________________ धिर धिक कष्टमयोग्यमेतदिति हि क्षोणीभुजां जल्पतां हाहाकारविदीर्णकर्णकुहरे लज्जापरे कूबरे / दुर्वृत्ताक्षविवर्त्तनैः क्षितितले खेदात् करं निघ्नता दीर्घ निःश्वसता नलेन दयिता देवी स्वयं हारिता // 57 // इति श्रीमाणिक्यदेवसूरिकृते नलायने चतुर्थस्कन्धे सप्तमः सर्गः // 7 // चतुर्थे स्कन्धे अष्टमः सर्गः / SIFIIIIIIIII VIHIRITE ISIS IS // // इत्थं हारितसर्वस्वो विश्वकविजयी नलः / न लेभे मनसा दुःखं दु:खितार्तिहरो नृपः स पञ्चशब्दनिर्घोष नलसिंहासनस्थितः / अभ्यषिच्यत भूपालैः कूबरस्तत्क्षणं नृपः आज्ञा प्रववृते तस्य नले गलिततेजसि / अस्तगामिनि मार्तण्डे हविर्भुज इव प्रभा राज्यभ्रष्टमहात्मानं मनसा निर्मलं नलम् / कूवरः शल्यमाशय स्वदेशाद् निरकासयत् कठोरभाषिणः क्रूरान् मुक्त्वा सर्वत्र शत्रिणः / रुरोध सकलं लोकं नलमार्गानुगामिनम् कनकावलिमुख्याश्च न मुमोच नलप्रियाः। वरं पितृगृहे प्रैषीत् तत्पितृणां स याश्चया नलानुजीविभिस्त्यक्ता रुद्धा कूबरसेवकैः। विदर्भसम्भवा देवी न मेने किश्चिदर्गलाम् तां निशम्य समायान्तीं शीघ्रमुत्थाय कूबरः / प्रत्युजगाम सामन्तैः समन्तादुत्थितैः समम् = = = orrmrur 9 = = = = // 8 // =