SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ II GRIHIT AIRI RIHITEle प्रियाविरहवेदनाविवशचेतसः सर्वथा तदद्य परिवर्त्तते मम वयस्य ! विश्वं जगत् // 12 // कुलवति सुभगे जनेऽनुरागं कथमितरोऽपि जनः करिष्यतेऽद्य / इह खलु विषयेऽतिदुःखभाजां प्रथममुदाहरणं प्रिया समासीत् // 13 // ननु सखे ! भवता कथितस्तदा मुनिसुताधिगमः प्रथमं मम / अथ पुनः परिहास इति त्वया मयि गभीरतया प्रतिपादितः // 14 // भो राजन् ! यदि तावदत्रभवतीं त्वद्धर्मपत्नी ततस्तां शक्त्या खलु हर्तुमत्र विजयी नाखण्डलोऽपि क्षमः। तत् केनापहृता भवेत् प्रियसखी कुत्राथवा वर्त्तते / तस्याः कोऽपि हि दिव्यभूमिविषयी बन्धुः परिज्ञायते // 15 // जाने सख्यास्तव भगवती मेनका जन्मभूमिर्जातप्रीत्या सपदि च तया निश्चितं सापहृत्य / नीता दिव्यव्यतिकरमयं दुर्गमं भूमिभाग वैताळ्ये वा निवसति गिरौ सा वने नन्दने वा // 16 // अथवा न जीवति शकुन्तला ध्रुवं विषमापमानहतया तया मम / जननीकरादपि नभःस्थलान्तरे गिरिमूर्ध्नि कुत्रचन पातितं वपुः / // 17 // शान्तं पापममङ्गलं प्रतिहतं स्वस्त्यस्तु तस्यै सखे ! यत्नं तजननी हि तत्र कुरुते मृा ससक्त्वा च सा / प्रायः कान्तपराभवेऽपि महति स्वापत्यवात्सल्यतः स्वीकुर्वन्ति यदत्र मृत्युरभसं नापन्नसत्वाः खियः // 18 // प्रियवयस्य ! मया सदृशो जडस्त्रिभुवनेऽपि न कोऽपि किलाभवत् / 9II AISEII A
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy