________________ // 69 // तदभिलषितसिद्ध्या केशिनी सा सुहृष्टा मम च भवतु भूयः सङ्गमस्तस्य राज्ञः / प्रतिपदमपि वाचः सन्तु सत्या मुनीनां परिणमतु समन्ताद् दिव्यसेवाफलं च इति वचनविरामे बिम्बमभ्ययं भक्त्या गिरितरुसरिदाद्यं सर्वमेव प्रणम्य / मुनिममृतकराख्यं हृष्टमापृच्छय तं च स्वयमथ दमयन्ती कुण्डिनाय प्रतस्थे इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे विंशः सर्गः // 20 // // 70 // BIIIIIIIIII AIFI NIIIlla पञ्चमे स्कन्धे एकविंशः सर्गः / कदाचित् पथि सार्थेऽभूत् तस्याः क्वापि पुरो व्रजन् / घृतादिविक्रयाकासी ग्रामीणजरतीजन: तत्र कापि तया पृष्टा मार्ग कुण्डिनगामिनम् / किं नामा पिहितद्वारा पुरीयं दृश्यते पुरः 1 इतश्च दूरमासन्नं नगरं किश्चिदस्ति यत् / यत्र कुण्डिनलोकानां नित्यं बहु गतागतम् साक्षाद् दक्षिणचम्पाख्या पुरीयं पुत्रि! कथ्यते / यदत्र पिहितद्वारं तदाकर्णय कारणम् इदमुत्तरदिगद्वारमस्यास्तिष्ठति संवृतम् / त्रिषु द्वारेषु शेषेषु यातायातपरो जनः अस्यां हि भिक्षुभक्तस्य सङ्घगुप्ताङ्गजन्मनः / धनदत्तस्य भार्यासीत् सुभद्रा परमाईती // 4 //