________________ II AIIMille DIHI 4-THEII A THIGA THII - III NILEI GISEle आः! क एप नलो नाम स्वामी देशस्य कस्यचित् / मनुष्यश्चर्मचक्षुष्मान् स्वल्पसङ्ख्येयजीवितः // 6 // लोकानामुत्तमः स्वर्गः स्वर्गिणां त्रिदिवौकसः / तेषामपि हि स श्रीमान् महेन्द्रः परमावधिः / // 7 // प्रयत्नं कुर्वतां क्वापि प्रमादः स्याद् विशेषतः / पङ्किले रक्षतः पादौ कदाचिल्लिप्यते शिरः // 8 // सञ्जाता हि पुराऽप्येते संयोगा दिव्यमानुषाः / श्रूयते भरतादीनां गङ्गाद्या दिव्ययोषितः // 9 // कुपितेषु च देवेषु महेन्द्रवरुणादिषु / त्वां वरीतुं वरारोहे ! शक्तिरस्ति नलस्य किम् ? // 10 // कुमारीवरयोोंगे यमः कमपि वा यदि / अन्तं नयति दायादं क ततः स्याद् महोत्सवः ? // 11 // संप्रदानविधौ तं मुश्चेद् न वारि वरुणोऽपि चेत् / प्रसारितकरोऽपि त्वां तदा किं लभते नलः ? // 12 // नलनिर्वेदतो वेद्यां यदि ज्वलति नानलः / अनग्निसाक्षिकः स स्यात् तद्विधिः सारसाक्षिकः // 13 // उपायेनापि दिक्पाला विघ्नं कर्तुमिति क्षमाः / प्रत्यक्षं तेषु रुष्टेषु नास्त्येव शरणं तव // 14 // किमेकमेककालं व हरिणा कारयिष्यसि ? ! सर्वेषां क्षितिगालानां वध्यस्थानं स्वयम्वरम् कुपितेन कृतान्तेन गृहीतासुषु जन्तुषु / कपालमालिनो हर्षः किं हरस्य करिष्यति ? निर्मर्यादं विनिर्मुक्ते वरुणेन महार्णवे / जलाञ्जलिक्रिया नूनं जगतोऽपि भविष्यति // 17 // इत्थं दिक्पालकोपेन त्वद्नादरजन्मना / असावकालकल्पान्तस्त्वन्निमित्तमुपस्थितः // 18 // उत्सर्गमपवादं च द्वयं जानीत बुद्धिमान् / तत्वज्ञे ! राजकन्याऽसि कथमित्थं विमुद्यसि ? // 19 // BISIATII ATHI4I