________________ हतीय स्कन्धे सर्गः९ // 69 // BIBIla-III TElla THII AIII WIIIT ISe उल्लङ्ख्य वर्त्म विपुलं च नलः प्रयाणैरानन्दसौहृदसमृद्धसमग्रसैन्यः / स प्राप सन्मुखसमागतपौरलोकामुत्तुङ्गतोरणगणाऽऽकुलराजधानीम् // 38 // दैवज्ञवृन्दकथिते विपुले मुहूर्ते कृत्वोत्सवेन महता स पुरप्रवेशम् / निःशेषलोककृतमङ्गलसंविधानः सन्मानदानविधिभिः स्वजनं पुपोष // 39 // एतत् किमप्यनवमं नवमङ्गलाई श्रीमद्यशोधरचरित्रकृता कृतं यत् / तस्यार्यकर्णनलिनस्य नलायनस्य स्कन्धो जगाम रसवीचिमयस्तृतीयः // 40 // इति श्रीमाणिक्यदेवसूरिकृते नलायने तृतीये स्वयम्वरस्कन्धे नवमः सर्गः // 9 // समाप्तस्तृतीयः स्कन्धः / नलस्य लग्नान्तरं . स्वदेशगमनं भीमभूपतेश्व दमयन्त्या उपदेशः॥