________________ = II A THEIIIII = = माझा IIIII-IIIII FIII II कमलकमलयातिप्रीतिदाः सारसानां सरससरस एते विन्ध्यशैलप्रदेशाः इत्थं स तेन सचिवप्रवरेण रम्यं रेवातटव्यतिकरं विनिगद्यमानः / हंसः पुरः परिवृतां चतुरेश्चतुर्भिरेका रथाङ्गगृहिणी सहसा ददर्श तां दर्शयन्नथ नलः श्रुतशीलमूचे मत्रिन्नमुत्र किमिदं ननु पश्य पश्य ? / एषामसावविषयस्तदमी परस्त्रीं हंसा रथाङ्गगृहिणीं किमु कामयन्ते ? // 8 // इयमपि चटुलेषु चाटुकारेष्वतिरुचिरेष्वपि खेचरेष्वमीषु / कथमपि न पुनर्षिभर्ति भावं रतिमिव कैरविणी रवेः करेषु अनुचितमनुरागमीदृशं धिक् ननु शिखिपिच्छमिवैकपक्षरम्यम् / बन इव रुदितं दिवीव गुप्त हुतमिव भस्मनि वा रतिर्विरक्ते // 10 // नैवान्यजातिमभियाति कदापि मुक्त्वा किश्चिन्निमित्तमिव मच्छुभमत्र नूनम् / अस्मिन् स्वयम्बरविधौ नियतं यदस्मात् संभाव्यते किमपि विस्मयकारि कार्यम् // 11 // इति निगदितवन्तं मत्रिणा सार्द्धमन्तर्विरचितदमयन्ती प्राप्तचिन्तातरङ्गम् / अनुपमरमणीयं पार्थिव द्रागपश्यन्नवनिमवतरन्तस्तं ततस्ते सुरेन्द्राः // 12 // इति श्रीमाणिक्यदेवसूरिकृते नलायने द्वितीये इत्यस्कन्धे तृतीयः सर्गः // 3 // ISIT A TEII A MEII II