SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ तृतीयस्कन्धे सर्गः१ भीमभूपतिना स्वयम्वरार्थ प्रेषिताः ॐ सचिवाः॥ // 54 // IIIIATELATHIIIII NIFICATI तृतीयः स्कन्धः। तृतीये स्वयंवरस्कन्धे प्रथमः सर्गः / ततः कृत्वा तमावेशं वैदर्भीनलयोस्तयोः / ययौ कुर्कुटशब्देन शाकिनीव विभावरी क्रथकैशिकनाथस्य शासनेन महीपतीन् / प्रावर्त्तन्त समाह्वातुं सचिवाः शुचिवादिनः // 2 // शचीबलिविधानस्य मेरीभाङ्कारमिश्रिताः / विष्वग् जजृम्भिरे वारनारीमङ्गलगीतयः इत्थं दिनमुखे तस्मिन् देवदूत्यकदर्थितम् / प्राबोधयन् प्रसुप्तं तं नलं वैतालिका नृपम् सारस्वतमयमूर्तिधर्मात्मा जगति विजयते वीरः। अपि दानैरपि कीर्तिभिराशाः परिपूरयन् सकलाः // 5 // कलाकेलिकल्लोलिनीलब्धपारः कुले वीरसेनस्य धर्मावतारः। जयश्रीवधूकण्ठशृङ्गारहारः सदा नैषध ! त्वं सदाचारसारः धीरपि कुशाग्रनिशिताऽसितप्रभं करतले च करवालम् / भरतावनीशकुलकमलिनी दिनकरस्य पृथुयशसः॥७॥ यशोराशिभिर्निर्जितक्षीरनीरः परानीकिनीमेघमालासमीरः कथं वर्ण्यसे वीरकोटीरहीरः 1 क्षितौ नैषध ! त्वं हि गम्भीरधीरः // 8 // IFILAISII II IIIIIIIII // 54 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy