SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ II II पञ्चमे स्कन्धे पञ्चमः सर्गः = // 2 // = // 4 // = = तां वीक्ष्य मुक्तनिःश्वासां मौनमुद्रावलम्बिनीम् / स्मरबाणव्यथाधीनो बभाण शबरः पुनः अयि ! कि मौनमाश्रित्य निश्वासीयते क्षणः / रतदुःखावहत्वं न चिन्तनीयं स्वचेतसि निःशङ्कमत्र कान्तारे तन्मया सह रम्यताम् / नैवास्मच्छङ्कितव्यं च बन्दिग्राहिमयं हृदि यावत् प्रसादमस्मासु स्वस्थासि नित्यमत्र वा / अनुव्रज ततोऽस्माकं वचस्त्वं द्रुतमेव वा इति प्रेमद्रवीभूतं गोष्ठस्थं गोष्ठलीलया / वदान्यमिव जल्पन्तं तमवोचत भीमजा महाभाग ! यथार्थ त्वं विनीतोऽसि किमुच्यते ? / न ग्रामनगरापेक्षा सदसत्संभवं प्रति युष्माकमिह सामर्थ्य विनिर्जेतुं नृपानपि / शिशुमारोऽपि गृह्णाति गजानपि जलस्थितः अनाथामवलां मूढां यत् त्वं नहि रुणसि माम् / तत तवैव हि सौजन्य किरातः कथमीदृशः नूनं सर्वत्र वर्तन्ते जगति त्रिविधा जनाः / भिल्लेष्वपि महाभागो दयालुः कथमन्यथा ? अस्मिन् रौद्रे महारण्ये महात्मा यत् त्वमीदृशः। क्षारवारिणि मिष्टाम्बु तदिदं दैवयोगतः नाहं कथञ्चिदानृण्यं यामि प्राणप्रदस्य ते / यतः प्राणाधिकं दातुं कस्य शक्तिर्जगत्यपि यदाद्यजगरग्रस्ता कृष्टा कालमुखात् त्वया / तदादि भवता दत्तं जीवितव्यमिदं मम DIFILAIIIIIIIIIIIIIIISIlle 9III III IIITHI-II = // 8 // // 10 // // 11 // // 12 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy