________________ BAI AIAINIK कृष्णेन पार्वतीहेतोरनुधावन् महेश्वरम् / मायामहिलया दैत्यो दुर्द्धरः सहसा हतः / // 27 // तदित्थं दारुणोदः कामः सर्वत्र कामिनाम् / लोकद्वयविरुद्धश्च गर्हितश्च महात्मनाम् . // 28 // ततो मयि निरीहायां भूत्वा त्वं जीवितप्रदः / महात्मंश्चित्तमात्मीयं न क्रूरं कर्तुमर्हसि // 29 // इदं हि मम सुप्रीतं भ्रातरीव मनस्त्वयि / मा भवेच्छीलविध्वंसरोषावेशविसंस्थुलम् तवोपकारजं पुण्यं कृतज्ञत्वगुणश्च मे / अखण्डं द्वयमप्यस्तु यावत् चन्द्रदिवाकरौ // 31 // इति सम्यक् समाकर्ण्य वचः सत्यं सतीमुखात् / त्रस्तोऽपि धाय॑मालम्ब्य प्रत्युवाच वनेचरः // 32 // अयि ! हन्त ! वृथा क्लेशः कोपदेशैर्विधीयते ? / स्थले जलमिवासाकं हृदि शीलं स्थिरं कियत् ? // 33 // इदं हि सुमहद् दुःखमस्माकं नरकादपि / त्वादृशं यत् करप्राप्तं स्त्रीरत्नं नोपयुज्यते इतोऽपि महती गर्दा काऽपि नः शूरसंसदि / क्लीबैरिव यदस्माभिभर्वती नोपभुज्यते // 35 // किमत्र वितथनासैरस्मान दूरं विधास्यसि ? / इहास्माकं बलात्कार को निवारयितुं प्रभुः / इयमालिङ्गथ सर्वाङ्गं स्वैरं विविधभक्तिभिः / तरसाऽपि सरोजाक्षि ! निःशङ्कमुपभुज्यसे // 37 // इति जल्पन् विमर्यादं कामान्धः सव्यपाणिना / स भीमदुहितुर्देव्याः केशग्रहमचिन्तयत् // 38 // हा! धिक कष्टं कः प्रमादस्तवायं मा मैवं भो मुश्च दूरे भवेति / सभ्रूभङ्गं मौलिभागं धुनाना तं प्रत्यूचे हस्तमुद्यम्य देवी // .39 // काजाIIIIII II IIIF Isle