________________ // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // DIII-IIIllualII AIII Nlllll परिवृत्य तमासीना सहसा सा चतुनली / ययौ विस्मितचित्तस्य नलस्य विषयं दृशोः तैरनादर्शसम्भूतैः प्रतिविम्बैरिवात्मनः / चभार पश्चरूपत्वं वैशाख इव नैषधः . नन्दनोद्यानवीथीव पञ्चभिः कल्पपादपैः / नलाकृतिधरैवीरै राजराजी रराज सा तान् विज्ञाय समायातान् तत्र शक्रादिकान् सुरान् / कौतुकोत्तरलाः सर्वे सुपर्वाणः समाययुः तालवृन्तैः क्षतस्वेदाः निर्निमेषाः कुतूहलैः / छत्रैरम्लानमाल्याश्च बिभिदुर्न नरामराः यक्षरक्षीणसौभाग्यैर्गन्धर्वैर्गर्वबन्धुरैः। किन्नरैश्च स्यात् प्राप्तं तत्र किंपुरुषैरपि ते ते तक्षककर्कोटशङ्खचूडादयोऽपि हि / महोरगाः समाजग्मुः सहाश्वतरकम्बलाः आससाद तदास्थानं वासुकिर्नागवासवः। विष्वक् पातालबालाभिर्वालव्यजनवीजितः अचाक्षुषेन कायेन स्पर्शग्राह्येन केवलम् / बभ्राम तत्र सर्वत्र वायुः प्रकृतिचञ्चलः दूरादपश्यदत्युच्चै रूद्धदिग्भागसंस्थितः। प्राप स्वयम्वरं वृद्धः स्वयं नतु पितामहः अपेक्ष्य चपलां लक्ष्मी गृहच्छिद्रस्य शङ्कया / नाजगाम परित्यज्य पातालनिलयं हरिः विज्ञाय ज्ञानवीर्येण स्वपदे भाविनं नलम् / मन्यमानः स्नुषां भैमी नाययौ नरवाहनः एकपादेन देवेन प्रियार्द्धस्यूतमूर्तिना / शृङ्गारैकरसेनापि हरेण न समागतम् यामिका इव दूरस्था ददृशुस्तं निशाचराः / स्थानीयं नयनानन्दि जनविक्षोभशङ्कया IIIIIFIE IF IIIFIFTII // 31 // // 32 // // 33 // // 34 // // 35 // // 37 //