________________ MBAI नलशोधनम् // स्कन्धे सर्गः४ // 15 // ISHI VII IIFI IRIE इति व्यतिकरं रम्यं पश्यन् विरहविह्वलः / कार्यकुब्जाकृतिर्दध्यौ निषधानामधीश्वरः // 13 // प्रहरन्ति हन्त हृदयं विदर्भजाविरहाकुलं भृशमिमा ममाधुना / बत कीरकेकिकलविङ्ककोकिलाकिकिदीधिकोककुलसङ्कला भुवः // 14 // कुवलयवनवाताः कूजितं कोकिलानां किशलयशयनीयं कौतुकस्थानकानि / इति हि मम समस्तं संप्रति व्यर्थमासीद् विमलमपि कवित्वं सन्निधौ दुर्जनस्य // 15 // तादृक् प्रेम्णि स्वयमपि तथा तत्र सुप्तोज्झिताया दूरे देव्याः पुनरधिगमः संशयो जीवितेऽपि / तद्वा पिवचन न पुनर्नाममात्रापि जाता धिग् जीवामि स्फुटति बत मे वज्रतुल्यं न वक्षः // 16 // वपुर्वलति विह्वलं विरहयातना याप्यते न मृत्युरधिगम्यते मरणवासना मर्छति / न वेनि गहनामिमां परिणतिं निजस्यात्मनोन कोऽपि हि मया समः क्षितितलेऽस्ति दुःखी नलः / / 17 // हा प्रिये ! परिहतासि सर्वथा भीमजे ! कथमसि व्यवस्थिता / इन्द्रसेनजननि ! क वर्तसे देहि देहि दमयन्ति दर्शनम् // 18 // इति प्रकामं विलपन् स राजा वैदेशिकौ तौ कलयाञ्चकार / अभूद् मिथः कार्यवशंवदानां तेषां त्रयाणामनुयोगयोगः // 19 // को युवां कुत इहागमनं वां ? कुण्डिनेन्द्रनिलयौ कथको स्तः / / III-IIIIIIIIIIIIIE // 15 //