________________ HITSEK स्कन्धे सर्गः१४ // 128 // ISIA HIA ISI - THEI THI MISH न विवेद प्रियोक्तीनां पारंपर्य स पार्थिवः / तस्याः पित्गृहात् प्राप्तमुपायनमतर्कयत् // 46 // धिग् धिग् मलिनशीलायां प्रेमास्यां मम निर्भरम् / बहिर्मुखस्य दुर्बुद्धेर्मुधा रागान्धचेतसः / // 47 // आः पापे ! विकलीभावं कुलटात्वेन बिभ्रती / कलावतीति नाम स्वं वहन्ती नहि लजसे // 48 // भवतु प्रतिकारमेष सर्व द्रुतमस्याः सदृशं समाचरामि / स्थितिलविनि दुर्जने विलजे न मुहवं महतां मनोऽनुरागः // 49 // याभ्यां गर्वमियं विभर्ति भुजयोनिःपुण्यका पुंश्चली ताभ्यामेव भवत्विमां यदि नहि व्यापादयामि क्षणात् / नन्वस्याः सुतरां लघुर्यदि मया दत्तोबुंदोऽप्यस्ति यत् तद् लूनां महतीं ददामि सपदि स्वच्छायया जायते॥ 50 // इत्युद्दामक्रोधरुद्धः प्रवेशं नैवाकार्षीत् मन्दिरे स प्रियायाः। तस्याश्चोक्तं व्यत्ययेनेव मेने स्वादु द्रव्यं शुद्धपित्तज्वरीव // 51 // व्यावृत्य तद्धवनतः स्वमवाप्य हर्म्य दुःकर्मसाधनविधि रहसि प्रपश्य / देवीं कदर्थयितुमुल्वणचित्तवृत्तिः तं तं जनं विनियुजे स निजाननेन // 52 // इतिश्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे चतुर्दशः सर्गः॥१४॥ दमयन्त्या आश्वा- . सनाय भास्करशिष्येण कथिता कलावत्या: कथा॥ I II BIIIII // 128 // का