________________ I सप्तमे // 44 // कुण्डिनपुरमागतो नलः॥ सर्म:२ // 45 // // 162 // कितवजनवचोभिर्विप्रलब्धा वयं वा बत समजनि कोऽयं हास्यकारी प्रयासः किमिह ननु विधेयं दुःपरिच्छेद्यमेतद् जनमितरमिहाथै लज्जते प्रष्टुकामः। किमपरमिह साक्षादागतैर्भूयते वा भवतु सपदि राजद्वारमेवाश्रयावः इति वदति नरेन्द्र नैषधः कुब्जरूपः स्फुटविघटितकेतुः प्राक्प्रतोली प्रविश्य / सरभसमुपसर्पन् बोधयामास सद्यः तमतिरथमुपेतं कोशलानामधीशम् इति श्री माणिक्यदेवसूरिकृते नलायने सप्तमे स्कन्धे द्वितीयः सर्गः // 2 // - -- -- सप्तमे स्कन्धे तृतीयः सर्गः / // 46 // @ IIIIIIIIIIIIIEISFITS ISSIK I-III FIIIIIIIIIIIII आकण्यकरथेनैव तमतर्कितमागतम् / किमेतदिति वैदर्भः सहसा विस्मितोऽभवत उद्दाममहिमाम्भोधिः स्वभावसरलाशयः / न सम्यक् तमसम्भाव्यं स्त्रीप्रपञ्च विवेद सः // 2 // कथं रिपुभिरुत्क्षिप्तः किं वादिविजयोद्यतः ? / अनामचित एवायं न महानुपतिष्ठति भवतु ज्ञास्यते तावदिति चित्तेऽवधार्य सः। दिदेश तत्प्रवेशाय दमनं सपरोधसम् // 4 // यथावद् विहितातिथ्यं प्रविशन्तं विशांपतिम् / प्रत्युजगाम तं भीमः श्रीमान् मानप्रदः सताम्. // 5 // // 162 //