________________ द्वितीयस्कन्धे * लुप्तं व्योमतलं दिशः कवलितारुद्धो रविः पांशुना चक्रे तस्य बलैश्चलद्भिरभितस्त्रैलोक्यमप्याकुलम् // 24 // चूर्णीवभूवुरभितः पंथि शैलसङ्घाः पङ्कत्वमापुरपरं सरितः समग्राः। सद्यस्तडागतुलनां ययुरूषराणि प्राकाश्यमाशु गहनान्यगमन् तदानीम् // 25 // इतिश्रीमाणिक्यदेवसूरिकृते नलायने द्वितीये इत्यस्कन्धे प्रथमः सर्गः॥१॥ दमयन्त्याः स्वयम्वरे नलनृपस्य प्रयाणम् // .सर्वः२ द्वितीये दूत्यस्कन्धे द्वितीयः सर्गः / II II AISING THI - III II ISHIK IIIIIIIIIEIII-III-IIIFIII यियासुः कुण्डिनं यावत् स तस्थौ नर्मदातटे / तावत् पुरन्दरं द्रष्टुं हेमाद्रिं प्राप नारदः // 1 // दूरादपि तमायान्तं ददर्श त्रिदशाधिपः / स्वामी हि सर्वतो दर्शी सहस्राक्षो विशेषतः // 2 // स व्यक्तशान्तशृङ्गारहास्याद्भूतभयानकः / मुनिर्दिविषदां चक्रे हृदये रससङ्करम् तमभ्यर्च्य सुराधीशः पुरस्तादासनस्थितम् / निषिद्धान्यजनालापः सप्रश्रयमभाषत // 4 // अद्य त्वदर्शनाद् बाई तपस्विन् ! मुदितोऽस्म्यहम् / तथाहि नृत्यतीवेदं हृदयं तव सन्निधौ // 5 // ते देवास्तानि तीर्थानि स गुरुः स तथागमः। जायते येषु दृष्टेषु जन्मिनां मनसो धृतिः // 6 // तद् ब्रूहि भगवन् ! कस्मादिह प्राप्तो ममाधुना / सर्वत्राप्रतिबद्धोऽसि त्वं वायुरिव नारद!॥ 7 // // 31 //