________________ Olil पञ्चमे स्कन्धे सर्गः२ नलविरहा नन्तरं दमयन्त्या विलापः॥ // 104 // III-IIIIIIIEISIIEI तत्र पित्रोः सखीनां च वधूनां सहवासिनाम् / हृदये शल्यभृताया जीवितव्यस्य किं मम ? // 18 // दुहितस्नेहमूढानां नित्यं तेषां मुखेन च / अयशः प्राणनाथस्य श्रोतव्यं केवलं मया तदिह मम वरं हि श्वापदेभ्योऽपि मृत्युर्विषमविषधरेभ्यो नाहलेभ्यो दवाद् वा / स्फुटमनधिगतायां किन्तु कान्तप्रवृत्तौ परमिति करणीयं नेक्षते बुद्धिचक्षुः // 20 // असकलमुत तप्तं नो पितीर्ण हि पूर्ण किमनिखिलगधीतं मुक्तमर्द्धरतुतं वा ?! क्वचन किमुत मैत्र्यं खण्डितं प्राग्भवे वा यदहमसमयेऽस्मिन् स्वामिना विप्रयुक्ता // 21 // किमु हृतमसमक्षं किन्नु मिथ्योपदिष्टं किमभिहतमसभ्यं किं वृथा वाऽभिशप्तं ? / किमु कृतमभिमानं किं कृता वाऽन्यनिन्दा यदजनि मम भर्ना सार्द्धमित्थं वियोगः // 22 // किमुत विघटिता वा सेतवो दीर्घिकानां क्वचिदपि किमु शाखाः खण्डिता वा क्षुपाणाम् / किमुत मधु विकीर्ण सारचं छत्रमानं मम खलु गृहबन्धध्वंसदुःखं यदासीत् // 23 // तदिति बहु विलप्य व्याकुला राजपुत्री नयनजलमुदासे पट्टकूलाञ्चलेन / तदनु सपदि तस्मिन् शोणितेन प्रणीतां नलनृपलिखितां तां वर्णपङ्गिं ददर्श // 24 // दृष्ट्वा तदर्थमधिगम्य निधाय मूर्ध्नि मेने नलं चलितमात्मनि रागिणं च। उद्भिन्त्रमन्युभरनिर्भररुद्धकण्ठी भूयः प्रियं नियतिमोहवशादवोचत् // 104 //