________________ दमयन्त्या द्वितीयस्कन्धे सर्गः१४ अभ्य र्थना // 49 // BISIT ATSET A TEING THIABEI WISHING Isale तदिह भवता वक्तव्याऽहं न दिक्पतिवाचिकं मयि कुरु कृपां कोपं मुश्च प्रसीद कृतोऽञ्जलिः // 37 // खगनखमुखोत्कीर्णाकारः पुरा ददृशे मया तव सुसदृशः क्षोणीपालः स मे हृदयेश्वरः / भवतु पुरतः प्रातदृष्ट्वा तवापि मम प्रियं स्वमुखकमलच्छायालोको विना मणिदर्पणम् // 38 // इति केशिनीवदनमार्गनिर्गतं दमनस्वसुः सुवचनामृतं नृपः। नवपद्मनालविवरापवाहितं पिबति स हंस इव सारसं पयः / // 39 // इति श्रीमाणिक्यदेवसूरिकृते नलायने द्वितीये दूत्यस्कन्धे त्रयोदशः सर्गः // 13 // द्वितीये दूत्यस्कन्धे चतुर्दशः सर्गः। इत्थमभ्यर्थ्यमानोऽपि प्रियया प्रियसाहसः। पुनस्त्रिदशकार्यार्थी स वक्तुमुपचक्रमे अहो! जगति पानीयक्षीरपार्थक्यपण्डिता / साऽपि हंसी न जानाति सेवालकमलान्तरम // 2 // लोष्ठानां च मणीनां च तेजसां तमसां च यत् / नराणां च सुराणां च पङ्कजाक्षि! तदन्तरम् // 3 // क्क मनःसाधना देवाः क्व मत्योः कष्टकारिणः / क वपुस्तैजसं चैकं ? क्वान्यद् धातुमयं वपुः-१॥ 4 // त्वया नलाभिलाषिण्या मुक्तवासववासया / इक्षुद्वेषी शमीसक्तः करभोऽपि विनिर्जितः // 49 //