SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ इन्द्रसेनस्य राज्या भिषेकः॥ NIIIIIII ASHISH न कथञ्चिद् विरज्यन्ते जन्तवः सिद्धसाध्वसाः / मधुबिन्दुनरप्रायाः प्रायः कृपणवृत्तयः // 8 // . धर्मादग्निवलति जलदो वर्तते वाति वातः / चन्द्रादित्यौ भृशमुदयतः सागरः पाति सीमाम् / त्राता दाता शरणमचलो धर्म एकः किमन्यत् / निर्धर्माणां नरककुहरकोडवासः सदैव // 9 // ज्ञात्वापि धर्म मुनिभिः प्रणीतं क्रियापरो युक्तिमुपैति नान्यः / मासाहसप्रायगिरो वराका हस्तस्थदीपाः प्रपतन्ति कूपे // 10 // प्रपित्सुना मुक्तिपदं भवाब्धेः सदैव भव्येन गुरुनिषेव्यः / दवाग्निरुद्धेऽध्वनि पछुमन्धः स्कन्धेन धत्ते नहि निर्गमाय // 11 // इति निरुपमरम्यनिर्मलैः सूरिभर्तुर्वचनरसतरङ्गैधौतमिथ्यात्वपङ्कः। सपदि सपरिवारो वैरसेनिर्विरक्तः कृतमतिरुदतिष्ठद् विष्टपव्यापिकीतिः // 12 // इति श्रीमाणिक्यदेवसूरिकृते नलायने दशमे स्कन्धे द्वितीयः सर्गः॥२॥ HIAHINI बाजाI HIT दशमे स्कन्धे तृतीयः सर्गः। अथ प्राप्य पुरं श्रीमान् मनीषी निषधेश्वरः / राज्याभिषेकसंस्कारमिन्द्रसेनस्य निर्ममे नलं दीक्षोन्मुखं ज्ञात्वा तत्सुतं च पदस्थितम् / समहर्षविषादानां जनानां काप्यभूद् दशा . 3 // 185 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy