________________ // 31 // IIIle // 32 // // 33 // // 34 // निजमनसि यदाशाबन्धनं धारयन्ती कथमपि न यथाऽसौ जीवितव्यं जहाति इति निवसनपत्रे नैषधस्तत्र तस्यास्तिमिरपरिकरेऽपि व्यक्तसंस्कारशक्त्या / इदमलिखदखिन्नं छिन्नजङ्घा विनिर्यत्तरुणरुधिरधारासक्तशस्त्रीमुखेन ईदृशः श्वशुरवेश्मनि लज्जे नेक्षितुं तव पथि क्लममीशः / तत् क्षमस्व दयिते ! मम गन्तुं कारणेन न परेण गतोऽस्मि कुण्डिनं प्रति वटेन पुरोऽध्या किंशुकेन निषधां प्रति पश्चात् / देवरस्य भज वेश्म पितुर्वा मद्वियोगसमयं गमयन्ती। यदि रिपुकुलसिन्धौ न क्वचिद् भीरु ! मनो न च यदि गदमुख्यैरन्तरायैर्विपन्नः। पुनरधिगतवित्तस्थानलाभस्य तद् मे सुमुखि ! सलिलपानं त्वन्मुखेनेक्षितेन भूयो राजा रजनिमखिलामौषधिस्पर्द्धयेव व्याकुर्वन्तीं दिशि दिशि भृशं निर्भरं भालभासः। तस्थौ दुःस्थः कथमपि सह स्वात्मना नेतुकामः पश्यन् पत्नी निधिमिव चिरं चौरवद् दूरसंस्थः दुःखावेगविदीर्यमाणहृदयन्यस्तस्वहस्तो जवादाक्रन्दध्वनिमुच्चकैर्विरचयन् हा तात ! तातेति सः। त्यक्त्वा लोचनगोचरात् प्रियतमामत्यन्तनिद्रालसामेकाकी सहसा विवेश विवशः सञ्चार घोरं वनम् माभूवन् विपदः शरीरजरुजां मा दुष्टसच्चव्यथा माभूद् दुर्जनविदरः क्कचन ते मा जृम्भकेभ्यो भयम् / // 35 // IIIIIIII ASHISII // 36 // // 37 //