________________ = = IIIIIIII-IIIIIIIIIsle अथोत्थितः सत्वरमेष भैमीमनुव्रजन्तीं प्रसभं निषिध्य / अन्तर्दधे वज्रधरप्रभावः स्वभावधीरो निषधाधिराजः / // 20 // अद्य ध्रुवं त्रिभुवनं वशवर्ति जातं नूनं मया च सदृशः सुकृती न कोऽपि / प्राप्तः प्रसन्नमहिमा गृहमभ्युपेतः प्राणेश्वरः स मम लोचनगोचरं यत् // 21 // इत्थं प्रभृतभयविस्मयहर्षशोकस्तम्भत्रपापरवशं हृदयं दधाना / तत्संविधानकमपूर्वमनुस्मरन्ती भैमी सखीपरिवृता शयनीयमाप // 22 // संप्राप्तः स्वशिविरसनिवेशमुच्चैस्तत् सर्व निजकरणीयमभ्युदीर्य / प्रीतेन प्रतिबलसूदनं विसृष्टस्तुष्टाऽऽत्मा निषधनृपेण नैगमेषी // 23 // इति विधाय वचः स दिवौकसामनवमङ्गलगोचरजीवितः गमयति स्म कथश्चन यामिनी ससमयं शयने शयितो नृपः / 24 // एतत् किमप्यनवमं नवमङ्गलाकं यन्निर्ममे मुनिमनोहरयोर्विधाता / तस्याऽऽर्यकर्णनलिनस्य नलायनस्य स्कन्धो जगाम रमणीयरुचिर्द्वितीयः इति श्रीमाणिक्यदेवसूरिकृते नलायने द्वितीये दूत्यस्कन्धे षोडशः सर्गः // 16 // इति द्वितीयः स्कन्धः समाप्तः।। III AISII ATI IIIIIIIII