SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ इत्थं प्रणम्य पुरतः पुरुषोत्तमं तं शंभुं जगत्त्रयगुरुं परमेष्ठिनं च / शृङ्गारमारभत कर्तुमनन्तरं स श्रीमान् स्वयम्वरसमाजमुपैतु काम: . // 22 // इति श्रीमाणिक्यदेवसूरिकृते नलायने तृतीये स्वयम्वरस्कन्धे प्रथमः सर्गः // 1 // तृतीये स्वयम्वरस्कन्धे द्वितीयः सर्गः / IIIIIIII SIHITS IBEI HO ISIIII-IIIIIIFIGIBIEle // 2 // // 3 // // 4 // अथाऽऽजग्मुर्जगन्मौलिमण्डनाः कुण्डिनान्तरे / स्वयम्बरं स्वयं वीरा महीभाजो महाभुजाः प्राक्प्रत्यगुदगूवाचां दिग्मुखानामधीश्वराः / तत्रामिलन् महीपालास्तले रविरथस्य ये वरीतुं कुलजाः केऽपि हर्तुं धीरोद्धताः परे / द्रष्टुमन्ये महासत्त्वाः स्पृहयन्ति स्म भीमजाम् अकामुको न कोऽप्यासीद् नाभूत् कश्चिदनागतः / कतमोऽपि तदा तत्र न चाभवदनीश्वरः चकासामासिरे तुझा मञ्चाः काञ्चननिर्मिताः / अपि चेतसि कुर्वाणा विस्मयं विश्वकर्मणः रत्नसिंहासनाऽऽसीना मश्चेषु पृथिवीभुजः। गिरीन्द्रशिखरस्थानां चक्रुः केसरिणां श्रियम् सन्ध्याभ्रसन्निभै छन्नं विताननिखिलं नमः / नृपाणामनुरागस्य पटलैरिव देहिभिः सुवर्णाण्डकसङ्काशैः सुवर्णकलशैस्तदा / बभावुदितबालार्कसहस्रमिव पुष्करम् दन्दह्यमानकर्पूरकृष्णागरुसंमुद्भवैः / रुद्धा दश दिशो धूपैरकालजलदैरिव // 8 // // 9 // BIIIIIII
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy