SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ द्वितीयस्कन्धे सर्गः१३ // 48 // AISIOISIT ISI-IIII-II ISH इत्यन्योन्यविरुद्धमीदृशमिदं त्वं वा कथं भाषसे ? विश्वस्य प्रलयं करोति पितो धर्मः सतां शाश्वतः // 23 // सङ्ग्रामेष्वचलः कलासु कुशलः सेवाजुषां वत्सलः सत्कीर्त्या धवलः स्वभावसरलः प्रत्यर्थिकालानलः / पूर्व येन वृतो मया स सकलक्ष्मामण्डलाखण्डलः श्रीवल्लीनवकन्दलः पृथुबलः सौभाग्यसिन्धुलः // 24 // अद्याऽऽयातः स मम वचनादत्र हित्वा स्वदेशं प्रीतिं धत्ते मयि च महतीं तादृशः सार्वभौमः तस्यैतत् मे निखिलमधुना मण्डनं लग्नमङ्गे तस्मिन् मिन्नं भवति हृदयं किं कुलाचार एषः? !!25 // विघटितवपुभूयो भूयः शशी घटतेतरां फलति कदली वारं वारं कुठार हताऽपि हि / मिलति सहसा सूतः खण्डीकृतोऽपि मुहुर्महुर्न तु पुनरियं सूते जिह्वा मृगारिवधूरिव // 26 // नैकस्तम्भे भवति नियतं मत्तमातङ्गयुग्मं शूरस्यापि प्रभवति तथा नैककोशेऽसियुग्मम् / नैवैकस्मिन् भवति गगने सूर्यबिम्बद्वयं वा नैवैकस्मिन् भवति वदने हन्त ! जिहाद्वयं तत् // 27 // उभयवदना सूची शक्ता न तन्तुविनिर्गमे क्वचिदपि कथं गन्तुं शक्यं द्वयोरपि मार्गयोः / किमिदमुचितं द्वौ भर्तारौ नरश्च सुरश्च तद् ? द्वयमसदृशं स्वेच्छाचारः कुलक्रम एव च // 28 // यदि युवजनकीर्तिस्तम्भमम्भोजवक्त्रं नलनृपमपहाय क्वापि पत्यौ परस्मिन् / वलति हृदयहस्ती तावदाजन्मतो मे सकलभुवनदीपास्तत् त एव प्रमाणम् * // 29 // एतचिन्तामणिविजयि यच्चारु चारित्ररत्नं दत्तं सम्यग् भुवि भवजुषां भावभाजां जिनेन / देवदूतस्य वचसा . खिन्ना दमयन्ती तया च प्रतिपादितोत्तरः॥ IFTIIMSHIII-IIIFIESI 48 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy