SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ AIIMISSIII-III IIFIEI Isle तथा नलमहीभुजा भुजविनिर्जितद्वेषिणा वितीर्णमखिलावनीवलयकल्पवृक्षेण च / बभूव सहसा यथा कनकभूषणानां भरैः परिश्रमपरम्परा वपुषि याचकानामपि // 31 // भैमीसख्यो निजदुहितरः प्रीतियोगं विदद्भिः पृथ्वीपालैललितरचनादक्षिणैर्दाक्षिणात्यैः। श्रेष्ठैः साकं नलसहचरैः पार्थिवैः शुद्धवंशैः सम्यक्पाणिग्रहणविधिना योजिताः शीलवत्यः // 32 / / स्थित्वा मासं प्रियपरिचयैरुत्सवादुत्सवेन स्वीयं देशं प्रति जिगमिषौ नैषधे राजचन्द्रे / पत्युर्गेहं प्रियदुहितरं प्रेष्यमाणां सवाष्पां प्रत्याह स्म प्रणतशिरसं साश्रुट्टा भीमभूपः // 33 // जानासि सर्वमपि संवृणु पुत्रि ! बाष्पं किं शिक्ष्यसे क इव नो वचनावकाशः / ब्रूमस्तथापि किमपि व्यवहारसारं चन्द्रस्य चन्दनविलेपनमाचरामः // 34 // निश्छद्यता गृहपतौ गुरुषु प्रणामः स्नेहः कुले परिजने च महन्महत्त्वम् / सापत्न्यकेऽपि मृदुता प्रतिषः प्रियारौ निर्मोक्तयः प्रियसखे ! च कुलाङ्गनानाम् गृहिणि वदति नम्रा पादयोर्दत्तदृष्टिः स्वयमुपचरति द्राक् दत्तशिष्टासना च / प्रथममपि न शेते तस्य जागर्ति पूर्व सुमुखि ! कुलवधूनामेष सिद्धान्तधर्मः इत्यूचिवान् विनयिनीमनुगृह्य पुत्री जामातरं स्वयमनुव्रजति स्म धीरः। तिस्रः प्रयाणवसतीः सह संनिविश्य प्रत्याजगाम च नलानुमतः स्वदेशम् // 37 // जा ISIT IIIFISHI IN HIFIEle
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy