SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ WIII IIIAFISHITATII NilIsile लोलैरुललकल्लोलैर्वाचालितदिगन्तरः / समुद्र इव दध्वान मण्डपः स्वजनाकुलः तदा प्रमोदनृत्यं च प्रीतिदानं च निर्भरम् / विरेजे वचनातीतं भीमभूपालसंसदि // 1.0 / / आमन्त्रयितुमायातस्त्वरितो भीमबन्धुभिः / सोत्कण्ठं क्रौञ्चकर्णारिः प्रतस्थे रथकोटिभिः // 11 / / तमनुव्रजतां राज्ञां रत्नकोटीरकोटिभिः / उपरिष्ठाद् ययौ वर्षन् सपक्ष इव रोहणः // 12 / / वेणुवीणादिभिर्वाद्यैर्वाद्यमानैरनेकशः / नासीरसीम्नि तस्यासीत् स्वरग्राममयं नमः सौभाग्यशशिमुत्तुङ्गं मूर्तिमन्तमिवोत्थितम् / तं विलोक्य तदा लोका ममज्जुः प्रेमवारिधौ / / 14 // त्रुट्यत्हारं क्षरत्पुष्पं सर्वतस्तद्दिदृक्षया / अधावन् शीघ्रमारोढुं गवाक्षान् प्रति योषितः // 15 / / तासां दृग्मुखदन्तौष्ठर्गवाक्षास्तत्क्षणं बभुः / अम्भोजशशिमाणिक्यप्रवालखचिता इव // 16 / / विधाय तन्मुखश्रद्धा लीलाकमलचुम्बिनी / प्राप कापि रसोद्रेक भ्रमरव्रणिताधरा // 17 // निर्भरं -गात नरिमन समकालं मृगीदृशाम् / कटाक्षा रिपोम्य: पाणिभ्यो लाजवृष्टयः // 18 // अहो ! जयति वैदर्भी सत्यमद्य शचीमपि / यतोन स्वीकृतो भैम्या संप्राप्तोऽपि हि तत्पतिः // 19 / / इति कुण्डिननारीणां स्वयमाकर्णयन् गिरः / प्राप सर्वश्रुतग्राही म गृहान् भीमभृभुजः // 20 / / समुल्लद्ध्य प्रतोली च सप्तद्वारान्तराणि च / प्रसन्नः प्रविवेशान्तः प्रतीहारपुरस्सरः // 21 // मधुपर्क त्रिराचम्य श्वसुरेंणोपकल्पितम् / प्रतिजग्राह तत्रार्थं दुकूलाभरणानि च / / 22 / / BIHARII IIIIII NIFIISISING
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy