________________ आमा II ASINI ATHIINFINIK एकैव वाङ्मनसयोः पदवी यतो मे नैतन्मम प्रचलति प्रलयेऽपि वाक्यम् . // 40 // कि प्रार्थ्यसे चिरतरं चतुरोऽसि यस्मात् ? किं शिष्यसे च समये भणितुं बुधोऽसि / ' त्वत्तः सुसिध्यतु तवापि ममायमर्थो देहान्तरेऽपि मम शक्तिरिमं विधातुम् // 41 // जानामि नैषधमहं नृपति पुराऽपि देहं वहामि सकलं तदिदं तदर्थे / कत्तुं मया परिचयं सुचिरं त्वमुक्तस्तुभ्यं नमोऽस्तु कुरु कार्यमिदं मदीयम् // 42 // इति स तां मुदतीं नुदतीं जगौ यदि तवैष तनूदरि ! निश्चयः। शृणु ततस्त्वमपि प्रियवादिनि ! त्वयि नलप्रहितोऽहमुपागतः // 43 // मृतवतस्तव विस्मृतिजं भयं विरह एव दुनोति च जीवतः / मरणजीवितयोरधुनान्तरे तव कृते तरलाक्षि ! भवत्प्रियः // 44 // विविधमागधपान्थजनश्रुतां स सततं भवतीमनुनिन्तयन् / अपरराजसुताजनसङ्गमप्रभवसौख्यशतैरपि वश्चितः // 45 // कुवलयं वलयं च विलुम्पति स्वभवनं च वनं च विमुश्चति / अकरुणं करुणं प्रतिभाषते स विभवेऽपि भवेऽपि गतस्पृहः // 46 // मनसि दुःस्थितता कृशता तनौ भ्रमति चित्तमथ स्खलितं गिरांम् / HILAIFI AIFI AISI ISIFle