________________ स्कन्धे सर्गः९ // 117 // आपृच्छय गद्गद्गिरा परिरभ्यमाणे तामचतुः सपदि शापमुपेक्ष्य सख्यौ . // 45 // स त्वां यदि स्मरति नैव कदापि राजा तस्याङ्गुलीयकमिदं हि तदार्पणीयम् / श्रुत्वा च तत् किमिति सापि पुनर्बुवाणा नन्वेवमेव किल मन्दमवादिताभ्याम् // 46 // श्लाघापरैरनुगता मुनिभिः प्रसन्नैरुद्भिन्नबाष्पजडदृष्टितया स्खलन्ती / पत्युगृहं प्रति चचाल शकुन्तलापि हल्लेखया सकलमाकुलया दधाना // 47 // साकं शारिवेण पृष्ठिविषये शारद्वतेनाग्रतो गौतम्या स समं विचित्रवचनालापैः प्रयान्त्याः पुरः / भूयासुस्तव पञ्चवर्णजलदप्रच्छन्नसूर्यातपाः पन्थानः सवितानराजभुवनप्रस्थाः पदार्था इव // 48 // इत्युक्त्वा कुलपतिना स्वयं विसृष्टा गङ्गायां सुखमतिवाह्य रात्रिमेकाम् / सोत्कण्ठं सपरिजना प्रगे प्रपेदे दुष्मन्तस्थितिगुरु हस्तिनापुरं सा // 49 // इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे नवमः सर्गः // 9 // पञ्चमे स्कन्धे दशमः सर्गः। तानागतवतः सर्वान् शीघ्रं विज्ञाप्य वेत्रभृत् / अन्तःप्रवेशयामास पुरोहितपुरस्सरः केऽमी किमर्थमत्रेति ? तेषु सर्वेषु पौरवः / असंस्तुतेष्विव क्षुब्ध्वा तत्क्षणं क्षिप्तवान् दृशः // 2 // IIIIIIIIIIIIIle दमयन्त्या आश्वास: नाय चारणश्रमणैः कथितं शाकुन्तलाख्यानकम्। IIतIAHI ताबा AISISTKE // 117 //