________________ छा.IIATIGATI AISHI WISEle इह तावदमी बाले ! कालेयकविलेपनाः / बद्धकक्षाः परेलक्षा यक्षास्त्वद्वरणं प्रति अधिष्ठाय निधानानि तिर्यग्लोकनिवासिनः / अकुतो भयसञ्चाराः समयं गमयन्त्यमी . विलोकय दृशा सर्वान् असङ्ख्येयतमानिमान् / पृथग् विवर्णतां येषां यान्ति वत्सरकोटयः एषु किश्चिद् मनोऽभीष्टं वृणीष्व वरवर्णिनि! / यदि निश्चिन्तमक्षीणविभवं सुश्रु! वाञ्छसि इत्युक्ते भक्तिसंयुक्तां तत्प्रणामपरायणाम् / निन्युरन्यत्र तां धन्यां कन्यां यानधुरन्धराः तामूचे भारती भूयो भक्तिपर्यस्तमस्तकाम् / अमी सर्वेऽपि गन्धर्वाः स्वगर्वोद्धरकन्धराः वहन्ति वल्लकीदण्डानुद्दण्डान् तुम्बचुम्बिनः / स्वरग्रामाणवोत्तारतरण्डश्रीविडम्बिनः एतावतैव कल्याणि ! स्वर्गस्य स्पृहणीयता / यत् तत्र किल गान्धर्व गीतगानं प्रवर्तते इत्थं संकीर्घामानेषु तेषु प्रागल्भ्यलीलया / सदृष्टिसौष्ठवां भैमीं भूयोऽभाषिष्ट भाषया कचिद् विदित एवायं तव तामरसानने ! / सहस्रबदनः श्रीमान् वासुकि गवासपः नागेन्द्रमन्तरेणैवं कस्त्वां वक्तुमपि क्षमः 1 / द्विगुणो वदनेभ्योऽपि यस्य जिह्वासमुच्चयः अस्यैव भुवनाभोगस्फीतस्फुरितमूर्तयः / अमी तक्षककर्कोटशङ्खचूडादयो भटाः उद्योतयन्ति दिक्चक्रं दिवापि द्युतिमण्डलैः / यत्फणामणयो बाले ! भाले ! तिलकवत् तव सनन्दनवनक्रीडारतोऽपि स्वर्गिणां गणः / अमी तु त्रिषु लोकेषु विख्याता भैमि ! भोगिनः // 8 // // 9 // // 10 // // 11 // // 12 // // 13 // युग्मम् / // 14 // // 15 // // 16 // // 17 // // 18 // // 19 // // 20 //