________________ चतुर्थे स्कन्धे सर्गः१३ गजे नलस्य . विजयः। // 10 // II IIATIGATIA II IIIIIINE सूतोऽस्मि तस्य च नृपस्य पदच्युतोऽहं भूमि भ्रमन् पुरमिदं क्रमतः प्रपन्नः / प्राक तत्र सङ्गवशतः पुनरद्य सद्यः त्वदर्शनाच्च सफलश्रमतां गतोऽहम् // 29 // इति कुब्जगिरा निशम्य सम्यक् प्रियमित्रस्य नलस्य तामवस्थाम् / विनिवारितगीतनृत्यवाद्यस्त्रिदिनं भूमिपतिर्बभार दुःखम् // 30 // नलभृत्य इति स्वयं स राजा बहुमानं मनसानिशं दधानः। प्रियमित्रतया चकार कुब्ज सपदि ग्रामशतानि पञ्च दत्वा // 31 // न नृपतिकुलकलाभिः सूर्गपाकादिकाभिः सततमपि वितन्वन् विस्मयं मानसस्य / प्रतिदिनमपि राज्ञो लब्धनानाप्रसादः क्षितिपतिरिख तस्थौ नैषधः कुब्जकोऽपि // 32 // किं किं चेतसि चिन्तयिष्यति सती यद्वा विपन्नैव सा भूयो नास्ति तदीक्षणं क्वचन मे मृत्युश्च नागच्छति / घिर धिर निष्फलजीवितव्यसनिनः कालो वृथा याति मे तस्थौ चेतसि चिन्तयनिति चिरं कुब्जाकृतिर्नैषधः // 33 // वरजनं तदुदन्तजिघृक्षया दशसु दिक्षु सदा विसृजन्नपि / स्वविषयेऽपि हि कोशलनायको नल इति प्रकटं न बुबोध तम् // 34 // तमुदयं नवमङ्गलशोणया निजदृशा भृशमाकलयन कलिः / प्रियतमाविरहज्वरपीडया बहु निरन्तरमन्तरदीपयत् // 35 // एतत् किमप्यनवमं नवमङ्गलाई माणिक्यदेवमुनिना कृतिना कृतं यत् / तस्यार्यकर्णनलिनस्य नलायनस्य स्कन्धो जगाम चतुराभिमतश्चतुर्थः // 36 // इति श्रीमाणिक्यदेवसूरिकृते नलायने चतुर्थे स्कन्धे त्रयोदशः सर्गः // 13 // समाप्तोऽयं चतुर्थः स्कन्धः। IIIIIIII RISHISIle // 10 //