SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ षष्ठे स्कन्धे चतुर्थः सर्गः। . SHI RISHI AISHING THII - III III THEIG इति ताभ्यां कृतोच्छ्वासा वैदर्भी धैर्यनिर्भरम् / सन्मानदानपूर्वेण विधिना विससर्ज तौ // 1 // नलस्यान्वेषणं कतुं पथि प्रस्थितयोस्तयोः। साहाय्यमिव पृष्टस्थो बभार मलयानिलः / // 2 // केऽप्यर्द्धाव्यनिवर्तन्त केऽपि तस्थुः क्वचित् सुखम् / कुण्ठप्रज्ञाः परेऽभूवन् चारा ज्ञातुं नलस्थितिम् // 3 // तौ तु ग्रामेषु पल्लीषु पत्तनेषु पुरीषु च / प्रपावापीषु कूपेषु मठेषु सुरसद्मसु वनेषु सत्रशालासु प्रतोलीषु सभासु च / राजमार्गेषु गोष्ठेषु गर्रागिरिगुहासु च ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रान् कारून् जनङ्गमान् / वानप्रस्थाश्च मिझूश्च विविधानितरानपि // 6 // वेषभाषापरावरिङ्गितग्रहणादिमिः / अनुप्रविश्य विश्रम्भं जनयन्तौ यथा तथा सायं प्रातर्दिवानक्तं वृष्टिशीतातपेष्वपि / विचिन्वन्तौ नलं दैवादयोध्यां प्रापतुः पुरीम् // 8 // पञ्चभिः कुलकम्।। तदा च स महीपालः कुब्जरूपधरो नलः / राजमान्यतया तत्र महत्या संपदाभवत् वैदर्भीविरहव्याधिविद्धगात्रस्य तस्य च / न यात्यति गते रात्रिन च रात्रौ पुनर्दिनम् // 10 // न स्वल्पपरिवारेण तस्मिन्नति पुरान् बहिः। कत्तुं प्राभातिकं कृत्यं सरोवरमुपाययौ गवां भम्भारवर्गोष्ठं तरुखण्डं खगारवैः / भृङ्गशब्दैः सरः साब्ज मुखरं सर्वमप्यभूत // 12 // . IIIIIIIIEII IIIIsle
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy