SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ तृतीय स्वयम्व स्कन्धे सर्गः 2 IIIIIAlalIIAFIllll ततस्ततघनानद्धशुषिराक्षरभेदतः / पञ्चशब्दसमाहारः समकालमजायत // 10 // मृदङ्गशङ्खमेरीणां झुम्बर्याः पणवस्य च / झल्लरीवेणुवीणानां डक्काडमरयोरपि // 11 // इत्येतेषामनेकेषामन्येषामपि निर्भरः / ध्वनिर्दध्वानवाद्यानां दिक्निकुञ्जोदरम्भरिः // 12 // प्रतिमञ्चं प्रतिद्वारं प्रतिभूपं प्रतिक्षणम् / तत्राभवन् विचित्राणि प्रेक्षणीयानि लक्षशः // 13 // न दूतानां न मतानां न द्विजानां न वेत्रिणाम् / न तत्र वारनारीणामपि पारं ययौ जनः // 14 // अथाऽऽजगाम स श्रीमान् क्रौञ्चकर्णनिषूदनः / निःशेषनृपसौभाग्यगर्वसर्वषो नलः // 15 // प्रतीहारगणैरीशः स निर्दिष्टं पुरःसरैः / आरुरोह महामश्च कैलासमिव शङ्करः // 16 // तस्य सिंहासनं हैमं समन्तादधितस्थुषः / बभासिरे महीपालाः परे भूमिगता इव // 17 // तावदासीत् प्रभा तेषां यावद् नायाति नैषधः। आगतश्च नलः श्रीमान् नष्टं कान्त्या च भूभुजाम् // 18 // बलिनाऽपि प्रयत्नेन प्रकृति नुगम्यते / न हंसलीलया याति स्पर्द्धमानोऽपि टिट्टिभः // 19 // मुक्तास्रगनायकेनेव धिष्ण्यपतिरिवेन्दुना / अशोभत सभा तेन भूपालतिलकेन सा // 20 // इत्थं स्वयम्बरारम्भे वर्तमाने मनोहरे / चिन्तयाश्चक्रिरे चित्ते शक्रमुख्या दिवौकसः // 21 // अहो ! नलप्रिया भैमी देवानपि न वाञ्छति / विकुर्मस्तद् वयं तावद् नलरूपं कथं न हि ? * // 22 // बाला मलभ्रमेणापि सा कदाचिद् वृणीत नः / इति सश्चिन्त्य शक्राद्या नलरूपं विचक्रिरे // 23 // IIIAHIIIII बाबाHI IIle
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy