SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ अद्यापि यत्प्रयाणेषु तुरङ्गखुरखण्डितम् / सुधांशौ दृश्यते लीनं लाञ्छनच्छद्मना रजः // 17 / / नूनं नलसमो राजा न भूतो न भविष्यति / कोऽपि तत्तद्गुणो नान्यः श्रूयते कथमन्यथा? // 18 // श्रीशान्तिखि दुःस्वमं महाविषमिवेन्द्रजित् / हरत्यहरहः पापं नलः स्मरणमात्रतः // 19 // यत्पुण्यं जाह्नवीस्नानाद् यत्पुण्यं गुरुपूजनात् / यत्पुण्यं प्राणिनां त्राणात्तत्पुण्यं नलकीर्तनात् // 20 // निदाघे चन्दनं हृद्यं हृद्या वर्षासु मालती / पिकध्वनिर्मधौ हृद्यः सदा हृद्यं नलायनम् // 21 // यथा श्रेयस्करं दानं यथा पापहरं तपः / यथा शौचकर शीलं तथैव नलकीर्तनम् // 22 // एकतः शकुनाः सर्वे सुप्रशान्ताः फलप्रदाः / कार्यकाले नलस्यैकं नामग्रहणमन्यतः // 23 / / भरतश्चार्जुनश्चैव वैण्यश्च पृथिवीपतिः / नलश्च नैषधो राजा यात्रायां सिद्धये स्मृताः // 24 / / अभीमं भीमसंयुक्तममरालं मरालवत् / न कस्य विस्मयं दत्ते वाच्यमानं नलायनम् // 25 // निर्मलं श्रीरललितं निशालं विश्वनिशुतम् / गुणगशोकग राजर्षेः कीर्न कलिनाशनम् / / 26 !! मध्ये धर्मस्य शान्तेश्च चतुर्थे च तथारके / वीरसेनसुतो राजा नलो राज्यमपालयत् // 27 // वहन विहितविश्वासं चयः षोडशवार्षिकम् / वपुषा वृषभस्कन्धः म प्रजानां प्रियोऽभवत् // 28 // रूपनिर्जितनासत्ये सत्यवादिनि राजनि / तस्मिन् मनोरथातीतं प्रजाः सौख्यं प्रपेदिरे // 29 // खास्थ्येन च समृद्ध्या च सौरांज्येन शिवेन च / आर्यावर्तः परां कोटिं देशी देशेषु लब्धवान् // 30 // II II FIFIEFIFIE IF IN
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy