________________ IIIIIIII-III HIFIIEIFIFIFle अध्यासीनेन नश्चित्तं प्रथमं दर्शनादपि / क्षेत्रकालाहमेतद् मे कथं नासनमास्यते ? // 13 // अन्यतोऽपि यियासायां कर्तव्ये सुमहत्यपि / अनर्हेऽपि प्रदेशेऽस्मिन् हन्त ? विश्रम्यतां क्षणम् // 14 // उपरोधेन कस्यापि महाय॑मपि दीयते / तद् नः परिचयं दातुं कुतः कृपणता तव ? // 15 // शिरीपसुकुमारौ ते चरणौ निर्दयं मनः / अद्यापि हि कियद् दुरं कदर्थयितुमिच्छसि ? // 16 // कस्मिन् देशेऽधुना ध्वान्तं ? कुत्र चन्द्रोदयोऽधुना ? / यतस्त्वं विनिवृत्तोऽसि यत्र त्वं वा यियाससि // 17 // धन्यास्ते मातृकावर्णा यैर्नाम तव निर्मितम् / तत्कर्णाभरणीकर्तुं कस्येह न हि कौतुकम् ? // 18 // सूचयन्ति निमित्तानि न पुनर्भाग्यनिश्चयः / कस्याप्यत्रातिथिस्त्वं यत् किं वा व्यर्थमनोरथैः // 19 // न प्रज्वलन् हुतवहः किमु लचितोऽयं ? स्थाने यदत्र विषमे विहितः प्रवेशः। एतच्च साहसमियं च तनुः प्रशान्ता किं तत् प्रयासफलमित्यहह ! भ्रमो मे ? // 20 // पुंनाममिः शिशुमिरप्यविभाव्यमेतत् स्थानं ध्रुवं त्वमसि नः मुकृतेः प्रपन्नः / यद् रक्षकैर्न कलितोऽसि निशातशस्त्रैदृष्टोऽसि यन्मदनसुन्दर ! लोचनाभ्याम् // 21 // पातालभूतलदिवामपि हि त्रयाणां धन्यं तदत्र भुवनं तव यत्र जन्म। मध्ये सुरासुरनरोरगमानवानां सा जातिरत्र जयिनी तव यत्र जन्म // 22 // यश्चण्डांशुः स खलु निखिलस्त्वत्प्रतापस्तदुष्णः कायच्छाया स तव नियतं तेन कामोऽप्यनङ्गः। कामाबाबा बाबा नाना