________________ प्रथमे उत्पत्तिस्कन्धे द्वादशः सर्गः / II II ATHIGATII-IIIIIISHIKE ततः पक्षौ स संवृण्वन् सुपर्णकुलमण्डनः / पपात नभसो भूमौ भैमीपार्श्वे सितच्छदः // 1 // तस्य पत्रपुटास्फोटं श्रुत्वा सरसनिस्वनम् / बभूवाभिमुखी सुभ्रूः किमेतदिति संभ्रमात् ? // 2 // विलोक्य सहसा हंसं जिघृक्षुमनसा तदा / शालितं शालभञ्ज्येव क्षणं निस्पन्दमन्दया // 3 // तस्यास्तदा तदाकूतं जानन्नपि विहङ्गमः / न ययौ न च तस्थौ च न च धर्जुमदात् पुनः // 4 // पतत्त्रिमात्रमप्येनं स्ववशं कर्तुमक्षमा / सहस्ततालमालीभिः सा तत्कालमहस्यत किमेप करतालीभिरमुत्त्रास्यते खगः ? / मह्यं द्रुह्यति सा नूनं यात्र मामनुगच्छति इति प्रदत्तशापापि हस्यमाना सखीजनैः / बाला धृतावहेलं सा च्छायेव खगमन्वगात् // 7 // (युग्मम् ) मुचिरं सञ्चरंस्तस्या राजहंसः पुरःपुरः / बभौ तद्गतिभङ्गानामुपहासमिवाचरत् // 8 // धृतप्रायमिवात्मानं दर्शयन् स पदे पदे / दिधीर्षां वर्द्धयन् दूरं चकर्ष चपलेक्षणाम् // 9 // प्रस्वेदकणकीर्णाङ्गी विलक्षामुपलक्ष्य च / तामुवाच स निःशङ्कं छायामात्रपरिच्छदाम् // 10 // राजपुत्रि! किमर्थोऽयं प्रयासस्ते मनस्विनि बिभेषि न कथं बाले! विलोक्य गहनं वनम् ? // 11 // वयस्था इव संभाव्य त्वामस्थानप्रचारिणीम् / पश्य हारीतढुङ्कारैर्वारयन्तीव वीरुधः // 12 // .