________________ // 8 // // 9 // // 10 // // 11 // // 12 // IIIATIATIAHIामाद // 14 // उत्थिताऽसि कथं मुग्धे! पुनरासनमास्यताम् / मा चिन्तय चकोराक्षि! दुर्विनीतमिमं जनम् कच्चिदस्खलितानन्दं हृदयं तव सुन्दरि! / कच्चित् प्रियसखीवर्ग कुशलं कमलाक्षि! ते आकर्णय गिरं गौरि ! मदीयां मदिरेक्षणे ! / विद्धि दिक्पालपार्थाद् मां तवैवातिथिमागतम् कामं कौमारमारभ्य हृता गुणगणैस्तव / द्रुमा इव सरित्पूरैः शक्रार्किवरुणामयः विभर्ति केवलं शक्रः कुण्डले कुण्डिनाख्यया / दमयन्ति ! भवन्नाम्ना तथा दमनकस्रजम् तस्यापरोऽपि दिक्पालस्त्वद्वियोगाग्निसंभवम् / अनूनं मन्यते तापं स्वतोऽपि हि तनूनपात् तस्य त्वद्विरहार्तस्य पूज्यमानस्य याज्ञिकैः / हाकारशब्दसामान्यं स्वाहाकारः प्रवर्त्तते वैवस्वतोऽपि दिक्पालः स कालिन्दीसहोदरः / धर्मराजोऽपि रम्भोरु ! कामराज्यं समीहते भवद्विरहविद्धस्य देहं दहति सन्ततम् / तस्य स्वदिग्भवो वायुहादग्निरिवोत्थितः पश्चिमाधिपतिर्देवः स श्रीमान् वरुणोऽपि हि / त्वदर्थ जीवितव्येऽभूदपाशः पाशवानपि निदाघकालतुल्यानि युगलक्षोपमानि च / अतिक्रान्तानि सापेक्षैरेतावन्ति दिनानि तैः तव स्वयम्वरं ज्ञात्वा स्वर्ग त्यक्त्वा समागतैः / तैरिदानी दिशामीशैरियं भूरि भृष्यते समस्तन्यस्तसन्देशः प्रेषितः प्रेमसूचकः। तेषां जङ्गमलेखोऽयं जनस्त्वां समुपस्थितः एकैकशो दृढकुचद्वितयोपपीडमालिङ्गथ निर्भरममी त्वयि सन्दिशन्ति / NIFTIIIEISHIRIFII-IIIMS // 16 // // 18 // // 19 // // 20 //