________________ sle I IA HII will विवेकविकलस्याहं पतिता तस्य पञ्जरे / नैवाधिजगाम क्षेमाद् निर्गमं यत्नवत्यपि // 27 // तं वराकमनात्मज्ञं स्वहस्ताङ्गारवर्षिणम् / सहसातिभयाच्चक्रे भस्मसाद् वरदो हरिः . // 28 // पुनः पथि मया प्राप्तो वणिकसार्थस्य सङ्गमः / स नक्तं दन्तिभिर्ध्वस्तः स्वेच्छावान् व्यसनैरिव // 29 // साऽहं पतिपरित्यक्ता नष्टध्वजपटेव नौः / दुर्दशावर्तगर्तेऽस्मिन् वर्णमानाऽस्मि दुर्द्धरे // 30 // विश्वविश्वम्भराधारधुरन्धरभुजो मम / दक्षिणस्या दिशः स्वामी भीमभूमिपतिः पिता // 31 // निजपत्युः समादेशाद् गच्छन्ती पितृमन्दिरे / अहं सम्यग् न जानामि तत्र यास्यामि वा नवा // 32 // तस्य राज्ञो हि चेत् किञ्चित् तत् क्व नौ सङ्गमः पुनः ? / मम वा किञ्चिदक्षेमं तत् क्व नौ सङ्गमः पुनः 1 // 33 // आशापाशः प्रसभमभितो जीवितं मे रुणद्धि प्राणत्यागो हठविरचितः श्रेयसे नोपदिष्टः / एकैकापि व्रजति घटिका कल्पकोटिप्रमाणा नो जानामि त्वरितमधुना यद् मया किं विधेयम् ? // 34 // अस्मिन् काले दश विजयते वर्षलक्षाणि देही तेषामेकं मम परिणतं पूर्णवर्षायुतोनम् / तेनेदानीं न विषयरसाश्चेतसो यान्ति शान्ति वर्षाकाले कथयति कथं मन्दतां वारिवेगः ? एकाकित्वं दयितविरहः काननं मार्गखेदः स्थानभ्रंशो विभवविगमः साध्वसं दुर्जनेभ्यः / इत्थं दुःखं निखिलमपि मे बालकालेऽपि जातं मन्ये नाभूदहमिव भवे दुःखिनी काऽपि नारी // 36 / / नन्वेतद् मे किमपि भगवन् ! वृत्तमामूलभृतं श्रुत्वा दुःखं सहृदयहृदय व कार्य भवद्भिः।। बामाSEEIGITIFIII-IIIlle BIII RISHI A