुरैरपि कुठार हताऽपि कुठारहताऽपि मुहुर्महुर्न मुहुर्मुहुर्न अशुद्धम् | तं मुनेद् -के सराढ्यैः तद्वाष्पकिं तव उच्छहलः समस्ताः / कस्य -मभ्यर्थसे नषेधः नषेधोऽपि -गुजित भाजIEIHI-II-II ISIS 52 0 030 समस्ताः कस्य मभ्यर्थ्यसे नैषधः नैषधोऽपि --गुञ्जित
Page #398
--------------------------------------------------------------------------
________________ // 189 // ASHIK विटैघर्टय विटैर्घटय किं 93 24 सामान्त सामन्त दुःखं 2006 दैवमकायज्ञ- दैवमकार्यज्ञ- 143 भवन्तुत्व- भवन्तु त्व- 143 दारत्यागीस दारत्यागी स 153 प्रत्युवाचस प्रत्युवाच स निजगात्रेम्यो निजगात्रेभ्यो 164 लोकापाला लोकपाला -मुहुर्त 170 सृजन्त श्चित्तं सृजन्तश्चित्तं 174 भूमिपाल व्यालोल भूमिपालव्यालोल 174 तृष्णाशिनः तृणाशिनः 179 पोतानाभिधे पोतनाभिधे 181 - महामोहा- महामोह- . 185 सद यं सदयं कथा कृथा चेन्द्र त्यक्त्वाचाज्ञामपि त्यक्त्वा चाज्ञामपि बहुविधाः बहुविधां -मबबीत् -मब्रवीत् तथुस्ष तस्थुषपुनुरागतम् पुनरागतम् 9I5FII III AIILATHI A SIA ISSIL A 5/1 4 IIIIIIIIIIle