________________ चतुर्थे स्कन्धे सर्गः 8 || नलेन |सह गन्तुं . कूबरं - दमयन्ती प्रार्थयति // // 7 // I AISHIATRI GARATHI पत्रिंशत् पङ्गकोटीनां समुद्रं पृथिवीपतिम् / को हि तत्पितरं भीमं मनसा न विशङ्कयेत् नलाय त्रिदशैर्दत्ता भ्रातृजाया पतिव्रता / न च सा तादृशं पात्रं युज्यते यत्र लाघवम् को दद्यादनले झम्पां कः सिंहीं दोग्धुमिच्छति ? / सर्वस्य जीवितं प्रेयो मरणं कस्य वल्लभम् ? // 11 // अतो नलप्रियां देवीं भीमपुत्रीं पतिव्रताम् / कूबरो जीवितव्यार्थी वाचाऽपि न विराद्धवान् // 12 // प्रणम्य परया माया तस्थिवांसं तमग्रतः / प्रत्यभाषत चैदी कुलशीलोचितं वचः राजन् ! प्रयच्छ मे गन्तुं स्वकीयस्वामिना समम् / कुरु निष्कण्टकं राज्यं पृथ्वीं पालय देवर ! // 14 // पुत्रस्त्वमपि तातस्य युक्तं राज्यं तवापि हि / वामे वा दक्षिणे वाऽपि, पाणी भवति कङ्कणम् // 15 // न तु युक्तं निषेद्धं ते कान्तानुगमनं मम / वपुर्मे हारितं पत्या प्रणयो न पणीकृतः अपि नाम त्वया रुद्धा यद्वा तिष्ठाम्यहं किल / जीवितत्यागमार्गेऽपि कथं दण्डधरो भवान् ? // 17 // इति तस्या वचः श्रुत्वा त्रपातङ्कतिरोहितः / अवोचत विनीतात्मा कूबरः कालविद्वरः // 18 // आर्ये ! विसृज मात्सर्य प्रसन्न हृदयं कुरु / न त्वां प्रति विरुद्धोऽस्मि मनोवचनकर्मभिः // 19 // अहं नलस्य दास्यामि न स्थातुं निजमण्डले / नोकस्मिन् वने क्वापि घटते केसरिद्वयम् // 20 // मया गृहीतसर्वस्वो निर्धनो निःपरिच्छदः / भ्रमिष्यति भुवं सोऽद्य देशाद् देशान्तरं व्रजन् / // 21 // त्वं तेन सह गच्छन्ती देवि ! दुःखमवाप्स्यसि / अतएव हि रुद्धाऽसि न किश्चित् कारणान्तरम् // 22 // II AIATI ATHIS // 7 //