________________ द्वितीय स्कन्धे सर्गः४ II II IIIIIIE श्री पृथ्वीपीठा गतानां इन्द्रादीनां मन्त्रबलेन / नलेन स्तम्भिता सेना // 34 // . द्वितीये दूत्यस्कन्धे चतुर्थः सर्गः। प्रभावस्तम्भितैर्यानैर्ददृशुस्तं दिवौकसः / संयमस्तिमितैरक्षः क्षेत्रज्ञमिव योगिनः न शश्वसुने जगदुर्न च स्वं विविदुः स्वयम् / ययुश्च महसा शीघ्रं पश्यन्तस्तं दिवौकसः // 2 // महोन्नतिजुषा तेन सा निरर्गलगामिनी / सौभाग्यनलमन्त्रेण स्तम्भिता शक्रवाहिनी लावण्यामृतपाथोधौ पार्थिवे पृथुवक्षसि / अपि मग्नानि प्रौढानां मनांसि त्रिदिवौकसाम् // 4 // अहो ! रूपमहो! रूपमहो! रूपमिति क्षणम् / मज़स्तेषां धुनाति स स्तुतिझञ्झानिलो भृशम् // 5 // राजराजेश्वरः श्रीमान् स एवैष नलः कथम् / इत्थं परस्परं प्रोचुर्मन्दं मन्दं दिवौकसः // 6 // तत्र स्वयंवरे नूनं यात्यसौ पृथिवीपतिः / आमिरामिकमस्येदं यतः सर्वाभिषेणनम् // 7 // पग्रिन्या इव मार्तण्डं गङ्गाया इव सागरम् / अमुं विलोक्य वैदा नान्यस्मिन् रंस्यते मनः // 8 // रूपलक्षणवर्णाद्यैरत्यन्तं हीनताजुषः / पुरस्तादस्य दृश्यन्ते देवासुरनरोरगाः // 9 // एकहट्टवणिक् सोऽयं निश्चितं निषधेश्वरः / निजरूपक्रयक्रीतां दमयन्ती गृहीष्यति // 10 // मुर्खत्वादस्मदुत्कृष्टं भैमी त्यजति चेदमुम् / अप्रतीत्य परोत्कृष्टान् नास्मानपि वृणीत सा // 11 // गुणाधिकममुं मुक्त्वा सा कदाचिद् वृणीत नः। वृण्वत्यापि तदाऽस्माकं तया किमगुणज्ञया? // 12 // IIIIIIIIIEIFIIR IIIIIIITTE DIII RISHI AIII // 34 //