________________ तृतीयस्कन्धे सर्गः 2 IISSIC स्वयम्वराथेमागता देवा राजानश्च / / // 57 // II IIAHINIAHITIES II II अनावृतादयस्ते ते जम्बूद्वीपादिनायकाः / सरित्सागरशैलानां संप्राप्ताश्चाधिदेवताः // 38 // अप्सरोभिरभिव्याप्तं सिद्धेश्च निखिलं नमः / ऋषिभिर्नारदाद्यैश्च ग्रहैश्चापि बुधादिभिः // 39 // संममौ तत्र तत् सर्वं त्रैलोक्यमपि लीलया / दिव्ये देवाधिदेवस्य सर्वज्ञस्येव संसदि // 40 // सेहे सकलरूपाणां समदं भीमभूपतिः। सर्वसिन्धुजलौघानां संपातमिव सागरः // 41 // अन्यत्रापि हि देवानां सान्निध्यं संप्रधार्यते / किं ब्रूमस्तत्र सम्प्राप्ता देवा एवं स्वयम्बराः // 42 // भूमीतले दशसु दिक्षु नभोऽन्तराले सञ्जल्पतां नवनवैरनुवादभेदैः।। ब्रह्माण्डमाण्डदलनोद्यमकर्मठोऽभूत् कोलाहलः स खलु कोऽपि तदा जनानाम् // 43 // अवनतमिव जातं व्योम हस्तावचेयं मिलितमिव समन्तात् किश्च दिकचक्रमासीत् / इयमपि च समन्तादुत्थितेवाभवद् भूस्त्रिभुवनजनतानां तावता मेलकेन // 44 // द्रुतमवनिमसिञ्चस्तत्र गन्धाम्बु मेघाः सपदि मलयवातास्तालवृन्तीबभूवुः / सुरयुवतिविमुक्तैः सान्द्रसिन्दूरपूरैः समजनि रमणीयः पूर्वसन्ध्यानुबन्धः // 45 // उपर्युपरि सन्ततं विनिपतन्ति वैमानिकाः समग्रमधिरोहिणीक्रमवशेन रुद्ध नभः / अहं च हरिणा स्वयं समधिगम्य रुद्धोऽधुना किमत्र भवितेत्यभूद् हृदि नलो भयव्याकुलः // 46 // इति श्रीमाणिक्यदेवसूरिकृते नलायने तृतीये स्वयम्वरस्कन्धे द्वितीयः सर्गः // 2 // FII AISII AII // 57 //